शतपथब्राह्मणम्/काण्डम् ८/अध्यायः ५/ब्राह्मणम् २


८.५.२ अथ चतुष्चत्वारिंशच्छन्दस्येष्टकोपधानम्

अथ च्छन्दस्या उपदधाति । एतद्वै प्रजापतिः पाप्मनो मृत्योर्मुक्त्वान्नमैच्छत्तस्मादु हैतदुपतापी वसीयान्भूत्वान्नमिच्छति तस्मिन्नाशंसन्तेऽन्नमिच्छति जीविष्यतीति तस्मै देवा एतदन्नम्प्रायच्छन्नेताश्छन्दस्याः पशवो वै छन्दांस्यन्नं पशवस्तान्यस्मा अच्छदयंस्तानि यदस्मा अच्छदयंस्तस्माच्छन्दांसि - ८.५.२.१

ता दशदशोपदधाति । दशाक्षरा विराड्विराडु कृत्स्नमन्नं सर्वमेवास्मिन्नेतत्कृत्स्नमन्नं दधाति सर्वत उपदधाति सर्वत एवास्मिन्नेतत्कृत्स्नमन्नं दधाति - ८.५.२.२

[१]एवश्छन्द इति । अयं वै लोकऽ एवश्छन्दो वरिवश्छन्द इत्यन्तरिक्षं वै वरिवश्छन्दः शम्भूश्छन्द इति द्यौर्वै शम्भूश्छन्दः परिभूश्छन्द इति दिशो वै परिभूश्छन्द ऽआच्छच्छन्द इत्यन्नं वा आच्छच्छन्दो मनश्छन्द इति प्रजापतिर्वै मनश्छन्दो व्यचश्छन्द इत्यसौ वा आदित्यो व्यचश्छन्दः - ८.५.२.३

सिन्धुश्छन्द इति । प्राणो वै सिन्धुश्छन्दः समुद्रश्छन्द इति मनो वै समुद्रश्छन्दः सरिरं छन्द इति वाग्वै सरिरं छन्दः ककुप्छन्द इति प्राणो वै ककुप्छन्दस्त्रिककुप्छन्द इत्युदानो वै त्रिककुप्छन्दः काव्यं छन्द इति त्रयी वै विद्या काव्यं छन्दोऽङ्कुपं च्छन्द इत्यापो वा अङ्कुपं छन्दोऽक्षरपङ्क्तिश्छन्द इत्यसौ वै लोकोऽक्षरपङ्क्तिश्छन्दः पदपङ्क्तिश्छन्द इत्ययं वै लोकः पदपङ्क्तिश्छन्दो विष्टारपङ्क्तिश्छन्द इति दिशो वै विष्टारपङ्क्तिश्छन्दः क्षुरो भ्रजश्छन्द इत्यसौ वा आदित्यः क्षुरो भ्रजश्छन्द आच्छच्छन्दः प्रच्छच्छन्द इत्यन्नं वा आच्छच्छन्दोऽन्नं प्रच्छच्छन्दः - ८.५.२.४

संयच्छन्द इति । रात्रिर्वै संयच्छन्दो वियच्छन्द इत्यहर्वै वियच्छन्दो बृहच्छन्द इत्यसौ वै लोको बृहच्छन्दो रथन्तरं छन्द इत्ययं वै लोको रथन्तरं छन्दो निकायश्छन्द इति वायुर्वै निकायश्छन्दो विवधश्छन्द इत्यन्तरिक्षं वै विवधश्छन्दो गिरश्छन्द इत्यन्नं वै गिरश्छन्दो भ्रजश्छन्द इत्यग्निर्वै भ्रजश्छन्दः संस्तुप्छन्दोऽनुष्टुप्छन्द इति वागेव संस्तुप्छन्दो वागनुष्टुप्छन्द एवश्छन्दो वरिवश्छन्द इति तस्योक्तो बन्धुः - ८.५.२.५

वयश्छन्द इति । अन्नं वै वयश्छन्दो वयस्कृच्छन्द इत्यग्निर्वै वयस्कृच्छन्दो विष्पर्धाश्छन्द इत्यसौ वै लोको विष्पर्धाश्छन्दो विशालं छन्द इत्ययं वै लोको विशालं छन्दश्छदिश्छन्द इत्यन्तरिक्षं वै छदिश्छन्दो दूरोहणं च्छन्द इत्यसौ वा आदित्यो दूरोहणं छन्दस्तन्द्रं छन्द इति पङ्क्तिर्वै तन्द्रं छन्दोऽङ्काङ्कं छन्द इत्यापो वा अङ्काङ्कं छन्दः - ८.५.२.६

