तृतीया चितिः

ब्राह्मणम् १ स्वयमातृण्णेष्टकोपधानम्, पञ्च दिश्येष्टकोपधानम्

१ तृतीया चितिः--तत्र पूर्वं तृतीयां चितिं विधाय तस्या बहुधा प्रशंसनं, स्वयमातृण्णेष्टकोपधानम्--तत्र स्वयमातृण्णेष्टकोपधानं विधाय तत्र मन्त्रं विनियुज्य तस्य तात्पर्योपेतं व्याख्यानं, स्तावकार्थवादातिदेशसहिते पूर्ववत्सादनसूददोहसाधिवदने, स्तावकार्थवादातिदेशसहितं स्वयमातृण्णेष्टकोपधानाङ्गं सामानविधानं, चेत्यादि.
पञ्चदिश्येष्टकोपधानम्-तत्र दिश्येष्टकोपधानं विधाय तत्प्रशंसनं, एतासां दिश्यानां प्रथमचितावेवोपहितत्वान्मध्यमचितौ किमर्थं तदुपधानमित्याशङ्क्यात्राप्युपधेयत्वस्य सोपपत्तिकं प्रतिपादनं, दिश्येष्टकानां पुनश्छन्दोलक्षणरूपेणान्नरूपेण च प्रशंसनं, दिश्योपधाने मन्त्रपञ्चकं विनियुज्य तस्य तात्पर्यतो व्याख्यानं चेति.


ब्राह्मणम् २ विश्वज्योतिरिष्टकोपधानम्, दशप्राणभृदिष्टकोपधानम्

२ विश्वज्योतिरिष्टकोपधानम्—तत्र मध्यमाया विश्वज्योतिरिष्टकायाः सप्रयोजनमुपधानं विधाय वायुरूपेण तस्याः प्रशंसनं, पूर्वेष्टकाभ्योऽस्या अव्यवहितत्वं विधाय प्रजारूपेण प्रशंसनं, स्वयमातृण्णावद्विश्वकर्मलिङ्गकेन मन्त्रेण सादनं विधाय तन्मंत्रस्य व्याख्यानं, सार्थवादं सूददोहसाधिवदनं च पूर्ववदिति प्रदर्शनं,
चतुर्ऋतब्येष्टकोपधानम्--तत्र चतसृणामृतव्येष्टकानामुपधानं समंत्रकं सोपपत्तिकं धर्मविशेषसहितं विधायोपधानमंत्राभिप्रायं प्रदर्श्य च तत्प्रशंसनं, मध्यमचित्यां प्रथमोत्तमचित्योर्यद्वैलक्षण्यमृतव्यानां चतुष्ट्वं तस्य प्रशंसनं, श्चतुष्ट्वमुक्त्वा पशुत्वमुपजीव्यान्नात्मनाऽपि प्रशंसनम् , उक्तस्यैव चतुष्ट्वस्य शब्दगतचतुःसंख्यायुक्तान्तरिक्षाख्यमध्यमचितेर्योग्यत्वाभिधानद्वारेण प्रशंसनं, पुनस्तस्यैव प्रकारान्तरेणापि प्रशंसनम् , एतासां चतसृणां प्रागुक्ताभिः सह समुच्चित्य विराट्त्वसम्पादनाय तत्प्रशंसनं,
दशप्राणभृदिष्टकोपधानम--तत्र दशानां प्राणभृदिष्टकानामुपधानं सोपपत्तिकं समंत्रकं विधाय तत्प्रशंसनं चेत्यादि.


ब्राह्मणम् ३ छन्दस्येष्टकोपधानम्

३ छन्दस्येष्टकोपधानम्--तत्र छन्दस्यानां पशुरूपत्वं पशूनामन्नरूपत्वं मध्यमाया. श्चितेरन्तरिक्षत्वं चाभिधाय ताश्छन्दस्याः पूर्वार्द्धे प्राणभृतामुपहितत्वाद्दक्षिणादिदिक्षु द्वादश द्वादश उपदध्यादिति विधानं, उक्ताया एवेष्टकासंख्यायाः पुनर्जगत्यादिद्वारेणान्नात्मनाऽपि प्रशंसन, पूर्वेष्टकाभ्योऽव्यवधानं विधाय तत्प्रशंसनं, तत्र दक्षिणत उपधेयेष्टकानां, मंत्रान्विधाय तेषां व्याख्यानं, तत्राप्युत्तरासामष्टानामिष्टकानां निरुक्तरूपं वैलक्षण्यं दर्शयित्वा तद्विधानं, पश्चादुपधेयानां द्वादशानामिष्टकानामुपधानमंत्राणां प्रतीकमादाय तेषां समनार्थत्वेन मादिच्छन्दोरूपतामाशङ्क्य तद्भिन्नत्वं चोपपाद्य तात्पर्यपुरःसरं तन्मंत्रप्रतीकव्याख्यानं, दक्षिणोत्तरपक्षपुच्छसन्धिषु. निरुक्तानिरुक्तभेदेन द्विविधानामपि छन्दसामुपधानस्यान्यतरोपधानपक्षे दोषप्रदर्शनपुरःसरं प्रशंसनं, प्रतिदिक्षु यद्द्वादशत्वं तस्या बृहतीसम्पत्तिद्वारा प्रशंसनम् , एतासामेवेष्टकानां पुनर्विस्रस्तप्रजापत्यवयवप्रतिसन्धानरूपत्वेन प्रशंसनम्, एतासामिष्टकानां पूर्वोक्ताभिः सह समुच्चित्य प्रशंसनम्, अर्थवादप्रसङ्गेनोक्तस्य चन्द्रमस्त्वस्योपपादनं चेत्यादि.


ब्राह्मणम् ४ चतुर्दश वालखिल्येष्टकोपधानम्

४ चतुर्दशवालखिल्येष्टकोपधानम्—तत्र पूर्वं वालखिल्येष्टकोपधानं विधाय तत्प्रशंसनं, प्रसङ्गाद्वालखिल्यनामनिर्वचनं, पुरस्तात्पश्चाच्च सप्त सप्त वालखिल्येष्टका विधाय ताः प्राणात्मना प्रशस्य चेदानीं प्राणशब्देन विवक्षितार्थाभिधानद्वारा तासां प्रशंसनं, पुरस्तात्पश्चाच्चोपधेयानां मध्ये त्रींस्त्रीन्मन्त्रानुदाहृत्य संगृह्य च तेषां तात्पर्याभिधानं, बालखिल्योपधानं प्रकारान्तरेण प्रशस्योक्तप्रकारस्य विभज्य प्रदर्शनं, पुरस्तादुपधेयेष्टकानां चतुरो मंत्रानुदाहृत्य तेषां तात्पर्यप्रदर्शनं, पश्चाद्बालखिल्याप्रसञ्जनाभिधानं, प्रतिगतिप्रकारं विभज्य तथोत्तरांश्चतुरो मन्त्रान्प्रदर्श्य भुवः प्रतिष्ठात्वस्यान्नरूपत्वेन प्रशंसनं, प्रजापतेः शरीररूपेण संस्कारमभिधायाद्या स्वयमातृण्णा-पञ्च दिश्याः-विश्वज्योतिः-चतस्र ऋतव्या.-इत्येकादश वर्जयित्वाऽवशिष्टानां शिरआद्यङ्गकल्पनया तत्रत्य प्राणरूयसंस्कारस्य प्रदर्शनं, स्तावकार्थवादातिदेशसहितं लोकम्पृणेष्टकयोरुपधानविधानं, स्तावकार्थवादातिदेशसहितं पुरीषनिवपनविधानं चेत्यादि.