शतपथब्राह्मणम्/काण्डम् २/अध्यायः २/ब्राह्मण १
२.२.१.
उद्धृत्याहवनीयं पूर्णाहुतिं जुहोति । तद्यत्पूर्णाहुतिं जुहोत्यन्नादं वा एतमात्मनो जनयते यदग्निं तस्मा एतदन्नाद्यमपिदधाति यथा कुमाराय वाजाताय वत्साय वा स्तनमपिदध्यादेवमस्मा एतदन्नाद्यमपि दधाति - २.२.१.१
स एतेनान्नेन शान्तः । उत्तराणि हवींषि श्रप्यमाणान्युपरमति शश्वद्ध वा अध्वर्युं वा यजमानं वा प्रदहेत्तौ ह्यस्य नेदिष्ठं चरतो यदस्मिन्नेतामाहुतिं न जुहुयात्तस्माद्वा एतामाहुतिं जुहोति - २.२.१.२
तां वै पूर्णां जुहोति । सर्वं वै पूर्णं सर्वेणैवैनमेतच्छमयति स्वाहाकारेण जुहोत्यनिरुक्तो वै स्वाहाकारः सर्वं वा अनिरुक्तं सर्वेणैवैनमेतच्छमयति - २.२.१.३
यां वै प्रजापतिः । प्रथमामाहुतिमजुहोत्स्वाहेति वै तामजुहोत्सो स्विदेषा निदानेन तस्मात्स्वाहेति जुहोति तस्यां वरं ददाति सर्वं वै वरः सर्वेणैवैनमेतच्छमयति - २.२.१.४
तदाहुः । एतामेवाहुतिं हुत्वाथोत्तराणि हवींषि नाद्रियेतैतयैव तं काममाप्नोति यमभिकाममुत्तराणि हवींषि निर्वपतीति - २.२.१.५
स वा अग्नये पवमानाय निर्वपति । प्राणो वै पवमानः प्राणमेवास्मिन्नेतद्दधाति तद्वेतयैवास्मिंस्तद्दधात्यन्नं हि प्राणोऽन्नमेषाहुतिः - २.२.१.६
अथाग्नये पावकाय निर्वपति । अन्नं वै पावकमन्नमेवास्मिन्नेतद्दधाति तद्वेतयैवास्मिंस्तद्दधात्येषा ह्येव प्रत्यक्षमन्नमाहुतिः - २.२.१.७
अथाग्नये शुचये निर्वपति । वीर्यं वै शुचि यद्वा अस्यैतदुज्ज्वलत्येतदस्य वीर्यं शुचि वीर्यमेवास्मिन्नेतद्दधाति तद्वेतयैवास्मिंस्तद्दधाति यदा ह्येवास्मिन्नेतामाहुतिं जुहोत्यथास्यैतद्वीर्यं शुच्युज्ज्वलति - २.२.१.८
तस्मादाहुः । एतामेवाहुतिं हुत्वाथोत्तराणि हवींषि नाद्रियेतैतयैव तं काममाप्नोति यमभिकाममुत्तराणि हवींषि निर्वपतीति तदु निर्वपेदेवोत्तराणि हवींषि परोऽक्षमिव वा एतद्यददस्तदिदमितीव - २.२.१.९
स यदग्नये पवमानाय निर्वपति । प्राणा वै पवमानो यदा वै जायतेऽथ प्राणोऽथ यावन्न जायते मातुर्वैव तावत्प्राणमनु प्राणिति यथा वा तज्जात एवास्मिन्नेतत्प्राणं दधाति - २.२.१.१०
अथ यदग्नये पावकाय निर्वपति । अन्नं वै पावकं तज्जात एवास्मिन्नेतदन्नं दधाति - २.२.१.११
अथ यदग्नये शुचये निर्वपति । वीर्यं वै शुचि यदा वा अन्नेन वर्धतेऽथ वीर्यं तदन्नेनैवैनमेतद्वर्धयित्वाथास्मिन्नेतद्वीर्यं शुचि दधाति तस्मादग्नये शुचये - २.२.१.१२
