ब्राह्मण १

होतृप्रवरणं, तत्र पूर्वमाश्रावणं तस्मिन् वेदिबर्हिरिध्मशकलादानपक्षं निराकृत्य सफलस्येध्मसन्नहनादानपक्षस्य स्थापनं, देवहोतुरग्नेर्वरणं, क्रमाभिधानसहितं यजमानस्यार्षेयप्रवरणं, तन्मंत्रव्याख्यानं, मानुषहोतृवरणं, होतुर्वृत ( उपधावन्) जपस्तद्व्याख्यानं, सप्रयोजनं होनुकर्तृकमध्वर्य्वग्नीकर्मकं सम्मर्शनं, होतुः सेतिकर्तव्यताकमासनोपवेशनम्, उपविष्टजपः, अग्नीक्षणजपश्चेति

ब्राह्मण २

पञ्च प्रयाजाः, तत्र पूर्वं स्रुगादापननिगदं नवधा विभज्य तद्व्याख्यानं, निगदगतनवसंख्यायाः प्रशंसनं, साख्यायिक आश्रावणप्रत्याश्रावणविधिः, आश्रावणप्रभृत्यावषट्कारात् अध्वर्य्वादीनाम् ऋत्विजां साख्यायिकोऽवधिकालसहितः वाग्यमविधिः प्रसङ्गाज्ज्यौतिष्टोमिक ऋत्विजां वाग्यमविधिः, वाङ्नियमस्यानाचरणे यजमानस्य फलप्राप्त्यवरोधः,आश्रावणादिपञ्चकस्य प्रशंसनं, तत्र पञ्चभ्यो व्याहृतिभ्यो वाताभ्रविद्युत्स्तनयित्नुपर्जन्यानामुद्भवः, कारीर्यादीष्टिषु दर्शपूर्णमासे वा वृषिकामनया विधिविशेषः पञ्चानां व्याहृतीनां धेनु- रूपेण प्रशंसनं चेत्यादि.

ब्राह्मण ३

प्रयाजयागविधिः, तेषामृतुरूपतया पंचसंख्याकत्वविधानं, प्राशस्त्याख्यायिकया समेतमाज्यहविष्ट्वविधानं च, प्रयाजहोमे पुरोऽभिक्रमणपक्षनिरासपूर्वकोऽध्वर्योः स्थान नियमः, होमदेशविधानं, प्रैषविधिः, प्रयाजब्राह्मणं तत्र प्रयाजानामृतुत्वेन स्तवनं, प्रयाजदेवतागतबहुत्वैकत्वादिप्रशंसनं, सकलं सप्रकारं समानयनं तत्प्रशंसनं च, अन्तिमप्रयाजानुष्ठानेन साख्यायिको यज्ञसमाप्तिप्रशंसनपरोऽर्थवादः, प्रधानयागस्य संस्कारार्थमथवा यज्ञस्य यातयामत्वनिवृत्त्यर्थं प्रयाजशेषेण हविषामभिघारणम्, आज्यस्यायातयामत्वप्रसिद्ध्या तेनाप्यायने हविषामयातयामत्वनिरूपणम्, अवत्तशेषाणां हविषामयातयामत्वाय पुनराप्यायनं, स्विष्टकृति सहेतुकं क्षताभ्यंजननिषेध- करणं चेत्यादि.

ब्राह्मण ४

प्रयाजावृत्, तत्र प्रयाजानां प्राणरेतःप्रजारूपेण स्तवनं, प्रथमे प्रयाजे उपतापशमनार्थं नैमित्तिकमभिमर्शनं, प्रयाजानुमंत्रणं तत्सम्बन्धिन्याख्यायिका च प्रतिप्रयाज- माख्यायिकासिद्धानुमंत्रणमंत्रविभागकथनं चेति.