शतपथब्राह्मणम्/काण्डम् १/अध्यायः ५/ब्राह्मण १

१.५.१होतृप्रवरणम्

स वै प्रवरायाश्रावयति । तद्यत्प्रवरायाश्रावयति यज्ञो वा आश्रावणं यज्ञमभिव्याहृत्याथ होतारं प्रवृणा इति तस्मात्प्रवरायाश्रावयति - १.५.१.१

स इध्मसंनहनान्येवाभिपद्याश्रावयति । स यद्वानारभ्य यज्ञमध्वर्युराश्रावयेद्वेपनो वा ह स्यादन्यां वार्त्तिमार्च्छेत् - १.५.१.२

तद्धैके । वेदे स्तीर्णायै बर्हिरभिपद्याश्रावयन्तीध्मस्य वा शकलमपच्छिद्याभिपद्याश्रावयन्तीदं वै किंचिद्यज्ञस्येदं यज्ञमभिपद्याश्रावयाम इति वदन्तस्तदु तथा न कुर्यादेतद्वै किंचिद्यज्ञस्य यैरिध्मः संनद्धो भवत्यग्निं सम्मृजन्ति तद्वेव खलु यज्ञमभिपद्याश्रावयति तस्मादिध्मसंनहनान्येवाभिपद्याश्रावयेत् - १.५.१.३

स आश्राव्य । य एव देवानां होता तमेवाग्रे प्रवृणीतेऽग्निमेव तदग्नये चैवैतद्देवेभ्यश्च निह्नुते यदहाग्रेऽग्निं प्रवृणीते तदग्नये निह्नुतेऽथ यो देवानां होता तमग्रे प्रवृणीते तदु देवेभ्यो निह्नुते - १.५.१.४

स आह । अग्निर्देवो दैव्यो होतेत्यग्निर्हि देवानां होता तस्मादाहाग्निर्देवो दैव्यो होतेति तदग्नये चैव देवेभ्यश्च निह्नुते यदहाग्रेऽग्निमाह तदग्नये निह्नुतेऽथ यो देवानां होता तमग्र आह तदु देवेभ्यो निह्नुते - १.५.१.५

देवान्यक्षद्विद्वांश्चिकित्वानिति । एष वै देवाननुविद्वान्यदग्निः स एनाननुविद्वाननुष्ठ्या यक्षदित्येवैतदाह - १.५.१.६

मनुष्वद्भरतवदिति । मनुर्ह वा अग्रे यज्ञेनेजे तदनुकृत्येमाः प्रजा यजन्ते तस्मादाह मनुष्वदिति मनोर्यज्ञ इत्यु वा आहुस्तस्माद्वेवाह मनुष्वदिति - १.५.१.७

भरतवदिति । एष हि देवेभ्यो हव्यं भरति तस्माद्भरतोऽग्निरित्याहुरेष उ वा इमाः प्रजाः प्राणो भूत्वा बिभर्ति तस्माद्वेवाह भरतवदिति - १.५.१.८

अथार्षेयं प्रवृणीते । ऋषिभ्यश्चैवैनमेतद्देवेभ्यश्च निवेदयत्ययम्महावीर्यो यो यज्ञं प्रापदिति तस्मादार्षेयं प्रवृणीते - १.५.१.९

परस्तादर्वाक्प्रवृणीते । परस्ताद्ध्यर्वाच्यः प्रजाः प्रजायन्ते ज्यायसस्पतय उ चैवैतन्निह्नुत इदं हि पितैवाग्रेऽथ पुत्रोऽथ पौत्रस्तस्मात्परस्तादर्वाक्प्रवृणीते - १.५.१.१०

स आर्षेयमुक्त्वाह । ब्रह्मण्वदिति ब्रह्म ह्यग्निस्तस्मादाह ब्रह्मण्वदित्या च वक्षदिति तद्या एवैतद्देवता आवोढ्वा आह ता एवैतदाहा च वक्षदिति - १.५.१.११

ब्राह्मणा अस्य यज्ञस्य प्रावितार इति । एते वै ब्राह्मणा यज्ञस्य प्रावितारो येऽनूचाना एते ह्येनं तन्वत एत एनं जनयन्ति तदु तेभ्यो निह्नुते तस्मादाह ब्राह्मणा अस्य यज्ञस्य प्रावितार इति - १.५.१.१२

असौ मानुष इति । तदिमं मानुषं होतारं प्रवृणीते होता हैष पुराथैतर्हि होता - १.५.१.१३

स प्रवृतो होता । जपति देवता उपधावति यथानुष्ठ्या देवेभ्यो वषट्कुर्याद्यथानुष्ठ्या देवेभ्यो हव्यं वहेद्यथा न ह्वलेदेवं देवता उपधावति - १.५.१.१४

