शतपथब्राह्मणम्/काण्डम् १/अध्यायः ९/ब्राह्मण २


१.९.२ अथ पत्नीसंयाजः

ते वै पत्नीः संयाजयिष्यन्तः प्रतिपरायन्ति । जुहूं च स्रुवं चाध्वर्युरादत्ते वेदं होताज्यविलापनीमग्नीत् - १.९.२.१

तद्धैकेषामध्वर्युः । पूर्वेणाहवनीयं पर्येति तदु तथा न कुर्याद्बहिर्धा ह यज्ञात्स्याद्यत्तेनेयात् - १.९.२.२

जघनेनो हैव पत्नीम् । एकेषामध्वर्युरेति नो एव तथा कुर्यात्पूर्वार्धो वै यज्ञस्याध्वर्युर्जघनार्धः पत्नी यथा भसत्तः शिरः प्रतिदध्यादेवं तद्बहिर्धा हैव यज्ञात्स्याद्यत्तेनेयात् - १.९.२.३

अन्तरेणो हैव पत्नीम् । एकेषामध्वर्युरेति नो एव तथा कुर्यादन्तरियाद्ध यज्ञात्पत्नीं यत्तेनेयात्तस्मादु पूर्वेणैव गार्हपत्यमन्तरेणाहवनीयं चैति तथाह न बहिर्धा यज्ञाद्भवति यथो एवादः प्रचरन्नन्तरेण संचरति स उ एवास्यैष संचरो भवति - १.९.२.४

अथ पत्नीः संयाजयन्ति । यज्ञाद्वै प्रजाः प्रजायन्ते यज्ञात्प्रजायमाना मिथुनात्प्रजायन्ते मिथुनात्प्रजायमाना अन्ततो यज्ञस्य प्रजायन्ते तदेना एतदन्ततो यज्ञस्य मिथुनात्प्रजननात्प्रजनयति तस्मान्मिथुनात्प्रजननादन्ततो यज्ञस्येमाः प्रजाः प्रजायन्ते तस्मात्पत्नीः संयाजयन्ति - १.९.२.५

चतस्रो देवता यजति । चतस्रो वै मिथुनं द्वन्द्वं वै मिथुनं द्वे द्वे हि खलु भवतो मिथुनमेवैतत्प्रजनने क्रियते तस्माच्चतस्रो देवता यजति - १.९.२.६

ता वा आज्यहविषो भवन्ति । रेतो वा आज्यं रेत एवैतत्सिञ्चति तस्मादाज्यहविषो भवन्ति - १.९.२.७

तेनोपांशु चरन्ति । तिर इव वै मिथुनेन चर्यते तिर इवैतद्यदुपांशु तस्मादुपांशु चरन्ति - १.९.२.८

अथ सोमं यजति । रेतो वै सोमो रेत एवैतत्सिञ्चति तस्मात्सोमं यजति - १.९.२.९

अथ त्वष्टारं यजति । त्वष्टा वै सिक्तं रेतो विकरोति तस्मात्त्वष्टारं यजति - १.९.२.१०

अथ देवानां पत्नीर्यजति । पत्नीषु वै योनौ रेतः प्रतिष्ठितं तत्ततः प्रजायते तत्पत्नीष्वैवैतद्योनौ रेतः सिक्तं प्रतिष्ठापयति तत्ततः प्रजायते तस्माद्देवानां पत्नीर्यजति - १.९.२.११

स यत्र देवानां पत्नीर्यजति । तत्पुरस्तात्तिरः करोत्युप ह वै तावद्देवता आसते यावन्न समिष्टयजुर्जुह्वतीदं नु नो जुह्वत्विति ताभ्य एवैतत्तिरः करोति तस्मादिमा मानुष्य स्त्रियस्तिर इवैव पुंसो जिघत्मन्ति या इव तु ता इवेति ह स्माह याज्ञवल्क्यः - १.९.२.१२

अथाग्निं गृहपतिं यजति । अयं वा अग्निर्लोक इममेवैतल्लोकमिमाः प्रजा अभिप्रजनयति ता इमं लोकमिमाः प्रजा अभिप्रजायन्ते तस्मादग्निं गृहपतिं यजति - १.९.२.१३

तदिडान्तं भवति । न ह्यत्र परिधयो भवन्ति न प्रस्तरो यत्र वा अदः प्रस्तरेण यजमानं स्वगाकरोति पतिं वा अनु जाया तदेवास्यापि पत्नी स्वगाकृता भवतीयसितं ह कुर्याद्यत्प्रस्तरस्य रूपं कुर्यात्तस्मादिडान्तमेव स्यादुतो प्रस्तरस्यैव रूपं क्रियते - १.९.२.१४

