शतपथब्राह्मणम्/काण्डम् ६/अध्यायः ६/ब्राह्मणम् ४

६.६.४

अथ विष्णुक्रमान्क्रान्त्वा । वात्सप्रेणोपस्थायास्तमित आदित्ये भस्मैव प्रथममुद्वपत्येतद्वा एनमेतेनान्नेन प्रीणात्येताभिः समिद्भिस्तस्यान्नस्य जग्धस्यैष पाप्मा सीदति भस्म तेनैनमेतद्व्यावर्तयति तस्मिन्नपहतपाप्मन्वाचं विसृजते वाचं विसृज्य समिधमादधाति रात्र्या एवैनमेतदन्नेन प्रीणाति रात्रींरात्रीमप्रयावं भरन्त इति तस्योक्तो बन्धू रात्र्या एवैतामरिष्टिं स्वस्तिमाशास्ते तद्यत्किं चाती रात्र्योपसमादधात्याहुतिकृतं हैवास्मै तदुपसमादधाति - ६.६.४.१

अथ प्रातरुदित आदित्ये । भस्मैव प्रथममुद्वपत्येतद्वा एनमेतेनान्नेन प्रीणात्येतया समिधा यच्च रात्र्योपसमादधाति तस्यान्नस्य जग्धस्यैष पाप्मा सीदति भस्म तेनैनमेतद्व्यावर्तयति तस्मिन्नपहतपाप्मन्वाचं विसृजते वाचं विसृज्य समिधमादधात्यह्न एवैनमेतदन्नेन प्रीणात्यहरहरप्रयावम्भरन्त इति तस्योक्तो बन्धुरह्न एवैतामरिष्टिं स्वस्तिमाशास्ते तद्यत्किं चातोऽह्नोपसमादधात्याहुतिकृतं हैवास्मै तदुपसमादधाति - ६.६.४.२

अहोरात्रे वा ऽअभिवर्तमाने संवत्सरमाप्नुतः संवत्सरऽ इदं सर्वमाह्नायैवैतामरिष्टिं स्वस्तिमाशास्ते - ६.६.४.३

अथ यदास्मै व्रतं प्रयच्छन्ति । अथ व्रते न्यज्य समिधमादधाति न व्रते न्यञ्ज्यादित्यु हैक आहुराहुतिं तज्जुहुयादनवकॢप्तं वै तद्यद्दीक्षित आहुतिं जुहुयादिति - ६.६.४.४

स वै न्यञ्ज्यादेव । देवो वा अस्यैष आत्मा मानुषोऽयं स यन्न न्यञ्ज्यान्न हैतं दैवमात्मानं प्रीणीयादथ यन्न्यनक्ति तथो हैतं दैवमात्मानं प्रीणाति सा यत्समित्तेन नाहुतिर्यदु व्रते न्यक्ता तेनान्नमन्नं हि व्रतम् - ६.६.४.५

स वै समिधमाधायाथ व्रतयति । दैवो वा अस्यैष आत्मा मानुषोऽयं देवा उ वाअग्रेऽथ मनुष्यास्तस्मात्समिधमाधायाथ व्रतयति - ६.६.४.६

अन्नपतेऽन्नस्य नो देहीति । अशनपतेऽशनस्य नो देहीत्येतदनमीवस्य शुष्मिण इत्यनशनायस्य शुष्मिण इत्येतत्प्रप्र दातारं तारिष इति यजमानो वै दाता प्र यजमानं तारिष इत्येतदूर्जं नो धेहि द्विपदे चतुष्पद इत्याशिषमाशास्ते यदु भिन्नायै प्रायश्चित्तिमाहोत्तरस्मिंस्तदन्वाख्यान इति - ६.६.४.७

यद्येषोखा भिद्येत । याऽभिन्ना नवा स्थाल्युरुबिलो स्यात्तस्यामेनं पर्यावपेदार्च्छति वा एषोखा या भिद्यतेऽनार्तो वा इयं देवतानार्तायामिममनार्तं बिभराणीति तत्रोखायै कपालं पुरस्तात्प्रास्यति तथो हैष एतस्यै योनेर्न च्यवते - ६.६.४.८

अथ मृदमाहृत्य । उखां चोपशयां च पिष्ट्वा संसृज्योखां करोत्येतयैवावृताऽनुपहरन्यजुस्तूष्णीमेव पक्त्वा पर्यावपति कर्मणिरेव तत्र प्रायश्चित्तिः पुनस्तत्कपालमुखायामुपसमस्योखां चोपशयां च पिष्ट्वा संसृज्य निदधाति प्रायश्चित्तिभ्यः - ६.६.४.९

अथ यद्येष उख्योऽग्निरनुगच्छेत् । गार्हपत्यं वाव स गच्छति गार्हपत्याद्धि स आहृतो भवति गार्हपत्यादेवैनं प्राञ्चमुद्धृत्योपसमाधायोखां प्रवृञ्ज्यादेतयैवावृतानुपहरन्यजुस्तूष्णीमेव तां यदाऽग्निरारोहति - ६.६.४.१०

अथ प्रायश्चित्ती करोति । सर्वेभ्यो वा एष एतं कामेभ्यो आधत्ते तद्यदेवास्यात्र कामानां व्यवच्छिद्यतेऽग्नावनुगते तदेवैतत्संतनोति संदधात्युभे प्रायश्चित्ती करोत्यध्वरप्रायश्चित्तिं चाग्निप्रायश्चित्तिं चाध्वरस्य पूर्वामथाग्नेस्तस्योक्तो बन्धुः - ६.६.४.११

स समिधाऽऽज्यस्योपहत्य । आसीन आहुतिं जुहोति विश्वकर्मणे स्वाहेत्यथोपोत्थाय समिधमादधाति पुनस्त्वाऽऽऽदित्या रुद्रा वसवः समिन्धतां पुनर्ब्रह्माणो वसुनीथ यज्ञैरित्येतास्त्वा देवताः पुनः समिन्धतामित्येतद्घृतेन त्वं तन्वं वर्धयस्व सत्याः सन्तु यजमानस्य कामा इति घृतेनाह त्वं तन्वं वर्द्धयस्व येभ्यऽ उ त्वां कामेभ्यो यजमान आधत्त तेऽस्य सर्वे सत्याः सन्त्वित्येतत् - ६.६.४.१२

अथ यदि गार्हपत्योऽनुगच्छेत् । अरणी वाव स गच्छत्यरणिभ्यां हि स आहृतो भवत्यरणिभ्यामेवैनं मथित्वोपसमाधाय प्रायश्चित्ती करोति - ६.६.४.१३

अथ यदि प्रसुत आहवनीयोऽनुगच्छेत् । गार्हपत्यं वाव स गच्छति गार्हपत्याद्धि स आहृतो भवति गार्हपत्यादेवैनं प्राञ्चं सांकाशिनेन हृत्वोपसमाधाय प्रायश्चित्ती करोति यस्तस्मिन्कालेऽध्वरः स्यात्तामध्वरप्रायश्चित्तिं कुर्यात्समान्यग्निप्रायश्चित्तिः - ६.६.४.१४

अथ यद्याग्नीध्रीयोऽनुगच्छेत् । गार्हपत्यं वाव स गच्छति गार्हपत्याद्धि स आहृतो भवति गार्हपत्यादेवैनं प्राञ्चमुत्तरेण सदो हृत्वोपसमाधाय प्रायश्चित्ती करोत्यथ यदि गार्हपत्योऽनुगच्छेत्तस्योक्तो बन्धुः - ६.६.४.१५
इति षष्ठोऽध्यायः समाप्तः।।