शतपथब्राह्मणम्/काण्डम् ८/अध्यायः ३/ब्राह्मणम् २

८.३.२ विश्वज्योतिरिष्टकोपधानम्

अथ विश्वज्योतिषमुपदधाति । वायुर्वै मध्यमा विश्वज्योतिर्वायुर्ह्येवान्तरिक्षलोके विश्वं ज्योतिर्वायुमेवैतदुपदधाति तामनन्तर्हितां दिश्याभ्य उपदधाति दिक्षु तद्वायुं दधाति तस्मात्सर्वासु दिक्षु वायुः - ८.३.२.१

यद्वेव विश्वज्योतिषमुपदधाति । प्रजा वै विश्वज्योतिः प्रजा ह्येव विश्वं ज्योतिः
प्रजननमेवैतदुपदधाति तामनन्तर्हितां दिश्याभ्या उपदधाति दिक्षु तत्प्रजा दधाति तस्मात्सर्वासु दिक्षु प्रजाः - ८.३.२.२

विश्वकर्मा त्वा सादयत्विति । विश्वकर्मा ह्येतां तृतीयां चितिमपश्यदन्तरिक्षस्य पृष्ठे ज्योतिष्मतीमित्यन्तरिक्षस्य ह्ययं पृष्ठे ज्योतिष्मान्वायुः - ८.३.२.३

विश्वस्मै प्राणायापानाय व्यानायेति प्राणो वै विश्वज्योतिः सर्वस्मा उ वा एतस्मै
प्राणो विश्वं ज्योतिर्यच्छेति सर्वं ज्योतिर्यच्छेत्येतद्वायुष्टेऽधिपतिरिति वायुमेवास्या अधिपतिं करोति सादयित्वा सूददोहसाधिवदति तस्योक्तो बन्धुः - ८.३.२.४

चतुर्ऋतव्येष्टकोपधानम्

अथऽर्तव्या उपदधाति । ऋतव एते यदृतव्या ऋतूनेवैतदुपदधाति नभश्च नभस्यश्च वार्षिकावृतू इति नामनी एनयोरेते नामभ्यामेवैने एतदुपदधाति द्वे इष्टके भवतो द्वौ हि मासावृतुः सकृत्सादयत्येकं तदृतुं करोत्यवकासूपदधात्यवकाभिः प्रच्छादयत्यापो वा अवका अपस्तदेतस्मिन्नृतौ दधाति तस्मादेतस्मिन्नृतौ भूयिष्ठं वर्षति - ८.३.२.५

अथोत्तरे । इषश्चोर्जश्च शारदावृतू इति नामनी एनयोरेते नामभ्यामेवैने एतदुपदधाति द्वे इष्टके भवतो द्वौ हि मासावृतुः सकृत्सादयत्येकं तदृतुं करोत्यवकासूपदधात्यापो वा अवका अपस्तदेतस्यऽर्तोः पुरस्ताद्दधाति तस्मादेतस्यऽर्तोः पुरस्ताद्वर्षति नोपरिष्टात्प्रच्छादयति तस्मान्न तथेवोपरिष्टाद्वर्षति - ८.३.२.६

तद्यदेता अत्रोपदधाति। संवत्सर एषोऽग्निरिम उ लोकाः संवत्सरस्तस्यान्तरिक्षमेव मध्यमा चितिरन्तरिक्षमस्य वर्षाशरदावृतू तद्यदेता अत्रोपदधाति यदेवास्यैता आत्मनस्तदस्मिन्नेतत्प्रतिदधाति तस्मादेता अत्रोपदधाति - ८.३.२.७

यद्वेवैता अत्रोपदधाति । प्रजापतिरेषोऽग्निः संवत्सर उ प्रजापतिस्तस्य मध्यमेव मध्यमा चितिर्मध्यमस्य वर्षाशरदावृतू तद्यदेता अत्रोपदधाति यदेवास्यैता आत्मनस्तदस्मिन्नेतत्प्रतिदधाति तस्मादेता अत्रोपदधाति - ८.३.२.८

ता वा एताः । चतस्र ऋतव्या मध्यमायां चिता उपदधाति द्वेद्वे इतरासु चितिषु चतुष्पादा वै पशवोऽन्तरिक्षं मध्यमा चितिरन्तरिक्षे तत्पशून्दधाति तस्मादन्तरिक्षायतनाः पशवः - ८.३.२.९

यद्वेव चतस्रः चतुष्पादा वै पशवोऽन्नं पशवो मध्यं मध्यमा चितिर्मध्यतस्तदन्नं दधाति - ८.३.२.१०

यद्वेव चतस्रः । चतुरक्षरं वा अन्तरिक्षं द्व्यक्षरा इतराश्चितयस्तद्यावदन्तरिक्षं तावत्तत्कृत्वोपदधाति - ८.३.२.११

यद्वेव चतस्रः । पशुरेष यदग्निर्मध्यं तत्प्रति पशुं वरिष्ठं करोति तस्मान्मध्यं प्रति पशुर्वरिष्ठः - ८.३.२.१२

ता वा एताः । चतस्र ऋतव्यास्तासां विश्वज्योतिः पञ्चमी पञ्च दिश्यास्तद्दश दशाक्षरा विराडन्नं विराण्मध्यं मध्यमा चितिर्मध्यतस्तदन्नं दधाति ता अनन्तर्हिताः स्वयमातृण्णाया उपदधाति प्राणो वै स्वयमातृण्णाऽनन्तर्हितं तत्प्राणादन्नं दधात्युत्तरा उत्तरं तत्प्राणादन्नं दधाति - ८.३.२.१३

अथ प्राणभृत उपदधाति । प्राणा वै प्राणभृतः प्राणानेवैतदुपदधाति ता दश भवन्ति दश वै प्राणाः पूर्वार्ध उपदधाति पुरस्ताद्धीमे प्राणा आयुर्मे पाहि ज्योतिर्मे यच्छेति प्राणो वै ज्योतिः प्राणं मे यच्छेत्येवैतदाह ता अनन्तर्हिता ऋतव्याभ्य उपदधाति प्राणो वै वायुर्ऋतुषु तद्वायुं प्रतिष्ठापयति - ८.३.२.१४