१२.८.१

इन्द्रस्य वै यत्रेन्द्रियाणि वीर्याणि व्युदक्रामन्। तानि देवा एतेनैव यज्ञेन पुनः समदधुः। यत्पयोग्रहाश्च सुराग्रहाश्च गृह्यन्ते। इन्द्रियाण्येवास्मिन् तद्वीर्याणि सन्दधाति। उत्तरेऽग्नौ पयोग्रहान् जुह्वति। शुक्रेणैवैनं तत्सोमपीथेन समर्द्धयति॥१२.८.१.१॥

स जुहोति – सुरावन्तं बर्हिषदं सुवीरम् इति। सुरावान्वा एष बर्हिषद्यज्ञो यत्सौत्रामणी। बर्हिषैवैनं यज्ञेन समर्द्धयति। यज्ञेन यजमानम्। दधानाः सोमम् इति। सोमपीथमेवास्मिन् दधति। दिवि देवतासु इति। दिव्येवैनं देवतासु दधति। मदेमेन्द्रम् इति। मदाय वाव सोमः। मदाय सुरा। उभावेव सोममदं च सुरामदं चावरुन्धे। यजमानाः स्वर्काः इति। अर्को वै देवानामन्नम्। अन्नं यज्ञः। यज्ञेनैवैनमन्नाद्येन समर्द्धयति। हुत्वा भक्षयन्ति। समृद्धमेवास्य तद् वर्द्धयन्ति॥१२.८.१.२॥

स भक्षयति – यमश्विना नमुचेरासुरादधि इति। अश्विनौ ह्येतन्नमुचेरध्याहरताम्। सरस्वत्यसुनोदिंद्रियाय इति। सरस्वती ह्येतमसुनोत् इंद्रियाय। इमन्तं शुक्रं मधुमंतमिंदुम् इति। शुक्रो वा एष मधुमानिन्दुः यत्सोमः। सोमं राजानमिह भक्षयामि इति। सोम एवास्य राजा भक्षितो भवति। दक्षिणेऽग्नौ सुराग्रहान् जुह्वति। पाप्मनैवैनं तद् व्यावर्तयंति॥१२.८.१.३॥

स जुहोति। यस्ते रसः संभृत ओषधीषु इति। अपां च वा एष ओषधीनां च रसः। यत्सुरा। अपां चैवैनमेतदोषधीनां च रसेन समर्द्धयति। सोमस्य शुष्मः सुरया सुतस्य इति। य एव सोमे शुष्मः। यः सुरायाम्। तमेवावरुंधे। तेन जिन्व यजमानं मदेन इति। तेन प्रीणीहि यजमानं मदेन इत्येवैतदाह। सरस्वतीमश्विनाविंद्रमग्निम् इति। देवताभिरेव यज्ञं समर्द्धयति। देवताभिर्यज्ञेन यजमानम्। हुत्वा भक्षयंति। व्यृद्धमेवास्य तत्समर्द्धयति॥१२.८.१.४॥

स भक्षयति। यदत्र रिप्तं रसिनः सुतस्य इति। सुतासुतयोरेव रसमवरुंधे।यदिंद्रो अपिबच्छचीभिः इति। इंद्रो ह्येतदपिबत् शचीभिः। अहं तदस्य मनसा शिवेन इति। अशिव इव वा एष भक्षः। यत्सुरा ब्राह्मणस्य। शिवमेवैनमेतत् कृत्वाऽऽत्मन्धत्ते। सोमं राजानमिह भक्षयामि इति। सोम एवास्य राजा भक्षितो भवति॥१२.८.१.५॥

तद्धैतत् अन्येऽध्वर्यवः राजान्यं वा वैश्यं वा परिक्रीणंति। स एतत् भक्षयिष्यतीति। तदु तथा न कुर्यात्। यो ह वा एतद् भक्षयति। तस्य हैव पितॄन् पितामहान् एष सोमपीथोऽन्वेति। दक्षिणस्यैवाग्नेस्त्रीनंगारान्निर्वर्त्य बहिष्परिधि। तदेताभिर्व्याहृतिभिर्जुहुयात्॥१२.८.१.६॥

पितृभ्यः स्वधायिभ्यः स्वधा नमः इति। पितॄनेव पितृलोके स्वधायां दधाति। पितामहेभ्यः स्वधायिभ्यः स्वधा नमः इति। पितामहानेव पितामहलोके स्वधायां दधाति। प्रपितामहेभ्यः स्वधायिभ्यः स्वधा नमः इति। प्रपितामहानेव प्रपितामहलोके स्वधायां दधाति॥१२.८.१.७॥

अप आनीय निनयति। अक्षन्पितरः इति। अन्नाद्यमेवैषु दधाति। अमीमदन्त पितरः इति। मदयत्येवैनान्। अतीतृपन्त पितरः इति। तर्पयत्येवैनान्। पितरः शुंधध्वम् इति। अनुपूर्वमेवैनान् सर्वान्पावयति। पवित्रं वै सौत्रामणी॥१२.८.१.८॥

त्रिभिः पवित्रैः पावयन्ति। त्रयो वा इमे लोकाः। एभिरेवैनं लोकैः पुनन्ति॥१२.८.१.९॥

पावमानीभिः पावयन्ति। पवित्रं वै पावमान्यः। पवित्रेणैवैनं पुनन्ति॥१२.८.१.१०॥

तिसृभिस्तिसृभिः पावयन्ति। त्रयो वै प्राणाः। प्राण उदानो व्यानः। तैरेवैनं पुनन्ति॥१२.८.१.११॥

