शतपथब्राह्मणम्/काण्डम् १२/अध्यायः ८/ब्राह्मण २
१२.८.२
अथ सौत्रामण्यां सोमसम्पत्तिः
प्रजापतिर्यज्ञमसृजत्। तमाहरत्। तेनायजत। तेनेष्ट्वा रिरिचान इवामन्यत। स एतं यज्ञक्रतुमपश्यत् सौत्रामणीम्। तेनायजत। ततो वै स पुनराप्यायत। रिच्यत इव वा एषः – यः सोमेन यजते। वीव ह्यस्य वित्तं वेदो हरन्ति॥१२.८.२.१॥
सोमेनेष्ट्वा सौत्रामण्या यजेत। यथा धेनुर्दुग्धा पुनराप्ययेत। एवं हैव पुनराप्यायते। आ प्रजया पशुभिः प्यायते। प्रत्यस्मिन् लोके तिष्ठति। अभि स्वर्गं लोकं जयति। य एवं विद्वान् सौत्रामण्या यजते। यो वैतदेवं वेद॥१२.८.२.२॥
तद्धैतत् पप्रच्छ सुप्ला सार्ञ्जयः प्रतीदर्शमैभावतं । यन्न दीक्षयेव दीक्षते। न सोमांशव इव न्युप्यंते।अथ कथं सौत्रामणी सोमयज्ञो भवतीति॥१२.८.२.३॥
स होवाच। शिरो वा एतद्यज्ञस्य। यद् व्रतम्। आत्मा दीक्षा। एतत् खलु वै व्रतस्य रूपम्। यत् सत्यम्। एतद्दीक्षायै। यत् श्रद्धा। मनो यजमानस्य रूपम्। वाग् यज्ञस्येति॥१२.८.२.४॥
स यत् वाचा व्रतमुपैति। आत्मन्येवैतद्यज्ञस्य शिरः प्रतिदधाति। सत्यं श्रद्धायां दधाति। यजमानं यज्ञे॥१२.८.२.५॥
तस्मात् एतस्य यज्ञस्य व्रतमेव दीक्षा। वृषा उ वै व्रतम्। योषा दीक्षा। वृषा सत्यम्। योषा श्रद्धा। वृषा मनः। योषा वाग्। वृषा पत्न्यै यजमानः। तस्मात् यत्रैव पतिस्तत्र जाया। अथो यज्ञमुख एव तन्मिथुनानि करोति प्रजात्यै॥१२.८.२.६॥
एते खलु वा एतस्य यज्ञस्य सोमांशव इत्याहुः। यच्छष्पाणि तोक्मानि लाजा इति॥ १२.८.२.७ ॥
प्रातःसवनस्यैतद् रूपं यच्छष्पाणि। अयं वै लोकः प्रातःसवनम्। स आश्विनः। आश्विनेन पयसा प्रथमां रात्रिं परिषिंचति। स्वेनैवैनमेतल्लोकेन स्वया देवतया स्वेन रूपेण प्रातःसवनेन समर्द्धयति॥१२.८.२.८॥
माध्यंदिनस्यैतत्सवनस्य रूपं यत्तोक्मानि। अंतरिक्षं वै माध्यंदिनं सवनम्। तत्सारस्वतम्। सारस्वतेन पयसा द्वितीयां रात्रिं परिषिंचति। स्वेनैवैनमेतल्लोकेन स्वया देवतया स्वेन रूपेण माध्यंदिनेन सवनेन समर्धयति॥१२.८.२.९॥
तृतीयसवनस्यैतद् रूपं यत् लाजाः। द्यौर्वै तृतीयसवनम्। सैन्द्री। ऐंद्रेण पयसा तृतीयां रात्रिं परिषिंचति। स्वेनैवैनमेतल्लोकेन स्वया देवतया स्वेन रूपेण तृतीयसवनेन समर्द्धयति॥१२.८.२.१०॥
एकस्यै दुग्धेन प्रथमां रात्रिं परिषिंचति। द्वयोर्दुग्धेन द्वितीयाम्। तिसृणां दुग्धेन तृतीयाम्। यथारूपमेवैनं यथादेवतं सवनैः समर्द्धयति॥१२.८.२.११॥
परीतो षिंचता सुतम् इति परिषिंचति। सुत्यायै। सोमो य उत्तमं हविः इति। उत्तमं वा एतद्धविः। यत्सोमः। उत्तममेवैनं हविष्करोति। दधन्वा यो नर्यो अप्स्वंतरा इति। अद्भिश्च ह्येषोऽन्तरेण च सूयते। सुषाव सोममद्रिभिः इति। अद्रिभिर्वै सोमः सूयते। अद्रिभिरेवैनं सुनोति। सोमसुत्यायै॥१२.८.२.१२॥
