शतपथब्राह्मणम्/काण्डम् १/अध्यायः ५/ब्राह्मण ३

१.५.३ प्रयाजबन्धुः

ऋतवो ह वै प्रयाजाः । तस्मात्पञ्च भवन्ति पञ्च ह्यृतवः - १.५.३.[१]

देवाश्च वा असुराश्च । उभये प्राजापत्याः पस्पृधिर एतस्मिन्यज्ञे प्रजापतौ पितरि संवत्सरेऽस्माकमयं भविष्यत्यस्माकमयं भविष्यतीति - १.५.३.[२]

ततो देवाः । अर्चन्तः श्राम्यन्तश्चेरुरस्त एतान्प्रयाजान्ददृशुस्तैरयजन्त तैर्ऋतून्त्संवत्सरं प्राजयन्नृतुभ्यः संवत्सरात्सपत्नानन्तरायंस्तस्मात्प्रजयाः प्रजया ह वै नामैतद्यत्प्रयाजा इति तथो एवैष एतैर्ऋतून्त्संवत्सरम्प्रयजत्यृतुभ्यः संवत्सरात्सपत्नानन्तरेति तस्मात्प्रयाजैर्यजते - १.५.३.[३]

ते वा आज्यहविषो भवन्ति । वज्रो वा आज्यमेतेन वै देवा वज्रेणाज्येनर्तून्त्संवत्सरं प्राजयन्नृतुभ्यः संवत्सरात्सपत्नानन्तरायंस्तथो एवैष एतेन वज्रेणाज्येनर्तून्त्संवत्सरं प्रजयत्यृतुभ्यःसंवत्सरात्सपत्नानन्तरेति तस्मादाज्यहविषो भवन्ति - १.५.३.[४]

एतद्वै संवत्सरस्य स्वं पयः । यदाज्यं तत्स्वेनैवैनमेतत्पयसा देवाः स्व्यकुर्वत तथो एवैनमेष एतत्स्वेनैव पयसा स्वीकुरुते तस्मादाज्यहविषो भवन्ति - १.५.३.[५]

स यत्रैव तिष्ठन्प्रयाजेभ्य आश्रावयेत् । तत एव नापक्रामेत्संग्रामो वा एष संनिधीयते यः प्रयाजैर्यजते यतरो वै संयत्तयोः पराजयतेऽप वै संक्रामत्यभितरामु वै जयन्क्रामति तस्मादभितरामभितरामेव क्रामेदभितरामभितरामाहुतीर्जुहुयात् - १.५.३.[६]

तदु तथा न कुर्यात् । यत्रैव तिष्ठन्प्रयाजेभ्य आश्रावयेत्तत एव नापक्रामेद्यत्रो एव समिद्धतमं मन्येत तदाहुतीर्जुहुयात्समिद्धहोमेन ह्येव समृद्धा आहुतयः - १.५.३.[७]

स आश्राव्याह । समिधो यजेति तद्वसन्तं समिन्द्धे स वसन्तः समिद्धोऽन्यानृतून्त्समिन्द्ध ऋतवः समिद्धाः प्रजाश्च प्रजनयन्त्योषधीश्च पचन्ति तद्वेव खलु सर्वानृतून्निराहाथ यज यजेत्येवोत्तरानाहाजामितायै जामि ह कुर्याद्यत्तनूनपातं यजेडो यजेति ब्रूयात्तस्माद्यज यजेत्येवोत्तरानाह - १.५.३.[८]

प्रयाजब्राह्मणम्

स वै समिधो यजति । वसन्तो वै समिद्वसन्तमेव तद्देवा अवृञ्जत वसन्तात्सपत्नानन्तरायन्वसन्तमेवैष एतद्वृङ्क्ते वसन्तात्सपत्नानन्तरेति तस्मात्समिधो यजति - १.५.३.[९]

अथ तनूनपातं यजति । ग्रीष्मो वै तनूनपाद्ग्रीष्मो ह्यासां प्रजानां तनूस्तपति ग्रीष्ममेव तद्देवा अवृञ्जत ग्रीष्मात्सपत्नानन्तरायङ्ग्रीष्ममेवैष एतद्वृङ्क्ते ग्रीष्मात्सपत्नानन्तरेति तस्मात्तनूनपातं यजति - १.५.३.[१०]

अथेडो यजति । वर्षा वा इड इति हि वर्षा इडो यदिदं क्षुद्रं सरीसृपं ग्रीष्महेमन्ताभ्यां नित्यक्तं भवति तद्वर्षा ईडितमिवान्नमिच्छमानं चरति तस्माद्वर्षा इडो वर्षा एव तद्देवा अवृञ्जत वर्षाभ्यः सपत्नानन्तरायन्वर्षा उ एवैष एतद्वृङ्क्ते वर्षाभ्यः सपत्नानन्तरेति तस्मादिडो यजति - १.५.३.[११]

अथ बर्हिर्यजति । शरद्वै बर्हिरिति हि शरद्बर्हिर्या इमा ओषधयो ग्रीष्महेमन्ताभ्यां नित्यक्ता भवन्ति ता वर्षा वर्धन्ते ताः शरदि बर्हिषो रूपं प्रस्तीर्णाः शेरे तस्माच्छरद्बर्हिः शरदमेव तद्देवा अवृञ्जत शरदः सपत्नान्तरायञ्छरदमेवैष एतद्वृङ्क्ते शरदः सपत्नानन्तरेति तस्माद्बर्हिर्यजति - १.५.३.[१२]

