शतपथब्राह्मणम्/काण्डम् ६/अध्यायः ६/ब्राह्मणम् १

६.६.१

भूयांसि हवींषि भवन्ति । अग्निचित्यायां यदु चानग्निचित्यायामतीनि ह कर्माणि सन्ति यान्यन्यत्कर्माति तान्यतीनि तेषामग्निचित्या राजसूयो वाजपेयोऽश्वमेधस्तद्यत्तान्यन्यानि कर्माण्यति तस्मात्तान्यतीनि - ६.६.१.१

आग्नावैष्णव एकादशकपालः । तदध्वरस्य दीक्षणीयं वैश्वानरो द्वादशकपालऽ आदित्यश्च चरुस्ते अग्नेः - ६.६.१.२

स यदाग्नावैष्णवमेव निर्वपेत् । नेतरे हविषी अध्वरस्यैव दीक्षणीयं कृतं स्यान्नाग्नेरथ यदितरे एव हविषी निर्वपेन्नाग्नावैष्णवमग्नेरेव दीक्षणीयं कृतं स्यान्नाध्वरस्य - ६.६.१.३

उभयानि निर्वपति । अध्वरस्य चाग्नेश्चोभयं ह्येतत्कर्माध्वरकर्म चाग्निकर्म चाध्वरस्य पूर्वमथाग्नेरुपायि ह्येतत्कर्म यदग्निकर्म - ६.६.१.४

स य एष आग्नावैष्णवः । तस्य तदेव ब्राह्मणं यत्पुरश्चरणे वैश्वानरो द्वादशकपालो वैश्वानरो वै सर्वेऽग्नयः सर्वेषामग्नीनामुपाप्त्यै द्वादशकपालो द्वादश मासाः संवत्सरः संवत्सरो वैश्वानरः - ६.६.१.५

यद्वेवैतं वैश्वानरं निर्वपति । वैश्वानरं वा एतमग्निं जनयिष्यन्भवति तमेतत्पुरस्ताद्दीक्षणीयायां रेतो भूतं सिञ्चति यादृग्वै योनौ रेतः सिच्यते तादृग्जायते तद्यदेतमत्र वैश्वानरं रेतो भूतं सिञ्चति तस्मादेषोऽमुत्र वैश्वानरो जायते - ६.६.१.६

यद्वेवैते हविषी निर्वपति । क्षत्रं वै वैश्वानरो विडेष आदित्यश्चरुः क्षत्रं च तद्विशं च करोति वैश्वानरं पूर्वं निर्वपति क्षत्रं तत्कृत्वा विशं करोति - ६.६.१.७

एक एष भवति । एकदेवत्य एकस्थं तत्क्षत्रमेकस्थां श्रियं करोति चरुरितरो बहुदेवत्यो भूमा वा एष तण्डुलानां यच्चरुर्भूमो एष देवानां यदादित्या विशि तद्भूमानं दधातीत्यधिदेवतम् - ६.६.१.८

अथाध्यात्मम् । शिर एव वैश्वानर ऽआत्मैष आदित्यश्चरुः शिरश्च तदात्मानं च करोति वैश्वानरं पूर्वं निर्वपति शिरस्तत्कृत्वाऽऽत्मानं करोति - ६.६.१.९

एक एष भवति । एकमिव हि शिरश्चरुरितरो बहुदेवत्यो भूमा वा एष तण्डुलानां यच्चरुर्भूमो एषोऽङ्गानां यदात्माऽऽत्मंस्तदङ्गानां भूमानं दधाति - ६.६.१.१०

घृत एष भवति । घृतभाजना ह्यादित्याः स्वेनैवैनानेतद्भागेन स्वेन रसेन प्रीणात्युपांश्वेतानि हवींषि भवन्ति रेतो वा अत्र यज्ञ उपांशु वै रेतः सिच्यते - ६.६.१.११

अथौद्ग्रभणानि जुहोति । औद्ग्रभणैर्वै देवा आत्मानमस्माल्लोकात्स्वर्गं लोकमभ्युदगृह्णत यदुदगृह्णत तस्मादौद्ग्रभणानि तथैवैतद्यजमानऽ औद्ग्रभणैरेवात्मानमस्माल्लोकात्स्वर्गं लोकमभ्युद्गृह्णीते - ६.६.१.१२

तानि वै भूयांसि भवन्ति । अग्निचित्यायां यदु चानग्निचित्यायां तस्याक्तो बन्धुरुभयानि भवन्ति तस्योक्तोऽध्वरस्य पूर्वाण्यथाग्नेस्तस्यो एवोक्तः - ६.६.१.१३

