शतपथब्राह्मणम्/काण्डम् १२/अध्यायः १/ब्राह्मण ३

१२.१.३ देवविद्याब्राह्मणम्


यद्वै दीक्षन्ते। अग्नाविष्णू एव देवते यजन्ते। अग्नाविष्णू देवते भवन्ति। अग्नाविष्ण्वोः सायुज्यं सलोकतां जयन्ति॥१२.१.३.१॥

अथ यत् प्रायणीयेन यजन्ते। अदितिमेव देवतां यजन्ते। अदितिर्देवता भवन्ति। अदितेः सायुज्यं सलोकतां जयन्ति॥१२.१.३.२॥

अथ यत् क्रयेण चरन्ति। सोममेव देवतां यजन्ते। सोमो देवता भवन्ति। सोमस्य सायुज्यं सलोकतां जयन्ति॥१२.१.३.३॥

अथ यदातिथ्येन यजन्ते। विष्णुमेव देवतां यजन्ते। विष्णुर्देवता भवन्ति। विष्णोः सायुज्यं सलोकतां जयन्ति॥१२.१.३.४॥

अथ यत्प्रवर्ग्येण यजन्ते। आदित्यमेव देवतां यजन्ते। आदित्यो देवता भवन्ति। आदित्यस्य सायुज्यं सलोकतां जयन्ति॥१२.१.३.५॥

अथ यदुपसद उपयन्ति। एता एव देवता यजन्ते। या एता उपसत्सु। एता देवता भवन्ति। एतासां देवतानां सायुज्यं सलोकतां जयन्ति॥१२.१.३.६॥

अथ यदग्नीषोमीयेण पशुना यजन्ते। अग्नीषोमावेव देवते यजन्ते। अग्नीषोमौ देवते भवन्ति। अग्नीषोमयोः सायुज्यं सलोकतां जयन्ति॥१२.१.३.७॥

अथ यत् प्रायणीयमतिरात्रमुपयन्ति। अहोरात्रे एव देवते यजन्ते। अहोरात्रे देवते भवन्ति। अहोरात्रयोः सायुज्यं सलोकतां जयन्ति॥१२.१.३.८॥

अथ यच्चतुर्विंशमहरुपयन्ति। संवत्सरमेव देवतां यजन्ते। संवत्सरो देवता भवन्ति। संवत्सरस्य सायुज्यं सलोकतां जयन्ति॥१२.१.३.९॥

अथ यदभिप्लवं षडहमुपयन्ति। अर्द्धमासांश्च मासांश्च देवते यजन्ते। अर्द्धमासाश्च मासाश्च देवता भवन्ति। अर्द्धमासानां च मासानां च सायुज्यं सलोकतां जयन्ति॥१२.१.३.१०॥

अथ यत्पृष्ठ्यं षडहमुपयन्ति। ऋतूनेव देवता यजन्ते। अग्निर्देवता भवन्ति। अग्नेः सायुज्यं सलोकतां जयन्ति॥११॥

अथ यदभिजितमुपयन्ति। अग्निमेव देवतां यजन्ते। अग्निर्देवता भवन्ति। अग्नेः सायुज्यं सलोकतां जयन्ति॥१२.१.३.१२॥

अथ यत् स्वरसाम्न उपयन्ति। अप एव देवता यजन्ते। आपो देवता भवन्ति। अपां सायुज्यं सलोकतां जयन्ति॥१२.१.३.१३॥

अथ यद्विषुवन्तमुपयन्ति। आदित्यमेव देवतां यजन्ते। आदित्यो देवता भवन्ति। आदित्यस्य सायुज्यं सलोकतां जयन्ति। उक्ताः स्वरसामानः॥१२.१.३.१४॥

अथ यद्विश्वजितमुपयन्ति। इन्द्रमेव देवतां यजन्ते। इन्द्रो देवता भवन्ति। इन्द्रस्य सायुज्यं सलोकतां जयन्ति। उक्तौ पृष्ठ्याभिप्लवौ॥१२.१.३.१५॥

अथ यत् गोआयुषी उपयन्ति। मित्रावरुणावेव देवते यजन्ते। मित्रावरुणौ देवते भवन्ति। मित्रावरुणयोः सायुज्यं सलोकतां जयन्ति॥१२.१.३.१६॥

अथ यद्दशरात्रमुपयन्ति। विश्वानेव देवान् देवता यजन्ते। विश्वे देवा देवता भवन्ति। विश्वेषां देवानां सायुज्यं सलोकतां जयन्ति॥१२.१.३.१७॥

अथ यद्दाशरात्रिकं पृष्ठ्यं षडहमुपयन्ति। दिश एव देवता यजन्ते। दिशो देवता भवन्ति। दिशां सायुज्यं सलोकतां जयन्ति॥१२.१.३.१८॥

अथ यच्छंदोमानुपयन्ति। इमानेव लोकान् देवता यजन्ते। इमे लोका देवता भवन्ति। एषां लोकानां सायुज्यं सलोकतां जयन्ति॥१२.१.३.१९॥

अथ यद्दशममहरुपयन्ति। संवत्सरमेव देवतां यजन्ते। संवत्सरो देवता भवन्ति। संवत्सरस्य सायुज्यं सलोकतां जयन्ति॥१२.१.३.२०॥

अथ यन्महाव्रतमुपयन्ति। प्रजापतिमेव देवतां यजन्ते। प्रजापतिर्देवता भवन्ति। प्रजापतेः सायुज्यं सलोकतां जयन्ति॥१२.१.३.२१॥

अथ यदुदयनीयमतिरात्रमुपयन्ति। संवत्सरमेव तदाप्त्वा स्वर्गे लोके प्रतितिष्ठन्ति। तान् यदि पृच्छेयुः कामद्य देवतां यजध्वे। का देवता स्थ। कस्यां देवतायां वसथेति। अत एवैकतमां ब्रूयुः। यस्यै तु नेदिष्ठं स्युः। एते सतिसदः। एते हि सतीषु देवतासु सीदन्तो यन्ति। सत्रसदो हैवेतरे। स यो हैवं विदुषां दीक्षितानां पापकं सत्रे कीर्तयेत्। एताभ्यस्त्वा देवताभ्य आवृश्चामः इत्येनं ब्रूयुः। स पापीयान् भवति। श्रेयांस आत्मना॥१२.१.३.२२॥

स एष संवत्सरस्त्रिमहाव्रतः। चतुर्विंशे महाव्रतम्। विषुवति महाव्रतम्। महाव्रत एव महाव्रतम्। तं ह स्मैतं पूर्व उपयंति। त्रिमहाव्रतं ते। ते तेजस्विन आसुः। सत्यवादिनः। संशितव्रताः। अथ य उ ह एनमप्येतर्हि तथोपेयुः। यथाऽऽमपात्रमुदक आसिक्ते विम्रित्येतत्। एवं हैव ते विम्रित्येयुः। उपर्युपयंति। तदेषां सत्येन श्रमेण तपसा श्रद्धया यज्ञेनाहुतिभिरवरुद्धं भवति॥१२.१.३.२३॥