शतपथब्राह्मणम्/काण्डम् २/अध्यायः २/ब्राह्मण ३




२.२.३ अथ पुनराधानम्

वरुणो हैनद्राज्यकाम आदधे । स राज्यमगच्छत्तस्माद्यश्च वेद यश्च न वरुणो राजेत्येवाहुः सोमो यशस्कामः स यशोऽभवत्तस्माद्यश्च सोमे लभते यश्च नोभावेवागच्छतो यश एवैतद्द्रष्टुमागच्छन्ति यशो ह भवति राज्यं गच्छति य एवं विद्वानाधत्ते - २.२.३.[१]

अग्नौ ह वै देवाः । सर्वाणि रूपाणि निदधिरे यानि च ग्राम्याणि यानि चारण्यानि विजयं वोपप्रैष्यन्तः कामचारस्य वा कामायायं नो गोपिष्ठो गोपायदिति वा - २.२.३.[२]

तान्यु हाग्निर्निचकमे । तैः संगृह्यऽर्तून्प्रविवेश पुनरेम इति देवा एदग्निं तिरोभूतं तेषां हेयसेवास किमिह कर्तव्यं केह प्रज्ञेति वा - २.२.३.[३]

तत एतत्त्वष्टा पुनराधेयं ददर्श । तदादधे तेनाग्नेः प्रियं धामोपजगाम सोऽस्मा उभयानि रूपाणि प्रतिनिःससर्ज यानि च ग्राम्याणि यानि चारण्यानि तस्मादाहुस्त्वाष्ट्राणि वै रूपाणीति त्वष्टुर्ह्येव सर्वं रूपमुप ह त्वेवान्याः प्रजा यावच्छो यावच्छ इव तिष्ठन्ते - २.२.३.[४]

तस्मै कं पुनराधेयमादधीत । एवं हैवाग्नेः प्रियं धामोपगच्छति सोऽस्मा उभयानि रूपाणि प्रतिनिःसृजति यानि च ग्राम्याणि यानि चारण्यानि तस्मिन्नेतान्युभयानि रूपाणि दृश्यन्ते परमता वै सा स्पृहयन्त्यु हास्मै तथा पुष्यति लोक्यम्वेवापि - २.२.३.[५]

आग्नेयोऽयं यज्ञः । ज्योतिरग्निः पाप्मनो दग्धा सोऽस्य पाप्मानं दहति स इह ज्योतिरेव श्रिया यशसा भवति ज्योतिरमुत्र पुण्यलोकत्वैतन्नु तद्यस्मादादधीत - २.२.३.[६]

स वै वर्षास्वादधीत । वर्षा वै सर्व ऋतवो वर्षा हि वै सर्व ऋतवोऽथादो वर्षमकुर्मादो वर्षमकुर्मेति संवत्सरान्त्सम्पश्यन्ति वर्षा ह त्वेव सर्वेषामृतूनां रूपमुत हि तद्वर्षासु भवति यदाहुर्ग्रीष्म इव वा अद्येत्युतो तद्वर्षासु भवति यदाहुः शिशिर इव वा अद्येति वर्षादिद्वर्षाः - २.२.३.[७]

अथैतदेव परोऽक्षं रूपम् । यदेव पुरस्ताद्वाति तद्वसन्तस्य रूपं यत्स्तनयति तद्ग्रीष्मस्य यद्वर्षति तद्वर्षाणां यद्विद्योतते तच्छरदो यद्वृष्ट्वोद्गृह्णाति तद्धेमन्तस्य वर्षाः सर्व ऋतव ऋतून्प्राविशदृतुभ्य एवैनमेतन्निर्मिमीते - २.२.३.[८]

आदित्यस्त्वेव सर्व ऋतवः । यदैवोदेत्यथ वसन्तो यदा संगवोऽथ ग्रीष्मो यदा मध्यन्दिनोऽथ वर्षा यदापराह्णोऽथ शरद्यदैवास्तमेत्यथ हेमन्तस्तस्मादु मध्यंन्दिन एवादधीत तर्हि ह्येषोऽस्य लोकस्य नेदिष्ठं भवति तन्नेदिष्ठादेवैनमेतन्मध्यान्निर्मिमीते - २.२.३.[९]

छाययेव वा अयं पुरुषः । पाप्मनानुषक्तः सोऽस्यात्र कनिष्ठो भवत्यधस्पदमिवेयस्यते तत्कनिष्ठमेवैतत्पाप्मानमवबाधते तस्मादु मध्यन्दिन एवादधीत - २.२.३.[१०]

तं वै दर्भैरुद्धरति । दारुभिर्वै पूर्वमुद्धरति दारुभिः पूर्वं दारुभिरपरं जामि कुर्यात्समदं कुर्यादापो दर्भा आपो वर्षा ऋतून्प्राविशदद्भिरेवैनमेतदद्भ्यो निर्मिमीते तस्माद्दर्भैरुद्धरति - २.२.३.[११]

अर्कपलाशाभ्याम् । व्रीहिमयमपूपं कृत्वा यत्र गार्हपत्यमाधास्यन्भवति तन्निदधाति तद्गार्हपत्यमादधाति - २.२.३.[१२]

अर्कपलाशाभ्यां यवमयमपूपं कृत्वा यत्राहवनीयमाधास्यन्भवति तन्निदधाति तदाहवनीयमादधाति पूर्वाभ्यामेवैनावेतदग्निभ्यामन्तर्दध्म इति वदन्तस्तदु तथा न कुर्याद्रात्रिभिर्ह्येवान्तर्हितौ भवतः - २.२.३.[१३]

