१.९.१

स यत्राह । इषिता दैव्या होतारो भद्रवाच्याय प्रेषितो मानुषः सूक्तवाकायेति यदतो
होतान्वाह सूक्त इव तदाह यजमानायैवैतदाशिषमाशास्ते तद्वा एतदुपरिष्टाद्यज्ञस्याशिषमाशास्ते द्वयं तद्यस्मादुपरिष्टाद्यज्ञस्याशिषमाशास्ते - १.९.१.[१]

यज्ञं वा एष जनयति । यो यजत एतेन ह्युक्ता ऋत्विजस्तन्वते तं जनयन्त्यथाशिषमाशास्ते तामस्मै यज्ञ आशिषं संनमयति यामाशिषमाशास्ते योमाजीजनतेति तस्माद्वा उपरिष्टाद्यज्ञस्याशिषमाशास्ते - १.९.१.[२]

देवान्वा एष प्रीणाति । यो यजत एतेन यज्ञेनर्ग्भिरिव त्वद्यजुर्भिरिव त्वदाहुतिभिरिव त्वत्स देवान्प्रीत्वा तेष्वपित्वी भवति तेष्वपित्वी भूत्वाथाशिषमाशास्ते तामस्मै देवा आशिषं संनमयन्ति यामाशिषमाशास्ते यो नोऽप्रैषीदिति तस्माद्वा उपरिष्टाद्यज्ञस्याशिषमाशास्ते - १.९.१.[३]

अथ प्रतिपद्यते । इदं द्यावापृथिवी भद्रमभूदिति भद्रं ह्यभूद्यो यज्ञस्य संस्थामगन्नार्ध्म सूक्तवाकमुत नमोवाकमित्युभयं वा एतद्यज्ञ एव यत्सूक्तवाकश्च नमोवाकश्चारात्स्म यज्ञमविदाम यज्ञमित्येवैतदाहाग्ने त्वं सूक्तवागस्युपश्रुती दिवस्पृथिव्योरित्यग्निमेवैतदाह त्वं सूक्तवागस्युपशृण्वत्योरनयोर्द्यावापृथिव्योरित्योमन्वती तेऽस्मिन्यज्ञे यजमान द्यावापृथिवी स्तामित्यन्नवत्यौ तेऽस्मिन्यज्ञे यजमान द्यावापृथिवी स्तामित्येवैतदाह - १.९.१.[४]

शंगवी जीवदानू इति । शंगवी ते जीवदानू स्तामित्येवैतदाहात्रस्नू अप्रवेदे इति मा ह कस्माच्चन प्रत्रासीर्मो त इदं पुष्टं कश्चन प्रविदतेत्येवैतदाह - १.९.१.[५]

उरुगव्यूती अभयं कृताविति । उरुगव्यूती तेऽभये स्तामित्येवैतदाह वृष्टि द्यावा रीत्यापेति वृष्टिमत्यौ ते स्तामित्येवैतदाह - १.९.१.[६]

शम्भुवौ मयोभुवाविति । शम्भुवौ ते मयोभुवौ स्तामित्येवैतदाहोर्जस्वती च पयस्वती चेति रसवत्यौ त उपजीवनीये स्तामित्येवैतदाह - १.९.१.[७]

सूपचरणा च स्वधिचरणा चेति । सूपचरणा ह तेऽसावस्तु यामधस्तादुपचरसि स्वधिचरणो त इयमस्तु यामुपरिष्टादधिचरसीत्येवैतदाह तयोराविदीति तयोरनो मन्यमानयोरित्येवैतदाह - १.९.१.[८]

अग्निरिदं हविः अजुषतावीवृधत महो ज्यायोऽकृतेति तदाग्नेयमाज्यभागमाह सोम इदं हविरजुषतावीवृधत महो ज्यायोऽकृतेति तत्सौम्यमाज्यभागमाहाग्निरिदं हविरजुषतावीवृधत महो ज्यायोऽकृतेति तद्य एष उभयत्राच्युत आग्नेयः पुरोडाशो भवति तमाह - १.९.१.[९]

अथ यथादेवतम् । देवा आज्यपा आज्यमजुषन्तावीवृधन्त महो ज्यायोऽक्रतेति तत्प्रयाजानुयाजानाह प्रयाजानुयाजा वै देवा आज्यपा अग्निर्होत्रेणेदं हविरजुषतावीवृधत महो ज्यायोऽकृतेति तदग्निं होत्रेणाहाजुषतेत्येवं या इष्टा देवता भवन्ति ताः सम्पश्यत्यसौ हविरजुषतासौ हविरजुषतेति तद्यज्ञस्यैवैतत्समृद्धिमाशास्ते यद्धि देवा हविर्जुषन्ते तेन हि महज्जयति तस्मादाहाजुषतेत्यवीवृधतेति यद्वै देवा हविर्जोषयन्ते तदपि गिरिमात्रं कुर्वते तस्मादाहावीवृधतेति - १.९.१.[१०]

महो ज्यायोऽक्रतेति । यज्ञो वै देवानां महस्तं ह्येतज्ज्यायांसमिव कुर्वते तस्मादाह महो ज्यायोऽक्रतेति - १.९.१.[११]

अस्यामृधेद्धोत्रायां देवंगमायामिति । अस्यां राध्नोतु होत्रायां देवंगमायामित्येवैतदाहाशास्तेऽयं यजमानोऽसाविति नाम गृह्णाति तदेनम्प्रत्यक्षमाशिषा सम्पादयति - १.९.१.[१२]

दीर्घायुत्वमाशास्त इति । सा यामुत्रोत्तरा देवयज्या तदिह प्रत्यक्षं दीर्घायुत्वम् - १.९.१.[१३]

