१.सान्नाय्यसम्पादनम्

१ सान्नाय्यधर्मनिरूपणं, तत्र प्रसंगात्पलाशोत्पत्तिः, अमायां रात्रौ सान्नाय्यपक्षे यवाग्वाऽग्निहोत्रहोमविधानं, तत उखादानादिपरिक्षालनान्तो दोहः, सान्नाय्योत्पत्तिविधानं च.

२.अवदानक्लृप्तिः

२ सेतिहासा अवदानक्लृप्तिः, प्रसंगादृणचतुष्टयोत्पत्तिस्तदपाकरणं च, अवदाननामनिरुक्तिः, अवदाने चतुरवत्तपञ्चावत्तेति पक्षद्वयं प्रतिपाद्य चतुरवत्तेनोपसंहारः, अवदानेयत्तामानकथनं, सार्थवादश्चतुरवदानप्रकारः, प्रधानयागधर्मनिरूपणं, याज्यापुरोऽनुवाक्ययोः कार्यभेदकथनं, तयोर्द्यावापृथिवीरूपमिथुनसम्पत्त्या जगति सर्वभावोत्पत्तिकथनं, हवनक्लृप्तिः, तत्र पुरोऽनुवाक्यायाज्ययोर्गायत्री- त्रिष्टुप्त्वसम्पादनं, तयोरेवोच्चारणधर्मकथनं, पुरोऽनुवाक्यायाज्ययोर्लक्षणानि, समृद्धिश्च, वषट्कारप्रशंसनं, साख्यायिकं दर्शपूर्णमासनिर्वचनं, तत्र देवासुराणां दायविभागकथनं, शुक्लकृष्णपक्षयोर्नामधेयव्यत्यासपूर्वकं तदवयवप्रशंसार्थम् अहोरात्रमास- संवत्सरनाम्नां प्रदर्शनं चेत्यादि

३.स्विष्टकृदाहुतिः

३ यज्ञेषु सर्वत्र प्रधानयागानंतरं स्विष्टकृद्यागस्तस्येतिहासश्च, तत्र वास्तु- शब्दवाच्यो हविःशेषो रुद्रस्य भाग इति निरूपणं, स्विष्टकृदाह्वानप्रसंगेन रुद्रस्य विविधानि नामानि, स्विष्टकृन्निगदव्याख्यानं, स्विष्टकृद्याज्यापुरोऽनुवाक्ययोस्तृतीयवैश्वदेवसवनरूपेण प्रशंसापूर्वकं विलक्षणच्छन्दस्त्वपक्षं निराकृत्य समानच्छन्दस्त्वपक्षस्य दृढीकरणं, वास्तुशब्दस्यानेकार्थत्वं, रुद्रस्येशानदिक्पतित्वकथनं, स्विष्टकृदवदानहोमप्रदेशयोर्विशेषः, स्विष्टकृद्धोमस्य प्रधान- हविषा सहास्पर्शानुकथनं, यज्ञपरिशिष्टकथनं, तत्र गार्हपत्यादाहवनीयस्योद्धरणं, तस्याष्टादिप्रक्रमेषु स्थापनं हविःश्रपणाधिकरणे पक्षद्वयविधानं, नग्नतापरिहारप्रयोजनकमग्नेः परिस्तरणं, यज्ञतृप्तिप्रयोजनकं ब्राह्मणभोजनं चेत्यादि.



प्राशित्रम्.

४.ब्रह्मणः प्राशित्रहरणम्

४ ब्रह्मणः प्राशित्रहरणं तदर्थं प्रजापतेः स्वदुहित्रभिध्यानरूपाऽऽख्यायिका, तस्यां च प्रसंगादाग्निमारुतशस्त्रस्योत्पत्तिप्रकारकथनं, प्राशित्रभागोत्पत्तिकथनं, ततो देवैः प्राशित्रस्य भगाय पूष्णे च प्रदानं, तयोः प्राशित्रस्य निरीक्षणभक्षणाभ्यामन्ध त्वाद्दन्तकत्वोपवर्णनं, पुनः प्राशित्रस्य बृहस्पतये प्रदानं, बृहस्पति- कर्तृकं प्राशित्रस्य जठरे जीर्णत्वसंपादनं, प्राशित्रपदव्युत्पत्तिः, प्राशि त्रस्य रुद्रियत्वाद्ब्रह्मणे प्रदानम्, अपां शान्तिकरत्वाद्रुद्रियकर्मशमनकरत्वं, तत इडावदानं, प्राशित्रावदाने प्रकारद्वयं, नाभ्यालम्भान्तं ब्रह्मणः प्राशित्रप्राशनं, ब्रह्मयजमानयोर्भागपरिहरणादिकम्, अध्वर्योर्भागपरिहरणप्रभृत्यनुयाजप्रसवान्तं हेतु पुरःसरं वाग्यमविधानं, वाग्यमापचारे प्रायश्चित्तं च ब्रह्मणोऽनुयाजप्रसवविधानं चेत्यादि.