शतपथब्राह्मणम्/काण्डम् ६/अध्यायः ६
ब्राह्मणम् १
१ प्राकृतीमाग्नावैष्णवीष्टिं वैकृतीं वैश्वानरद्वादशकपालेष्टिं चादितो विधातुमुपोद्घातः, अतिकर्मशब्दस्य निर्वचनम् , अग्निचित्याया अतिकर्मत्वं प्रदर्शयितुं केषाञ्चिदतिकर्मणां परिगणनम् , आग्नावैष्णव एकादशकपालोऽध्वरस्य वैश्वानरो द्वादशकपाल आदित्यश्चरुश्चाग्नेरिति व्यवस्थापूर्वकं हविषां विधानम् , उमयविधहविषां करणाभिधानम् , अग्निचयनस्याध्वराग्न्युभयविधकर्मत्वाभिधानम्, तत्राप्यध्वरस्य पूर्वमथाग्नेरिति पौर्वापर्याभिधानञ्च, आग्नावैष्णवप्रयोगं
सूचयितुमाग्निष्टोमिकब्राह्मणस्यातिदेशकथनम् , अग्नेर्दीक्षणीयं हविरनूद्य तत्प शंसनं, प्रकारान्तरेण पुरोडाशदेवतायाः प्रशंसनम् , वैकृते उभे हविषी समुच्चित्य प्रशंसनम् , उभयोर्हविषोः पूर्वापरीभावस्य कथनम् , पूर्वस्मिन्हविषि द्रव्य. देवतयोरेकत्वमुत्तरस्मिन्हविषि तद्बहुत्वं चास्ति तयोरधिदेवताध्यात्मतया प्रशं. सनम् , चरोराश्रयभूतं द्रव्यमभिधायैषां त्रयाणां हविषामुपांशुधर्मकत्वप्रतिपादनम् , औद्ग्रभणानि हवींषि विधाय तेषां निर्वचनद्वारेण प्रशंसनम् , औद्ग्रभणहोमानां भूयस्त्वं विधायाग्निकैः सौमिकबाधप्रसक्तत्वाभिधानम् , आध्वरिकाणां पूर्वभावित्वमाग्निकानां पश्चाद्भावित्वं च विधाय तदर्थवादातिदेशकथनम् , आध्व. रिकाणां पञ्चसंख्यायाः प्रशंसनम् , आग्निकानामौद्ग्रभणानां सप्तसंख्यारूपस्य हविर्भूयस्त्वस्य सार्थवादं विधानं, सप्तौग्रभणहविर्मन्त्राननूद्य तेषां व्याख्यानं, केषांचिन्मतेन तप्तायामुखायामौद्ग्रभणहोमपक्षं साभिप्रायं सोपपत्तिकमनूद्य ते निराकृत्य च दीक्षणीयाख्ययज्ञे संस्थिते सत्यौद्ग्रभणेषु दीक्षासम्बन्धिषु हुतेषु सत्सु चोखाप्रवृञ्जनं कर्तव्यमिति स्वपक्षस्य सोपपत्तिकं प्रतिपादनं, सार्थवादमुखायां मुञ्जतृणावस्तरणविधानम् , मुञ्जकुलायादप्यन्तरं शणकुलायावस्तरणविधानं चेति.
ब्राह्मणम् २
२ उखाप्रवृञ्जने उदक्प्राङ्मुखत्वस्थितत्वादिधर्मविशेषं विधाय मन्त्रौ विनियुज्य च तयोर्व्याख्यानं, मन्त्रगतं द्वित्वं छन्दोविशेषत्वं च प्रशंस्य प्रवृञ्जनस्य छन्दोभिमानिदेवताद्वारेण छन्दोगतसर्वदेवतात्मकत्वद्वारेण मन्त्रद्वयगतपादसंख्याद्वारेण च प्रशंसनं, सन्तपनानंतरं जायमानाया उखादीप्ते रेतोरूपेण सन्तापकस्याग्नेः पुरुषरूपेणोखाया योषिद्रूपेण सन्तापस्य सम्भोगरूपेण च प्रशंसनम्, उखायां चिरारोहणविषये केषाञ्चित्पक्षमुपन्यस्य तं सकारणं दूषयित्वा स्वपक्षस्य स्थापनम् , अग्नावारूढे कार्मुक्याः प्रादेशमात्र्या धृते न्युतायाः प्रथमाया समिधः सार्थवादं समन्त्रकमाधानविधानं तन्मंत्रव्याख्यानं च, गर्भरूपायाः समिधः सर्वान्तरात्मत्वं प्रशंस्य तत्रोखादीनामात्मत्वादिकल्पनायामुपपत्तेः सप्रयोजनं प्रदर्शनं चेत्यादि.
