शतपथब्राह्मणम्/काण्डम् ७/अध्यायः ४/प्रथमं ब्राह्मणम्

७.४.१

आत्मन्नग्निं गृह्णीते चेष्यन् । आत्मनो वा एतमधिजनयति यादृशाद्वै जायते तादृङ्ङेव भवति स यदात्मन्नगृहीत्वाग्निं चिनुयान्मनुष्यादेव मनुष्यं जनयेन्मर्त्यान्मर्त्यमनपहतपाप्मनोऽनपहतपाप्मानमथ यदात्मन्नग्निं गृहीत्वा चिनोति तदग्नेरेवाध्यग्निं जनयत्यमृतादमृतमपहतपाप्मनोऽपहतपाप्मानम् - ७.४.१.१

स गृह्णाति । मयि गृह्णाम्यग्रे अग्निमिति तदात्मन्नेवाग्रेऽग्निं गृह्णाति रायस्पोषाय सुप्रजास्त्वाय सुवीर्यायेति तदु सर्वा आशिष आत्मन्गृह्णीते मामु देवताः सचन्तामिति तदु सर्वान्देवानात्मन्गृह्णीते तद्यत्किं चात्मनोऽधि जनयिष्यन्भवति तत्सर्वमात्मन्गृह्णीते स वै तिष्ठन्नात्मन्नग्निं गृहीत्वानूपविश्य चिनोति पशुरेष यदग्निस्तस्मात्पशुस्तिष्ठन्गर्भं धित्वानूपविश्य विजायते - ७.४.१.२

अथ सत्यं साम गायति । एतद्वै देवा अब्रुवन्त्सत्यमस्य मुखं करवाम ते सत्यं भविष्यामः सत्यं नोऽनुवर्त्स्यति सत्यो नः स कामो भविष्यति यत्कामा एतत्करिष्यामह इति - ७.४.१.३

त एतत्सत्यं साम पुरस्तादगायन् । तदस्य सत्यं मुखमकुर्वंस्ते सत्यमभवन्त्सत्यमेनानन्ववर्तत सत्य एषां स कामोऽभवद्यत्कामा एतदकुर्वत - ७.४.१.४

तथैवैतद्यजमानः । यत्सत्यं साम पुरस्ताद्गायति तदस्य सत्यं मुखं करोति स सत्यं भवति सत्यमेनमनुवर्तते सत्योऽस्य स कामो भवति यत्काम एतत्कुरुते - ७.४.१.५

तद्यत्तत्सत्यम् । आप एव तदापो हि वै सत्यं तस्माद्येनापो यन्ति तत्सत्यस्यरूपमित्याहुरप एव तस्य सर्वस्याग्रमकुर्वंस्तस्माद्यदैवापो यन्त्यथेदं सर्वं जायते यदिदं किं च - ७.४.१.६

अथ पुष्करपर्णमुपदधाति । योनिर्वै पुष्करपर्णं योनिमेवैतदुपदधाति - ७.४.१.७

यद्वेव पुष्करपर्णमुपदधाति । आपो वै पुष्करं तासामियं पर्णं यथा ह वा इदं पुष्करपर्णमप्स्वध्याहितमेवमियमप्स्वध्याहिता सेयं योनिरग्नेरियं ह्यग्निरस्यै हि सर्वोऽग्निश्चीयत इमामेवैतदुपदधाति तामनन्तर्हितां सत्यादुपदधातीमां तत्सत्ये प्रतिष्ठापयति तस्मादियं सत्ये प्रतिष्ठिता तस्माद्वियमेव सत्यमियं ह्येवैषां लोकानामद्धातमाम् - ७.४.१.८

अपां पृष्ठमसि योनिरग्नेरिति । अपां हीयं पृष्ठं योनिर्हीयमग्नेः समुद्रमभितः पिन्वमानमिति समुद्रो हीमामभितः पिन्वते वर्धमानो महां आ च पुष्कर इति वर्धमानो महीयस्व पुष्कर इत्येतद्दिवो मात्रया वरिम्णा प्रथस्वेत्यनुविमार्ष्ट्यसौ वा आदित्य एषोऽग्निर्नो हैतमन्यो दिवो वरिमा यन्तुमर्हति द्यौर्भूत्वैनं यच्छेत्येवैतदाह स्वराजोपदधाति स्वाराज्यं ह्यपां सादयित्वा सूददोहसाधिवदति तस्योक्तो बन्धुः - ७.४.१.९

