प्रथमं ब्राह्मणम्

१ आत्मन्यग्निग्रहणस्य सकारणमवश्यकर्तव्यत्वमुपपाद्य तस्य मन्त्रतदर्थविवरणोपेतं सगुणं सधर्मकं सार्थवादं विधानं, प्राग्विहितस्य सत्यसाम्नो गानमनूद्य तत्प्रशंसनम् , उक्तायाः परकृतेः प्रकृते योजनपुरःसरं सत्यपदस्याभिप्रेतमर्थमाविष्कृत्य तत्प्रशंसनं,
पुष्करपर्णेष्टकोपधानम्--सार्थवादं पुष्करपर्णोपधानं, पुष्करपर्णस्याग्नियोनित्वस्यानुवादपूर्वकं सार्थवादमुपपादनं, पुष्करपर्णोपधाने मंत्रं विनियुज्य तस्य पदशो व्याख्यानं,--
रुक्मेष्टकोपधानम्-आकाशात्मना स्तुतस्य पुष्करपर्णस्य मध्ये सूर्यात्मना ध्यातव्यस्य रुक्मस्य सोपपतिकं सविशेषं सकारणं विधानं, रुक्मस्य पुष्करपर्णे उपधानं सोपपत्तिकं सार्थवादं विधाय तस्य पुष्करपर्णाधिकरणत्वस्याख्यायिकया पुष्करनामनिर्वचनेन प्रतिष्ठारूपत्वं प्रतिपाद्य तद्द्वारा प्रशंसनं, पुष्करपर्णोपधाने मंत्रं विनियुज्य तस्य पादशो व्याख्यानं,
पुरुषेष्टकोपधानम्--रुक्ममध्ये हिरण्मयपुरुषस्योपधानं सार्थवादं विधाय तस्य प्रकारान्तरेण मनः--प्राणाद्यात्मकसूक्ष्मशरीरस्थापनरूपेण प्रशंसनं, प्रसङ्गाद्धिरण्यनामनिर्वचनं, पुरुषोपधानस्याधारं विशेषं विधाय तत्प्रशंसनं, तत्रोपधाने पुरुषस्योर्ध्वमुखत्वं प्राङ्मुखत्वं च विधायाख्यायिकया तदुपपादनप्रशंसने, तत्रोपधाने मन्त्रद्वयं विनियुज्य पादशोऽनूद्य व्याख्याय च मन्त्रद्वित्वस्य तद्गतछन्दोद्वारा प्रशंसनं च, पुरुषोपधानाङ्गत्वेन चित्रसामगानं विधाय तस्य पुरुषगतवीर्याधानहेतुत्वस्याख्यायिकया विशदीकरणं, यजमानकर्तृकं सर्पनामभिर्मन्त्रैः पुरुषस्योपस्थानं विधाय तस्य लोकत्रयस्थापनहेतुत्वस्याख्यायिकया विशदीकरणं, सर्पनामभिरुपस्थानं प्रकारान्तरेण प्रशंस्य सर्पनाममन्त्रत्रयस्य तात्पर्योपेतं व्याख्यानं, मन्त्रगतत्रित्वसंख्यां प्रशंस्योपस्थाने स्थितिगुणत्वं च' विधाय तत्प्रशंसनम्, उपस्थानानन्तरमाज्यद्रव्यकस्याहुतिपञ्चकात्मकस्याभिहोमस्य सप्रकारकं सप्रयोजनं विधानं, तस्मिन्नभिहोमीयाहुतिपञ्चके रक्षोघ्नान्पञ्चमन्त्रान्विधायाभिहोमस्य रक्षोहननहेतुत्वं मन्त्रद्वारा द्रव्यद्वारा प्रतिपाद्य मन्त्रदेवताद्वारा मन्त्रगतछन्दोद्वारा च प्रशंसनं, विहितं परिसर्पणमनूद्य प्रशंस्य च तत्प्रकारस्य सविशेषं निरूपणम् ,
