ब्राह्मणम् १

१ वनीवाहनम्-तत्र पूर्वमुख्याग्नेर्गार्हपत्यं प्रतिअनसा प्रापणं । विधातुमुपोद्घातकथनं, साभिप्रायमन्वव्यतिरेकाभ्यां वनीवाहनकर्मविधानं, वनीवाहनस्य प्रकारान्तरेण प्राप्तिमाशङ्क्य तत्समाधानकथनं, दैवं मानुषं चेत्युभय विधमपि वनीवाहनं कर्तव्यमिति सकारणं प्रदर्शनम् , उक्तार्थज्ञानपूर्वकमनुतिष्ठतः फलाभिधानम् , उख्याग्नेगार्हपत्यचयनदेशं प्रति प्रणयनप्रयोगनिरूपणं तत्र साभिप्रायं समंत्रकं सार्थवादं समिदाधानविधानम् , उख्याग्नेरनस उपरि स्थापयितुं सासन्दीकमुद्यमनविधानं, तत्र मंत्रं विनियुज्य तस्य व्याख्यानम्, उद्भृतस्याग्नेरनसि स्थापने विशेषाभिधानं तत्र स्तावकार्थवादातिदेशकथनं च, अनस्यनुडुहोर्योजनं तत्क्रमं च प्रतिपाद्य तत्र मंत्रं विनियुज्य च तस्य व्याख्यानं, गमनसमयेऽनसोऽक्षध्वनौ सार्थवादं जपरूपप्रायश्चित्तनिरूपणम् , उख्याग्नेर्वासेऽवहरणपूर्वकं संस्कृते देशे स्थापनं विधाय तत्र पूर्ववत्साभिप्रायं समंत्रकं समिदाधानं विधाय तन्मंत्रस्य व्याख्यानं, विनियुक्तानां मंत्राणां संपत्तेः प्रदर्शनं चेत्यादि.


ब्राह्मणम् २

२ भस्मन एवाभ्यवहरणस्याख्यायिकया मीमांसाकरणं, तत्राप्सु भस्मप्रक्षेपं तन्मंत्रं च विधाय मंत्रव्याख्यानं, भस्माभ्यवहरणे अपरं मन्त्रद्वयं विनियुज्य तयोर्व्याख्यानं प्रशंसनं च, मन्त्रगतत्रित्वप्रशंसनं, मन्त्रत्रयेण सकृद्भस्मप्रक्षेपप्रसक्तिं . निषिध्य सप्रकारकं त्रिरभ्यवहरणविधानं, अद्भ्यः पुनरीषद्भस्मादातव्यमिति विधाय प्रशंस्य च मंत्रचतुष्टयं विनियुज्य तद्व्याख्यानम् , उत्तरमंत्रद्वयस्य पृथग्विनियोगशङ्काया निराकरणं, भस्मनोऽभ्यवहरणपुनरपादानमंत्रगतायाः संख्यायाः समुच्चित्य प्रशंसनं, प्रत्येत्यात्तं भस्मोखायामोप्योपतिष्ठेतेति सप्रयोजनं सप्रसङ्गं सार्थवादं निरूपणं, तत्र मंत्रद्वयं विनियुज्य स्तावकार्थवादातिदेशसहितं तयोर्मन्त्रयोर्व्याख्यानम् , एतन्मंत्रगतां द्वित्वसंख्यां प्रागुक्तभस्माभ्यवहरणतदपादानमन्त्रगतसंख्यया समुच्चित्य तस्याः समुच्चितायाः संख्यायाः प्रशंसनम्, उपस्थानानंतरं द्विविधप्रायश्चित्तस्य तन्निमित्तस्य च प्रदर्शनं, प्रागुक्तमन्त्रगतनवसंख्यया सह प्रायश्चित्तमन्त्रसंख्यां समुच्चित्य तस्याः प्रशंसनं चेत्यादि.