तत्र जपति एततत्त्वा देव सवितर्वृणत इति तत्सवितारं प्रसवायोपधावति स हि देवानां प्रसविताग्निं होत्रायेति तदग्नये चैवैतद्देवेभ्यश्च निह्नुते यदहाग्रेऽग्निमाह तदग्नये निह्नुतेऽथ यो देवानां होता तमग्र आह तदु देवेभ्यो निह्नुते - १.५.१.१५

सह पित्रा वैश्वानरेणेति । सम्वत्सरो वै पिता वैश्वानरः प्रजापतिस्तत्संवत्सरायैवैतत्प्रजापतये निह्नुतेऽग्ने पूषन्बृहस्पते प्र च वद प्र च यजेत्यनुवक्ष्यन्वा एतद्यक्ष्यन्भवति तदैताभ्य एवैतद्देवताभ्यो निह्नुते यूयमनुब्रूत यूयं यजतेति - १.५.१.१६

वसूनां रातौ स्याम । रुद्राणामुर्व्यायां स्वादित्या अदितये स्यामानेहस इत्येते वै त्रया देवा यद्वसवो रुद्रा आदित्या एतेषामभिगुप्तौ स्यामेत्येवैतदाह - १.५.१.१७

जुष्टामद्य देवेभ्यो वाचमुद्यासमिति । जुष्टमद्य देवेभ्योऽनूच्यासमित्येवैतदाह तद्धि समृद्धं यो जुष्टं देवेभ्योऽनुब्रवत् - १.५.१.१८

जुष्टां ब्रह्मभ्य इति । जुष्टमद्य ब्राह्मणेभ्योऽनूच्यासमित्येवैतदाह तद्धि समृद्धं यो जुष्टं ब्राह्मणेभ्योऽनुब्रवत् - १.५.१.१९

जुष्टां नराशंसायेति । प्रजा वै नरस्तत्सर्वाभ्यः प्रजाभ्य आह तद्धि समृद्धं यश्च वेद यश्च न साध्वन्ववोचत्साध्वन्ववोचदित्येव विसृज्यन्ते यदद्य होतृवर्ये जिह्मं चक्षुः परापतत् अग्निष्टत्पुनराभ्रियाज्जातवेदा विचर्षणिरिति यथा यानग्रेऽग्नीन्होत्राय प्रावृणत ते प्राधन्वन्नेवं यन्मेऽत्र प्रवरेणामायि तन्मेपुनराप्याययेत्येवैतदाह तथो हास्यैतत्पुनराप्यायते - १.५.१.२०

अथाध्वर्युं चाग्नीधं च सम्मृशति । मनो वा अध्वर्युर्वाग्घोता तन्मनश्चैवैतद्वाचं च संदधाति - १.५.१.२१

तत्र जपति । षण्मोर्वीरंहसस्पान्त्वग्निश्च पृथिवी चापश्च वाजश्चाहश्च रात्रिश्चेत्येता
मा देवता आर्त्तेर्गोपायन्त्वित्येवैतदाह तस्यो हि न ह्वलास्ति यमेता देवता आर्त्तेर्गोपायेयुः - १.५.१.२२

अथ होतृषदनमुपावर्तते । स होतृषदनादेकं तृणं निरस्यति निरस्तः परावसुरिति परावसुर्ह वै नामासुराणां होता स तमेवैतद्धोतृषदनान्निरस्यति - १.५.१.२३

अथ होतृषदन उपविशति । इदमहमर्वावसोः सदने सीदामीत्यर्वावसुर्वै नाम देवानां होता तस्यैवैतत्सदने सीदति - १.५.१.२४

तत्र जपति विश्वकर्मस्तनूपा असि मा मोदोषिष्टं मा मा हिंसिष्टमेष वां लोक इत्युदङ्ङेजत्यन्तरा वा एतदाहवनीयं च गार्हपत्यं चास्ते तदु ताभ्यां निह्नुते मा मो दोषिष्टं मा मा हिंसिष्टमिति तथा हैनमेतौ न हिंस्तः - १.५.१.२५

अथाग्निमीक्षमाणो जपति । विश्वे देवाः शास्तन मा यथेह होता वृतो मनवै यन्निषद्य प्र मे ब्रूत भागधेयं यथा वो येन पथा हव्यमा वो वहानीति यथा येभ्यः पक्वं स्यात्तान्ब्रूयाद्वनु मा शास्त यथा व आहरिष्यामि यथा वः परिवेक्ष्यामीत्येवमेवैतद्देवेषु प्रशासनमिच्छतेऽनु मा शास्त यथा वोऽनुष्ठ्या वषट्कुर्यामनुष्ठ्या हव्यं वहेयमिति तस्मादेवं जपति - १.५.१.२६