अथ रुक्ममुपदधाति । असौ वा आदित्य एष रुक्म एष हीमाः सर्वाः प्रजा अतिरोचते रोचो ह वै तं रुक्म इत्याचक्षते परोऽक्षं परोऽक्षकामा हि देवा अमुमेवैतदादित्यमुपदधाति स हिरण्मयो भवति परिमण्डल एकविंशतिनिर्बाधस्तस्योक्तो बन्धुरधस्तान्निर्बाधमुपदधाति रश्मयो वा एतस्य निर्बाधा अवस्तादु वा एतस्य रश्मयः - ७.४.१.१०

तं पुष्करपर्ण उपदधाति । योनिर्वै पुष्करपर्णं योनावेवैनमेतत्प्रतिष्ठापयति - ७.४.१.११

यद्वेव पुष्करपर्ण उपदधाति । प्रतिष्ठा वै पुष्करपर्णमियं वै पुष्करपर्णमियमु वै प्रतिष्ठा यो वा अस्यामप्रतिष्ठितोऽपि दूरे सन्नप्रतिष्ठित एव स रश्मिभिर्वा एषोऽस्यां प्रतिष्ठितोऽस्यामेवैनमेतत्प्रतिष्ठायां प्रतिष्ठापयति - ७.४.१.१२

यद्वेव पुष्करपर्ण उपदधाति । इन्द्रो वृत्रं हत्वा नास्तृषीति मन्यमानोऽपः प्राविशत्ता अब्रवीद्बिभेमि वै पुरं मे कुरुतेति स योऽपां रस आसीत्तमूर्ध्वं समुदौहंस्तामस्मै पुरमकुर्वंस्तद्यदस्मै पुरमकुर्वंस्तस्मात्पूष्करम्पूष्करं ह वै तत्पुष्करमित्याचक्षते परोऽक्षं परोऽक्षकामा हि देवास्तद्यत्पुष्करपर्ण उपदधाति यमेवास्यैतमापो रसं समुदौहन्यामस्मै पुरमकुर्वंस्तस्मिन्नेवैनमेतत्प्रतिष्ठापयति - ७.४.१.१३

[]ब्रह्म जज्ञानं प्रथमं पुरस्तादिति । असौ वा आदित्यो ब्रह्माहरहः पुरस्ताज्जायते वि सीमतः सुरुचो वेन आवरिति मध्यं वै सीमेमे लोकाः सुरुचोऽसावादित्यो वेनो यद्वै प्रजिजनिषमाणोऽवेनत्तस्माद्वेनस्तानेष सीमतो मध्यतो विवृण्वन्नुदेति स बुध्न्या उपमा अस्य विष्ठा इति दिशो वा अस्य बुध्न्या उपमा विष्ठास्ता ह्येष उपवितिष्ठते सतश्च योनिमसतश्च विवरितीमे वै लोकाः सतश्च योनिरसतश्च यच्च ह्यस्ति यच्च न तदेभ्य एव लोकेभ्यो जायते त्रिष्टुभोपदधाति त्रैष्टुभो ह्येष सादयित्वा सूददोहसाधिवदति तस्योक्तो बन्धुः - ७.४.१.१४

अथ पुरुषमुपदधाति । स प्रजापतिः सोऽग्निः स यजमानः स हिरण्मयो भवति ज्योतिर्वै हिरण्यं ज्योतिरग्निरमृतं हिरण्यममृतमग्निः पुरुषो भवति पुरुषो हि प्रजापतिः - ७.४.१.१५

यद्वेव पुरुषमुपदधाति । प्रजापतेर्विस्रस्ताद्रम्या तनूर्मध्यत उदक्रामत्तस्यामेनमुत्क्रान्तायां देवा अजहुस्तं यत्र देवाः समस्कुर्वंस्तदस्मिन्नेतां रम्यां तनूं मध्यतोऽदधुस्तस्यामस्य देवा अरमन्त तद्यदस्यैतस्यां रम्यायां तन्वां देवा अरमन्त तस्माद्धिरम्यं हिरम्यं ह वै तद्धिरण्यमित्याचक्षते परोऽक्षं परोऽक्षकामा हि देवास्तथैवास्मिन्नयमेतां रम्यां तनूं मध्यतो दधाति तस्यामस्य देवारमन्ते प्राणो वा अस्य सा रम्या तनूः प्राणमेवास्मिन्नेतं मध्यतो दधाति - ७.४.१.१६

