चतुर्थी चितिः

ब्राह्मणम् १ अष्टादश स्तोमेष्टकोपधानम्

१ चतुर्थी चितिः-तत्रादौ अष्टादशस्तोमेष्टकोपधानम्-तत्रापि पूर्वं चतुर्थ्याश्चित्या उपधानं विधाय तत्प्रशंसनं, अस्यां ब्रह्मण उपधानविधायिन्याख्यायिकाकथनं, स्तोमसंज्ञकां इष्टकां विधाय तासां ब्रह्मात्मना प्रशंसनं, पुनस्तासां सोपपत्तिकं प्रजापत्यात्मना प्रशंसनं, पूर्वं प्राणद्वारा प्रजापतिरूपत्वेन प्रशस्याधुना चितिप्रयुक्तमृषित्वं प्राणेषु सम्पाद्य तद्द्वारा प्रशंसनं, पुनर्विस्रस्तप्रजापत्यवयवप्रतिसन्धानरूपतया प्रशंसनं, स्तोमेष्टकोपधानमनूद्य तत्र पुरस्ताद्दक्षिणत उत्तरतः पश्चाचोपधेयेष्टका--मन्त्रान्विनियुज्य तेषां व्याख्यानं, इत्थं चतुर्दिक्षु वाय्वादिदेवतारूपाणां चतसृणामिष्टकानामुपधानमभिधायोत्तरत्रोपधेयानां चतुर्दशानां संवत्सररूपताप्रतिपादनपुरःसरं तत्र क्रमाच्चतुर्दश मन्त्रानपि विनियुज्य तेषां व्याख्यानं, प्रथमोत्तमस्तोमेष्टकयोर्वायुरूपत्वस्य प्रशंसनम् , उक्ताया अष्टादशसंख्यायास्त्रिवृतस्तोमद्वयसम्पत्त्या प्रशंसनं पुनस्तस्याः प्रकारान्तरेण
प्रशंसनं चेत्यादि.


ब्राह्मणम् २ स्पृदिष्टकोपधानम्, ऋतव्येष्टकोपधानम्

२ स्पृदिष्टकोपधानम्-तत्र दश स्पृदिष्टका विधाय तत्प्रशंसनं, प्रसङ्गात्स्पृन्नामनिर्वचनं, दशानामप्युपधेयानां स्पृदिष्टकानां मन्त्रान्विधाय तेषां सोपपत्तिकं व्याख्यानम् , उक्ताया दशसंख्याया विराडात्मना प्रशंसनं. ऋतब्येष्टकोपधानम्-तत्र च समंत्रकं सार्थवादमृतव्येष्टकयोरुपधानविधानम्, अर्थवादद्वये च प्रजापतेर्लोकत्रयात्मकत्वं संवत्सरात्मकत्वं च प्रतिपाद्य तद्द्वारा यच्च तस्य विश्लिष्टमङ्गं तत्प्रतिसन्धानस्थानीयमिति ऋतव्ययोः स्तवनं चेत्यादि.


ब्राह्मणम् ३ सप्तदश सृष्टीष्टकोपधानम्

३ सप्तदश सृष्टीष्टकोपधानम्-तत्र च सप्तदश सृष्टिनामधेया इष्टका विधाय तत्प्रशंसनं, सप्तदशानामप्युपधेयानां सृष्टीष्टकानां मन्त्रान्विधाय तेषां सोपपत्तिकं व्याख्यानम्, उक्तायाः सप्तदशसंख्यायाः संवत्सरात्मना प्रशसनं, प्रसङ्गात्सृष्टिनामनिवचनं चेत्यादि,


ब्राह्मणम् ४ प्रतिज्ञापूर्वकं स्तोमेष्टकानां स्पृदिष्टकानां च क्रमदेशयोरभिधानम्

४ प्रतिज्ञापूर्वकं स्तोमेष्टकानां स्पृदिष्टकानां च क्रमदेशयोरभिधानम् , ततः पूर्वोक्तानामेव यजुष्मतीनां देशस्य विधानम् , अस्याश्चतुर्थ्याश्चितेः ब्रह्मचित्यादिनामधेयानि सोपपत्तिकानि प्रतिपाद्य तद्द्वाराऽस्या आर्षेयवतीत्वबन्धुमतीत्वयोरभिधानं, स्तावकार्थवादातिदेशसहितं स्थानविशेषे लोकम्पृणयोरुपधानविधानं, स्तावकार्थवादातिदेशसहितं पुरीषनिवपन विधानं चेत्यादि.