शतपथब्राह्मणम्/काण्डम् ८/अध्यायः ४/ब्राह्मणम् ३

सप्तदश सृष्टीष्टकोपधानम्

८.४.३

अथ सृष्टीरुपदधाति । एतद्वै प्रजापतिः सर्वाणि भूतानि पाप्मनो मृत्योर्मुक्त्वाऽकामयत प्रजाः सृजेय प्रजायेयेति - ८.४.३.१

स प्राणानब्रवीत् । युष्माभिः सहेमाः प्रजाः प्रजनयानीति ते वै केन स्तोष्यामह इति मया चैव युष्माभिश्चेति तथेति ते प्राणैश्चैव प्रजापतिना चास्तुवत यदु ह किंच देवाः कुर्वते स्तोमेनैव तत्कुर्वते यज्ञो वै स्तोमो यज्ञेनैव तत्कुर्वते तस्मादु सर्वास्वेवास्तुवतास्तुवतेत्यनुवर्तते - ८.४.३.२

एकयास्तुवतेति । वाग्वा एका वाचैव तदस्तुवत प्रजा अधीयन्तेति प्रजा अत्राधीयन्त
प्रजापतिरधिपतिरासीदिति प्रजापतिरत्राधिपतिरासीत् - ८.४.३.३

तिसृभिरस्तुवतेति । त्रयो वै प्राणाः प्राण उदानो व्यानस्तैरेव तदस्तुवत ब्रह्माऽसृज्यतेति ब्रह्मात्रासृज्यत ब्रह्मणस्पतिरधिपतिरासीदिति ब्रह्मणस्पतिरत्राधिपतिरासीत् - ८.४.३.४

पञ्चभिरस्तुवतेति । य एवेमे मनःपञ्चमाः प्राणास्तैरेव तदस्तुवत भूतान्यसृज्यन्तेति भूतान्यत्रासृज्यन्त भूतानां पतिरधिपतिरासीदिति भूतानां पतिरत्राधिपतिरासीत् - ८.४.३.५

सप्तभिरस्तुवतेति । य एवेमे सप्त शीर्षन्प्राणास्तैरेव तदस्तुवत सप्त ऋषयोऽसृज्यन्तेति सप्तऽर्षयोऽत्रासृज्यन्त धाताधिपतिरासीदिति धाताऽत्राधिपतिरासीत् - ८.४.३.६

नवभिरस्तुवतेति । नव वै प्राणाः सप्त शीर्षन्नवाञ्चौ द्वौ तैरेव तदस्तुवत पितरोऽसृज्यन्तेति पितरोऽत्रासृज्यन्तादितिरधिपत्न्यासीदित्यदितिरत्राधिपत्न्यासीत् - ८.४.३.७

एकादशभिरस्तुवतेति । दश प्राणा आत्मैकादशस्तेनैव तदस्तुवत ऋतवोऽसृज्यन्तेत्यृतवोऽत्रासृज्यन्तार्तवा अधिपतय आसन्नित्यार्तवा अत्राधिपतय आसन् - ८.४.३.८

त्रयोदशभिरस्तुवतेति । दश प्राणा द्वे प्रतिष्ठे आत्मा त्रयोदशस्तेनैव तदस्तुवत मासा असृज्यन्तेति मासा अत्रासृज्यन्त संवत्सरोऽधिपतिरासीदिति संवत्सरोऽत्राधिपतिरासीत् - ८.४.३.९

पञ्चदशभिरस्तुवतेति । दश हस्त्या अङ्गुलयश्चत्वारि दोर्बाहवाणि यदूर्ध्वं नाभेस्तत्पञ्चदशं तेनैव तदस्तुवत क्षत्रमसृज्यतेति क्षत्रमसृज्यतेति क्षत्रमत्रासृज्यतेन्द्रोऽधिपतिरासीदितीन्द्रोऽत्राधिपतिरासीत् - ८.४.३.१०

सप्तदशभिरस्तुवतेति । दश पाद्या अङ्गुलयश्चत्वार्यूर्वष्ठीवानि द्वे प्रतिष्ठे यदवाङ्नाभेस्तत्सप्तदशं तेनैव तदस्तुवत ग्राम्याः पशवोऽसृज्यन्तेति ग्राम्याः पशवोऽत्रासृज्यन्त बृहस्पतिरधिपतिरासीदिति बृहस्पतिरत्राधिपतिरासीत् - ८.४.३.११