तदाहुः। उभयोर्वा एतद् रूपम्। सुतस्य चासुतस्य च। यत् सौत्रामणी। अपामेष ओषधीनां रसः। यत्पयः। तत्सुतस्य रूपम्। अन्नस्यैष रसः यत्परिस्रुत्। तदासुतस्य रूपम्। उभाभ्यामेवैनं सवाभ्यां सुनोति। उभाभ्यां सवाभ्यामवरुन्द्धे॥१२.८.२.१३॥
तदाहुः – यद् ग्रावभिः सोमः सूयते। अथ कथं सौत्रामणीति। प्रैषाप्रीभिरिति ब्रूयात्। बार्हता वै प्रैषाः। बार्हता ग्रावाणः। ग्रावभिर्वै सोमः सूयते। ग्रावभिरेवैनं सुनोति। सोमसुत्यायै॥१२.८.२.१४॥
सर्वे पयस्वन्तो भवन्ति। पयसा हि सूयते। सर्वे सोमवन्तो भवन्ति। सोमरूपतायै। सर्वे परिस्रुन्मन्तो भवन्ति। परिस्रुता हि सूयते। सर्वे घृतवन्तो भवन्ति। तद्वै प्रत्यक्षाद्यज्ञरूपम्। यद् घृतम्। प्रत्यक्षादेवैनं यज्ञरूपं करोति। सर्वे मधुमन्तो भवन्ति। एतद्वै प्रत्यक्षात्सोमरूपम्। यन्मधु। प्रत्यक्षादेवैनं सोमरूपं करोति॥१२.८.२.१५॥
सर्व आश्विना भवन्ति। भैषज्याय। सर्वे सारस्वताः। अन्नाद्यस्यैवावरुद्ध्यै। सर्वे ऐन्द्राः। इन्द्रियस्यैव वीर्यस्यावरुद्ध्यै॥१२.८.२.१६॥
यद्वेव सर्व आश्विना भवन्ति। सर्वे सारस्वताः. सर्व ऐन्द्राः। एता वा एतं देवता अग्रे यज्ञं समभरन्। ताभिरेवैनं संभरति। अथो एता एवैतद्देवता भागधेयेन समर्द्धयति॥१२.८.२.१७॥
सन्तता याज्यापुरोऽनुवाक्या भवन्ति समानदेवत्याः। प्रजानां सन्तत्या अव्यवच्छेदाय। सर्वा आश्विन्यो भवन्ति। सर्वाः सारस्वत्यः। सर्वा ऐन्द्र्यः। समानी बन्धुता॥१२.८.२.१८॥
अनुष्टुभ आप्रियो भवन्ति। वाग्वा अनुष्टुप्। वाचा वै सोमः सूयते। वाचैवैनं सुनोति। सोमसुत्यायै। सर्वा आश्विन्यो भवन्ति। सर्वाः सारस्वत्यः। सर्वा ऐन्द्र्यः। समानी बन्धुता॥१२.८.२.१९॥
जागता अनुप्रैषा भवन्ति। इयं वै जगती। अनया वै सोमः सूयते। अनयैवैनं सुनोति। सोमसुत्यायै। सर्व आश्विना भवन्ति। सर्वे सारस्वताः। सर्व ऐन्द्राः। समानी बन्धुता॥१२.८.२.२०॥
स वा एष प्रत्यक्षात् सोमयज्ञ एव। यत् सौत्रामणी। तं यद्येकाकी यजमानो भक्षयेत्। इष्टिर्वैव स्यात् पशुबन्धो वा। सर्व ऋत्विजो भक्षयन्ति। सर्वे वा ऋत्विजः सोमं भक्षयन्ति। सोमरूपतायै॥१२.८.२.२१॥
आश्विनमध्वर्यवो भक्षयन्ति। अश्विनौ वै देवानामध्वर्यू। स्वमेवैतत् भागधेयं स्व आयतने भक्षयन्ति॥१२.८.२.२२॥
सारस्वतं होता ब्रह्मा मैत्रावरुणः। वाग्वै यज्ञस्य होता। हृदयं ब्रह्मा। मनो मैत्रावरुणः। स्वमेवैतत् भागधेयं स्व आयतने भक्षयन्ति॥१२.८.२.२३॥
ऐन्द्रं यजमानो भक्षयति। ऐन्द्रो वा एष यज्ञः। यत्सौत्रामणी। इन्द्रायतन एष एतर्हि। यो यजते। स्वमेवैतत् भागधेयं स्व आयतने भक्षयति॥१२.८.२.२४॥
चक्षुर्वा आश्विनो ग्रहः। प्राणः सारस्वतः। वागैन्द्रः। आश्विनात्सारस्वतेऽवनयति। चक्षुरेवास्य तत्प्राणैः सन्दधाति। सारस्वतादैन्द्रे।प्राणानेवास्य तद्वाचा सन्दधाति। अथो प्राणानेवास्य तद्वाचि प्रतिष्ठापयति। तस्मात्सर्वे प्राणा वाचि प्रतिष्ठिताः॥१२.८.२.२५॥
