ब्राह्मण १

१ प्रसंगाद्धौत्रब्राह्मणं, तत्र सूक्तवाक- शंयुवाकाख्ये होतुः कर्मणी, तत्रापि प्रथमं सूक्तवाकपाठस्य यजमानाशीराशंसनं यज्ञसमृद्ध्याशंसन चेति प्रयोजनद्वयसहितं सूक्तवाकमन्त्रव्याख्यानं, ततः शंयुवाकमन्त्रव्याख्यानं, शंयुवाकमन्त्रपाठो यज्ञस्य कनीयसी संस्थेति प्रतिपादनं, होतुर्दक्षिणपाणेः कनिष्ठिकया वेदिभूमिस्पर्शनं तत्प्रयोजनं चेत्यादि.

ब्राह्मण २

२ पत्नीसंयाजानुष्ठानम्, तदर्थं होत्रध्वर्य्वग्नीधाम् ऋत्विजामाहवनीयाद्गार्हपत्यं प्रति संचरेण गमनम्, तत्र संचरविषये अन्यशाखिनां मतत्रयस्य सकारणं प्रत्याख्यानम्, याज्ञवल्क्या- भिमतस्य सञ्चरस्य नियमनम्, साभिप्रायं तत्प्रयोजनकथनं च, पत्नी- संयाजानां साभिप्रायं सफलं पौर्वापर्यक्रमनिरूपणम्, देवपत्नीसंयाजे पुरस्तादन्तर्धानकटकरणस्य प्रयोजनकथनम्, तदृष्टातेन लोकेऽपि याः प्राज्ञाः स्त्रियस्ताभिः पुंसः समक्षं नाशितव्यमिति निर्धारणम् गार्हपत्यपत्नीसंयाजफलम् पत्नीसंयाजकर्मणो नियमेन इडान्तत्वप्रतिपादनम् , पत्नीसंयाजकर्मण पक्षान्तरे शंय्वन्तत्वस्य वैकल्पिकत्वविधानम्, इडान्तपक्षे परिधिप्रस्तरयोस्तत्सम्बन्धिनोः सूक्तवाकशंयुवाकयोरभावकथनम्, शङ्कासमाधानपूर्वको यजमानवत्पत्न्या अपि प्रस्तरादानादि- शंयुवाकपाठान्त-स्वगाकरणपक्षस्य विधानं, तत्रापि सूक्तवाकस्य निषेधकरणं, सप्रकारकः पत्नीसंयाज- संस्रवहोमविधिः तदर्थवादश्च, दक्षि- णाग्निहोमस्तु शाखान्तरादिति भाष्ये हरिस्वामिनो मतम्, उत्पत्तिविनियोगसहितं सार्थवादं सहेतुकं सप्रतिपत्तितत्प्रयोजनकं पत्नीकर्तृकं वेदविस्रंसनम्, समिष्टयजुहोमः, तत्कारणम्, समिष्टयजुःशब्द- निर्वचनम्, समिष्टयजुषा यज्ञस्य संपूर्णा संस्थेति प्रतिपादनम्, कारण- प्रयोजनसहितो बर्हिर्होमः, सप्रकारकं सप्रयोजनक सदृष्टान्तं प्रणीतानां (अपां) निनयनम्, फलीकरण- कणापासनम्, सप्रयोजनं तस्य राक्षसभागत्वकथनं चेत्यादि.


ब्राह्मण ३

३ अधिदैवताधियज्ञप्रयोजनद्वयसहितं साभिप्रायं सप्रकारमध्वर्युकर्तृकं यज- मानं प्रति पूर्णपात्रस्य निनयनम्, निनीतपूर्णपात्रोदकं यजमानेनाञ्जलिना प्रतिगृह्य तेन स्वमुखोपस्पर्शनं तत्प्रयोजनं च, ततः प्रयोजन- सहितविष्णुक्रमणादिव्रतविसर्गान्त- सकलयाजमानकर्मविधानं चेति