शतपथब्राह्मणम्/काण्डम् १२/अध्यायः १/ब्राह्मण २



१२.१.२

श्रद्धाया वै देवा दीक्षां निरमिमत। अदित्यै प्रायणीयम्। सोमात् क्रयम्। विष्णोरातिथ्यम्। आदित्यात्प्रवर्ग्यम्। स्वधाया उपसदः। अग्नीषोमाभ्यामुपवसथम्। अस्माल्लोकात् प्रायणीयमतिरात्रम्॥१२.१.२.१॥

संवत्सरात् चतुर्विंशमहः। ब्रह्मणोऽभिप्लवम्। क्षत्त्रात् पृष्ठ्यम्। अग्नेरभिजितम्। अद्भ्यः स्वरसाम्नः। आदित्याद्विषुवंतम्। उक्ताः स्वरसामानः। इंद्राद्विश्वजितम्। उक्तौ पृष्ठ्याभिप्लवौ। मित्रावरुणाभ्यां गोआयुषी। विश्वेभ्यो देवेभ्यो दशरात्रम्। दिग्भ्यो दाशरात्रिकं पृष्ठ्यं षडहम्। एभ्यो लोकेभ्यश्छन्दोमान् ॥१२.१.२.२॥

संवत्सराद्दशममहः। प्रजापतेर्महाव्रतम्। स्वर्गाल्लोकादुदयनीयमतिरात्रम्। तदेतत्संवत्सरस्य जन्म। स यो हैवमेतत्संवत्सरस्य जन्म वेद। आ हास्माच्छ्रेयान् जायते। सात्मा भवति। संवत्सरो भवति। संवत्सरो भूत्वा देवानप्येति॥१२.१.२.३॥