प्रमुखा विकल्पसूचिः उद्घाट्यताम्


३.६.३ वैसर्जनहोमः

सर्वं वा एषोऽभि दीक्षते । यो दीक्षते यज्ञं ह्यभि दीक्षते यज्ञं ह्येवेदं सर्वमनु तं यज्ञं सम्भृत्य यमिममभि दीक्षते सर्वमिदं विसृजते - ३.६.३.[१]

यद्वैसर्जनानि जुहोति । स यदिदं सर्वं विसृजते तस्माद्वैसर्जनानि नाम तस्माद्योऽपिव्रतः स्यात्सोऽन्वारभेत यद्यु अन्यत्र चरेन्नाद्रियेत यद्वै जुहोति तदेवेदं सर्वं विसृजते - ३.६.३.[२]

यद्वेव वैसर्जनानि जुहोति । यज्ञो वै विष्णुः स देवेभ्य इमां विक्रान्तिं विचक्रमे
यैषामियं विक्रान्तिरिदमेव प्रथमेन पदेन पस्पाराथेदमन्तरिक्षं द्वितीयेन दिवमुत्तमेनैताम्वेवैष एतस्मै विष्णुर्यज्ञो विक्रान्तिं विक्रमते यज्जुहोति तस्माद्वैसर्जनानि जुहोति - ३.६.३.[३]

सोऽपराह्णे वेदिं स्तीर्त्वा । अर्धव्रतं प्रदाय सम्प्रपद्यन्त इध्ममभ्यादधत्युपयमनीरुपकल्पयन्त्याज्यमधिश्रयति स्रुचः सम्मार्ष्ट्युपस्थे राजानं यजमानः कुरुतेऽथ सोमक्रयण्यै पदं जघनेन गार्हपत्यं परिकिरति पदा वै प्रतितिष्ठति प्रतिष्ठित्या एव - ३.६.३.[४]

तद्धैके । चतुर्द्धा कुर्वन्ति यत्राहवनीयमुद्धरन्ति तासूपयमनीषु चतुर्भागमक्षं चतुर्भागेणोपाञ्जन्त्येतासूपयमनीषु चतुर्भागं जघनेन गार्हपत्यं चतुर्भागं परिकिरति - ३.६.३.[५]

तदु तथा न कुर्यात् । सार्द्धमेव परिकिरेज्जघनेन गार्हपत्यमथोत्पूयाज्यं चतुर्गृहीते जुह्वां चोपभृति च गृह्णाति पञ्चगृहीतं पृषदाज्यं ज्योतिरसि विश्वरूपं विश्वेषां देवानां वैश्वदेवं हि पृषदाज्यं धारयन्ति स्रुचो यदा प्रदीप्त इध्मो भवति - ३.६.३.[६]

अथ जुहोति । त्वं सोम तनूकृद्भ्यो द्वेषोभ्योऽन्यकृतेभ्य उरु यन्तासि वरूथं स्वाहेति तदेतेनैवास्यां पृथिव्यां प्रतिष्ठायां प्रतितिष्ठत्येतेनेमं लोकं स्पृणुते - ३.६.३.[७]

अथाप्तवे द्वितीयामाहुतिं जुहोति । जुषाणोऽ अप्तुराज्यस्य वेतु स्वाहेत्येष उ हैवैतदुवाच रक्षोभ्यो वै बिभेमि यथा माऽन्तरा नाष्ट्रा रक्षांसि न हिनसन्नेवं मा कनीयांसमेव वधात्कृत्वाऽतिनयत स्तोकमेव स्तोको ह्यप्तुरिति तमेतत्कनीयांसमेव वधात्कृत्वाऽत्यनयन्त्स्तोकमेव स्तोको ह्यप्तू रक्षोभ्यो भीषा तस्मादप्तवे द्वितीयामाहुतिं जुहोति - ३.६.३.[८]

उद्यच्छन्तीध्मम् । उपयच्छन्त्युपयमनीरथाहाग्नये प्रह्रियमाणायानुब्रूहि सोमाय प्रणीयमानायेति वाग्नये प्रह्रियमाणायानुब्रूहीति त्वेव ब्रूयात् - ३.६.३.[९]

आददते ग्राव्णः । द्रोणकलशं वायव्यानीध्मं कार्ष्मर्यमयान्परिधीनाश्ववालम्प्रस्तरमैक्षव्यौ विधृती तद्बर्हिरुपसंनद्धं भवति वपाश्रपण्यौ रशने अरणी अधिमन्थनः शकलो वृषणौ तत्समादाय प्राञ्च आयन्ति स एष ऊर्ध्वो यज्ञ एति - ३.६.३.[१०]

तदायत्सु वाचयति । अग्ने नय सुपथा राये अस्मान्विश्वानि देव वयुनानि विद्वान्
युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमउक्तिं विधेमेत्यग्निमेवैतत्पुरस्तात्करोत्यग्निः पुरस्तान्नाष्ट्रा रक्षांस्यपघ्नन्नेत्यथाभयेनानाष्ट्रेण हरन्ति त आयन्त्यागच्छन्त्याग्नीध्रं तमाग्नीध्रे निदधाति - ३.६.३.[११]

