शतपथब्राह्मणम्/काण्डम् ८/अध्यायः ३/ब्राह्मणम् १

८.३.१ तृतीया चितिः

तृतीयां चितिमुपदधाति । एतद्वै देवा द्वितीयां चितिं चित्वा समारोहन्यदूर्ध्वं पृथिव्या अर्वाचीनमन्तरिक्षात्तदेव तत्संस्कृत्य समारोहन् - ८.३.१.१

तेऽब्रुवन् । चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवन्नित ऊर्ध्वमिच्छतेति ते चेतयमाना अन्तरिक्षमेव बृहतीं तृतीयां चितिमपश्यंस्तेभ्य एष लोकोऽच्छदयत् - ८.३.१.२

त इन्द्राग्नी अब्रुवन् । युवं न इमां तृतीयां चितिमुपधत्तमिति किं नौ ततो भविष्यतीति युवमेव नः श्रेष्ठौ भविष्यथ इति तथेति तेभ्य एतामिन्द्राग्नी तृतीयां चितिमुपाधत्तां तस्मादाहुरिन्द्राग्नी एव देवानां श्रेष्ठाविति - ८.३.१.३

स वा इन्द्राग्निभ्यामुपदधाति । विश्वकर्मणा सादयतीन्द्राग्नी च वै विश्वकर्मा चैतां तृतीयां चितिमपश्यंस्तस्मादिन्द्राग्निभ्यामुपदधाति विश्वकर्मणा सादयति - ८.३.१.४

यद्वेवेन्द्राग्निभ्यामुपदधाति । विश्वकर्मणा सादयति प्रजापतिं विस्रस्तं देवता आदाय व्युदक्रामंस्तस्येन्द्राग्नी च विश्वकर्मा च मध्यमादायोत्क्रम्यातिष्ठन् - ८.३.१.५

तानब्रवीत् । उप मेत प्रति म एतद्धत्त येन मे यूयमुदक्रमिष्टेति किं नस्ततो भविष्यतीति युष्मद्देवत्यमेव म एतदात्मनो भविष्यतीति तथेति तदस्मिन्नेतदिन्द्राग्नी च विश्वकर्मा च प्रत्यदधुः - ८.३.१.६

स्वयमातृण्णेष्टकोपधानम्

तद्यैषा मध्यमा स्वयमातृण्णा । एतदस्य तदात्मनस्तद्यदेतामत्रोपदधाति यदेवास्यैषात्मनस्तदस्मिन्नेतत्प्रतिदधाति तस्मादेतामत्रोपदधाति - ८.३.१.७

इन्द्राग्नी अव्यथमानाम् । इष्टकां दृंहतं युवमिति यथैव यजुस्तथा बन्धुः पृष्ठेन द्यावापृथिवी अन्तरिक्षं च विबाधस इति पृष्ठेन ह्येषा द्यावापृथिवी अन्तरिक्षं च विबाधते - ८.३.१.८

विश्वकर्मा त्वा सादयत्विति । विश्वकर्मा ह्येतां तृतीयां चितिमपश्यदन्तरिक्षस्य पृष्ठे व्यचस्वतीं प्रथस्वतीमित्यन्तरिक्षस्य ह्येतत्पृष्ठं व्यचस्वत्प्रथस्वदन्तरिक्षं यच्छान्तरिक्षं दृंहान्तरिक्षं मा हिंसीरित्यात्मानं यच्छात्मानं दृंहात्मानं मा हिंसीरित्येतत् - ८.३.१.९

विश्वस्मै प्राणायापानाय व्यानायोदानायेति प्राणो वै स्वयमातृण्णा सर्वस्मा उ वा
एतस्मै प्राणः प्रतिष्ठायै चरित्रायेतीमे वै लोकाः स्वयमातृण्णा इम उ लोकाः प्रतिष्ठा चरित्रं वायुष्ट्वाभिपात्विति वायुष्ट्वाभिगोपायत्वित्येतन्मह्या स्वस्त्येति महत्या स्वस्त्येत्येतच्छर्दिषा शंतमेनेति यच्छर्दिः शंतमं तेनेत्येतत्सादयित्वा सूददोहसाधिवदति तस्योक्तो बन्धुरथ साम गायति तस्योपरि बन्धुः - ८.३.१.१०

पञ्चदिश्येष्टकोपधानम्

अथ दिश्या उपदधाति । दिशो वै दिश्या दिश एवैतदुपदधाति तद्याभिरदो वायुर्दिग्भिरनन्तर्हिताभिरुपैत्ता एतास्ता एवैतदुपदधाति ता उ एवामूः पुरस्ताद्दर्भस्तम्बं च लोगेष्टकाश्चोपदधात्यसौ वा आदित्य एता अमुं तदादित्यं दिक्ष्वध्यूहति दिक्षु चिनोति ता यत्तत्रैव स्युर्बहिर्धा तत्स्युर्बहिर्धो वा एतद्योनेरग्निकर्म यत्पुरा पुष्करपर्णात्ता यदिहाहृत्योपदधाति तदेना योनौ पुष्करपर्णे प्रतिष्ठापयति तथो हैता अबहिर्धा भवन्ति ता अनन्तर्हिताः स्वयमातृण्णाया उपदधात्यन्तरिक्षं वै मध्यमा स्वयमातृण्णानन्तर्हितास्तदन्तरिक्षाद्दिशो दधात्युत्तरा उत्तरास्तदन्तरिक्षाद्दिशो दधाति रेतःसिचोर्वेलयेमे वै रेतःसिचावनयोस्तद्दिशो दधाति तस्मादनयोर्दिशः सर्वत उपदधाति सर्वतस्तद्दिशो दधाति तस्मात्सर्वतो दिशः समीचीः
सर्वतस्तत्समीचीर्दिशो दधाति तस्मात्सर्वतः समीच्यो दिशः - ८.३.१.११

यद्वेव दिश्या उपदधाति । छन्दांसि वै दिशो गायत्री वै प्राची दिक्त्रिष्टुब्दक्षिणा जगती प्रतीच्यनुष्टुबुदीची पङ्क्तिरूर्ध्वा पशवो वै छन्दांस्यन्तरिक्षं मध्यमा चितिरन्तरिक्षे तत्पशून्दधाति तस्मादन्तरिक्षायतनाः पशवः - ८.३.१.१२

यद्वेव दिश्या उपदधाति । छन्दांसि वै दिशः पशवो वै छन्दांस्यन्नं पशवो मध्यं मध्यमा चितिर्मध्यतस्तदन्नं दधाति ता अनन्तर्हिताः स्वयमातृण्णाया उपदधाति प्राणो वै स्वयमातृण्णाऽनन्तर्हितं तत्प्राणादन्नं दधात्युत्तरा उत्तरं तत्प्राणादन्नं दधाति रेतःसिचोर्वेलया पृष्टयो वै रेतःसिचौ मध्यमु पृष्टयो मध्यत एवास्मिन्नेतदन्नं दधाति सर्वत उपदधाति सर्वत एवास्मिन्नेतदन्नं दधाति - ८.३.१.१३

राज्ञ्यसि प्राची दिक् । विराडसि दक्षिणा दिक्सम्राडसि प्रतीची दिक्स्वराडस्युदीचीदिगधिपत्न्यसि बृहती दिगिति नामान्यासामेतानि नामग्राहमेवैना एतदुपदधाति ता नानोपदधाति नाना सादयति नाना सूददोहसाधिवदति नाना हि दिशः - ८.३.१.१४