शतपथब्राह्मणम्/काण्डम् १/अध्यायः ७/अवदानक्लृप्तिः

१.७.२ अवदानक्लृप्तिः

ऋणं ह वै जायते योऽस्ति । स जायमान एव देवेभ्य ऋषिभ्यः पितृभ्यो मनुष्येभ्यः - १.७.२.१

स यदेव यजेत । तेन देवेभ्य ऋणं जायते तद्ध्येभ्य एतत्करोति यदेनान्यजतेयदेभ्यो जुहोति - १.७.२.२

अथ यदेवानुब्रुवीत । तेनऽर्षिभ्य ऋणं जायते तद्ध्येभ्य एतत्करोत्यृषीणां निधिगोप इति ह्यनूचानमाहुः - १.७.२.३

अथ यदेव प्रजामिच्छेत । तेन पितृभ्य ऋणं जायते तद्ध्येभ्य एतत्करोति यदेषां संतताव्यवच्छिन्ना प्रजा भवति - १.७.२.४

अथ यदेव वासयते । तेन मनुष्येभ्य ऋणं जायते तद्ध्येभ्य एतत्करोति यदेनान्वासयते यदेभ्योऽशनं ददाति स य एतानि सर्वाणि करोति स कृतकर्मा तस्य सर्वमाप्तं सर्वं जितं - १.७.२.५

स येन देवेभ्य ऋणं जायते । तदेनांस्तदवदयते यद्यजतेऽथ यदग्नौ जुहोति तदेनांस्तदवदयते तस्माद्यत्किं चाग्नौ जुह्वति तदवदानं नाम - १.७.२.६

तद्वै चतुरवत्तं भवति । इदं वा अनुवाक्याथ याज्याथ वषट्कारोऽथ सा देवता चतुर्थी यस्यै देवतायै हविर्भवत्येवं हि देवता अवदानान्यन्वायत्ता अवदानानि वा देवता अन्वायत्तान्यतिरिक्तं ह तदवदानं यत्पञ्चमं कस्मा उ हि तदवद्येत्तस्माच्चतुरवत्तं भवति - १.७.२.७

उतो पञ्चावत्तमेव भवति । पाङ्क्तो यज्ञं पाङ्क्तः पशुः पञ्चऽर्तवः संवत्सरस्यैषो पञ्चावत्तस्य सम्पद्बहुर्हैव प्रजया पशुभिर्भवति यस्यैवंविदुषः पञ्चावत्तं क्रियत एतद्ध न्वेव प्रज्ञातं कौरुपाञ्चालं यच्चतुरवत्तं तस्माच्चतुरवत्तं भवति - १.७.२.८

स वै यावन्मात्रमिवैवावद्येत् मानुषं ह कुर्याद्यन्महदवद्येद्व्यृद्धं वै तद्यज्ञस्य यन्मानुषं नेद्व्यृद्धं यज्ञे करवाणीति तस्माद्यावन्मात्रमिवैवावद्येत् - १.७.२.९

स आज्यस्योपस्तीर्य । द्विर्हविषोऽवदायाथोपरिष्टादाज्यस्याभिघारयति द्वे वा आहुती सोमाहुतिरेवान्याज्याहुतिरन्या तत एषा केवली यत्सोमाहुतिरथैषाज्याहुतिर्यद्धविर्यज्ञो यत्पशुस्तदाज्यमेवैतत्करोति तस्मादुभयत आज्यं भवत्येतद्वै जुष्टं देवानां यदाज्यं तज्जुष्टमेवैतद्देवेभ्यः करोति तस्मादुभयत आज्यं भवति - १.७.२.१०

असौ वा अनुवाक्येयं याज्या । ते उभे योषे तयोर्मिथुनमस्ति वषट्कार एव तद्वा एष एव वषट्कारो य एष तपति स उद्यन्नेवामूमधिद्रवत्यस्तंयन्निमामधिद्रवति तदेतेन वृष्णेमां प्रजातिं प्रजायेते यैनयोरियं प्रजातिः - १.७.२.११

सोऽनुवाक्यामनूच्य । याज्यामनुद्रुत्य पश्चाद्वषट्करोति पश्चाद्वै परीत्य वृषा योषामधिद्रवति तदेने उभे पुरस्तात्कृत्वा वृष्णा वषट्कारेणाधिद्रावयति तस्मादु सह वैव वषट्कारेण जुहुयाद्वषट्कृते वा - १.७.२.१२

देवपात्रं वा एष यद्वषट्कारः । तद्यथा पात्र उद्धृत्य प्रयच्छेदेवं तदथ यत्पुरा वषट्काराज्जुहुयाद्यथाधो भूमौ निदिग्धं तदमुया स्यादेवं तत्तस्मादु सह वैव वषट्कारेण जुहुयाद्वषट्कृते वा - १.७.२.१३