अथ स्वाहास्वाहेति यजति । अन्तो वै यज्ञस्य स्वाहाकारोऽन्त ऋतूनां हेमन्तो वसन्ताद्धि परार्द्ध्योऽन्तेनैव तदन्तं देवा अवृञ्जतान्तेनान्तात्सपत्नानन्तरायन्नन्तेनो एवैष एतदन्तं वृङ्क्तेऽन्तेनान्तात्सपत्नानन्तरेति तस्मात्स्वाहेति यजति - १.५.३.[१३]

तद्वा एतत् । वसन्त एव हेमन्तात्पुनरसुरेतस्माद्ध्येष पुनर्भवति पुनर्ह वा अस्मिंल्लोके भवति य एवमेतद्वेद - १.५.३.[१४]

स वै व्यन्तु वेत्विति यजति । अजामितायै जामि ह कुर्याद्यद्व्यन्तु व्यन्त्विति वैव
यजेद्वेतु वेत्त्विति वा व्यन्त्विति वै योषा वेत्विति वृषा मिथुनमेवैतत्प्रजननं क्रियते तस्माद्व्यन्तु वेत्विति यजति - १.५.३.[१५]

अथ चतुर्थे प्रयाजे समानयति बर्हिषि । प्रजा वै बर्ही रेत आज्यं तत्प्रजास्वेवैतद्रेतः सिच्यते तेन रेतसा सिक्तेनेमाः प्रजाः पुनरभ्यावर्तम्प्रजायन्ते तस्माच्चतुर्थे प्रयाजे समानयति बर्हिषि - १.५.३.[१६]

संग्रामो वा एष संनिधीयते । यः प्रयाजैर्यजते यतरं वै संयत्तयोर्मित्रमागच्छति स जयति तदेतदुपभृतोऽधि जुहूं मित्रमागच्छति तेन प्रजयति तस्माच्चतुर्थे प्रयाजे समानयति बर्हिषि - १.५.३.[१७]

यजमान एव जुहूमनु । यो स्मा अरातीयति स उपभृतमनु यजमानायैवैतद्द्विषन्तं भ्रातृव्यं बलिं हारयत्यत्तैव जुहूमन्वाद्य उपभृतमन्वत्त्र एवैतदाद्यं बलिं हारयति तस्माच्चतुर्थे प्रयाजे समानयति - १.५.३.[१८]

स वा अनवमृशन्त्समानयति । स यद्धावमृषेद्यजमानं द्विषता भ्रातृव्येनावमृशेदत्तारमाद्येनावमृशेत्तस्मादनवमृशन्त्समानयति - १.५.३.[१९]

अथोत्तरां जुहूमध्यूहति । यजमानमेवैतद्द्विषति भ्रातृव्येऽध्यूहत्यत्तारमाद्येऽध्यूहति तस्मादुत्तरां जुहूमध्यूहति - १.५.३.[२०]

देवा ह वा ऊचुः । हन्त विजितमेवानु सर्वं यज्ञं संस्थापयाम यदि नोऽसुररक्षसान्यासजेयुः संस्थित एव नो यज्ञं स्यादिति - १.५.३.[२१]

त उत्तमे प्रयाजे । स्वाहाकारेणैव सर्वं यज्ञं समस्थापयन्त्स्वाहाग्निमिति तदाग्नेयमाज्यभागं समस्थापयन्त्स्वाहा सोममिति तत्सौम्यमाज्यभागं समस्थापयन्त्स्वाहाग्निमिति तद्य एष उभयत्राच्युत आग्नेयः पुरोडाशो भवति तं समस्थापयन् - १.५.३.[२२]

अथ यथादेवतम् । स्वाहा देवा आज्यपा इति तत्प्रयाजानुयाजान्त्समस्थापयन्प्रयाजानुयाजा वै देवा आज्यपा जुषाणो अग्निराज्यस्य वेत्विति तदग्निं स्विष्टकृतं समस्थापयन्नग्निर्हि स्विष्टकृत्स एषोऽप्येतर्हि तथैव यज्ञं संतिष्ठते यथैवैनं देवाः समस्थापयंस्तस्मादुत्तमे प्रयाजे स्वाहास्वाहेति यजति यावन्ति हवींषि भवन्ति विजितमेवैतदनु सर्वं यज्ञं संस्थापयति तस्माद्यदत ऊर्ध्वं विलोम यज्ञे क्रियेत न तदाद्रियेत संस्थितो मे यज्ञ इति ह विद्यात्स हैष यज्ञो यातयामेवास यथा वषट्कृतं हुतं स्वाहाकृतं - १.५.३.[२३]

ते देवा अकामयन्त । कथं न्विमं यज्ञं पुनराप्याययेमायातयामानं कुर्याम तेनायातयाम्ना प्रचरेमेति - १.५.३.[२४]

स यज्जुह्वामाज्यं परिशिष्टमासीत् । येन यज्ञं समस्थापयंस्तेनैव यथापूर्वं हवींष्यभ्यघारयन्पुनरेवैनानि तदाप्याययन्नयातयामान्यकुर्वन्नयातयाम ह्याज्यं तस्मादुत्तमं प्रयाजमिष्ट्वा यथापूर्वं हवींष्यभिघारयति पुनरेवैनानि तदाप्याययत्ययातयामानि करोत्ययातयाम ह्याज्यं तस्माद्यस्य कस्य च हविषोऽवद्यति पुनरेव तदभिघारयति स्विष्टकृत एव तत्पुनराप्यायत्ययातयाम करोत्यथ यदा स्विष्टकृतेऽवद्यति न ततः पुनरभिघारयति नो हि ततः कां चन हविषोऽग्नावाहुतिं होष्यन्भवति - १.५.३.[२५]