तं रुक्मऽउपदधाति । असौ वा आदित्य एष रुक्मोऽथ य एष एतस्मिन्मण्डले पुरुषः स एष तमेवैतदुपदधाति - ७.४.१.१७

उत्तानमुपदधाति । एतद्वै देवा अब्रुवन्यदि वा इमावर्वाञ्चा उपधास्यामः सर्वमेवेदं प्रधक्ष्यतो यद्यु पराञ्चौ पराञ्चावेव तप्स्यतो यद्यु सम्यञ्चावन्तरैवैतावेतज्ज्योतिर्भविष्यत्यथो अन्योऽन्यं हिंसिष्यत इति तेऽर्वाञ्चमन्यमुपादधुः पराञ्चमन्यं स एष रश्मिभिरर्वाङ्तपति रुक्मः प्राणैरेष ऊर्ध्वः पुरुषः प्राञ्चमुपदधाति प्राङ्ह्येषोऽग्निश्चीयते- ७.४.१.१८

हिरण्यगर्भः समवर्तताग्र इति । हिरण्यगर्भो ह्येष समवर्तताग्रे भूतस्य जातः पतिरेक आसीदित्येष ह्यस्य सर्वस्य भूतस्य जातः पतिरेक आसीत्स दाधार पृथिवीं द्यामुतेमामित्येष वै दिवं च पृथिवीं च दाधार कस्मै देवाय हविषा विधेमेति प्रजा पतिर्वै कस्तस्मै हविषा विधेमेत्येतत् - ७.४.१.१९

द्रप्सश्चस्कन्द पृथिवीमनु द्यामिति । असौ वा आदित्यो द्रप्सः स दिवं च पृथिवीं च स्कन्दतीत्यमूमितीमामिमं च योनिमनु यश्च पूर्व इतीमं च लोकममुंचेत्येतदथो यच्चेदमेतर्हि चीयते यच्चादः पूर्वमचीयतेति समानं योनिमनुसंचरन्तमिति समानं ह्येष एतं योनिमनु संचरति द्रप्सं जुहोम्यनु सप्त होत्रा इत्यसौ वा आदित्यो द्रप्सो दिशः सप्त होत्रा अमुं तदादित्यं दिक्षु प्रतिष्ठापयति - ७.४.१.२०

द्वाभ्यामुपदधाति । द्विपाद्यजमानो यजमानोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतदुपदधाति त्रिष्टुब्भ्यां त्रैष्टुभो ह्येष सादयित्वा सूददोहसाधिवदति तस्योक्तो बन्धुः - ७.४.१.२१

अथ []साम गायति । एतद्वै देवा एतं पुरुषमुपधाय तमेतादृशमेवापश्यन्यथैतच्छुष्कं फलकम्- ७.४.१.२२

तेऽब्रुवन् । उप तज्जानीत यथास्मिन्पुरुषे वीर्यं दधामेति तेऽब्रुवंश्चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवंस्तदिच्छत यथास्मिन्पुरुषे वीर्यं दधामेति- ७.४.१.२३

ते चेतयमानाः ।एतत्सामापश्यंस्तदगायंस्तदस्मिन्वीर्यमदधुस्तथैवास्मिन्नयमेतद्दधाति पुरुषे गायति पुरुषे तद्वीर्यं दधाति चित्रे गायति सर्वाणि हि चित्राण्यग्निस्तमुपधाय न पुरस्तात्परीयान्नेन्मायमग्निर्हिनसदिति - ७.४.१.२४

अथ सर्पनामैरुपतिष्ठते । इमे वै लोकाः सर्पास्ते हानेन सर्वेण सर्पन्ति यदिदं किं च सर्वेषामु हैष देवानामात्मा यदग्निस्ते देवा एतमात्मानमुपधायाबिभयुर्यद्वै न इमे लोका अनेनात्मना न सर्पेयुरिति - ७.४.१.२५