नवभिः पावयन्ति। नव वै प्राणाः। प्राणैरेवैनं पुनन्ति। प्राणेषु पुनः पूतं प्रतिष्ठापयन्ति॥१२.८.१.१२॥

पवित्रेण पावयन्ति। अजाविकस्य वा एतद् रूपम्। यत् पवित्रम्। अजाविकेनैवैनं पुनन्ति॥१२.८.१.१३॥

वालेन पावयन्ति। गोश्वस्य वा एतद् रूपम्। यद्वालः। गोश्वेनैवैनं पुनन्ति॥१२.८.१.१४॥

हिरण्येन पावयन्ति। देवानां वा एतद्रूपम्। यद्धिरण्यम्। देवानामेवैनं रूपेण पुनन्ति॥१२.८.१.१५॥

सुरया पावयन्ति। सुरा हि पूता। पूतयैवैनं पुनन्ति। तद्यथा सुरा पूयमाना वल्कसेन विविच्यते। एवमेवैतद् यजमानः सर्वस्मात् पाप्मनो निर्मुच्यते। य एवं विद्वान् सौत्रामण्या यजते। यो वैतदेवं वेद॥१२.८.१.१६॥

तदाहुः –याजयितव्यं सौत्रामण्या ३ न याजयितव्या३मिति। अनन्तरायं ह्येवास्य सर्वं पाप्मानमपघ्नन्तीति। तदु ह स्माह रेवोत्तरास्थपतिः पाटवश्चाक्रोऽपि। प्रदानं प्रदाय याजयितव्यमेव। आत्मा वै यज्ञस्य यजमानः। अंगानि ऋत्विजः। यत्र वा आत्मा पूतः। पूतानि तत्रांगानि। उभय एव पुनते। उभये पाप्मानमपघ्नते। तस्मादपि प्रदानं प्रदाय याजयितव्यमेवेति॥१२.८.१.१७॥

पितृलोकं वा एतऽन्ववयन्ति। ये दक्षिणेऽग्नौ चरन्ति। आज्याहुतिं जुहोति। यज्ञो वा आज्यम्। यज्ञादेव यज्ञे प्रतितिष्ठन्ति॥१२.८.१.१८॥

स जुहोति। ये समानाः समनसः पितरो यमराज्ये। तेषां लोकः स्वधा नमो यज्ञो देवेषु कल्पताम् इति। पितॄनेव यमे परिदधाति। अथो पितृलोकमेव जयति। सर्वे यज्ञोपवीतानि कृत्वा उत्तरमग्निमुपसमायन्ति। अयं वै लोक उत्तरोऽग्निः। अस्मिन्नेव लोके प्रतितिष्ठन्ति। आज्याहुतिं जुहोति। यज्ञो वा आज्यम्। यज्ञादेव यज्ञे प्रतितिष्ठन्ति॥१२.८.१.१९॥

स जुहोति। ये समानाः समनसो जीवा जीवेषु मामकाः। तेषां श्रीर्मयि कल्पतामस्मिन् लोके शतं समाः इति। स्वानामेव श्रियमवरुन्धे अथो ज्योग् जीवातुमेवैषु दधाति। पयः समन्वारब्धेषु जुहोति। प्राणो वा अन्नं पयः। प्राण एव अन्नाद्येऽन्ततः प्रतितिष्ठन्ति॥१२.८.१.२०॥

स जुहोति। द्वे सृती अशृणवं पितृणामहम् इति द्वे वाव सृती इत्याहुः देवानां चैव पितॄणां चेति। ताभ्यामिदं विश्वमेजत् समेति इति। ताभ्यां हीदं सर्वमेजत्समेति। यदन्तरा पितरं मातरं च इति। असौ वै पिता। इयं माता। आभ्यामेव पितॄन् देवलोकमपिनयति। एकाकी हुतोच्छिष्टं भक्षयति। एकधेव श्रियमात्मन् धत्ते। श्रीर्हि पयः॥१२.८.१.२१॥

स भक्षयति। इदं हविः प्रजननं मे अस्तु इति। प्रजननं हि। यदि पयो यदि सोमः। दशवीरम् इति । प्राणा वै दश वीराः। प्राणानेवात्मन्धत्ते। सर्वगणम् इति । अङ्गानि वै सर्वे गणाः। अंगान्येवात्मन् धत्ते। स्वस्तय आत्मसनि इति। आत्मानमेव सनोति। प्रजासनि इति। प्रजामेव सनोति। पशुसनि इति। पशूनेव सनोति। लोकसनि इति। लोकाय वै यजते। तमेव जयति। अभयसनि इति। स्वर्गो वै लोकोऽभयम्। स्वर्ग एव लोकेऽन्ततः प्रतितिष्ठति। अग्निः प्रजां बहुलां मे करोत्वन्नं पयो रेतो अस्मासु धत्त इति। हिरण्येन मार्जयन्ते। अमृतं वै हिरण्यम्। अमृत एवांततः प्रतितिष्ठन्ति॥१२.८.१.२२॥

इति तृतीयप्रपाठके पञ्चमं ब्राह्मणम् ॥