स्रुगिष्टकाद्वयोपधानम्--स्रुगिष्टकयोः सकारणं दक्षिणोत्तरपार्श्वयोः सार्थवादं विधानं, तत्र च दक्षिणपार्श्वोपधेयायाः स्रुचः कार्ष्मर्यमयत्वमाज्येन पूरणत्वम्-- उत्तरपार्श्वोपधेयायाः स्रुच औदुम्बरत्वं दध्ना पूरणत्वं चाभिधाय तेषां साख्यायिकं प्रशंसनं, स्रुचोरुपधानमनूद्य तयोर्बहुरूपतां वक्तुं तदुपादानयोर्वृक्षयोरुत्पत्तेरभिधानं, कार्ष्मर्यमय्याः स्रुच उपधाने आग्नेयं मन्त्रं विधाय तं प्रशंस्य च स्रुचो घृतपूरणत्वमनूद्य तत्प्रशंसनम् , औदुम्बर्या उपधाने ऐन्द्रं मन्त्रं विधाय पुनर्विकल्पेनैन्द्राग्नं मन्त्रं विधाय तं छन्दोदेवताद्वारा प्रशंस्य च स्रुचो दधि पूरणत्वमनूद्य तत्प्रशंसनं, स्रुचोरुपधाने स्थान विशेषमभिधाय तयोस्तिर्यगग्रतयोपधानं सोपपत्तिकं पूर्वपक्षीकृत्य तत्प्रतिविध्य च सिद्धान्ततया प्रागग्रत्वस्य सोपपत्तिकं निगमनं, स्थापनसादनाधिवदनानां पृथक्त्वं विधाय तत्प्रशंसनम् , उपहितस्य हिरण्मयपुरुषस्य स्रुग्व्यतिरिक्तबाहुकरणं सोपपत्तिकं पूर्वपक्षीकृत्य तत्प्रतिषिध्य च सिद्धान्ततया पुनः स्रुग्व्यतिरिक्तबाहुकरणस्यैव सोपपत्तिकं सहेतुकं निगमनं चेत्यादि.


द्वितीयं ब्राह्मणम्

स्वयमातृण्णेष्टकोपधानम्, दूर्वेष्टकोपधानम्, द्वियजुरिष्टकोपधानम्, रेतःसिगिष्टकाद्वयोपधानम्, विश्वज्योतिरिष्टकोपधानम्, ऋतव्येष्टकाद्वयोपधानम्, आषाढेष्टकोपधानम्

२ स्वयमातृण्णेष्टकोपधानम्-तत्र हिरण्मये पुरुषे स्वयमातृण्णेष्टकायाः सार्थवादमुपधानविधानं, विहितां स्वयमातृण्णामनूद्य तस्याः प्राणात्मना विस्रस्तावयवस्य प्रजापतेः प्रतिष्ठात्मना च प्रशसनं, विहिते उपधाने मन्त्रान्विधाय तेषां व्याख्यानं स्तावकार्थवादातिदेशसहितं सादनाधिवदनाभिधानं, स्वयमातृण्णायां सामगानं विधाय तत्प्रयोजनाभिधायकोऽर्थवाद उपरिष्टाद्वक्ष्यत इति प्रदर्शनं, स्वयमातृण्णायां पुरुषस्यानभिनिहितत्वोपादनम् ,
दूर्वेष्टकोपधानम्-दूर्वेष्टकोपधानं तत्स्थानविशेषं च विधाय तत्प्रशंसनं, विहितमुपधानमनूद्यौषधीनां दूर्वायाश्चोत्पत्तिप्रदर्शनपूर्वकं प्रशंसनं, उपधेयाया दुर्वेष्टकायाः सविशेषं लक्षणमभिधाय तत्पुरस्ताद्भूमौ औषधीनां प्ररोहणविधानं, विहिते उपधाने मंत्रद्वयं विनियुज्य तस्य निगदव्याख्यातत्वप्रदर्शनं, मंत्रगतं द्वित्वं प्रशंस्य सादनाधिवदनानुवदनं,