त एतानि सर्पनामान्यपश्यन् । तैरुपातिष्ठन्त तैरस्मा इमांल्लोकानस्थापयंस्तैरनमयन्यदनमयंस्तस्मात्सर्पनामानि तथैवैतद्यजमानो यत्सर्पनामैरुपतिष्ठत इमानेवास्मा एतल्लोकान्त्स्थापयतीमांल्लोकान्नमयति तथो हास्यैतऽएतेनात्मना न सर्पन्ति- ७.४.१.२६

यद्वेव सर्पनामैरुपतिष्ठत । इमे वै लोकाः सर्पा यद्धि किं च सर्पत्येष्वेव तल्लोकेषु सर्पति तद्यत्सर्पनामैरुपतिष्ठते यैवैषु लोकेषु नाष्ट्रा योव्यध्वरो या शिमिदा तदेवैतत्सर्वं शमयति- ७.४.१.२७

नमोऽस्तु सर्पेभ्यो ये के च पृथिवीमनु । ये अन्तरिक्षे ये दिवि तेभ्यः सर्पेभ्यो नम इति य एवैषु त्रिषु लोकेषु सर्पास्तेभ्य एतन्नमस्करोति - ७.४.१.२८

या इषवो यातुधानानामिति । यातुधानप्रेषिता हैके दशन्ति ये वा वनस्पतीमनु ये वावटेषु शेरते तेभ्यः सर्पेभ्यो नम इति ये चैव वनस्पतिषु सर्पा ये चावटेषु शेरते तेभ्य एतन्नमस्करोति - ७.४.१.२९

ये वाऽमी रोचने दिवो । ये वा सूर्यस्य रश्मिषु येषामप्सु सदस्कृतं तेभ्यः सर्पेभ्यो नम इति यत्र यत्रैते तदेवैभ्य एतन्नमस्करोति नमो नम इति यज्ञो वै नमो यज्ञेनैवैनानेतन्नमस्कारेण नमस्यति तस्मादु ह नायज्ञियं ब्रूयान्नमस्त इति यथा हैनं ब्रूयाद्यज्ञस्त इति तादृक्तत् - ७.४.१.३०

त्रिभिरुपतिष्ठते । त्रय इमे लोका अथो त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवास्मा एतदिमांल्लोकान्त्स्थापयत्यथो तावतैवैतदिदं सर्वं शमयति तिष्ठन्नुपतिष्ठते तिष्ठन्तीव वा इमे लोका अथो तिष्ठन्वै वीर्यवत्तरः - ७.४.१.३१

अथैनमुपविश्याभिजुहोति । आज्येन पञ्चगृहीतेन तस्योक्तो बन्धुः सर्वतः परिसर्पं सर्वाभ्य एवैनमेतद्दिग्भ्योऽन्नेन प्रीणाति - ७.४.१.३२

यद्वेवैनमभिजुहोति । एतद्वै देवा एतमात्मानमुपधायाबिभयुर्यद्वै न इममिह रक्षांसि नाष्ट्रा न हन्युरिति त एतान्राक्षोघ्नान्प्रतिसरानपश्यन्कृणुष्व पाजः प्रसितिं न पृथ्वीमिति राक्षोघ्ना वै प्रतिसरास्त एतैः प्रतिसरैः सर्वाभ्यो दिग्भ्यो रक्षांसि नाष्ट्रा अपहत्याभयेऽनाष्ट्र एतमात्मानं समस्कुर्वत तथैवैतद्यजमान एतैः प्रतिसरैः सर्वाभ्यो दिग्भ्यो रक्षांसि नाष्ट्रा अपहत्याभयेऽनाष्ट्र एतमात्मानं संस्कुरुते- ७.४.१.३३

आज्येन जुहोति । वज्रो वा आज्यं वज्रेणैवैतद्रक्षांसि नाष्ट्रा अपहन्ति पञ्चगृहीतेन पञ्चचितिकोऽग्निः पञ्चऽर्तवः संवत्सरः संवत्सरोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैतद्रक्षांसि नाष्ट्रा अपहन्त्याग्नेयीभिरग्निर्वै ज्योती रक्षोहाग्निनैवैतद्रक्षांसि नाष्ट्रा अपहन्ति त्रिष्टुब्भिर्वज्रो वै त्रिष्टुब्वज्रेणैवैतद्रक्षांसि नाष्ट्रा अपहन्ति सर्वतः परिसर्पं सर्वाभ्य एवैतद्दिग्भ्यो रक्षांसि नाष्ट्रा अपहन्ति - ७.४.१.३४