तद्वेतदेव सद्विपर्यस्तमिव । अग्निर्ह यत्र देवेभ्यो मनुष्यानभ्युपाववर्त तद्धेक्षां चक्रे मैव सर्वेणैवात्मना मनुष्यानभ्युपावृतमिति - २.२.१.१३
स एतास्तिस्रस्तनूरेषु लोकेषु विन्यधत्त । यदस्य पवमानं रूपमासीत्तदस्याम्पृथिव्यां न्यधत्ताथ यत्पावकं तदन्तरिक्षेऽथ यच्छुचि तद्दिवि तद्वा ऋषयः प्रतिबुबुधिरे य उ तर्ह्यृषय आसुरसर्वेण वै न आत्मनाग्निरभ्युपावृतदिति तस्मा एतानि हवींषि निरवपन् - २.२.१.१४
स यदग्नये पवमानाय निर्वपति । यदेवास्यास्यां पृथिव्यां रूपं तदेवास्यैतेनाप्नोत्यथ यदग्नये पावकाय निर्वपति यदेवास्यान्तरिक्षे रूपं तदेवास्यैतेनाप्नोत्यथ यदग्नये शुचये निर्वपति यदेवास्य दिवि रूपं तदेवास्यैतेनाप्नोत्येवमु कृत्स्नमेवाग्निमनपनिहितमाधत्ते तस्मादु निर्वपेदेवोत्तराणि हवींषि - २.२.१.१५
केवलबर्हिः प्रथमं हविर्भवति । समानबर्हिषी उत्तरे अयं वै लोकः प्रथमं हविरथेदमन्तरिक्षं द्वितीयं द्यौरेव तृतीयं बहुलेव वा इयम्पृथिवी लेलयेवान्तरिक्षं लेलयेवासौ द्यौरुभे चिदेनां प्रत्युद्यामिनी स्तामिति तस्मात्समानबर्हिषी - २.२.१.१६
अष्टाकपालाः सर्वे पुरोडाशा भवन्ति । अष्टाक्षरा वै गायत्री गायत्रमग्नेश्छन्दः स्वेनैवैनमेतच्छन्दसा धत्ते तानि सर्वाणि चतुर्विंशतिः कपालानि सम्पद्यन्ते चतुर्विंशत्यक्षरा वै गायत्री गायत्रमग्नेश्छन्दः स्वेनैवैनमेतच्छन्दसा धत्ते - २.२.१.१७
अथादित्यै चरुं निर्वपति । प्रच्यवत इव वा एषोऽस्माल्लोकाद्य एतानि हवींषि निर्वपतीमान्हि लोकान्त्समारोहन्नेति - २.२.१.१८
स यददित्यै चरुं निर्वपति । इयं वै पृथिव्यदितिः सेयं प्रतिष्ठा तदस्यामेवैतत्प्रतिष्ठायां प्रतितिष्ठति तस्माददित्यै चरुं निर्वपति - २.२.१.१९
तस्यै विराजौ संयाज्ये स्यातामित्याहुः । विराड्ढीयमित्यथो त्रिष्टुभौ त्रिष्टुब्भीयमित्यथो जगत्यौ जगती हीयमिति विराजावित्येव स्याताम् - २.२.१.२०
तस्यै धेनुर्दक्षिणा । धेनुरिव वा इयं मनुष्येभ्यः सर्वान् कामान्दुहे माता धेनुर्मातेव वा इयं मनुष्यान्बिभर्ति तस्माद्धेनुर्दक्षिणैतन्न्वेकमयनम् - २.२.१.२१
अथेदं द्वितीयम् । आग्नेयमेवाष्टाकपालं पुरोडाशं निर्वपति परोऽक्षमिव वा एतद्यदग्नये पवमानायाग्नये पावकायाग्नये शुचय इतीवाथाञ्जसैवैनमेतत्प्रत्यक्षमाधत्ते तस्मादग्नयेऽथादित्यै चरुं निर्वपति स य एव चरोर्बन्धुः स बन्धुः - २.२.१.२२