द्वियजुरिष्टकोपधानम् -- द्वियजुर्नामेष्टकोपधानं विधाय तस्य यजमानस्य स्वर्गप्राप्तिसाधनत्वेन प्रशंसनं, द्वियजुरित्येतन्नामनिर्वचनं, इष्टकाया यजमानात्मना प्रशंसनं, द्वियजुषो यजमानत्वोक्त्या लब्धावसरत्वेन याज्ञिकानां प्रश्नोत्तरकथनं, द्वियजुष उपधानस्यान्वयव्यतिरेकयोर्गुणदोषप्रदर्शनेनावश्यकत्वाभिधानं, अस्या इष्टकाया हिरण्मयपुरुषसमीपे सर्वथाऽनुपधाने दोषप्रदर्शनं तत्रोपधाने तु गुणप्रदर्शनं च, यजमानस्य हिरण्मयपुरुषद्वियजूरूपयोर्दैवमानुषशरीरयोर्मध्ये स्वयमातृण्णादूर्वेष्टकयोरुपधानेन व्यवधानाच्छरीरद्वयस्यापि प्राणेन सह कथमव्यवच्छेद इति प्रश्नमवतार्य तत्समाधाननिरूपणं, द्वियजुष उपधाने मंत्रद्वयं विनियुज्य तद्गतपुनःपुनःप्रयुक्तरुक्पदस्याभिप्रायप्रदर्शनं, पूर्ववत्सादनाधिवदनानुवदनम् , रेतःसिगिष्टकाद्वयोपधानम--रेतःसिगिष्टकाद्वयोपधानं विधाय तयोरिष्टकयोः पृथिवीद्युलोकात्मना प्रशंस्य च तयो रेतःसिक्त्वोपपादनं, तयोरुपधाने क्रमेण मंत्रद्वयं विधाय तद्गत " विराट्स्वराट् " शब्दाभिधेयत्वमुपपाद्योपधानमंत्रयोः पार्थक्यं सादनमंत्रस्य चैकत्वमित्यभिधानम् , एतदिष्टकाद्वयमण्डात्मना प्रशंस्य स्थानविशेषे उपधानस्य प्रयोजनकथनं,
विश्वज्योतिरिष्टकोपधानम्--विश्वज्योतिराख्याया इष्टकाया उपधानम् विधाय तामग्न्यात्मना प्रशंस्य स्थानविशेषे उपधानमुपपाद्य च तस्या इष्टकायाः प्रजात्मनाऽपि प्रशंसनं, विहिते उपधाने मंत्रं विधाय तद्व्याख्यानं, पूर्ववत्सादनाधिवदनानुवदनम्,
ऋतव्येष्टकाद्वयोपधानम्-ऋतव्याख्ययोरिष्टकयोरुपधानस्य सोपपत्तिकं मंत्रतदभिप्रायसहितं विधानं, प्रथमायां चितौ तदुपधानस्य कारणत्वाभिधानं, पुनस्तयोरेव कर्तव्ययोः प्रजापतेः प्रतिष्ठात्मना प्रशंसनं, ऋतव्ययोरिष्टकयोरुपधानस्य स्थानविशेषं विधाय प्रशंसनम् ,
आषाढेष्टकोपधानम्--आषाढेष्टकाया उपधानं चयनस्थलस्य पूर्वभागे कर्तव्यमिति साभिप्रायं विधाय तस्या इष्टकाया आषाढेति नामधेयप्राप्तिं प्रदर्श्योपधानोपयोगप्रदर्शनम् , एतस्या इष्टकाया वागात्मनाऽपि प्रशंसनम्, आषाढेष्टकायाः पृथिव्यात्मकत्वमुपजीव्य वामभृत्संज्ञाप्राप्त्या आधिभौतिकाध्यात्मिकप्राणात्मकत्वस्योपपादनम् , उक्तं प्राणद्वयात्मकत्वमुपजीव्य तस्याः पूर्वभागे उपधानस्योपपादनम् , आषाढायाः पूर्वभागे मंत्रवत्या इष्टकाया उपधानस्य सहेतुकं निवारणं, ननु यदि समंत्रकानामिष्टकानामुपधाने प्राणाविधान तर्हि अपस्यानां मंत्रविशिष्टानामिष्टकानामुपधानेन तत्कस्मान्न भवतीति प्रतिपादनं, तस्या ऋतव्ययोः समीपे सकारणमुपधानं विधाय प्रशंसनं, प्रकृताया इष्टकाया उपधाने मन्त्रं विधाय तव्याख्यानं, दूर्वेष्टकादीनां स्वयमातृण्णायाः पूर्वभागे उपधाने कारणाभिधानं चेत्यादि.