शतपथब्राह्मणम्/काण्डम् १२/अध्यायः ८

ब्राह्मण १

१-यत्रेन्द्रस्येन्द्रियाणि वीर्याणि व्युदक्रामंस्तानि देवाः पुनरस्मिन्यज्ञे पयोग्रहाणां सुराग्रहाणां च ग्रहणेन तस्मिन्समदधुरिति वक्ष्यमाणानां पयोग्रहसुराग्रहहोमानां प्रशंसनम्, उत्तरेऽग्नौ पयोग्रहा होतव्या इति सार्थवादं विधानम्, अध्वर्युः "सुरावन्तं" इति मन्त्रेण पयोग्रहान् जुहुयादिति विधायोक्तं मन्त्रं व्याख्याय च होमोत्तरं हुतशेषं भक्षयेदिति सार्थवादं विधानं, विहितं भक्षणमनूद्य तत्र मन्त्रं विधाय तस्य व्याख्यानं, सुराग्रहा दक्षिणेऽग्नौ होतव्या इति सार्थवादं विधानम्, अध्वर्युः “ यस्ते रसः सम्भृतः " इति मन्त्रेण सुराग्रहान् जुहुयादिति विधायोक्तं मन्त्रं व्याख्याय च होमोत्तरं हुतशेषं भक्षयेदिति सार्थवादं विधानं, विहितं भक्षणमनूद्य तत्र मन्त्रं विधाय तस्य व्याख्यानं, तदेतत्सुराग्रहभक्षणं भक्षार्थं परिक्रीतेन राजन्यवैश्ययोरन्यतरेण कर्तव्यमिति चरकाध्वर्यूणां मतमनूद्य सकारणं निरस्य च कारणप्रदर्शनपुरःसरं प्रागुक्तस्वीयमतस्य दृढीकरणं, दक्षिणस्याहवनीयाग्नेस्त्रीनङ्गारान् बहिष्परिधि निर्वर्त्य तेषु " पितृभ्यः" इत्येताभिस्तिसृभिर्व्याहृतिभिर्होमावशिष्टान् सुराग्रहान् जुहुयादिति प्रोक्तव्याहृतीनामभिप्रायसहितं विधानं, ग्रहपात्रेष्वप आनीय ता होमदेशेषु यथाक्रमं निनयतीति मन्त्रमन्त्राभिप्रायसहित विधानं, "पितरः शुन्धध्वम्" इत्यस्य मन्त्रस्य जपविधानम्, अनुपूर्वमेवैनान्पित्रादीन्सर्वान् पावयतीति सहेतुकं विधानं, तच्च विहितं पावनं त्रिभिः पवित्रैः पावमानीभिः "पुनन्तु मा पितरः" इत्येताभिर्ऋग्भिस्तत्रापि तिसृभिस्तिसृभिर्ऋग्भिरेवं नवभिर्ऋग्भिः पावयन्त्यध्वर्युप्रभृतय इति सार्थवादं विधानं, पूर्वं "त्रिभिः पवित्रैः पावयन्ति" इति यत्सामान्यतो विहितं तत्राजाविलोममयेन पवित्रेण गोऽश्ववालमयेन पवित्रेण हिरण्मयेन पवित्रेण च पावयन्तीति विशेषस्य सार्थवादं विधानम्, एतानि त्रीणि पवित्राण्यन्तर्धाय पूतया सुरया पावयन्तीति तात्पर्यतो विधानं, यो विद्वानेवमुक्तरीत्या सौत्रामण्या यजते वा उक्ताऽर्थं वेद स सर्वस्मात्पाप्मनो निर्मुच्यत इति फलाभिधानं, सौत्रामण्या याजयितव्यं न वा याजयितव्यमिति सन्देहमुद्भाव्य यतोऽनन्तरायं हास्य यष्टुः सर्वं पाप्मानमपघ्नन्ति तस्माद्याजयितव्यमिति केवलयाज्ञिकविषयकस्य पक्षस्य प्रदानं प्रदाय याजयितव्यमेवेति विद्वद्विषयकस्य पक्षस्य च सार्थवादमभिधानं, तत्रोत्तरस्मिन्पक्षे चाक्रर्षेः सम्मतिरस्तीति प्रदर्शनं, ये च दक्षिणेऽग्नौ चरन्ति तत्र यजमान आज्याहुतिं जुहोति ते सर्वे पितृलोकमनुयन्तीति सार्थवादमभिधानं, विहितामाज्याहुतिमनूद्य तस्यां मन्त्रं विधाय तदभिप्रायप्रदर्शनं, ततः यज्ञोपवीती भूत्वोत्तराग्निमुपसंगम्य यजमानस्तस्मिन्नाज्याहुतिं जुहोतीति