शतपथब्राह्मणम्/काण्डम् १४/अध्यायः ५/ब्राह्मणम् १

अजातशत्रुब्राह्मणं वा पर्यंकविद्याब्राह्मणम्

दृप्तबालाकिर्हानूचानो गार्ग्य आस। स होवाचाजातशत्रुं काश्यं ब्रह्म ते ब्रवाणीति स होवाचाजातशत्रुः सहस्रमेतस्यां वाचि दद्मो जनको जनक इति वै जना धावन्तीति - १४.५.१.१

स होवाच गार्ग्यो य एवासावादित्ये पुरुष एतमेवाहं ब्रह्मोपास इति स होवाचाजातशत्रुर्मा मैतस्मिन्त्संवदिष्ठा अतिष्ठाः सर्वेषां भूतानां मूर्द्धा राजेति वा अहमेतमुपास इति स य एतमेवमुपास्तेऽतिष्ठाः सर्वेषां भूतानाम्मूर्द्धा राजा भवति - १४.५.१.२

स होवाच गार्ग्यो य एवासौ चन्द्रे पुरुष एतमेवाहं ब्रह्मोपास इति स होवाचाजातशत्रुर्मा मैतस्मिन्त्संवदिष्ठा बृहन्पाण्डरवासाः सोमो राजेति वा अहमेतमुपास इति स य एतमेवमुपास्तेऽहरहर्ह सुतः प्रसुतो भवति नास्यान्नं क्षीयते - १४.५.१.३

स होवाच गार्ग्यो य एवायं विद्युति पुरुष एतमेवाहं ब्रह्मोपास इति स होवाचाजातशत्रुर्मा मैतस्मिन्त्संवदिष्ठास्तेजस्वीति वा अहमेतमुपास इति स य एतमेवमुपास्ते तेजस्वी ह भवति तेजस्विनी हास्य प्रजा भवति - १४.५.१.४

स होवाच गार्ग्यो य एवायमाकाशे पुरुष एतमेवाहं ब्रह्मोपास इति स होवाचाजातशत्रुर्मा मैतस्मिन्त्संवदिष्ठाः पूर्णमप्रवर्तीति वा अहमेतमुपास इति स य एतमेवमुपास्ते पूर्यते प्रजया पशुभिर्नास्यास्माल्लोकात्प्रजोद्वर्तते - १४.५.१.५

स होवाच गार्ग्यो य एवायं वायौ पुरुष एतमेवाहं ब्रह्मोपास इति स होवाचाजातशत्रुर्मा मैतस्मिन्त्संवदिष्ठा इन्द्रो वैकुण्ठोऽपराजिता सेनेति वा अहमेतमुपास इति स य एतमेवमुपास्ते जिष्णुर्हापराजिष्णुर्भवत्यन्यतस्त्यजायी - १४.५.१.६

स होवाच गार्ग्यो य एवायमग्नौ पुरुष एतमेवाहं ब्रह्मोपास इति स होवाचाजातशत्रुर्मा मैतस्मिन्त्संवदिष्ठा विषासहिरिति वा अहमेतमुपास इति स य एतमेवमुपास्ते विषासहिर्ह भवति विषासहिर्हास्य प्रजा भवति - १४.५.१.७

स होवाच गार्ग्यो य एवायमप्सु पुरुष एतमेवाहं ब्रह्मोपास इति स होवाचाजातशत्रुर्मा मैतस्मिन्त्संवदिष्ठाः प्रतिरूप इति वा अहमेतमुपास इति स य एतमेवमुपास्ते प्रतिरूपं हैवैनमुपगच्छति नाप्रतिरूपमथो प्रतिरूपोऽस्माज्जायते - १४.५.१.८

स होवाच गार्ग्यो य एवायमादर्शे पुरुष एतमेवाहं ब्रह्मोपास इति स होवाचाजातशत्रुर्मा मैतस्मिन्त्संवदिष्ठा रोचिष्णुरिति वा अहमेतमुपास इति स य एतमेवमुपास्ते रोचिष्णुर्ह भवति रोचिष्णुर्हास्य प्रजा भवत्यथो यैः संनिगच्छति सर्वांस्तानतिरोचते - १४.५.१.९