स निहिते जुहोति । अयं नो अग्निर्वरिवस्कृणोत्वयं मृधः पुर एतु प्रभिन्दन्। अयं वाजाञ्जयतु वाजसातावयं शत्रूञ्जयतु जर्हृषाणः स्वाहेति तदेतेनैवैतस्मिन्नन्तरिक्षे प्रतिष्ठायां प्रतितिष्ठत्येतेनैतं लोकं स्पृणुते - ३.६.३.[१२]

तदेव निदधति ग्राव्णः । द्रोणकलशं वायव्यान्यथेतरमादायायन्ति तदुत्तरेणाहवनीयमुपसादयन्ति - ३.६.३.[१३]

प्रोक्षणीरध्वर्युरादत्ते । स इध्ममेवाग्रे प्रोक्षत्यथ वेदिमथास्मै बर्हिः प्रयच्छन्ति तत्पुरस्ताद्ग्रन्थ्यासादयति तत्प्रोक्ष्योपनिनीय विस्रंस्य ग्रन्थिमाश्ववालः प्रस्तर उपसंनद्धो भवति तं गृह्णाति गृहीत्वा प्रस्तरमेकवृद्बर्हिः स्तृणाति स्तीर्त्वा बर्हिः कार्ष्मर्यमयान्परिधीन्परिदधाति परिधाय परिधीन्त्समिधावभ्यादधात्यभ्याधाय समिधौ - ३.६.३.[१४]

अथ जुहोति । उरु विष्णो विक्रमस्वोरु क्षयाय नस्कृधि घृतं घृतयोने पिब प्रप्र यज्ञपतिं तिर स्वाहेति तदेतेनैवैतस्यां दिवि प्रतिष्ठायाम्प्रतितिष्ठत्येतेनैतं लोकं स्पृणुत यदेतया जुहोति - ३.६.३.[१५]

यद्वेव वैष्णव्यर्चा जुहोति । कनीयांसं वा एनमेतद्वधात्कृत्वात्यनैषु स्तोकमेव स्तोको ह्यप्तुस्तमेतदभयं प्राप्य य एवैष तं करोति यज्ञमेव यज्ञो हि विष्णुस्तस्माद्वैष्णव्यर्चा जुहोति - ३.६.३.[१६]

अथासाद्य स्रुचः । अप उपस्पृश्य राजानं प्रपादयति तद्यदासाद्य स्रुचोऽप उपस्पृश्य राजानं प्रपादयति वज्रो वा आज्यं रेतः सोमो नेद्वज्रेणाज्येन रेतः सोमं हिनसानीति तस्मादासाद्य स्रुचोऽप उपस्पृश्य राजानं प्रपादयति - ३.६.३.[१७]

स दक्षिणस्य हविर्धानस्य नीडे कृष्णाजिनमास्तृणाति । तदेनमासादयति देव सवितरेष ते सोमस्तं रक्षस्व मा त्वा दभन्निति तदेनं देवायैव सवित्रे परिददाति गुप्त्यै - ३.६.३.[१८]

अथानुसृज्योपतिष्ठते । एतत्त्वं देव सोम देवो देवानुपागा इदमहम्मनुष्यान्त्सह रायस्पोषेणेत्यग्नीषोमौ वा एतमन्तर्जम्भ आदधाते यो दीक्षत आग्नावैष्णवं ह्यदो दीक्षणीयं हविर्भवति यो वै विष्णुः सोमः स हविर्वा एष देवानां भवति यो दीक्षते तदेनमन्तर्जम्भ आदधाते तत्प्रत्यक्षं सोमान्निर्मुच्यते यदाहैतत्त्वं देव सोम देवो देवानुपागा इदमहम्मनुष्यान्त्सह रायस्पोषेणेति भूमा वै रायस्पोषः सह भूम्नेत्येवैतदाह - ३.६.३.[१९]

अथोपनिष्क्रामति । स्वाहा निर्वरुणस्य पाशान्मुच्य इति वरुणपाशे वा एषोऽन्तर्भवति योऽन्यस्यासंस्तत्प्रत्यक्षं वरुणपाशान्निर्मुच्यते यदाह स्वाहा निर्वरुणस्य पाशान्मुच्य इति - ३.६.३.[२०]

अथेत्याहवनीये समिधमभ्यादधाति । अग्ने व्रतपास्त्वे व्रतपा इत्यग्निर्हि देवानां व्रतपतिस्तस्मादाहाग्ने व्रतपास्त्वे व्रतपा इति या तव तनूर्मय्यभूदेषा सा त्वयि यो मम तनूस्त्वय्यभूदियं सा मयि यथायथं नौ व्रतपते व्रतान्यनु मे दीक्षां दीक्षापतिरमंस्तानु तपस्तपस्पतिरिति तत्प्रत्यक्षमग्नेर्निर्मुच्यते स स्वेन सतात्मना यजते तस्मादस्यात्राश्नन्ति मानुषो हि भवति तस्मादस्यात्र नाम गृह्णन्ति मानुषो हि भवत्यथ यत्पुरा नाश्नन्ति यथा हविषो ऽहुतस्य नाश्नीयादेवं तत्तस्माद्दीक्षितस्य नाश्नीयादथात्राङ्गुलीर्विसृजते - ३.६.३.[२१]