शतपथब्राह्मणम्/काण्डम् १/अध्यायः ९/ब्राह्मण ३


१.९.३ अथ याजमानो विष्णुक्रमः

संस्थिते यज्ञे । दक्षिणतः परीत्य पूर्णपात्रं निनयति तथा ह्युदग्भवति तस्माद्दक्षिणतः परीत्य पूर्णपात्रं निनयति देवलोके मेऽप्यसदिति वै यजते यो यजते सोऽस्यैष यज्ञो देवलोकमेवाभिप्रैति तदनूची दक्षिणा यां ददाति सैति दक्षिणामन्वारभ्य यजमानः - १.९.३.१

स एष देवयानो वा पितृयाणो वा पन्थाः । तदुभयतोऽग्निशिखे समोषन्त्यौ तिष्ठतः प्रति तमोषतो यः प्रत्युष्योऽत्यु तं सृजते योऽतिसृज्यः शान्तिरापस्तदेतमेवैतत्पन्थानं शमयति - १.९.३.२

पूर्णं निनयति सर्वं वै पूर्णं सर्वेणैवैनमेतच्छमयति संततमव्यवच्छिन्नं निनयति संततेनैवैनमेतदव्यवच्छिन्नेन शमयति - १.९.३.३

यद्वेव पूर्णपात्रं निनयति । यद्वै यज्ञस्य मिथ्या क्रियते व्यस्य तद्वृहन्ति क्षण्वन्ति शान्तिरापस्तदद्भिः शान्त्या शमयति तदद्भिः संदधाति - १.९.३.४

पूर्णं निनयति । सर्वं वै पूर्णं सर्वेणैवैतत्संदधाति संततमव्यवच्छिन्नं निनयति संततेनैवैतदव्यवच्छिन्नेन संदधाति - १.९.३.५

तदञ्जलिना प्रतिगृह्णाति । सं वर्चसा पयसा सं तनूभिरगन्महि मनसा सं शिवेन त्वष्टा सुदत्रो विदधातु रायोऽनुमार्ष्टु तन्नो यद्विलिष्टमिति यद्विवृढं तत्संदधाति - १.९.३.६

अथ मुखमुपस्पृशते । द्वयं तद्यस्मान्मुखमुपस्पृशतेऽमृतं वा आपोऽमृतेनैवैतत्संस्पृशत एतदु चैवैतत्कर्मात्मन्कुरुते तस्मान्मुखमुपस्पृशते - १.९.३.७

अथ विष्णुक्रमान् क्रमते । देवान्वा एष प्रीणाति यो यजत एतेन यज्ञेनऽर्ग्भिरिव त्वद्यजुर्भिरिव त्वदाहुतिभिरिव त्वत्स देवान्प्रीत्वा तेष्वपित्वी भवति तेष्वपित्वी भूत्वा तानेवाभिप्रक्रामति - १.९.३.८

यद्वेव विष्णुक्रमान् क्रमते । यज्ञो वै विष्णुः स देवेभ्य इमां विक्रान्तिं विचक्रमे यैषामियं विक्रान्तिरिदमेव प्रथमेन पदेन पस्पाराथेदमन्तरिक्षं द्वितीयेन दिवमुत्तमेनैताम्वेवैष एतस्मै विष्णुर्यज्ञो विक्रान्तिं विक्रमते तस्माद्विष्णुक्रमान् क्रमते तद्वा इत एव पराचीनं भूयिष्ठा इव क्रमन्ते - १.९.३.९

तदु तत्पृथिव्यां विष्णुर्व्यक्रंस्त । गायत्रेण च्छन्दसा ततो निर्भक्तो योऽस्मान्द्वेष्टि यं च वयं द्विष्मोऽन्तरिक्षे विष्णुर्व्यक्रंस्त त्रैष्टुभेन च्छन्दसा ततो निर्भक्तो योऽस्मान्द्वेष्टि यं च वयं द्विष्मो दिवि विष्णुर्व्यक्रंस्त जागतेन च्छन्दसा ततो निर्भक्तो योऽस्मान्द्वेष्टि यं च वयं द्विष्म इत्येवमिमांल्लोकान्त्समारुह्याथैषा गतिरेषा प्रतिष्ठा य एष तपति तस्य ये रश्मयस्ते सुकृतोऽथ यत्परं भाः प्रजापतिर्वा स स्वर्गो वा लोकस्तदेवमिमांल्लोकान्त्समारुह्याथैतां गतिमेतां प्रतिष्ठां गच्छति परस्तात्त्वेवार्वाङ्क्रमेत य इतोऽनुशासनं चिकीर्षेद्द्वयं तद्यस्मात्परस्तादर्वाङ्क्रमते – १.९.३.१०

तेऽपसरणतो ह वा अग्रे देवा जयन्तोऽजयन् । दिवमेवाग्रेऽथेदमन्तरिक्षमथेतोऽनपसरणात्सपत्नाननुदन्त तथो एवैष एतदपसरणत एवाग्रे जयञ्जयति दिवमेवाग्रेऽथेदमन्तरिक्षमथेतोऽनपसरणात्सपत्नान्नुदत इयं वै पृथिवी प्रतिष्ठा तदस्यामेवैतत्प्रतिष्ठायां प्रतितिष्ठति - १.९.३.११