तद्यथा योनौ रेतः सिञ्चेत् । एवं तदथ यत्पुरा वषट्काराज्जुहुयाद्यथा योनौ रेतः सिक्तं तदमुया स्यादेवं तत्तस्मादु सह वैव वषट्कारेण जुहुयाद्वषट्कृते वा - १.७.२.१४

असौ वा अनुवाक्येयं याज्या । सा वै गायत्रीयं त्रिष्टुबसौ स वै गायत्रीमन्वाह तदमूमनुब्रुवन्नसौ ह्यनुवाक्येमामन्वाहेयं हि गायत्री - १.७.२.१५

अथ त्रिष्टुभा यजति । तदनया यजन्नियं हि याज्यामुष्या अधि वषट्करोत्यसा उ हि त्रिष्टुप्तदेने सयुजौ करोति तस्मादिमे सम्भुञ्जाते अनयोरनु सम्भोगमिमाः सर्वाः प्रजा अनु सम्भुञ्जते - १.७.२.१६

स वा अङ्खयन्निवैवानुवाक्यामनुब्रूयात् । असौ ह्यनुवाक्या बृहद्ध्यसौ बार्हतं हि तद्रूपं क्षिप्र एव याज्यया त्वरेतेयं हि याज्या रथन्तरं हीयं राथन्तरं हि तद्रूपं ह्वयति वा अनुवाक्यया प्रयच्छति याज्यया तस्मादनुवाक्यायै रूपं हुवे हवामह आगच्छेदं बर्हिः सीदेति यद्ध्वयति हि तया प्रयच्छति याज्यया तस्माद्याज्यायै रूपं वीहि हविर्जुषस्व हविरावृषायस्वाद्धि पिब प्रेति यत्प्र हि तया यच्छति - १.७.२.१७

सा या पुरस्ताल्लक्षणा । सानुवाक्या स्यादसौ ह्यनुवाक्या तस्या अमुष्या अवस्ताल्लक्ष्म चन्द्रमा नक्षत्राणि सूर्यः - १.७.२.१८

अथ योपरिष्टाल्लक्षणा । सा याज्या स्यादियं हि याज्या तस्या अस्या उपरिष्टाल्लक्ष्मौषधयो वनस्पतय आपोऽग्निरिमाः प्रजाः - १.७.२.१९

सा ह न्वेव समृद्धानुवाक्या । यस्यै प्रथमात्पदाद्देवतामभिव्याहरति सो एव समृद्धा याज्या यस्या उत्तमात्पदाद्देवताया अधि वषट्करोति वीर्यं वै देवतऽर्चस्तदुभयत एवैतद्वीर्येण परिगृह्य यस्यै देवतायै हविर्भवति तस्यै प्रयच्छति - १.७.२.२०

स वै वौगिति करोति । वाग्वै वषट्कारो वाग्रेतो रेत एवैतत्सिञ्चति षडित्यृतवो वै षट्तदृतुष्वेवैतद्रेतः सिच्यते तदृतवो रेतः सिक्तमिमाः प्रजाः प्रजनयन्ति तस्मादेवं वषट्करोति - १.७.२.२१

दर्शपूर्णमासनिर्वचनम्
देवाश्च वा असुराश्च । उभये प्राजापत्याः प्रजापतेः पितुर्दायमुपेयुरेतावेवार्धमासौ य एवापूर्यते तं देवा उपायन्योऽपक्षीयते तमसुराः - १.७.२.२२

ते देवा अकामयन्त । कथं न्विममपि संवृञ्जीमहि योऽयमसुराणामिति तेऽर्चन्तः श्राम्यन्तश्चेरुस्त एतं हविर्यज्ञं ददृशुर्यद्दर्शपूर्णमासौ ताभ्यामयजन्त ताभ्यामिष्ट्वैतमपि समवृञ्जत - १.७.२.२३

य एषोऽसुराणामासीत् । यदा वा एता उभौ परिप्लवेते अथ मासो[१] भवति मासशः संवत्सरः सर्वं वै संवत्सरः सर्वमेव तद्देवा असुराणां समवृञ्जत सर्वस्मात्सपत्नानसुरान्निरभजन्त्सर्वम्वेवैष एतत्सपत्नानां संवृङ्क्ते सर्वस्मात्सपत्नान्निर्भजति य एवमेतद्वेद - १.७.२.२४

स यो देवानामासीत् । स यवायुवत हि तेन देवा योऽसुराणां सोऽयवा न हि तेनासुरा अयुवत - १.७.२.२५

अथो इतरथाहुः य एव देवानामासीत्सोऽयवा न हि तमसुरा अयुवत योऽसुराणां स यवायुवत हि तं देवाः सब्दमहः सगरा रात्रिर्यव्या मासाः सुमेकः संवत्सरःस्वेको ह वै नामैतद्यत्सुमेक इति यवा च हि वा अयवा यवेतीवाथ येनैतेषां होता भवति तद्याविहोत्रमित्याचक्षते - १.७.२.२६

  1. मासोपरि आरम्भिकटिप्पणी