सार्थवादं विधानं, विहितामाज्याहुतिमनूद्य तस्यां मन्त्रं विधाय तदभिप्रायप्रदर्शनम्, ऋत्विग्यजमानेषु समन्वारब्धेषु सत्सु अध्वर्युस्तस्मिन्नेवाग्नौ पयो जुहोतीति सार्थवादं विधानं, विहिते पयोहोमे मन्त्रं विधाय तस्य तात्पर्यानुकथनं हुतोच्छिष्टं च यजमान एकाकी सन्भक्षयतीति सार्थवादं विधानं, विहिते भक्षणे मन्त्रं विधाय तस्य तात्पर्यशो व्याख्यानं, चात्वाले हिरण्येन सर्वे मार्जयन्ते इति सार्थवादं विधानं चेत्यादि,


ब्राह्मण २ सौत्रामण्यां सोमसम्पत्तिः

२-सौत्रामण्यां सोमसम्पत्तिः - तत्र प्रथमं प्रजापतिः सोमसाधनकं यज्ञं सृष्ट्वा सोममाहृत्य तेनेष्ट्वा यदा रिक्त इवामन्यत तदा स पुनरमुं सौत्रामणीयागं दृष्ट्वा तेनेष्ट्वा च पुनराप्यायतेत्यादीतिहासस्य वाक्यशेषसहितं निरूपणं, "सोमेनेष्ट्वा सौत्रामण्या यजेत" इति सौत्रामण्याः सोमाङ्गत्वं ज्योतिष्टोमानुष्ठानोत्तरमनुष्ठेयत्वं च सदृष्टान्तमभिधाय सौत्रामणीयागलभ्यफलनिरूपणं, सुप्लानामकराजपुत्रस्य याज्ञिकस्य प्रतीदर्शनामकं राजानं प्रति सौत्रामण्यां सोमयज्ञोऽर्थात्तदवयवाः कथं सम्भवन्तीति सोपपत्तिकं सौत्रामण्यां सोमसम्पत्तिविषयकप्रश्नकरणप्रदर्शनं, प्रश्नमनुसृत्य प्रतीदर्शस्य सोमसम्पत्तेरुपवर्णनं, तत्र ज्योतिष्टोमे एव तावद्दीक्षाव्रतयोरध्यात्मसम्पत्तेरभिधानं, ज्योतिष्टोमगता निरुक्ता दीक्षा व्रतविषयिण्यध्यात्मसम्पदेव सौत्रामण्यां सम्भवतीति प्रकारान्तरेणोपपादनं, तयोर्दीक्षाव्रतयोर्विविधरूपेण मिथुनसम्पत्तेरभिधानं, सौत्रामणीगतानां शष्पतोक्मलाजानां सोमांशुत्वोपवर्णनं, सौत्रामण्यां प्रातर्माध्यन्दिनोत्तमसवनानां रूपसंपत्तेः सोपपत्तिकं निरूपणं, तत्र प्रथमायां रात्रौ एकस्या गोर्दुग्धेन द्वितीयायां रात्रौ द्वयोर्गवोर्दुग्धेन तृतीयायां रात्रौ तिसृणां गवां दुग्धन सुरां परिषिञ्चन्तीति सार्थवादं परिषेकस्य विधानं, विहिते परिषेके मन्त्रं विधाय तस्य तात्पर्यार्थव्याख्यानं, सौत्रामण्यामुभयोः सुतस्यासुतस्य च रूपसम्पत्तेः सोपपत्तिकं निरूपणं, प्रेषाप्रीरूपसम्पत्तेर्यथायथमुपपादनं, सर्वे यज्ञाः पयस्वन्तः सोमवन्तः परिस्रुन्मन्तो घृतवन्तो मधुमन्तश्च भवन्तीति सोपपत्तिकं साधयित्वा सौत्रामणीयज्ञोऽपि यज्ञत्वाविशेषात्तद्वानिति द्योतनं, प्रयाजप्रैषेष्वश्विसरस्वतीन्द्राणां सकारणं देवतात्वप्रतिपादनम् , एताभिरश्विसरस्वतीन्द्राभिख्याभिर्देवताभिरेनं सौत्रामणीयागं सम्भरन्ति पूर्वमेताभिर्देवताभिस्तथा सम्भृतत्वादित्यर्थवादस्याभिधानम् , तिसृणामपि वपानां याज्यापुरोऽनुवाक्यानां सन्ततत्वस्य समानदेवत्यत्वस्य च सार्थवादमभिधानम्, आप्रीणामनुष्टुप्छन्दस्त्वस्यानुप्रैषाणां जगतीछन्दस्त्वस्य च सोपपत्तिकं सार्थवादं प्रतिपादनं, यस्मादत्र व्रतमन्त्रदीक्षादयः सर्वे सोमावयवाः सन्त्यत एष सौत्रामणीयागः प्रत्यक्षं