शतपथब्राह्मणम्/काण्डम् १२/अध्यायः ३/ब्राह्मण २



१२.३.२

पुरुषो वै संवत्सरः। पुरुष इत्येकम्। अत्र तत्समम्। द्वे वै संवत्सरस्याहोरात्रे। द्वाविमौ पुरुषे प्राणौ। अत्र तत्समम्। त्रय ऋतवः संवत्सरस्य। त्रय इमे पुरुषे प्राणाः। अत्र तत्समम्। चतुरक्षरो वै संवत्सरः। चतुरक्षरोऽयं यजमानः। अत्र तत्समम्। पंचर्तवः संवत्सरस्य। पंचेमे पुरुषे प्राणाः। अत्र तत्समम्। षड् ऋतवः संवत्सरस्य। षडिमे पुरुषे प्राणाः। अत्र तत् समम्। सप्तर्तवः संवत्सरस्य। सप्तेमे पुरुषे प्राणाः। अत्र तत्समम्॥१२.३.२.१॥

द्वादश वै मासाः संवत्सरस्य। द्वादशेमे पुरुषे प्राणा-. अत्र तत्समम्। त्रयोदश वै मासाः संवत्सरस्य। त्रयोदशेमे पुरुषे प्राणाः। नाभिस्त्रयोदशी। अत्र तत्समम्। चतुर्विंशतिर्वै संवत्सरस्यार्द्धमासाः। चतुर्विंशोऽयं पुरुषः। विंशत्यंगुलिः। चतुरंगः। अत्र तत्समम्। षड्विंशतिर्वै संवत्सरस्यार्द्धमासाः। षड्विंशोऽयं पुरुषः। प्रतिष्ठे षड्विंश्यौ। अत्र तत्समम्॥१२.३.२.२॥

त्रीणि च वै शतानि षष्टिश्च संवत्सरस्य रात्रयः। त्रीणि च शतानि षष्टिश्च पुरुषस्यास्थीनि। अत्र तत्समम्। त्रीणि च वै शतानि षष्टिश्च संवत्सरस्याहानि। त्रीणि च शतानि षष्टिश्च पुरुषस्य मज्जानः। अत्र तत्समम्॥१२.३.२.३॥

सप्त च वै शतानि विंशतिश्च संवत्सरस्याहोरात्राणि। सप्त च शतानि विंशतिश्च पुरुषस्यास्थीनि च मज्जानश्च। अत्र तत्समम्॥१२.३.२.४॥

दश च वै सहस्राण्यष्टौ च शतानि संवत्सरस्य मुहूर्ताः। यावन्तो मुहूर्तास्तावन्ति पंचदशकृत्वः क्षिप्राणि। यावन्ति क्षिप्राणि तावन्ति पंचदशकृत्व एतर्हीणि। यावन्त्येतर्हीणि तावन्ति पंचदशकृत्व इदानीनि। यावन्तीदानीनि तावन्तः पंचदशकृत्वः प्राणाः। यावन्तः प्राणास्तावन्तोऽक्तनाः। यावन्तोऽक्तनास्तावन्तो निमेषाः। यावंतो निमेषास्तावंतो लोमगर्ताः। यावन्तो लोमगर्तास्तावन्ति स्वेदायनानि। यावंति स्वेदायनानि तावंत एते स्तोका वर्षंति॥१२.३.२.५॥

एतद्ध स्म वै तद्विद्वानाह वार्कलिः। सार्वभौमं मेघं वर्षंतं वेदाहम्। अस्य वर्षस्य स्तोकानिति॥१२.३.२.६॥

तदेष श्लोकोऽभ्युक्तः – श्रमादन्यत्र परिवर्तमानस्तिष्ठन्नासीनो यदि वा स्वपन्नपि। अहोरात्राभ्यां पुरुषः समेन कतिकृत्वः प्राणिति चाप चानिति इति॥१२.३.२.७॥

तदेष श्लोकः प्रत्युक्तः – शतं शतानि पुरुषः समेनाष्टौ शता यन्मितं तद्वदंति। अहोरात्राभ्यां पुरुषः समेन तावत्कृत्वः प्राणिति चाप चानिति॥१२.३.२.८॥