ब्राह्मण १

१ सदसो यज्ञोदरत्वानुवादेन तन्मध्यदेशे सोपपत्तिकं औदुम्बरीमानविधानं, समंत्रकमभ्यादानपूर्वकं सप्रकारक समंत्रकपरिलेखनसहितमवटखननम्, उत्खातस्य मृन्निचयस्यावटप्राग्देशे उत्किरणम्, औदुरम्बर्या यजमानसम्मितत्वं साधयित्वा अवटपूर्वदेशे स्थापनं चेतिविधानम्, . औदुम्बरीप्रोक्षणसाधनानामपां यवसाहित्य विधाय तत्प्रशंसनं, समन्त्रकं यवावापविधानम् समन्त्रकं यवसहिताभिरद्भिरौदुम्बर्याः प्रोक्षणविधानम्, प्रोक्षणीशेषप्रतिपत्तिकर्म, समन्त्रं सप्रकारकम् बर्हिरवस्त- रणविधानम्,समन्त्रमौदुम्बर्या उच्छ्रयण विधानम्, समंत्रमौदुम्बरीमानकरणम्, समन्त्रतद्व्याख्यानं तस्या पर्यूहणविधानं, साशीराशंसनम् परितः संघट्टनविधानं, सप्रयोजनमपामुपनिनयनविधानम्, औदुम्बरीमालभ्य वाचनविधानम्, मन्त्र- मन्त्रार्थयुतमौदुम्बरीशाखाग्रे होमस्य विधानम्, मध्यमछदिर्निधानम् विधाय तदुभयत उत्तरतः परस्तादपि च त्रिस्त्रिश्छदिषां निधानस्य विधानम्, छदिषां नवत्वप्रशंसनम्, सदस उदगायतत्व- विधानम्, सदसः समन्त्रकम् परिश्रयण विधानम्, सदसो द्वारशाखाप्रभृतीनां हविर्धानम् दर्भैराच्छाद्य हविर्धानवत्सीवनादिकस्य विधानं, सधिष्ण्यकस्य आग्नीध्रीयमण्डपविधानं, तत्र पक्षत्रयमस्तीति प्रतिपादनं, समन्त्रकं निष्पन्नाग्नीध्रीयाभिमर्शनविधानम्, मन्त्रप्रतिपाद्यवैश्वदेवत्वस्य कारणद्वयेन समर्थनञ्च,प्रसङ्गाद्यजमानाय किञ्चिदपूर्वनियमविधानं चेत्यादि,


ब्राह्मण २

२ धिष्ण्यपदार्थविधानार्थं सौपर्णीकाद्रवमाख्यानम्, पराजितया सुपर्ण्या गात्र्यादिछन्दांसि सृष्ट्वा तत्र गायत्र्या द्विः सोमाहरणद्वाराऽऽत्मनिष्क्रयणकरणादिककथनम्, सोमाहरणप्रसङ्गात्सुपर्णीदृष्टांतेन मृत्युभयपरिहाराय सोमयागास्यावश्यकर्तव्यत्वकथनम्, सोमधारकस्याध्वर्योः प्राप्तधिष्ण्यातिक्रमनिषेधकरणं, संचरणमार्गप्रदर्शनं च, धिष्ण्यानां सोमरक्षकत्वमभिधातुं सर्वेषां तद्रक्षकत्वकथनम्, सर्वेषां समरक्षकत्वे समानेऽपि सदोगतानां धिष्ण्यानामिव कथमितरेषामनुदेशनं नास्तीति प्रतिपादनम्, तत्र द्वैरूण्ये स्थानद्वैद्विध्ये च कारणनिर्देशपूर्वकसंकेतपूर्वनामद्वैविध्यसंकीर्तनं प्रसङ्गात्सोमयागस्य देवमनुष्यपितृद्वारा सर्वजगत्स्थितिहेतुत्वेन प्रशंसनं चेति -