स होवाच गार्ग्यो य एवायं दिक्षु पुरुष एतमेवाहं ब्रह्मोपास इति स होवाचाजातशत्रुर्मा मैतस्मिन्त्संवदिष्ठा द्वितीयोऽनपग इति वा अहमेतमुपास इति स य एतमेवमुपास्ते द्वितीयवान्ह भवति नास्माद्गणश्छिद्यते - १४.५.१.१०

स होवाच गार्ग्यो य एवायं यन्तं पश्चाच्छब्दोऽनूदैत्येतमेवाहं ब्रह्मोपास इति स होवाचाजातशत्रुर्मा मैतस्मिन्त्संवदिष्ठा असुरिति वा अहमेतमुपास इति स य एतमेवमुपास्ते सर्वं हैवास्मिंलोक आयुरेति नैनं पुरा कालात्प्राणो जहाति - १४.५.१.११

स होवाच गार्ग्यो य एवायं छायामयः पुरुषः एतमेवाहं ब्रह्मोपास इति स होवाचाजातशत्रुर्मा मैतस्मिन्त्संवदिष्ठा मृत्युरिति वा अहमेतमुपास इति स य एतमेवमुपास्ते सर्वं हैवास्मिंलोक आयुरेति नैनं पुरा कालान्मृत्युरागच्छति - १४.५.१.१२

स होवाच गार्ग्यो य एवायमात्मनि पुरुष एतमेवाहं ब्रह्मोपास इति स होवाचाजातशत्रुर्मा मैतस्मिन्त्संवदिष्ठा आत्मन्वीति वा अहमेतमुपास इति स य एतमेवमुपास्त आत्मन्वी ह भवत्यात्मन्विनी हास्य प्रजा भवति स ह तूष्णीमास गार्ग्यः - १४.५.१.१३

स होवाचाजातशत्रुः। एतावन्नू३ इत्येतावद्धीति नैतावता विदितं भवतीति स होवाच गार्ग्य उप त्वायानीति - १४.५.१.१४

स होवाचाजातशत्रुः। प्रतिलोमं वै तद्यद्ब्राह्मणः क्षत्रियमुपेयाद्ब्रह्म मे वक्ष्यतीति व्येव त्वा ज्ञपयिष्यामीति तं पाणावादायोत्तस्थौ तौ ह पुरुषं सुप्तमाजग्मतुस्तमेतैर्नामभिरामन्त्रयांचक्रे बृहन्पाण्डरवासः सोमराजन्निति स नोत्तस्थौ तं पाणिनाऽऽपेषं बोधयांचकार स होत्तस्थौ - १४.५.१.१५

स होवाचाजातशत्रुः। यत्रैष एतत्सुप्तोऽभूद्य एष विज्ञानमयः पुरुषः क्वैष तदाभूत्कुत एतदागादिति तदु ह न मेने गार्ग्यः - १४.५.१.१६

स होवाचाजातशत्रुः। यत्रैष एतत्सुप्तोऽभूद्य एष विज्ञानमयः पुरुषस्तदेषाम्प्राणानां विज्ञानेन विज्ञानमादाय य एषोऽन्तर्हृदय आकाशस्तस्मिञ्छेते - १४.५.१.१७

तानि यदा गृह्णाति। अथ हैतत्पुरुषः स्वपिति नाम तद्गृहीत एव प्राणो भवति गृहीता वाग्गृहीतं चक्षुर्गृहीतं श्रोत्रं गृहीतं मनः - १४.५.१.१८

स यत्रैतत्स्वप्न्यया चरति। ते हास्य लोकास्तदुतेव महाराजो भवत्युतेव महाब्राह्मण उतेवोच्चावचं निगच्छति - १४.५.१.१९

स यथा महाराजो जानपदान्गृहीत्वा। स्वे जनपदे यथाकामम्परिवर्तेतैवमेवैष एतत्प्राणान्गृहीत्वा स्वे शरीरे यथाकामं परिवर्तते - १४.५.१.२०

अथ यदा सुषुप्तो भवति। यदा न कस्य चन वेद हिता नाम नाड्यो द्वासप्ततिः सहस्राणि हृदयात्पुरीततमभिप्रतिष्ठन्ते ताभिः प्रत्यवसृप्य पुरीतति शेते - १४.५.१.२१