ब्राह्मणम् ३
३ द्वितीयातृतीयाचतुर्थीपञ्चमीनां वैकङ्कत्योदुम्बर्यपरशुवृक्णाधःशयानां समिधां सार्थवादमाधानं विधाय तत्र प्रत्याधानं मन्त्रांश्च विनियुज्य तेषां व्याख्यानम् , उत्तरासामष्टानां पालाशीनां समिधां सार्थवादमाधानं विधाय तत्र प्रत्याधानं मन्त्रांश्च विनियुज्य तत्र षष्ठसप्तमयोर्मन्त्रयोर्विभज्य व्याख्यानमष्टमनवमदशमानां मन्त्राणां प्रतीकमात्रोपादानेनैकादशस्य मन्त्रस्य साकल्येन प्रदर्शनं च, एकादशस्य मन्त्रस्याख्यायिकया प्रशंसनं, सोपपत्तिकं तासामुक्तैकादशानां समिधां क्षत्रियपुरोहितव्यतिरिक्तत्वाभिधानं, क्षत्रियपुरोहितयोस्तु द्वादशसमिधो भवन्तीति निरूपणं, द्वादश्याः समिध आधाने पुरोहितपक्षे क्षत्रियपक्षे च क्रमान्मन्त्रौ विनियुज्य तयोस्तात्पर्याभिधानं, पक्षान्तरेणोपोत्तमोत्तमे उभे अपि समिधौ सर्वेषामाधातव्ये इति सार्थवादं निरूपणम्, एवमर्थसिद्धां त्रयोदशसंख्यामनूद्य तस्याः प्रशंसनम् , एतासां समिधां प्रादेशमात्रत्वं विधाय प्रशंसनं, विहितस्य समिदाधानस्य स्वाहाकारान्ततां विधाय तस्याः प्रशंसनं चेत्यादि.
ब्राह्मणम् ४
४ अन्वाख्यानब्राह्मणम्--समिदाधानानन्तरं सायमस्तमिते आदित्ये प्रातरुदिते आदित्य च मन्त्रतत्तात्पर्योपेतं भस्मोद्वपनविधानं, नक्तंदिवं क्रियमाणयोः समिदाधानभस्मोद्वपनयोः समुचित्य प्रशंसनं, व्रतप्रदानकाले व्रतपयसि समिधं न्यज्याधातव्यमिति विधानम्, अत्र केषाञ्चिन्मतेन न्यञ्जनाभावपक्षं सोपपत्तिकमुदाहृत्य तं निराकृत्य च स्वकीयन्यञ्जनपक्षस्य सयुक्तिकं निगमनं, व्रतपरिग्रहस्य समिदाधानानन्तर्यप्रशंसनं तत्र मन्त्रं विनियुज्य तस्य विभज्य व्याख्यानम् , उखाभेदनादिप्रायश्चित्तिकथने प्रतिज्ञाकरणम् , उखाभेदने सप्रकारकं प्रायश्चित्तनिरूपणं, उख्याग्न्यनुगमने सप्रकारकं प्रायश्चित्तनिरूपणं, विहितं प्रायश्चित्तं सर्वकामसन्तानरूपत्वेन प्रशंस्य उभयविधप्रायश्चित्तं कर्तव्यमित्यभिधाय तद्गतप्रकारविशेषदर्शनं च, तत्राग्निकप्रायश्चित्ते प्रकारविशेषं मन्त्रविशेषं च दर्शयित्वा तन्मन्त्रार्थप्रदर्शनं, प्रसंगादुख्याग्न्याश्रयभूतगार्हपत्यस्याप्यनुगमे प्रायश्चित्ताभिधानं, सुत्याहे आहवनीयानुगमे प्रायश्चित्ताभिधानं, विहितस्य सौमिकाग्निकप्रायश्चित्तद्वयस्य व्यवस्थाकरणम्, आग्नीध्रीयाग्नेरनुगमने प्रायश्चित्ताभिधानं, सुत्याहे गार्हपत्यस्यानुगमे प्रागुक्तप्रायश्चित्तस्यातिदेशकथनं चेत्यादि।