शतपथब्राह्मणम्/काण्डम् १/अध्यायः ७/स्विष्टकृदाहुतिः

१.७.३ स्विष्टकृदाहुतिः

यज्ञेन वै देवाः । दिवमुपोदक्रामन्नथ योऽयं देवः पशूनामीष्टे स इहाहीयत तस्माद्वास्तव्य इत्याहुर्वास्तौ हि तदहीयत - १.७.३.[१]

स येनैव देवा दिवमुपोदक्रामन् । तेनो एवार्चन्तः श्राम्यन्तश्चेरुरथ योऽयं देवः पशूनामीष्टे य इहाहीयत - १.७.३.[२]

स ऐक्षत । अहास्य हान्तर्यन्त्यु मा यज्ञादिति सोऽनूच्चक्राम स आयतयोत्तरत उपोत्पेदे स एष स्विष्टकृतः कालः - १.७.३.

ते देवा अब्रुवन् । मा विस्रक्षीरिति ते वै मा यज्ञान्मान्तर्गताहुतिं मे कल्पयतेति तथेति स समबृहत्स नास्यत्स न कं चनाहिनत् - १.७.३.[४]

ते देवा अब्रुवन् । यावन्ति नो हवींषि गृहीतान्यभूवन्त्सर्वेषां तेषां हुतमुपजानीत यथास्मा आहुतिं कल्पयामेति - १.७.३.[५]

तेऽध्वर्युमब्रुवन् । यथापूर्वं हवींष्यभिघारयैकस्मा अवदानाय पुनराप्याययायातयामानि कुरु तत एकैकमवदानमवद्येति - १.७.३.[६]

सोऽध्वर्युः । यथापूर्वं हवींष्यभ्यघारयदेकस्मा अवदानाय पुनराप्याययदयातयामान्यकरोत्तत एकैकमवदानमवाद्यत्तस्माद्वास्तव्य इत्याहुर्वास्तु हि तद्यज्ञस्य यद्धुतेषु हविःषु तस्माद्यस्यै कस्यै च देवतायै हविर्गृह्यते सर्वत्रैव स्विष्टकृदन्वाभक्तः सर्वत्र ह्येवैनं देवा अन्वाभजन् - १.७.३.[७]

तद्वा अग्नय इति क्रियते । अग्निर्वै स देवस्तस्यैतानि नामानि शर्व इति यथा प्राच्या आचक्षते भव इति यथा बाहीकाः पशूनां पती रुद्रोऽग्निरिति तान्यस्याशान्तान्येवेतराणि नामान्यग्निरित्येव शान्ततमं तस्मादग्नय इति क्रियते
स्विष्टकृत इति - १.७.३.[८]

ते होचुः । यत्त्वय्यमुत्र सत्ययक्ष्महि तन्नः स्विष्टं कुर्विति तदेभ्यः स्विष्टमकरोत्तस्मात्स्विष्टकृत इति - १.७.३.[९]

सोऽनुवाक्यामनूच्य सम्पश्यति । ये तथाग्निं स्विष्टकृतमयाडग्निरग्नेः प्रिया धामानीति तदाग्नेयमाज्यभागमाहायाट्सोमस्य प्रिया धामानीति तत्सौम्यमाज्यभागमाहायाडग्नेः प्रिया धामानीति तद्य एष उभयत्राच्युत आग्नेयः पुरोडाशो भवति तमाह - १.७.३.[१०]

अथ यथादेवतम् । अयाड्देवानामाज्यपानां प्रिया धामानीति तत्प्रयाजानुयाजानाह प्रयाजानुयाजा वै देवा आज्यपा यक्षदग्नेर्होतुः प्रिया धामानीति तदग्निं होतारमाह तदस्मा एतां देवा आहुतिं कल्पयित्वाथैनेनैतद्भूयः समशाम्यन्प्रिय एनं धामन्नुपाह्वयन्त तस्मादेवं संपश्यति - १.७.३.[११]

तद्धैके । देवतां पूर्वां कुर्वन्त्ययाट्कारादग्नेरयाट्सोमस्यायाडिति तदु तथा न कुर्याद्विलोम ह ते यज्ञे कुर्वन्ति ये देवतां पूर्वां कुर्वन्त्ययाट्कारादिदं हि प्रथममभिव्याहरन्नयाट्कारमेवाभिव्याहरति तस्मादयाट्कारमेव पूर्वं कुर्यात् - १.७.३.[१२]

यक्षत्स्वं महिमानमिति । यत्र वा अदो देवता आवाहयति तदपि स्वम्महिमानमावाहयति तदतः प्राङ्नैव किं चन स्वाय महिम्न इति क्रियते तदत्र तं प्रीणाति तथो हास्यैषोऽमोघायावाहितो भवति तस्मादाह यक्षत्स्वम्महिमानमिति - १.७.३.[१३]

आ यजतामेज्या इष इति । प्रजा वा इषस्ता एवैतद्यायजूकाः करोति ता इमाः प्रजा यजमाना अर्चन्त्यः श्राम्यन्त्यश्चरन्ति - १.७.३.[१४]

सो अध्वरा जातवेदा जुषतां हविरिति । तद्यज्ञस्यैवैतत्समृद्धिमाशास्ते यद्धि देवा हविर्जुषन्ते तेन हि महज्जयति तस्मादाह जुषतां हविरिति - १.७.३.[१५]