स यथा कुमारो वा महाब्राह्मणो वा। ऽतिघ्नीमानन्दस्य गत्वा शयीतैवमेवैष एतच्छेते - १४.५.१.२२

स यथोर्णवाभिस्तन्तुनोच्चरेत्। यथाग्नेः क्षुद्रा विष्फुलिङ्गा व्युच्चरन्त्येवमेवास्मादात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि सर्व एत आत्मानो व्युच्चरन्ति तस्योपनिषत्सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्यम् - १४.५.१.२३

भाष्यम्

१४.५.१.२१ -- दर्शनवृत्तौ स्वप्ने वासनाराशेर्दृश्यत्वात् असंसारधर्मता इत्यात्मनो विशुद्धता अवगता । तत्र " यथाकामं परिवर्तते " इति कामवशात् परिवर्तनमुक्तम् । इष्टदृश्यसंबंधश्चास्य स्वाभाविक इत्यशुद्धता इत्याशङ्कायां तत्संबंधस्य सुषुप्तौ व्यतिरेकदर्शनेन अस्वाभाविकत्वात् शुद्धत्वमेवास्य स्वाभाविकमिति वक्तुमाह-अथ यदेति । 'अथ' पुनः 'यदा' यस्मिन् काले जाग्रत्स्वप्नयोर्द्रष्टा दर्शनवृत्तिस्वप्नं हित्वा ' सुषुप्तः' सुष्ठु सुप्तः विशेषज्ञानाभावेन संप्रसादं स्वस्वरूपब्रह्मैक्यं यतः ' भवति । सलिलमिव अन्यसंबंधकालुष्यं हित्वा स्वाभाव्येन प्रसीदतीत्यर्थः । कदा सुषुप्तो भवति । ' यदा' यस्मिन् काले 'न कस्यचन ' कंचन विषयं ' वेद' विजानाति । कस्यचन वा शब्दादेः संबंधि वस्त्वंतरं किंचन न वेद । अस्मिन्पक्षे किञ्चनेत्यध्याहार्यम् । केन पुनः क्रमेण सुषुप्तो भवतीत्यत आह-हिता नामेति । 'हिता नाम' हितफलप्राप्तिनिमित्तत्वात् ' हिताः' इत्येवंनाम्न्यो 'नाड्यः ' शिराः देहस्यान्नरसविपरिणामभूताः । ताश्च द्वाभ्यामधिका सप्ततिः 'द्वासप्ततिः सहस्राणि ' 'हृदयात्पुरीततमभिप्रतिष्ठन्ते' । हृदयं नाम उदरवक्षःप्रदेशयोर्मध्यस्थितः पुण्डरीकाकारो मांसपिण्डः । तत्परिवेष्टनं पुरीतत् इत्युच्यते । इह पुनस्तदुपलक्षितं शरीरं पुरीतच्छब्देनाभिप्रेतम् । तथा च ' हृदयात् ' ' पुरीततं' शरीरमभिप्रतिष्ठन्ते इति कृत्स्नं शरीरं व्याप्नुवंत्यः अश्वत्थपर्णराजय इव बहिर्मुखाः प्रवृत्ताः अभितोऽभितः सरंतीत्यर्थः । ततः किमित्यत आह-ताभिरिति । ताभिर्नाडीभिः कृत्वा जाग्रद्विषयाया बुद्धेः कर्मवशात्प्रत्यवसर्पणमनु विज्ञानमय आत्मा 'प्रत्यवसृप्य ' इंद्रियाण्युपसंहृत्य ' पुरीतति ' शरीरे 'शेते' अग्निवत्तप्तं लोहपिंडं अविशेषेण संव्याप्य वर्तत इत्यर्थः । ननु-पूर्वं विज्ञानमयो हृदयाकाशे ब्रह्मणि शेते इत्युक्त्वा इदानीं पुरीतति शयनमाचक्षाणस्य कथं न पूर्वापरविरोधः स्यादिति चेत् सुप्तं स्वाभाविके एव स्वात्मनि वर्तमानोऽपि कर्मानुगतबुद्ध्यनुवृक्तित्वात् पुरीतति शेते इत्युपचारादुच्यते । अतो नोक्तविरोधः ॥ २१ ॥