तद्याः पुरस्तादुपदधाति । प्राणस्तासां प्रथमा व्यानो द्वितीयोदानस्तृतीयोदानश्चतुर्थी व्यानः पञ्चमी प्राणः षष्ठी प्राणः सप्तमी व्यानोऽष्टम्युदानो नवमी यजमान एवात्र दशमी स एष यजमान एतस्यां विराज्यध्यूढः प्रतिष्ठितः प्राणमय्यामर्वाचीश्च पराचीश्चोपदधाति तस्मादिमे प्राणा अर्वाञ्चश्च पराञ्चश्च - ८.५.२.७

अथ या दक्षिणतो । ऽग्निस्तासां प्रथमा वायुर्द्वितीयाऽऽदित्यस्तृतीयाऽऽदित्यश्चतुर्थी वायुः पञ्चम्यग्निः षष्ठ्यग्निः सप्तमी वायुरष्टम्यादित्यो नवमी यजमान एवात्र दशमी स एष यजमान एतस्यां विराज्यध्यूढः प्रतिष्ठितो देवतामय्यामर्वाचीश्च पराचीश्चोपदधाति तस्मादेते देवा अर्वाञ्चश्च पराञ्चश्च - ८.५.२.८

अथ याः पश्चात् । अयं लोकस्तासां प्रथमान्तरिक्षं द्वितीया द्यौस्तृतीया द्यौश्चतुर्थ्यन्तरिक्षं पञ्चम्ययं लोकः षष्ठ्ययं लोकः सप्तम्यन्तरिक्षमष्टमी द्यौर्नवमी यजमान एवात्र दशमी स एष यजमान एतस्यां विराज्यध्यूढः प्रतिष्ठितो लोकमय्यामर्वाचीश्च पराचीश्चोपदधाति तस्मादिमे लोका अर्वाञ्चश्च पराञ्चश्च - ८.५.२.९

अथ या उत्तरतः । ग्रीष्मस्तासां प्रथमा वर्षा द्वितीया हेमन्तस्तृतीया हेमन्तश्चतुर्थी वर्षाः पञ्चमी ग्रीष्मः षष्ठी ग्रीष्मः सप्तमी वर्षा अष्टमी हेमन्तो नवमी यजमान एवात्र दशमी स एष यजमान एतस्यां विराज्यध्यूढः प्रतिष्ठित ऋतुमय्यामर्वाचीश्च पराचीश्चोपदधाति तस्मादेत ऋतवोऽर्वाञ्चश्च पराञ्चश्च - ८.५.२.१०

अथ पुनरेव । याः पुरस्तादुपदधाति प्राणास्ते ता दश भवन्ति दश वै प्राणाः पूर्वार्ध उपदधाति पुरस्ताद्धीमे प्राणाः - ८.५.२.११

अथ या दक्षिणतः । एतास्ता देवता अग्निश्च पृथिवी च वायुश्चान्तरिक्षं चादित्यश्च
द्यौश्च चन्द्रमाश्च नक्षत्राणि चान्नं चापश्च - ८.५.२.१२

अथ याः पश्चात् । दिशस्ताश्चतस्रो दिशश्चतस्रोऽवान्तरदिश ऊर्ध्वा चेयं च- ८.५.२.१३

अथ या उत्तरतः । मासास्ते वासन्तिकौ द्वौ ग्रैष्मौ द्वौ वार्षिकौ द्वौ शारदौ द्वौ हैमन्तिकौ द्वौ - ८.५.२.१४

अथ पुनरेव । या प्रथमा दशदयं स लोको या द्वितीयाऽन्तरिक्षं तद्या तृतीया द्यौः सेममेव लोकं प्रथमया दशताऽरोहन्नन्तरिक्षं द्वितीयया दिवं तृतीयया तथैवैतद्यजमान इममेव लोकं प्रथमया दशता रोहत्यन्तरिक्षं द्वितीयया दिवं तृतीयया - ८.५.२.१५

स स पराङिव रोहः । इयमु वै प्रतिष्ठा ते देवा इमाम्प्रतिष्ठामभिप्रत्यायंस्तथैवैतद्यजमान इमां प्रतिष्ठामभिप्रत्यैत्यथ योत्तमा दशदयं स लोकस्तस्माद्यथैव प्रथमायै दशतः प्रभृतिरेवमुत्तमायै समानं ह्येतद्यदेते दशतावयमेव लोकः - ८.५.२.१६

ता वा एताः । चत्वारिंशदिष्टकाश्चत्वारिंशद्यजूंषि तदशीतिरन्नमशीतिस्तद्यद्यदेतदाह तदस्मा अन्नमशीतिं कृत्वा प्रयच्छति तेनैनं प्रीणाति - ८.५.२.१७

  1. वा.सं. १५.४