पश्चादग्नेः प्राङासीनो ।ऽथोत्तरतो दक्षिणाथ पुरस्तात्प्रत्यङ्ङथ जघनेन परीत्य दक्षिणत उदङ्ङासीनस्तद्दक्षिणावृत्तद्धि देवत्राथानुपरीत्य पश्चात्प्राङासीनस्तथो हास्यैतत्प्रागेव कर्म कृतं भवति - ७.४.१.३५

अथ स्रुचा उपदधाति । बाहू वै स्रुचौ बाहू एवास्मिन्नेतत्प्रतिदधाति ते यत्स्रुचौ भवतः स्रुचौ हि बाहू इदमेव कपुच्छलमयं दण्डो द्वे भवतो द्वौ हीमौ बाहू पार्श्वत उपदधाति पार्श्वतो हीमौ बाहू - ७.४.१.३६

कार्ष्मर्यमयीं दक्षिणत उपदधाति । एतद्वै देवा अबिभयुर्यद्वै नो यज्ञं दक्षिणतो रक्षांसि नाष्ट्रा न हन्युरिति त एतं रक्षोहणं वनस्पतिमपश्यन्कार्ष्मर्यं त एतेन वनस्पतिना दक्षिणतो रक्षांसि नाष्ट्रा अपहत्याभयेऽनाष्ट्र एतं यज्ञमतन्वत तथैवैतद्यजमान एतेन वनस्पतिना दक्षिणतो रक्षांसि नाष्ट्रा अपहत्याभयेऽनाष्ट्र एतं यज्ञं तनुत आज्येन पूर्णा भवति वज्रो वा आज्यं वज्रेणैवैतद्दक्षिणतो रक्षांसि नाष्ट्रा अपहन्ति - ७.४.१.३७

अथौदुम्बरीमुत्तरत उपदधाति । ऊर्ग्वै रस उदुम्बर ऊर्जमेवास्मिन्नेतद्रसं दधाति दध्ना पूर्णा भवति रसो वै दधि रसमेवास्मिन्नेतद्दधाति - ७.४.१.३८

यद्वेव स्रुचा उपदधाति । प्रजापतेर्विस्रस्तस्याग्निस्तेज आदाय दक्षिणाऽकर्षत्सोऽत्रोदरमद्यत्कृष्ट्वोदरमत्तस्मात्कार्ष्मर्योऽथास्येन्द्र ओज आदायोदङ्ङुदक्रामत्स उदुम्बरोऽभवत्- ७.४.१.३९

तावब्रवीत् । उप मेतं प्रति म एतद्धत्तं येन मे युवमुदक्रमिष्टमिति ताभ्यां वै नौ सर्वमन्नं प्रयच्छेति तौ वै मा बाहू भूत्वा प्रपद्येथामिति तथेति ताभ्यां वै सर्वमन्नं प्रायच्छत्तावेनं बाहू भूत्वा प्रापद्येतां तस्माद्बाहुभ्यामेवान्नं क्रियते बाहुभ्यामद्यते बाहुभ्यां हि स सर्वमन्नम्प्रायच्छत् - ७.४.१.४०

स कार्ष्मर्यमयीं दक्षिणत उपदधाति । अग्नेष्ट्वा तेजसा सादयामीति यदेवास्य तदग्निस्तेज आदाय दक्षिणाकर्षत्तदस्मिन्नेतत्प्रतिदधात्यग्निर्मूर्धा दिवः ककुदित्येष उ सोऽग्निर्गायत्र्या गायत्रोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनामेतदुपदधाति घृतेन पूर्णा भवत्याग्नेयं वै घृतं स्वेनैवैनमेतद्भागेन स्वेन रसेन प्रीणाति - ७.४.१.४१