सुप्रजास्त्वमाशास्त इति । तद्यदमुत्र भूयो हविष्करणं तदिह प्रत्यक्षं सुप्रजास्त्वं प्रशासनं स कुर्याद्य एवं कुर्यादुत्तरां देवयज्यामाशास्त इति त्वेव ब्रूयात्तदेव जीवातुं तत्प्रजां तत्पशून् - १.९.१.[१४]

भूयो हविष्करणमाशास्त इति तद्वेव तत्सजातवनस्यामाशास्त इति प्राणा वै सजाताः
प्राणैर्हि सह जायते तत्प्राणानाशास्ते - १.९.१.[१५]

दिव्यं धामाशास्त इति । देवलोके मेऽप्यसदिति वै यजते यो यजते तद्देवलोक एवैनमेतदपित्विनं करोति यदनेन हविषाशास्ते तदश्यात्तदृध्यादिति यदनेन हविषाशास्ते तदस्मै सर्वं समृध्यतामित्येवैतदाह - १.९.१.[१६]

ता वा एताः । पञ्चाशिषः करोति तिस्र इडायां ता अष्टावष्टाक्षरा वै गायत्री वीर्यं
गायत्री वीर्यमेवैतदाशिषोऽभिसंपादयति - १.९.१.[१७]

नातो भूयसीः कुर्यात् । अतिरिक्तं ह कुर्याद्यदतो भूयसीः कुर्याद्यद्वै यज्ञस्यातिरिक्तं द्विषन्तं हास्य तद्भ्रातृव्यमभ्यतिरिच्यते तस्मान्नातो भूयसीः
कुर्यात् - १.९.१.[१८]

अपीद्वै कनीयसीः सप्त । तदस्मै देवा रासन्तामिति तदस्मै देवा अनुमन्यन्तामित्येवैतदाह तदग्निर्देवो देवेभ्यो वनुतां वयमग्नेः परिमानुषा इति तदग्निर्देवो देवेभ्यो वनुतां वयमग्नेरध्यस्मा एतद्वनवामहा इत्येवैतदाह - १.९.१.[१९]

इष्टं च वित्तं चेति । ऐषिषुरिव वा एतद्यज्ञं तमविदंस्तस्मादाहेष्टं च वित्तं चेत्युभे चैनं द्यावापृथिवी अंहसस्पातामित्युभे चैनं द्यावापृथिवी आर्त्तेर्गोपायतामित्येवैतदाह - १.९.१.[२०]

तदु हैक आहुः । उभे च मेति तथा होताशिष आत्मानं नान्तरेतीति तदु तथा न ब्रूयाद्यजमानस्य वै यज्ञ आशीः किं नु तत्रर्त्विजां यां वै कां च यज्ञ ऋत्विज आशिषमाशासते यजमानस्यैव सा न ह स एतां क्व चनाशिषं प्रतिष्ठापयति य आहोभे च मेति तस्मादु ब्रूयादुभे चैनमित्येव - १.९.१.[२१]

इह गतिर्वामस्येति । तद्यदेव यज्ञस्य साधु तदेवास्मिन्नेतद्दधाति तस्मादाहेह गतिर्वामस्येति - १.९.१.[२२]

इदं च नमो देवेभ्य इति तद्यज्ञस्यैवैतत्संस्थां गत्वा नमो देवेभ्यः करोति तस्मादाहेदं च नमो देवेभ्य इति - १.९.१.[२३]

अथ शम्योराह । शम्युर्ह वै बार्हस्पत्योऽञ्जसा यज्ञस्य संस्थां विदांचकार स देवलोकमपीयाय तत्तदन्तर्हितमिव मनुष्येभ्य आस - १.९.१.[२४]

तद्वा ऋषीणामनुश्रुतमास । शम्युर्ह वै बार्हस्पत्योऽञ्जसा यज्ञस्य संस्थां विदांचकार स देवलोकमपीयायेति ते तामेव यज्ञस्य संस्थामुपायन्यां शम्युर्बार्हस्पत्योऽवेद्यच्छम्योरब्रुवंस्ताम्वेवैष एतद्यज्ञस्य संस्थामुपैति यां शम्युर्बार्हस्पत्योऽवेद्यच्छम्योराह तस्माद्वै शम्योराह - १.९.१.[२५]

स प्रतिपद्यते । तच्छंयोरावृणीमह इति तां यज्ञस्य संस्थामावृणीमहे यां शंयुर्बार्हस्पत्योऽवेदित्येवैतदाह - १.९.१.[२६]

गातुं यज्ञाय गातुं यज्ञपतय इति । गातुं ह्येष यज्ञायेच्छति गातुं यज्ञपतये यो यज्ञस्य संस्थां दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्य इति स्वस्ति नो देवत्रास्तु स्वस्ति मनुष्यत्रेत्येवैतदाहोर्ध्वं जिगातु भेषजमित्यूर्ध्वं नोऽयं यज्ञो देवलोकं जयत्वित्येवैतदाह - १.९.१.[२७]

शं नो अस्तु द्विपदे शं चतुष्पद इति । एतावद्वा इदं सर्वं यावद्द्विपाच्चैव चतुष्पाच्च तस्मा एवैतद्यज्ञस्य संस्थां गत्वा शं करोति तस्मादाह शं नो अस्तु द्विपदे शं चतुष्पद इति - १.९.१.[२८]

अथानयेत्युपस्पृशति । अमानुष इव वा एतद्भवति यदार्त्विज्ये प्रवृत इयं वै पृथिवी प्रतिष्ठा तदस्यामेवैतत्प्रतिष्ठायां प्रतिष्ठति तदु खलु पुनर्मानुषो भवति तस्मादनयेत्युपस्पृशति - १.९.१.[२९]