स यदि प्रस्तरस्य रूपं कुर्यात् । यथैवादः प्रस्तरेण यजमानं स्वगाकरोत्येवमेवैतत्पत्नीं स्वगाकरोति - १.९.२.१५

स यदि प्रस्तरस्य रूपं कुर्यात् । वेदस्यैकं तृणमाच्छिद्याग्रं जुह्वामनक्ति मध्यं स्रुवे बुध्नं स्थाल्याम् - १.९.२.१६

अथाग्नीदाहानुप्रहरेति । तूष्णीमेवानुप्रहृत्य चक्षुष्पा अग्नेऽसि चक्षुर्मे पाहीत्यात्मानमुपस्पृशाते तेनो अप्यात्मानं नानुप्रवृणक्ति - १.९.२.१७

अथाह संवदस्वेति । अगानग्नीदगञ्छ्रावय श्रौषट् स्वगा दैव्या होतृभ्यः स्वस्तिर्मानुषेभ्यः शंयोर्ब्रूहीति - १.९.२.१८

अथ जुहूं च स्रुवं च सम्प्रगृह्णाति । अदो हैवाहुतिं करोति यदनक्त्याहुतिर्भूत्वा देवलोकं गच्छादिति तस्माज्जुहूं च स्रुवं च सम्प्रगृह्णाति - १.९.२.१९

स वा अग्नये सम्प्रगृह्णाति । अग्नेऽदब्धायोऽशीतमेत्यमृतो ह्यग्निस्तस्मादाहादब्धायवित्यशीतमेत्यशिष्ठो ह्यग्निस्तस्मादाहाशीतमेति पाहि मा दिद्योः पाहि प्रसित्यै पाहि दुरिष्ट्यै पाहि दुरद्मन्या इति सर्वाभ्यो मार्त्तिभ्यो गोपायेत्येवैतदाहाविषं नः पितुं कृण्वित्यन्नं वै पितुरनमीवं न इदमकिल्बिषमन्नं कुर्वित्येवैतदाह सुषदा योनावित्यात्मन्येतदाह स्वाहा वाडिति तद्यथा वषट्कृतं हुतमेवमस्यैतद्भवति - १.९.२.२०

अथ वेदं पत्नी विस्रंसयति । योषा वै वेदिर्वृषा वेदो मिथुनाय वै वेदः क्रियतेऽथ यदेनेन यज्ञ उपालभते मिथुनमेवैतत्प्रजननं क्रियते - १.९.२.२१

अथ यत्पत्नी विस्रंसयति । योषा वै पत्नी वृषा वेदो मिथुनमेवैतत्प्रजननं क्रियते तस्माद्वेदं पत्नी विस्रंसयति - १.९.२.२२

सा विस्रंसयति । वेदोऽसि येन त्वं देव वेद देवेभ्यो वेदोऽभवस्तेन मह्यं वेदो भूया इति यदि यजुषा चिकीर्षेदेतेनैव कुर्यात् - १.९.२.२३

तमा वेदेः संस्तृणाति । योषा वै वेदिर्वृषा वेदः पश्चाद्वै परीत्य वृषा योषामधिद्रवति पश्चादेवैनामेतत्परीत्य वृष्णा वेदेनाधिद्रावयति तस्मादावेदेः संस्तृणाति - १.९.२.२४

अथ समिष्टयजुर्जुहोति । प्राङ्मे यज्ञोऽनुसंतिष्ठाता इत्यथ यद्धुत्वा समिष्टयजुः पत्नीः संयाजयेत्प्रत्यङ्ङु हैवास्यैष यज्ञः संतिष्ठेत तस्माद्वा एतर्हि समिष्टयजुर्जुहोति प्राङ्मे यज्ञोऽनुसंतिष्ठाता इति - १.९.२.२५

अथ यस्मात्समिष्टयजुर्नाम । या वा एतेन यज्ञेन देवता ह्वयति याभ्य एष यज्ञस्तायते सर्वा वै तत्ताः समिष्टा भवन्ति तद्यत्तासु सर्वासु समिष्टास्वथैतज्जुहोति तस्मात्समिष्टयजुर्नाम - १.९.२.२६