अथौदुम्बरीमुत्तरत उपदधाति । इन्द्रस्य त्वौजसा सादयामीति यदेवास्य तदिन्द्र ओज आदायोदङ्ङुदक्रामत्तदस्मिन्नेतत्प्रतिदधाति भुवो यज्ञस्य रजसश्च नेतेत्येष उ स इन्द्रः सा यदाग्नेय्यग्निकर्म ह्यथ यत्त्रिष्टुप्त्रैष्टुभो हीन्द्र ऐन्द्राग्नोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनामेतदुपदधातीन्द्राग्नी वै सर्वे देवाः सर्वदेवत्योऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनामेतदुपदधाति दध्ना पूर्णा भवत्यैन्द्रं वै दधि स्वेनैवैनमेतद्भागेन स्वेन रसेन प्रीणाति - ७.४.१.४२

तावस्यैताविन्द्राग्नी एव बाहू । तावेनं तेजसा च वीर्येण च सह प्रपद्येते स सम्प्रत्युरः पुरुषमाकाश्य यत्राभ्याप्नोति तदालिख्यैनेऽउपदधात्येष हैतयोर्लोकः - ७.४.१.४३

ते हैके तिरश्च्या उपदधति । तिर्यञ्चौ वा इमौ बाहू इति न तथा कुर्यात्प्राच्यावेवोपदध्यात्प्राङ्ह्येषोऽग्निश्चीयतेऽथो एवं वै बाहू वीर्यवत्तरौ ते नानोपदधाति नाना सादयति नाना सूददोहसाधिवदति नाना हीमौ बाहू - ७.४.१.४४

तदाहुः । नैतस्य पुरुषस्य बाहू कुर्यादेतौ वा अस्य बाहू ये एते स्रुचौ नेदतिरेचयानीति स वै कुर्यादेवैतौ वा अस्य बाहू अन्वेते स्रुचावथो एतौ पक्षावथो यान्येतस्मिन्नग्नौ रूपाण्युपधास्यन्भवति यान्त्स्तोमान्यानि पृष्ठानि यानि छन्दांस्येतयोरेव सा संस्कृतिरेतयोर्वृद्धिस्तस्मादु कुर्यादेवैतस्य पुरुषस्य बाहू - ७.४.१.४५

टिप्पणी

७.४.१.३९

कार्ष्मर्य (भद्रपर्णी-)

१. कार्ष्मर्यमयीं दक्षिणत उपदधाति । त एतꣳ रक्षोहणं वनस्पतिमपश्यन्कार्ष्मर्यम् ( देवाः )। माश ७, ४, १, ३७ ।

२. कार्ष्मर्यमयाः परिधयः । देवा ह वा एतं वनस्पतिषु राक्षोघ्नं ददृशुर्यत्कार्ष्मर्यम् । माश ३, ४, १, १६ ।

३. प्रजापतेर्विस्रस्तस्याग्निस्तेज आदाय दक्षिणाकर्षत्सोऽत्रोदरमद्यत्कृष्ट्वोदरमत्तस्मात्कार्ष्मर्यः। माश ७, ४, १, ३९।

४. कार्ष्मर्यमय्यौ वपाश्रपण्यौ भवतः । यत्र वै देवा अग्रे पशुमालेभिर तदुदीचः कृष्यमाणस्यावाङ् मेधः पपात स एष वनस्पतिरजायत तद्यत्कृष्यमाणस्यावाङपतत्तस्मात्कार्ष्मर्यः। माश ३, ८, २, १७ ॥

५. वज्रः ( वज्रो वै काठ. ) कार्ष्मर्यः । तैसं ५, २, ७, ४; काठ २०, ५; क ३१, ७ । कार्ष्मर्य-मय- कार्ष्मर्यमयाः परिधयो भवन्ति रक्षसामपहत्यै । मै ३, ७, ९, काठ २४, ८; क ३८, १ ।

कार्ष्मर्यमयी

१. इयं (पृथिवी ) वै कार्ष्मर्यमयी । तैसं ५, २, ७, ३; काठ २०, ५; क ३१, ७ ।

२. यत् कार्ष्मर्यमयीं दक्षिणत उपदधाति (सादयति मै.J) रक्षसामन्तर्हित्यै (°सामपहत्यै ।मै..)। मै ३, २, ६; क ३१, ७ ।

  1. वा.सं. १३.३
  2. चित्रसामगानम्