सर्वान्नब्राह्मणं वा शिशुब्राह्मणम्

यो ह वै शिशुं साधानं सप्रत्याधानं सस्थूणं सदामं वेद सप्त ह द्विषतो भ्रातृव्यानवरुणद्धि - १४.५.२.[१]

अयं वाव शिशुर्योऽयं मध्यमः प्राणः तस्येदमेवाधानमिदं प्रत्याधानम्प्राण स्थूणान्नं दाम तमेताः सप्ताक्षितय उपतिष्ठन्ते - १४.५.२.[२]

तद्या इमा अक्षं लोहिन्यो राजयः। ताभिरेनं रुद्रोऽन्वायत्तोऽथ या अक्षन्नापस्ताभिः पर्जन्यो या कनीनका तयाऽऽदित्यो यच्छुक्लं तेनाग्निर्यत्कृष्णं तेनेन्द्रोऽधरयैनं वर्तन्या पृथिव्यन्वायत्ता द्यौरुत्तरया नास्यान्नं क्षीयते य एवं वेद - १४.५.२.[३]

तदेष श्लोको भवति। अर्वाग्बिलश्चमस ऊर्ध्वबुध्नस्तस्मिन्यशो निहितं विश्वरूपम्। तस्यासत ऋषयः सप्त तीरे वागष्टमी ब्रह्मणा संविदानेति - १४.५.२.[४]

अर्वाग्बिलश्चमस ऊर्ध्वबुध्न इति। इदं तच्छिर एष ह्यर्वाग्बिलश्चमसऽऊर्ध्वबुध्नस्तस्मिन्यशो निहितं विश्वरूपमिति प्राणा वै यशो निहितं विश्वरूपम्प्राणानेतदाह तस्यासत ऋषयः सप्त तीर इति प्राणा वा ऋषयः प्राणानेतदाह वागष्टमी ब्रह्मणा संविदानेति वाग्घ्यष्टमी ब्रह्मणा संवित्ते - १४.५.२.[५]

इमावेव गोतमभरद्वाजौ। अयमेव गोतमोऽयं भरद्वाज इमावेव विश्वामित्रजमदग्नी अयमेव विश्वामित्रोऽयं जमदग्निरिमावेव वसिष्ठकश्यपावयमेव वसिष्ठोऽयं कश्यपो वागेवात्रिर्वाचा ह्यन्नमद्यतेऽत्तिर्ह वै नामैतद्यदत्रिरिति सर्वस्यात्ता भवति सर्वमस्यान्नम्भवति य एवं वेद - १४.५.२.[६]