नवदशभिरस्तुवतेति । दश हस्त्या अङ्गुलयो नव प्राणास्तैरेव तदस्तुवत शूद्रार्यावसृज्येतामिति शूद्रार्यावत्रासृज्येतामहोरात्रे अधिपत्नी आस्तामित्यहोरात्रे अत्राधिपत्नी आस्ताम् - ८.४.३.१२

एकविंशत्यास्तुवतेति । दश हस्त्या अङ्गुलयो दश पाद्या आत्मैकविंशस्तेनैवतदस्तुवतैकशफाः पशवोऽसृज्यन्तेत्येकशफाः पशवोऽत्रासृज्यन्त वरुणोऽधिपतिरासीदिति वरुणोऽत्राधिपतिरासीत् - ८.४.३.१३

त्रयोविंशत्यास्तुवतेति । दश हस्त्या अङ्गुलयो दश पाद्या द्वे प्रतिष्ठे आत्मा त्रयोविंशस्तेनैव तदस्तुवत क्षुद्राः पशवोऽसृज्यन्तेति क्षुद्राः पशवोऽत्रासृज्यन्त पूषाधिपतिरासीदिति पूषाधिपतिरासीत् - ८.४.३.१४

पञ्चविंशत्यास्तुवतेति । दश हस्त्या अङ्गुलयो दश पाद्याश्चत्वार्यङ्गान्यात्मा पञ्चविंशस्तेनैव तदस्तुवतारण्याः पशवोऽसृज्यन्तेत्यारण्याः पशवोऽत्रासृज्यन्त वायुरधिपतिरासीदिति वायुरत्राधिपतिरासीत् - ८.४.३.१५

सप्तविंशत्याऽस्तुवतेति । दश हस्त्या अङ्गुलयो दश पाद्याश्चत्वार्यङ्गानि द्वे प्रतिष्ठे आत्मा सप्तविंशस्तेनैव तदस्तुवत द्यावापृथिवी व्यैतामिति द्यावापृथिवी अत्र व्यैतां वसवो रुद्रा आदित्या अनुव्यायन्निति वसवो रुद्रा आदित्या अत्रानुव्यायंस्त एवाधिपतय आसन्निति त उ एवात्राधिपतय आसन् - ८.४.३.१६

नवविंशत्यास्तुवतेति । दश हस्त्या अङ्गुलयो दश पाद्या नव प्राणास्तैरेवतदस्तुवत वनस्पतयोऽसृज्यन्तेति वनस्पतयोऽत्रासृज्यन्त सोमोऽधिपतिरासीदिति सोमोऽत्राधिपतिरासीत् - ८.४.३.१७

एकत्रिंशताऽस्तुवतेति । दश हस्त्या अङ्गुलयो दश पाद्या दश प्राणा आत्मैकत्रिंशस्तेनैव तदस्तुवत प्रजा असृज्यन्तेति प्रजा अत्रासृज्यन्त यवाश्चायवाश्चाधिपतय आसन्निति पूर्वपक्षापरपक्षा एवात्राधिपतय आसन् - ८.४.३.१८

त्रयस्त्रिंशताऽस्तुवतेति । दश हस्त्या अङ्गुलयो दश पाद्या दश प्राणा द्वे प्रतिष्ठे आत्मा त्रयस्त्रिंशस्तेनैव तदस्तुवत भूतान्यशाम्यन्निति सर्वाणि भूतान्यत्राशाम्यन्प्रजापतिः परमेष्ठ्यधिपतिरासीदिति प्रजापतिः परमेष्ठ्यत्राधिपतिरासीत् - ८.४.३.१९

ता वा एताः । सप्तदशेष्टका उपदधाति सप्तदशो वै संवत्सरः प्रजापतिः स प्रजनयिता तदेतेन वै सप्तदशेन संवत्सरेण प्रजापतिना प्रजनयित्रैताः प्रजाः प्राजनयद्यत्प्राजनयदसृजत तद्यदसृजत तस्मात्सृष्टयस्ताः सृष्ट्वात्मन्प्रापादयत तथैवैतद्यजमान एतेन सप्तदशेन संवत्सरेण प्रजापतिना प्रजनयित्रैताः प्रजाः प्रजनयति ताः सृष्ट्वाऽऽत्मन्प्रपादयते रेतःसिचोर्वेलया पृष्टयो वै रेतःसिचौ मध्यमु पृष्टयो मध्यत एवास्मिन्नेताः प्रजाः प्रपादयति सर्वत उपदधाति सर्वत एवास्मिन्नेताः प्रजाः प्रपादयति - ८.४.३.२०