तद्यदेते अत्र । याज्यानुवाक्ये अवकॢप्ततमे भवतस्तृतीयसवनं वै स्विष्टकृद्वैश्वदेवं वै तृतीयसवनं पिप्रीहि देवां उशतो यविष्ठेति तदनुवाक्यायै वैश्वदेवमग्ने यदद्य विशो अध्वरस्य होतरिति तद्याज्यायै वैश्वदेवं तद्यदेते एवंरूपे भवतस्तेनो एते तृतीयसवनस्य रूपं तस्माद्वा एते अत्र याज्यानुवाक्ये अवकॢप्ततमे भवतः - १.७.३.[१६]

ते वै त्रिष्टुभौ भवतः । वास्तु वा एतद्यज्ञस्य यत्स्विष्टकृदवीर्यं वै वास्त्विन्द्रियं वीर्यं त्रिष्टुबिन्द्रियमेवैतद्वीर्यं वास्तौ स्विष्टकृति दधाति तस्मात्त्रिष्टुभौ भवतः - १.७.३.[१७]

उतो अनुष्टुभावेव भवतः । वास्त्वनुष्टुब्वास्तु स्विष्टकृद्वास्तावेवैतद्वास्तु दधाति पेसुकं वै वास्तु पिस्यति ह प्रजया पशुभिर्यस्यैवं विदुषोऽनुष्टुभौ भवतः - १.७.३.[१८]

तदु ह भाल्लवेयः । अनुष्टुभमनुवाक्यां चक्रे त्रिष्टुभं याज्यामेतदुभयम्परिगृह्णामीति स रथात्पपात स पतित्वा बाहुमपि शश्रे स परिममृशे यत्किमकरं तस्मादिदमापदिति स हैतदेव मेने यद्विलोम यज्ञेऽकरमिति तस्मान्न विलोम कुर्यात्सच्छन्दसावेव स्यातामुभे वैवानुष्टुभा उभे वा त्रिष्टुभौ - १.७.३.[१९]

स वा उत्तरार्धादवद्यति । उत्तरार्धे जुहोत्येषा ह्येतस्य देवस्य दिक्तस्मादुत्तरार्धादवद्यत्युत्तरार्धे जुहोत्येतस्यै वै दिश उदपद्यत तं तत एवाशमयंस्तस्मादुत्तरार्धादवद्यत्युत्तरार्धे जुहोति - १.७.३.[२०]

स वा अभ्यर्ध इवेतराभ्य आहुतिभ्यो जुहोति । इतरा आहुतीः पशवोऽनुप्रजायन्ते रुद्रियः स्विष्टकृद्रुद्रियेण पशून्प्रसजेद्यदितराभिराहुतिभिः संसृजेत्तेऽस्य गृहाः पशव उपमूर्यमाणा ईयुस्तस्मादभ्यर्ध इवेतराभ्य आहुतिभ्यो जुहोति - १.७.३.[२१]


यज्ञपरिशिष्टम्

एष वै स यज्ञः । येन तद्देवा दिवमुपोदक्रामन्नेष आहवनीयोऽथ य इहाहीयत स गार्हपत्यस्तस्मादेतं गार्हपत्यात्प्राञ्चमुद्धरन्ति - १.७.३.[२२]

तं वा अष्टासु विक्रमेष्वादधीत । अष्टाक्षरा वै गायत्री गायत्र्यैवैतद्दिवमुपोत्क्रामति - १.७.३.[२३]

एकादशस्वादधीत । एकादशाक्षरा वै त्रिष्टुप्त्रिष्टुभैवैतद्दिवमुपोत्क्रामति - १.७.३.[२४]

द्वादशस्वादधीत । द्वादशाक्षरा वै जगती जगत्यैवैतद्दिवमुपोत्क्रामति नात्र मात्रास्ति यत्रैव स्वयं मनसा मन्येत तदादधीत स यद्वा अप्यल्पकमिव प्राञ्चमुद्धरति तेनैव दिवमुपोत्क्रामति - १.७.३.[२५]

तदाहुः । आहवनीये हवींषि श्रपयेयुरतो वै देवा दिवमुपोदक्रामंस्तेनो एवार्चन्तः श्राम्यन्तश्चेरुस्तस्मिन्हवींषि श्रपयाम तस्मिन्यज्ञं तनवामहा इत्यपस्खल इव ह स हविषां यद्गार्हपत्ये श्रपयेयुर्यज्ञ आहवनीयो यज्ञे यज्ञं तनवामहा इति - १.७.३.[२६]

उतो गार्हपत्य एव श्रपयन्ति । आहवनीयो वा एष न वा एष तस्मै यदस्मिन्नशृतं श्रपयेयुस्तस्मै वा एष यदस्मिंञ्छृतं जुहुयुरित्यतो यतरथा कामयेत तथा कुर्यात् - १.७.३.[२७]

स हैष यज्ञ उवाच । नग्नताय वै बिभेमीति का तेऽनग्नतेत्यभित एव मा परिस्तृणीयुरिति तस्मादेतदग्निमभितः परिस्तृणन्ति तृष्णाया वै बिभेमीति का ते
तृप्तिरिति ब्राह्मणस्यैव तृप्तिमनुतृप्येयमिति तस्मात्संस्थिते यज्ञे ब्राह्मणं तर्पयितवै ब्रूयाद्यज्ञमेवैतत्तर्पयति - १.७.३.[२८]