ब्राह्मण ३ वैसर्जनहोमोपक्रमः

३ सर्जनहोमोपक्रमः वैसर्जननामनिरुक्तिपूर्वकं तत्प्रशंसनं, अन्तरालवर्त्यग्नीषोमीयप्रयोगकथनं, तत्र पदपांसोश्चतुर्धा विभज्य विनियोग इति केषांचित्पक्षमुपन्यस्य तन्निराकरणम् , अग्नीषोमीयार्थमाज्यपृषदाज्ययोर्ग्रहण- विधानम्, समंत्रकमाहवनीये वैसर्जनहोमस्य विधानं, अप्तवे द्वितीयाहुतेः समन्त्रकं विधानम्, इध्मस्योद्यच्छनमुपयमन्या उपयच्छनं च विधाय अग्नीषोमीयप्रणयनविषये विकल्पपक्षं निराकृत्य सिद्धान्तस्थापनं, अग्निना सह सोमार्थमग्नीषोमीयार्थं च तत्तत्पात्रादिकं पदार्थजातमादाय आग्नीध्रं प्रति प्राग्गमन- विधानं, तेषु सर्वेष्वायत्सु सत्सु वाचनविधानं, तत्र निहितेऽग्नौ समन्त्रकमाज्यहोमस्य विधानं, आनीतानां ग्रावादीमाहवनीयमुत्तरेणासादनकथनम्, अध्वर्युकर्तृकं सप्रकारकमिध्मवेदिबर्हिषांप्रोक्षणपूर्वकमाघारसमिद्याव् धानकथनं, समंत्रकं तुरीयवैसर्जनहोमविधानं, वैष्णव्यर्चाहोमस्य प्रशंसनं, सार्थवादमासाद्य स्रुचोऽप उपस्पृश्य राज्ञः प्रपादनविधानं दक्षिणस्य हविर्धानस्य नीडे कृष्णाजिनमास्तीर्य तत्र समंत्रकं सोमस्य निधानविधानं, मंत्रतदर्थयुतमनुसृज्योपस्थानं, हविर्धानात्समंत्रकं निष्क्रमणविधानम्, एप्याहवनीये समंत्रकं समिधोऽभ्याधा- नविधानं, सहेतुकं वैसर्जनहोमपर्यन्तं दीक्षितस्य नाम न गृह्णीयादिति विधेरुन्नयनम्, अत्रावसरेऽङ्गुलीनां विसर्जनविधानं चेत्यादि.


ब्राह्मण ४ यूपसम्पादनम्

४ यूपसम्पादनं-तत्र यूपं व्रक्ष्यन् वैष्णव्यर्चा होमं कुर्यादिति सप्रकारकं सप्रशंसनं विधानम्, आज्यशेषमादाय तक्ष्णा सह यूपं प्रति गमनविधानं, यूपमभिमृश्य जपविधानं, पक्षान्तरे तिष्ठताऽभिमंत्रणं कुर्यादिति विधानं तन्मंत्रार्थविवरणं च, समंत्रकं स्रुवेण यूपस्योपस्पर्शनं समंत्रकं दर्भतरुणकेन यूपस्य व्यवधानकरणं, समंत्रकं स्वधितिना यूपे प्रहरणविधानं सप्रयोजनं प्रथमच्छिन्नस्य शकलस्य यूपावटे प्रक्षे- पार्थमादानकथनं, यूपस्याधःपातनविषये प्रागादिदिक्त्रयस्य विकल्पेन प्रतिपादनं, मंत्रतदर्थसहितं सप्रयोजनं प्रच्यवमानस्य यूपस्यानुमंत्रणविधानं, मंत्रतदर्थ सहितस्याव्रश्चनहोमस्य विधानं तत्प्रशंसन चं, सविशेषं यूपस्य परिवासनकथनं, यूपस्य मानविषये पञ्चारत्निप्रभृति पञ्चदशारत्निपर्यन्तं बहुप्रकाराणां विकल्पेन प्रदर्शनं, प्रसंगाद्वाजपेययूपस्य सप्तदशारत्नित्वनिरूपणं, सका- रणमुक्तप्रकारेभ्योप्यधिकस्योन्मानस्यान्यनुज्ञापनं, सहेतुकं यूपस्याष्टाश्रित्वविधानं चेत्यादि,