तदु तद्दिवि विष्णुर्व्यक्रंस्त । जागतेन च्छन्दसा ततो निर्भक्तो योऽस्मान्द्वेष्टि यं
च वयं द्विष्मोऽन्तरिक्षे विष्णुर्व्यक्रंस्त त्रैष्टुभेन च्छन्दसा ततो निर्भक्तो योऽस्मान्द्वेष्टि यं च वयं द्विष्मः पृथिव्यां विष्णुर्व्यक्रंस्त गायत्रेण च्छन्दसा ततो निर्भक्तो योऽस्मान्द्वेष्टि यं च वयं द्विष्मोऽस्मादन्नादस्यै प्रतिष्ठाया इत्यस्यां हीदं सर्वमन्नाद्यं प्रतिष्ठित तस्मादाहास्मादन्नादस्यै प्रतिष्ठाया इति - १.९.३.१२

अथ प्राङ्प्रेक्षते । प्राची हि देवानां दिक्तस्मात्प्राङ्प्रेक्षते - १.९.३.१३

स प्रेक्षते । अगन्म स्वरिति देवा वै स्वरगन्म देवानित्येवैतदाह सं ज्योतिषाभूमेति सं देवैरभूमेत्येवैतदाह - १.९.३.१४

अथ सूर्यमुदीक्षते । सैषा गतिरेषा प्रतिष्ठा तदेतां गतिमेतां प्रतिष्ठां गच्छति तस्मात्सूर्यमुदीक्षते - १.९.३.१५

स उदीक्षते । स्वयम्भूरसि श्रेष्ठो रश्मिरित्येष वै श्रेष्ठो रश्मिर्यत्सूर्यस्तस्मादाह स्वयम्भूरसि श्रेष्ठो रश्मिरिति वर्चोदा असि वर्चो मे देहीति त्वेवाहं ब्रवीमीति ह स्माह याज्ञवल्क्यस्तद्ध्येव ब्राह्मणेनैष्टव्यं यद्ब्रह्मवर्चसी स्यादित्युतो ह स्माहौपोदितेय एष वाव मह्यं गा दास्यति गोदा गा मे देहीत्येवं यं कामं कामयते सोऽस्मै कामः समृध्यते - १.९.३.१६

अथावर्तते । सूर्यस्यावृतमन्वावर्ते इति तदेतां गतिमेतां प्रतिष्ठां गत्वैतस्यैवावृतमन्वावर्तते - १.९.३.१७

अथ गार्हपत्यमुपतिष्ठते । द्वयं तद्यस्माद्गार्हपत्यमुपतिष्ठते गृहा वै गार्हपत्यो गृहा वै प्रतिष्ठा तद्गृहेष्वेवैतत्प्रतिष्ठायां प्रतितिष्ठति यावद्वेवास्येह मानुषमायुस्तस्मा एवैतदुपतिष्ठते तस्माद्गार्हपत्यमुपतिष्ठते - १.९.३.१८

स उपतिष्ठते । अग्ने गृहपते सुगृहपतिस्त्वयाग्नेऽहं गृहपतिना भूयासं सुगृहपतिस्त्वं मयाग्ने गृहपतिना भूया इति नात्र तिरोहितमिवास्त्यस्थूरि नौ गार्हपत्यानि सन्त्वित्यनार्त्तानि नौ गार्हपत्यानि सन्त्वित्येवैतदाह शतं हिमा इति शतं वर्षाणि जीव्यासमित्येवैतदाह तदप्येतद्ब्रुवन्नाद्रियेतापि हि भूयांसि शताद्वर्षेभ्यः पुरुषो जीवति तस्मादप्येतद्ब्रुवन्नाद्रियेत - १.९.३.१९

अथावर्तते । सूर्यस्यावृतमन्वावर्त इति तदेतां गतिमेतां प्रतिष्ठां गत्वैतस्यैवावृतमन्वावर्तते - १.९.३.२०

अथ पुत्रस्य नाम गृह्णाति । इदं मेऽयं वीर्यं पुत्रोऽनुसंतनवदिति यदि पुत्रो न स्यादप्यात्मन एव नाम गृह्णीयात् - १.९.३.२१

अथाहवनीयमुपतिष्ठते । प्राङ्मे यज्ञोऽनुसंतिष्ठाता इति तूष्णीमुपतिष्ठते अथ व्रतं विसृजते । इदमहं य एवास्मि सोऽस्मीत्यमानुष इव वा एतद्भवति यद्व्रतमुपैति न हि तदवकल्पते यद्ब्रूयादिदमहं सत्यादनृतमुपैमीति तदु खलु पुनर्मानुषो भवति तस्मादिदमहं य एवास्मि साऽस्मीत्येवं व्रतं विसृजेत - १.९.३.२२