पञ्चाध्वरस्य जुहोति । पाङ्क्तो यज्ञो यावान्यज्ञो यावत्यस्य मात्रा तावतैवैनमेतद्रेतो भूतं सिञ्चति सप्ताग्नेः सप्तचितिकोऽग्निः सप्तऽर्तवः संवत्सरः संवत्सरोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतद्रेतो भूतं सिञ्चति तान्युभयानि द्वादश सम्पद्यन्ते द्वादश मासाः संवत्सरः संवत्सरोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावत्तद्भवति - ६.६.१.१४

स जुहोति । आकूतिमग्निं प्रयुजं स्वाहेत्याकूताद्वा एतदग्रे कर्म समभवत्तदेवैतदेतस्मै कर्मणे प्रयुङ्क्ते - ६.६.१.१५

मनो मेधामग्निं प्रयुजं स्वाहेति । मनसो वा एतदग्रे कर्म समभवत्तदेवैतदेतस्मै कर्मणे प्रयुङ्क्ते - ६.६.१.१६

चित्तं विज्ञातमग्निं प्रयुजं स्वाहेति । चित्ताद्वा एतदग्रे कर्म समभवत्तदेवैतदेतस्मै कर्मणे प्रयुङ्क्ते - ६.६.१.१७

वाचो विधृतिमग्निं प्रयुजं स्वाहेति । वाचो वा एतदग्रे कर्म समभवत्तामेवैतदेतस्मै कर्मणे प्रयुङ्क्ते - ६.६.१.१८

प्रजापतये मनवे स्वाहेति । प्रजापतिर्वै मनुः स हीदं सर्वममनुत प्रजापतिर्वा एतदग्रे कर्माकरोत्तमेवैतदेतस्मै कर्मणे प्रयुङ्क्ते - ६.६.१.१९

अग्नये वैश्वानराय स्वाहेति । संवत्सरो वा अग्निर्वैश्वानरः संवत्सरो वा एतदग्रे कर्माकरोत्तमेवैतदेतस्मै कर्मणे प्रयुङ्क्ते - ६.६.१.२०

अथ सावित्रीं जुहोति । सविता वा एतदग्रे कर्माकरोत्तमेवैतदेतस्मै कर्मणे प्रयुङ्क्ते विश्वो देवस्य नेतुर्मर्तो वुरीत सख्यं विश्वो राय इषुध्यति द्युम्नं वृणीत पुष्यसे स्वाहेति यो देवस्य सवितुः सख्यं वृणीते स द्युम्नं च पुष्टिं च वृणीत एष अस्य सख्यं वृणीते य एतत्कर्म करोति - ६.६.१.२१

तान्यु हैके । उखायामेवैतान्यौद्ग्रभणानि जुह्वति कामेभ्यो वा एतानि हूयन्त आत्मोऽ एष यजमानस्य यदुखाऽऽत्मन्यजमानस्य सर्वान्कामान्प्रतिष्ठापयाम इति न तथा कुर्यादेतस्य वै यज्ञस्य संस्थितस्यैतासामाहुतीनां यो रसस्तदेतदर्चिर्यद्दीप्यते तद्यत्संस्थिते यज्ञे हुतेष्वौद्ग्रभणेषूखां प्रवृणक्ति तदेनामेष यज्ञ आरोहति तं यज्ञं बिभर्ति तस्मात्संस्थित एव यज्ञे हुतेष्वौद्ग्रभणेषूखां प्रवृञ्ज्यात् - ६.६.१.२२

मुञ्जकुलायेनावस्तीर्णा भवति । आदीप्यादिति न्वेव यद्वेव मुञ्जकुलायेन योनिरेषाग्नेर्यन्मुञ्जो न वै योनिर्गर्भं हिनस्त्यहिंसायै योनेर्वै जायमानो जायते योनेर्जायमानो जायाता इति - ६.६.१.२३

शणकुलायमन्तरं भवति । आदीप्यादिति न्वेव यद्वेव शणकुलायं प्रजापतिर्यस्यै योनेरसृज्यत तस्याऽ उमाऽ उल्बमासञ्छणा जरायु तस्मात्ते पूतयो जरायु हि तेन वै
जरायु गर्भं हिनस्त्यहिंसायै जरायुणो वै जायमानो जायते जरायुणो जायमानो जायाता इति - ६.६.१.२४