त्रय आश्विनं भक्षयन्ति। अध्वर्युः प्रतिप्रस्थाताऽऽग्नीध्रः। त्रिवृद्वा इदं चक्षुः। शुक्लं कृष्णं कनीनका। यथारूपमेवास्मिन् चक्षुर्दधाति॥१२.८.२.२६॥
त्रयः सारस्वतम्। होता ब्रहमा मैत्रावरुणः। त्रेधाविहितो वा अयं प्राणः। प्राण उदानो व्यान इति। यथारूपमेवास्मिन् प्राणं दधति॥१२.८.२.२७॥
एकाक्यैन्द्रं यजमानो भक्षयति। एकधा वा एषा प्राणानां श्रीः। यद् वाक्। एकधैव वाचं श्रियमात्मन्धत्ते। तस्मात्सौत्रामण्येजान एकधा स्वानां श्रेष्ठो भवति। अथो य एवमेतद्वेद॥१२.८.२.२८॥
ऋतवो वा ऋत्विजः। मासा भक्षाः। षड् ऋत्विजो भक्षयन्ति। षड्वा ऋतवः। ऋत्विग्भिरेव ऋतूनवरुन्धे॥१२.८.२.२९॥
द्वादश भक्षा भवन्ति। द्वादश वै मासाः। भक्षैरेव मासानवरुन्द्धे। पुनःपुनरभिनिवर्त्तमृत्विजो भक्षयन्ति। तस्मात् ऋतवश्च मासाश्चान्योऽन्यमभिनिवर्त्तन्ते॥१२.८.२.३०॥
त्रयोदशं यजमानो भक्षयति। यो ह वा एष त्रयोदशो मासः। एष एव प्रत्यक्षात्संवत्सरः। एतमेवाप्त्वाऽवरुन्द्धे। स वा एष संवत्सर एव। यत्सौत्रामणी। तेन सर्वं जयति। सर्वमरुन्द्धे॥१२.८.२.३१॥
त्रयः पशवो भवन्ति। त्रयो वा इमे लोकाः। इमानेव तैर्लोकानवरुन्द्धे। इममेव लोकमाश्विनेन। अन्तरिक्षं सारस्वतेन। दिवमैन्द्रेण। यथारूपमेव यथादेवतमिमान् लोकान् जयति चाव च रुन्द्धे॥१२.८.२.३२॥
त्रयः पुरोडाशा भवन्ति। त्रयो वा ऋतवः। ऋतूनेवैतैरवरुन्द्धे। ग्रीष्ममेवैन्द्रेण। वर्षाः सावित्रेण। हेमन्तं वारुणेन। यथारूपमेव यथादेवतमृतून् जयति चाव च रुन्द्धे॥१२.८.२.३३॥
षड् ग्रहा भवन्ति। षड्वा ऋतवः। ऋतूनेवैतैरवरुन्द्धे। वसन्तग्रीष्मावेवाश्विनाभ्याम्। वर्षाशरदौ सारस्वताभ्याम्। हेमन्तशिशिरावैन्द्राभ्याम्। यथारूपमेव यथादेवतमृतून् जयति चाव च रुन्द्धे॥१२.८.२.३४॥
संतता याज्यापुरोऽनुवाक्या भवन्ति समानदेवत्याः। ऋतूनां संतत्या अव्यवच्छेदाय। सर्वाः पुरोऽनुवाक्या भवन्ति। सर्वा याज्याः। तस्मात् ऋतवः सर्वे परांचः। सर्वे प्रत्यंचः। सर्वाः प्रथमा भवन्ति। सर्वा मध्यमाः। सर्वा उत्तमाः। तस्मात् ऋतवः सर्वे प्रथमाः। सर्वे मध्यमाः। सर्व उत्तमाः। सर्वेषां ग्रहाणां द्वे याज्यापुरोऽनुवाक्ये भवतः। अहोरात्रयोस्तद्रूपम्। अहोरात्रे एवावरुन्द्धे। तस्मात् ऋतवश्च मासाश्चाहोरात्रयोरेव प्रतिष्ठिताः॥१२.८.२.३५॥
स वा एष संवत्सर एव। यत्सौत्रामणी। चंद्रमा एव प्रत्यक्षात् आदित्यो यजमानः। तस्येयमेव पृथिवी वेदिः। अंतरिक्षमुत्तरवेदिः। द्यौर्बर्हिः। दिश ऋत्विजः। वनस्पतय इध्मः। आप आज्यम्। ओषधय आहुतयः। अग्निरेवाग्निः। संवत्सरः संस्था। तद्वा इदं सर्वं संवत्सर एव। यदिदं किंच। तस्मात् सौत्रामण्येजानः सर्वं जयति। सर्वमरुन्द्धे॥१२.८.२.३६॥
इति चतुर्थप्रपाठके प्रथमं ब्राह्मणम्॥