११.५.७ ब्रह्मयज्ञलक्षणस्वाध्यायप्रशंसाख्यं ब्राह्मणम्

अथातः स्वाध्यायप्रशंसा। प्रिये स्वाध्यायप्रवचने भवतो युक्तमना भवत्यपराधीनोऽहरहरर्थान्त्साधयते सुखं स्वपिति परमचिकित्सक आत्मनो भवतीन्द्रियसंयमश्चैकारामता च प्रज्ञावृद्धिर्यशो लोकपक्तिः प्रज्ञा वर्धमाना चतुरो धर्मान्ब्राह्मणमभिनिष्पादयति ब्राह्मण्यम्प्रतिरूपचर्यां यशो लोकपक्तिं लोकः पच्यमानश्चतुर्भिर्धर्मैर्ब्राह्मणं भुनक्त्यर्चया च दानेन चाज्येयतया चावध्यतया च - ११.५.७.[१]

ये ह वै के च श्रमाः। इमे द्यावापृथिवी अन्तरेण स्वाध्यायो हैव तेषां परमताकाष्ठा य एवं विद्वान्त्स्वाध्यायमधीते तस्मात्स्वाध्यायोऽध्येतव्यः - ११.५.७.[२]

यद्यद्ध वा अयं छन्दसः। स्वाध्यायमधीते तेन तेन हैवास्य यज्ञक्रतुनेष्टं भवति य एवं विद्वान्त्स्वाध्यायमधीते तस्मात्स्वाध्यायोऽध्येतव्यः - ११.५.७.[३]

यदि ह वा अप्यभ्यक्तः अलंकृतः सुहितः सुखे शयने शयानः स्वाध्यायमधीत आ हैव स नखाग्रेभ्यस्तप्यते य एवं विद्वान्त्स्वाध्यायमधीते तस्मात्स्वाध्यायोऽध्येतव्यः - ११.५.७.[४]

मधु ह वा ऋचः। घृतं ह सामान्यमृतं यजूंषि यद्ध वा अयं वाकोवाक्यमधीते क्षीरौदनमांसौदनौ हैव तौ - ११.५.७.[५]

मधुना ह वा एष देवांस्तर्पयति। य एवं विद्वानृचोऽहरहः स्वाध्यायमधीते त एनं तृप्तास्तर्पयन्ति सर्वैः कामैः सर्वैर्भोगैः - ११.५.७.[६]

घृतेन ह वा एष देवांस्तर्पयति। य एवं विद्वान्त्सामान्यहरहः स्वाध्यायमधीते त एनं तृप्तास्तर्पयन्ति सर्वैः कामैः सर्वैर्भोगैः - ११.५.७.[७]

अमृतेन ह वा एष देवांस्तर्पयति। य एवं विद्वान्यजूंष्यहरहः स्वाध्यायमधीते त एनं तृप्तास्तर्पयन्ति सर्वैः कामैः सर्वैर्भोगैः - ११.५.७.[८]

क्षीरौदनमांसौदनाभ्यां ह वा एष देवांस्तर्पयति। य एवं विद्वान्वाकोवाक्यमितिहासपुराणमित्यहरहः स्वाध्यायमधीते त एनं तृप्तास्तर्पयन्ति सर्वैः कामैः सर्वैर्भोगैः - ११.५.७.[९]

यन्ति वा आपः। एत्यादित्य एति चन्द्रमा यन्ति नक्षत्राणि यथा ह वा एता देवता नेयुर्न कुर्युरेवं हैव तदहर्ब्राह्मणो भवति यदहः स्वाध्यायं नाधीते तस्मात्स्वाध्यायोऽध्येतव्यस्तस्मादप्यृचं वा यजुर्वा साम वा गाथां वा कुंब्यां वाभिव्याहरेद्व्रतस्याव्यवच्छेदाय - ११.५.७.[१०]