सोमयज्ञ एवेति सौत्रामण्यां सोमसम्पत्तेरभिधानस्योपसंहरणम् , सौत्रामण्यां यजमानः पयोग्रहसुराग्रहशेषं ऋत्विग्भिः सह भक्षयेत्सोमरूपत्वसम्पादनाय, अन्यथाऽयं सौत्रामणीयाग इष्टिर्वा पशुबन्धो वा स्यादिति प्रतिपादनं, तत्राश्विनं ग्रहमध्वर्युःप्रतिप्रस्थाताऽऽग्नीध्रश्चेत्येतेऽध्वर्यवः सारस्वतं ग्रहं होता ब्रह्मा मैत्रावरुणश्चेत्येते त्रयो भक्षयन्ति, ऐन्द्रं ग्रहं यजमान एकाकी एव भक्षयतीति विविधार्थवादसहितं निरूपणं, तत्र मध्ये तेषां ऋत्विजां भक्षणोत्तरमाश्विनग्रहशेषस्य सारस्वतग्रहेऽवनयनं सारस्वतग्रहशेषस्यैन्द्रग्रहेऽवनयनं कर्तव्यमित्यस्याप्यर्थस्य सार्थवादमभिधानं, पुनः पूर्ववदृत्विजां यजमानस्य च भक्षणस्य सप्रकारकं सार्थवादमभिधानं, भक्षाणां मासरूपत्वेन ऋत्विजामृतुरूपत्वेन तत्रापि यजमान भक्षस्य त्रयोदशाधिमासरूपत्वेन यजमानस्य संवत्सररूपत्वेन च प्रशंसनं, त्रयाणां पशूनां लोकत्रयरूपत्वेन त्रयाणां पुरोडाशानामृतुत्रयरूपत्वेन षण्णां ग्रहाणां षडृतुरूपत्वेन च प्रशंसनं, प्राग्विहितं याज्यापुरोऽनुवाक्यानां सन्ततत्वं समानदेवत्यत्वं चानूद्य तत्प्रकारस्य सार्थवादमुपवर्णनं, सर्वेषां ग्रहाणां ये द्वे याज्यापुरोऽनुवाक्ये भवतस्तयोरहोरात्ररूपत्वेन प्रशंसनं, सौत्रामण्याः संवत्सरात्मत्वमुपपाद्य तदात्मनोपासनविधानम्, उक्तार्थज्ञस्य सौत्रामण्येजानस्य फलाभिधानं चेत्यादि.


ब्राह्मण ३

३ हतपुत्रस्य त्वष्टुरिन्द्रोद्देशकाभिचारयागं कृत्वाऽपेन्द्रं सोमाहरणम्-इन्द्रकृतं तदीययज्ञविनाशं कृत्वा बलात्सोमपानं - स सोमः शक्रशरीरं सर्वतो व्याप्य तस्यान्याङ्गवन्मुखात्प्राणेभ्यश्च श्रीयशसान्यूर्ध्वान्युदकामयत्तानि पशून्प्राविशंस्तस्मात्पशवो यशस्विनो जायन्ते इत्यादीतिहासकथनम् , एवमुक्तार्थं विद्वान्यः सौत्रामण्याऽभिषिच्यते सोऽपि यशस्वी भवतीत्यर्थस्य कथनम् , अश्विनौ सरस्वती च यस्मादिन्द्राय सौत्रामण्या भैषज्यं कुर्वन्तः सौत्रामण्यैवेन्द्रमभ्यषिञ्चंस्तस्मात्स इन्द्रो देवानां श्रेष्ठोऽभवद्यथा तथैव य एनया सौत्रामण्याऽभिषिच्यते सोऽपि स्वानां श्रेष्ठो भवतीति निरूपणम् , स चाभिषेकः कृष्णाजिने कर्तव्यो भवतीति सार्थवादं प्रतिपादनं, कृष्णाजिनाधारभूताया आसन्द्याः सार्थवादमभिधानं, सा चासन्दी औदुम्बरी जानुसम्मिता तिरश्ची च भवतीति तस्या आसन्द्याः प्रकृतिद्रव्यस्योर्ध्वतिर्यक्परिमाणस्य च सार्थवादमभिधानं, पुनः सा चासन्दी मुञ्जविवयना भवतीति प्रतिपाद्य तस्या आसन्द्या द्वौ पादावुत्तरस्यां वेद्यां द्वौ पादौ दक्षिणस्यां वेद्यां च भवत इति सार्थवादं निरूपणम् , अत्रोक्तार्थवादार्थविषये विदुषो गोरीवीतेर्ऋषेः श्विक्नानां राज्ञ ऋषभस्य च सम्मतेः प्रदर्शनम् , अनुपदोक्तप्रकारेण मन्त्रतदभिप्रायसहितमासन्द्या आस्तरणविधानं, मन्त्रतदभिप्राययुतमासन्यां्र