शतपथब्राह्मणम्/काण्डम् ८/अध्यायः ३/ब्राह्मणम् ३

८.३.३

अथ च्छन्दस्या उपदधाति । पशवो वै छन्दांस्यन्तरिक्षं मध्यमा चितिरन्तरिक्षे तत्पशुं दधाति तस्मादन्तरिक्षायतनाः पशवः - ८.३.३.१

यद्वेव च्छन्दस्या उपदधाति । पशवो वै छन्दांस्यन्नं पशवो मध्यं मध्यमा चितिर्मध्यतस्तदन्नं दधाति - ८.३.३.२

ता द्वादश द्वादशोपदधाति । द्वादशाक्षरा वै जगती पशवो जगत्यन्तरिक्षं मध्यमा चितिरन्तरिक्षे तत्पशून्दधाति तस्मादन्तरिक्षायतनाः पशवः - ८.३.३.३

यद्वेव द्वादश द्वादश । द्वादशाक्षरा वै जगती पशवो वै जगत्यन्नं पशवो मध्यं मध्यमा चितिर्मध्यतस्तदन्नं दधाति ता अनन्तर्हिताः प्राणभृद्भ्य उपदधात्यनन्तर्हितं तत्प्राणेभ्योऽन्नं दधात्युत्तरा उत्तरं तत्प्राणेभ्योऽन्नं दधाति - ८.३.३.४

मा च्छन्द इति । अयं वै लोको माऽयं हि लोको मित इव प्रमा च्छन्द इत्यन्तरिक्षलोको वै प्रमाऽन्तरिक्षलोको ह्यस्माल्लोकात्प्रमित इव प्रतिमा च्छन्द इत्यसौ वै लोकः प्रतिमैष ह्यन्तरिक्षलोके प्रतिमित इवास्रीवयश्छन्द इत्यन्नमस्रीवयस्तद्यदेषु लोकेष्वन्नं तदस्रीवयोऽथो यदेभ्यो लोकेभ्योऽन्नं स्रवति तदस्रीवयोऽथातो निरुक्तान्येव छन्दांस्युपदधाति - ८.३.३.५

पङ्क्तिश्छन्दः । उष्णिक्छन्दो बृहती च्छन्दोऽनुष्टुप्छन्दो विराट्छन्दो गायत्री च्छन्दस्त्रिष्टुप्छन्दो जगती च्छन्द इत्येतानि निरुक्तानि विराडष्टमानि च्छन्दांस्युपदधाति पृथिवी च्छन्दोऽन्तरिक्षं च्छन्द इति यान्येतद्देवत्यानि च्छन्दांसि तान्येवैतदुपदधात्यग्निर्देवता वातो देवतेत्येता वै देवताश्छन्दांसि तान्येवैतदुपदधाति - ८.३.३.६

स वै निरुक्तानि चानिरुक्तानि चोपदधाति । स यत्सर्वाणि निरुक्तान्युपाधास्यदन्तवद्धान्नमभविष्यदक्षेष्यत हाथ यत्सर्वाण्यनिरुक्तानि परोऽक्षं हान्नमभविष्यन्न हैनदद्रक्ष्यंश्चन निरुक्तानि चानिरुक्तानि चोपदधाति तस्मान्निरुक्तमन्नमद्यमानं न क्षीयते - ८.३.३.७

तानि वा एतानि । त्रीणि द्वादशान्युपदधाति तत्षट्त्रिंशत्षट्त्रिंशदक्षरा बृहत्येषा
वै सा बृहती यां तद्देवा अन्तरिक्षं बृहतीं तृतीयां चितिमपश्यंस्तस्या एतस्यै देवा
उत्तमाः - ८.३.३.८

यद्वेवैता इष्टका उपदधाति । प्रजापतेर्विस्रस्तात्सर्वाणि भूतानि सर्वा दिशोऽनु व्युदक्रामन् - ८.३.३.९

स यः स प्रजापतिर्व्यस्रंसत । अयमेव स योऽयमग्निश्चीयतेऽथ यान्यस्मात्तानि भूतानि व्युदक्रामन्नेतास्ता इष्टकास्तद्यदेता उपदधाति यान्येवास्मात्तानि भूतानि व्युदक्रामंस्तान्यस्मिन्नेतत्प्रतिदधाति - ८.३.३.१०

तद्या दश प्रथमा उपदधाति । स चन्द्रमास्ता दश भवन्ति दशाक्षरा विराडन्नं विराडन्नमु चन्द्रमा अथ या उत्तराः षट्त्रिंशदर्धमासाश्च ते मासाश्च चतुर्विंशतिरर्धमासा द्वादश मासाश्चन्द्रमा वै संवत्सरः सर्वाणि भूतानि - ८.३.३.११

तं यत्र देवाः समस्कुर्वन् । तदस्मिन्नेतानि सर्वाणि भूतानि मध्यतोऽदधुस्तथैवास्मिन्नयमेतद्दधाति ता अनन्तर्हिता ऋतव्याभ्य उपदधात्यृतुषु तत्सर्वाणि भूतानि प्रतिष्ठापयति - ८.३.३.१२