ब्राह्मण १ गवामयनब्राह्मणम्

१ गवामयनब्राह्मणम् - तत्र च प्रथमं गृहपतिसहितब्रह्माद्यृत्विजां दीक्षादातृपुरुषनिर्देशपूर्वकं सार्थवादं सहेतुकं सविशेषं दीक्षाक्रमविधानं चेति.

ब्राह्मण २ प्रादुर्भाविकदेवाद्युपासनम्

२-प्रादुर्भाविकदेवाद्युपासनम् - तत्र च देवैः श्रद्धादिभ्यो देवताभ्यो दीक्षाद्यभिमानिनो विग्रहवन्तो देवा निर्मितास्तथा दीक्षादिर्यज्ञियोऽङ्गकलापश्च निर्मित इति प्रतिपाद्य दीक्षादिष्वङ्गेषु तत्तदभिमानिदेवोपासनं विधेयमिति द्योतनम् , उक्तोपासनफलनिरूपणं चेति.


ब्राह्मण ३ देवविद्याब्राह्मणम्

३ देवविद्याब्राह्मणम् - तत्र चातीतब्राह्मणगतोपासनस्यैव प्रपञ्चकरणं, तत्रापि दीक्षणीयेष्ट्यादीनामङ्गानामनुष्ठानेन तत्तदङ्गाभिमानिदेवानामुपासनं भवतीति प्रतिपादनं, तत्तद्देवतोपासनेन तत्तद्देवतायाः सारूप्यसायुज्यसालोक्येतित्रिविधमुक्तिरूपं फलं लभ्यते इति प्रदर्शनं, प्रसंगात् " सतिसदः-सत्रसदः " इत्येतयोः शब्दयोर्निरुक्तिपूर्वकं वैलक्षण्यप्रदर्शनं, सत्रे विदुषां दीक्षितानां पापं न कीर्तयेदिति नियमं प्रदर्श्य तदुल्लंघने पापीयस्त्वं भवतीत्यादिफलप्रदर्शनं, त्रिमहाव्रतयाजिनः प्राक्कलियुगात्त्रिमहाव्रतं संवत्सरमुपयन्ति स्मेतिसकारणं निरूपणं, कलियुगे कथं त्रिमहाव्रतानुष्ठानं भवेदित्यपेक्षायां तत्संभवस्य सकारणं कथनं चेति.


ब्राह्मण ४ अध्यात्मविद्ब्राह्मणम्

४-अध्यात्मविद्ब्राह्मणम् - तत्र च संवत्सरात्मकपुरुषस्य अवयवसम्पत्तिमुपपाद्याध्यात्मरूपेणोपासनविधानम्, उक्तोपासनस्य फलनिरूपणं चेत्यादि.