आग्नेयमेव पञ्चकपालं पुरोडाशं निर्वपति । तस्य पञ्चपदाः पङ्क्तयो याज्यानुवाक्या भवन्ति पञ्च वा ऋतव ऋतून्प्राविशदृतुभ्य एवैनमेतन्निर्मिमीते - २.२.३.[१४]

सर्व आग्नेयो भवति । एवं हि त्वष्टाग्नेः प्रियं धामोपागच्छत्तस्मात्सर्व आग्नेयो भवति - २.२.३.[१५]

तेनोपांशु चरन्ति । यद्वै ज्ञातये वा सख्ये वा निष्केवल्यं चिकीर्षति तिर इवैतेन बोभवद्वैश्वदेवोऽन्यो यज्ञोऽथैष निष्केवल्य आग्नेयो यद्वै तिर इव तदुपांशु तस्मादुपांशु चरन्ति - २.२.३.[१६]

उच्चैरुत्तममनुयाजं यजति । कृतकर्मेव हि स तर्हि भवति सर्वो हि कृतमनुबुध्यते - २.२.३.[१७]

स आश्राव्याह । समिधो यजेति तदाग्नेयं रूपं परोऽक्षं त्वग्नीन्यजेति त्वेव ब्रूयात्तदेव प्रत्यक्षमाग्नेयं रूपम् - २.२.३.[१८]

स यजति । अग्न आज्यस्य व्यन्त वौझगग्निमाज्यस्य वेतु वौझगग्निनाज्यस्य व्यन्तु वौझगग्निराज्यस्य वेतु वौझगिति - २.२.३.[१९]

अथ स्वाहाग्निमित्याह । आग्नेयमाज्यभागं स्वाहाग्निं पवमानमिति यदि पवमानाय ध्रियेरन्त्स्वाहाग्निमिन्दुमन्तमिति यद्यग्नय इन्दुमते ध्रियेरन्त्स्वाहाग्निं स्वाहाग्नीनाज्यपाञ्जुषाणो अग्निराज्यस्य वेत्विति यजति - २.२.३.[२०]

अथाहाग्नयेऽनुब्रूहीति । आग्नेयमाज्यभागं सोऽन्वाहाग्निं स्तोमेन बोधय समिधानो अमर्त्यं हव्या देवेषु नो दधदिति स्वपितीव खलु वा एतद्यदुद्वासितो भवति सम्प्रबोधयत्येवैनमेतत्समुदीर्ययति जुषाणो अग्निराज्यस्य वेत्विति यजति - २.२.३.[२१]

अथ यद्यग्नये पवमानाय ध्रियेरन् । अग्नये पवमानायानुब्रूहीति ब्रूयात्सोऽन्वाहाग्न आयूंषि पवस आसुवोर्जमिषं च नः आरे बाधस्व दुच्छुनामिति तथाहाग्नेयो भवति सोमो वै पवमानस्तदु सौम्यादाज्यभागान्नयन्ति जुषाणो अग्निः पवमान आज्यस्य वेत्विति यजति - २.२.३.[२२]

अथ यद्यग्नय इन्दुमते ध्रियेरन् । अग्नय इन्दुमतेऽनुब्रूहीति ब्रूयात्सोऽन्वाहेह्यू षु ब्रवाणि तेऽग्न इत्थेतरा गिरः एभिर्वर्धास इन्दुभिरिति तथा हाग्नेयोभवति सोमो वा इन्दुस्तदु सौम्यादाज्यभागान्नयन्ति जुषाणो अग्निरिन्दुमानाज्यस्य वेत्विति यजत्येवमु सर्वमाग्नेयं करोति - २.२.३.[२३]

अथाहाग्नयेऽनुब्रूहीति हविषः । अग्निं यजाग्नये स्विष्टकृतेऽनुब्रूह्यग्निं स्विष्टकृतं यजेत्यथ यद्देवान्यजेत्यग्नीन्यजेत्येवैतदाह - २.२.३.[२४]

स यजति । अग्नेर्वसुवने वसुधेयस्य वेतु वौझगग्ना उ वसुवने वसुधेयस्य वेतु वौझग्देवो अग्निः स्विष्टकृदिति स्वयमाग्नेयस्तृतीय एवम्वाग्नेयाननुयाजान्करोति - २.२.३.[२५]

ता वा एताः । षड्विभक्तीर्यजति चतस्रः प्रयाजेषु द्वे अनुयाजेषु षड्वा ऋतव ऋतून्प्राविशदृतुभ्य एवैनमेतन्निर्मिमीते - २.२.३.[२६]

द्वादश वा त्रयोदश वाक्षराणि भवन्ति । द्वादश वा वै त्रयोदश वा संवत्सरस्य मासाः संवत्सरमृतून्प्राविशदृतुभ्य एवैनमेतत्संवत्सरान्निर्मिमीते न द्वे चन सहाजामितायै जामि ह कुर्याद्यद्द्वे चित्सह स्यातां व्यन्तु वेत्वित्येव प्रयाजानां रूपं वसुवने वसुधेयस्येत्यनुयाजानाम् - २.२.३.[२७]

तस्य हिरण्यं दक्षिणा । आग्नेयो वा एष यज्ञो भवत्यग्ने रेतो हिरण्यं तस्माद्धिरण्यं दक्षिणानड्वान्वा स हि वहेनाग्नेयोऽग्निदग्धमिव ह्यस्य वहं भवति देवानां हव्यवाहनोऽग्निरिति वहति वा एष मनुष्येभ्यस्तस्मादनड्वान्दक्षिणा - २.२.३.[२८]