अथ यस्मात्समिष्टयजुर्जुहोति । या वा एतेन यज्ञेन देवता ह्वयति याभ्य एष यज्ञस्तायत उप ह वै ता आसते यावन्न समिष्टयजुर्जुह्वतीदं नु नो जुह्वत्विति ता एवैतद्यथायथं व्यवसृजति यत्र यत्रासां चरणं तदनु यज्ञं वा एतदजीजनत यदेनमतत तं जनयित्वा यत्रास्य प्रतिष्ठा तत्प्रतिष्ठापयति तस्मात्समिष्टयजुर्जुहोति - १.९.२.२७

स जुहोति । देवा गातुविद इति गातुविदो हि देवा गातुं वित्त्वेति यज्ञं वित्त्वेत्येवैतदाह गातुमितेति तदेतेन यथायथं व्यवसृजति मनसस्पत इमं देव यज्ञं स्वाहा वाते धा इत्ययं वै यज्ञो योऽयं पवते तदिमं यज्ञं सम्भृत्यैतस्मिन्यज्ञे प्रतिष्ठापयति यज्ञेन यज्ञं संदधाति तस्मादाह स्वाहा वाते धा इति - १.९.२.२८

अथ बर्हिर्जुहोति । अयं वै लोको बर्हिरोषधयो बर्हिरस्मिन्नेवैतल्लोक ओषधीर्दधति ता इमा अस्मिंलोक ओषधयः प्रतिष्ठितास्तस्माद्बर्हिर्जुहोति - १.९.२.२९

तां वा अतिरिक्तां जुहोति । समिष्टयजुर्ह्येवान्तो यज्ञस्य यद्ध्यूर्ध्वं समिष्टयजुषोऽतिरिक्तं तद्यदा हि समिष्टयजुर्जुहोत्यथैताभ्यो जुहोति तस्मादिमा अतिरिक्ता असम्मिता ओषधयः प्रजायन्ते - १.९.२.३०

स जुहोति । सं बर्हिरङ्क्तां हविषा घृतेन समादित्यैर्वसुभिः सं मरुद्भिः समिन्द्रो विश्वदेवेभिरङ्क्तां दिव्यं नभो गच्छतु यत्स्वाहेति - १.९.२.३१


प्रणीतापात्रम्.

अथ प्रणीता दक्षिणतः परीत्य निनयति । युङ्क्ते वा एतद्यज्ञं यदेनं तनुते स यन्न निनयेत्पराङु हाविमुक्त एव यज्ञो यजमानं प्रक्षिणीयात्तथो ह यज्ञो यजमानं न प्रक्षिणाति तस्मात्प्रणीता दक्षिणतः परीत्य निनयति - १.९.२.३२

स निनयति । कस्त्वा विमुञ्चति स त्वा विमुञ्चति कस्मै त्वा विमुञ्चति तस्मै विमुञ्चति पोषायेति तत्पुष्टिमुत्तमां यजमानायानिराह स येनैव प्रणयति तेन निनयति येन ह्येव योग्यं युञ्जन्ति तेन विमुञ्चन्ति योक्त्रेण हि योग्यं युञ्जन्ति
योक्त्रेण विमुञ्चन्त्यथ फलीकरणाङ्कपालेनाधोऽधः कृष्णाजिनमुपास्यति रक्षसां भागोऽसीति - १.९.२.३३

देवाश्च वा असुराश्च । उभये प्राजापत्याः पस्पृधिर एतस्मिन्यज्ञे प्रजापतौ पितरि संवत्सरेऽस्माकमयं भविष्यत्यस्माकमयं भविष्यतीति - १.९.२.३४

ततो देवाः । सर्वं यज्ञं संवृज्याथ यत्पापिष्ठं यज्ञस्य भागधेयमासीत्तेनैनान्निरभजन्नस्ना पशोः फलीकरणैर्हविर्यज्ञात्सुनिर्भक्ता असन्नित्येष वै सुनिर्भक्तो यं भागिनं निर्भजन्त्यथ यमभागं निर्भजन्त्यैव स तावच्छंसत उत हि वशो लब्ध्वाह किं मा बभक्थेति सयमेवैभ्यो देवा भागमकल्पयंस्तमेवैभ्य एष एतद्भागं करोत्यथयदधोऽधः कृष्णाजिनमुपास्यत्यनग्नावेवैभ्य एतदन्धे तमसि प्रवेशयति तथो एवासृक्पशो रक्षसां भागोऽसीत्यनग्नावन्धे तमसि प्रवेशयति तस्मात्पशोस्तेदनीं न कुर्वन्ति रक्षसां हि स भागः - १.९.२.३५