कृष्णाजिनस्यास्तरणविधानं, यजमानस्तस्यामासन्द्यां वारुण्यर्चाऽधिरोहतीति प्रतिपादनम् , सुवर्णरजतौ रुक्मौ पादयोरध उपास्यति प्रतिमन्त्रं मन्त्राभिप्रायोपेतमभिधानं, " पशूनां वसयाऽभिषिञ्चति" इत्यभिषेकसाधनभूतस्य द्रव्यस्य सार्थवादं विधानं, ऋषभशफैर्गृहीता वसाग्रहा भवन्ति ते च त्रयस्त्रिंशत्संख्याकास्तांश्च जगतीछन्दस्काभिः षोडशभिर्ऋग्भिर्जुहुयादिति प्रत्येकस्यार्थस्य सार्थवादं निरूपणं, " सीसेन तन्त्रं मनसा" इति मन्त्रोपलक्षितेनानुवाकेन प्रत्यृचं द्वौ द्वौ होमौ समासं हुत्वा तच्छेषान्सते पात्रे समवनयेदिति सार्थवादं विधानं, तच्च सताख्यं पात्रं वैतसं भवतीति सार्थवादमभिधानं, यजमानस्य सर्वसुरभ्युन्मर्दनं कर्तव्यमिति सार्थवादं विधानं, यजमानस्य पुरस्तात्समीपे प्रतिदिशमवस्थितः सन्नध्वर्युरामुखादन्ववस्रावयन् यजमानं शिरस्यभिषिञ्चेदिति सार्थवादं विधानं, तत्र तावद्विहितोऽभिषेकः प्रथमवारमाश्विनेन यजुषा द्वितीयवारं सारस्वतेन यजुषा तृतीयवारमैन्द्रेण यजुषा चतुर्थवारमेकेषां मतेन सर्वाभिर्देवताभिरर्थात्तद्देवत्यैस्त्रिाभिर्यजुर्भिः पुनरेकेषां मतेन "भूर्भुवः स्वः' इत्येताभिर्व्याहृतिभिरभिषिञ्चेदिति विधानं, तत्रापि एकेषां व्याहृतिपक्षं कारणाभिधानेन समर्थ्य तं निरस्य च स्वमतेन " एताभिरेवैनं देवताभिरभिषिञ्चेत् " इत्यस्य पक्षस्य कारणोपन्यासपुरःसरं समर्थनं, "पुरस्तात्स्विष्टकृतोऽभिषिञ्चति-अन्तरा वनस्पतिञ्च स्विष्टकृतञ्चाभिषिञ्चति" इत्यादिनाऽभिषेकस्य सार्थवादमवसरविधानं, एनं यजमानं क्रमेण जानुमात्रे नाभिमात्रे मुखमात्रे इत्येतेषु प्रमाणेषु धारयेयुरिति सार्थवादं विधानं, वाजपेयसौत्रामण्योरभिषेकवत्त्वसामान्येन समानत्ववर्णनं, सकारणं सार्थवादं यजमानस्य कृष्णाजिने प्रत्यवरोहणं विधाय तत्र मन्त्रं विनियुज्य तस्य साभिप्रायं तात्पर्यार्थकथनं, वक्ष्यमाणं त्रयस्त्रिंशं वसाग्रहमुद्दिश्य तदङ्गत्वेन सामगानस्य सार्थवादं विधानं, तच्च साम बृहतीच्छन्दस्कायामिन्द्रलिङ्गायां " बृहदिन्द्राय गायत " इत्यस्यामृचि गेयमिति सार्थवादमभिधानम्, ऋत्विजो यजमानश्च सर्वे " संश्रवसे " इत्यादि चत्वारि संशानापरनामधेयानि चतुर्निधनानि पठेयुरिति कारणपूर्वकसंशाननामनिरुक्तिसहितं सार्थवादं विधानं, एतस्य गीयमानस्य साम्न उक्थप्रतिष्ठयोः प्रश्नोत्तराभ्यां निरूपणं, "त्रया देवा एकादश-प्रथमा द्वितीयैः " इत्येताभ्यां मन्त्राभ्यां त्रयस्त्रिंशं वसाग्रहं जुहुयादिति विधाय विनियुक्तयोरेतयोर्मन्त्रयोर्व्याख्यान, तत ऋत्विक्षूपहवमिष्ट्वा यजमानो भक्षयतीति सार्थवादं विधानं, विहितं यजमानकर्तृकं भक्षणमनूद्य तत्र मन्त्रस्य विनियोजनं, यः सौत्रामण्याऽभिषिच्यते यश्चावान्तरामात्मानमुपह्वयते तस्य पुरुषस्य सर्वमङ्गं संस्कृतमन्यूनं च संभवतीति सौत्रामण्याः प्रशंसनं चेत्यादि.