१२.३.१.

यद्बालाके त्रिवृदेति सर्वमन्योन्यमभिसंपद्यमानम्। कथं स्विद्यज्ञः पुरुषः प्रजापतिरन्योऽन्यं नातिरिच्यन्त एते॥१२.३.१.१॥

यदूर्ध्वाः स्तोमा अनुयन्ति यज्ञमभ्यावर्तं सामभिः कल्पमानाः। कथं स्वित्ते पुरुषमाविशन्ति कथं प्राणैः सयुजो भवन्ति।॥१२.३.१.२॥

प्रायणीयोऽतिरात्रश्चतुर्विंशमहश्चत्वारोऽभिप्लवाः पृष्ठ्य इत्येते। कथं स्वित्ते पुरुषमाविशन्ति कथं प्राणैः सयुजो भवन्ति॥१२.३.१.३॥

अभिजिता स्वरसामानोऽभिक्लृप्ता उभयतो विषुवन्तमुपयन्ति। कथंस्वित्ते पुरुषमाविशन्ति कथं प्राणैः सयुजो भवन्ति॥१२.३.१.४॥

त्रिवृत्प्रायाः सप्तदशाभिक्लृप्तास्त्रयस्त्रिंशांताश्चतुरुत्तरेण। कथं स्वित्ते पुरुषमाविशन्ति कथं प्राणैः सयुजो भवन्ति इति॥१२.३.१.५॥

शिरस्त्रिवृत् पंचदशोऽस्य ग्रीवा उर आहुः सप्तदशाभिक्लृप्तम्। एकविंशमुदरं कल्पयन्ति पार्श्वे पर्शूस्त्रिणवेनाभिकलृप्ते॥१२.३.१.६॥

अभिप्लवा उभयतोऽस्य बाहू पृष्ठ्यं पृष्ठ्य इति धीरा वदन्ति। अनूकमस्य चतुरुत्तरेण संवत्सरे ब्राह्मणाः कल्पयन्ति॥१२.३.१.७॥

कर्णावस्याभिजिद्विश्वजिच्चाक्ष्या बाहुः स्वरसामाऽभिकलृप्ते। नस्यं प्राणं विषुवन्तमाहुर्गोआयुषी प्राणावेताववांचौ॥१२.३.१.८॥

अङ्गान्यस्य दशरात्रमाहुर्मुखं महाव्रतं संवत्सरे ब्राह्मणाः कल्पयन्ति। सर्वस्तोमं सर्वसामानमेतं संवत्सरमध्यात्मं प्रविष्टम्। समं धीर आत्मना कल्पयित्वा ब्रध्नस्यास्ते विष्टपेऽजातशोकः॥१२.३.१.९॥