पञ्चमीचितिवीडियो

पञ्चमी चितिः

ब्राह्मणम् १ असपत्नेष्टकोपधानम्

पञ्चमी चिति:--असपत्नेष्टकोपधानम्-- तत्र च प्रथम विराजामुपधानार्थमुपोद्धातः, प्रागादिचतुर्दिक्षु मध्ये च पञ्चानां देवदृष्टानामसपत्नेष्टकानां सार्थवादमुपधानविधानं, सर्वासु दिक्षु दशानां दशानां विराडिष्टकानां सार्थवादमुपधानविधानम् , असपत्नेष्टकोपधानस्य प्रजापतिदृष्टत्वमप्यभिधाय पापनिर्हरणहेतुत्वेन प्रशंसनं, क्रमात्प्रागादिचतुर्दिक्षु मध्ये चोपधेयाया असपत्नेष्टकाया मन्त्रान्विधाय तेषां व्याख्यानं तत्र मध्ये उपधेयाया असपत्नेष्टकायाः साभिप्रायं धर्मविशेषविधानं, प्राग्पश्चादुपधेययोरसपत्नेष्टकयोः प्राणापानत्वे दक्षिणोत्तरयोरुपधेययोरसपत्नेष्टकयोर्बाहुत्वं मध्ये उपधेयाया असपत्नेष्टकाया अन्नत्वं चोपवर्ण्य तद्द्वाराऽसपत्नासु प्राजापत्यत्वं च प्रदर्श्य पापापहन्तृत्वेन प्रशंसनं, विदुषः पापं न कीर्तयदिति नैमित्तिकः प्रासङ्गिक उपदेशश्चेत्यादि


ब्राह्मणम् २ चत्वारिंशत् छन्दस्येष्टकोपधानम्

२ चत्वारिंशन्छन्दस्येष्टकोपधानम् - तत्र च सार्थवादं सप्रयोजन छन्दस्येष्टकानामुपधानं विधाय तत्प्रसङ्गाच्छन्दस्यानामनिर्वचनं, छन्दस्यानां प्रतिदिशं दश दशसंख्यां विधाय. तस्या विराड्रूपेण विराजोऽन्नरूपेण च प्रशंसनं, विहिते चत्वारिंशच्छन्दस्येष्टकोपधाने चत्वारिंशन्मन्त्रान्विधाय तेषां तात्पर्यार्थप्रदर्शनं, पुरस्तादुपधेयानां दशानां छन्दस्यानां प्राणाद्यात्मकत्वं दक्षिणत उपधेयानां दशानां छन्दस्यानां अग्न्यादिदशदेवतात्मकत्वं पश्चादुपधेयानां दशानां छन्दस्यानां दशलोकात्मकत्वं-उत्तरत उपधेयानां दशानां छन्दस्यानामृत्वात्मकत्वं च प्रतिपाद्य तद्द्वारा विराट्सम्पत्तिप्रदर्शनं, पुनस्तासामेव प्रकारान्तरेण प्रतिदशकं क्रमात् दशप्राणात्मकत्वंअग्न्यादिदेवतादशकात्मकत्वं-दशदिगात्मकत्वं-मासर्त्वात्मकत्वं चाभिधाय तद्रूपत्वेन प्रशंसनं, प्रथमद्वितीयतृतीयदशतां भूम्यन्तरिक्षद्यौर्लोकात्मत्वं प्रतिपाद्य देवा. नामारोहणदृष्टान्तेन यजमानकर्तृकतत्तल्लोकारोहणरूपफलाभिधानेन प्रशंसनम्, उत्तरोत्तरलोकारोहणस्य प्रतिष्ठात्मकत्वं पूर्ववत्सदृष्टान्तमभिधाय तद्द्वारा प्रशंसनम् , इष्टकागतसंख्यां तदुपधानसाधनभूतयजुर्मन्त्रगत--संख्यां च सम्भूय तस्या अन्नरूपत्वेन प्रशंसनं चेत्यादि.


ब्राह्मणम् ३ एकोनत्रिंशत् स्तोमभागेष्टकोपधानम्

३ एकोनत्रिंशत्स्तोमभागेष्टकोपधानम् --तत्र चाख्यायिकया स्तोमभागेष्टकानामुपधानविधानं प्रसङ्गात्सोपपत्तिकं स्तोमभागनामनिर्वचनं च, विहिते स्तोमभागेष्टकोपधाने साधनभूतानां मन्त्राणां दिक्प्रदर्शनं कृत्वा तेषामितिहासशेषसंक्षेपेणार्थाभिधानं, स्तोमभागेष्टकोपधानमनूद्य तत्र प्रथमानामेकविंशतीनां स्तोमभागानां क्रमात्त्रैलोक्यात्मकत्वं प्रागादिचतुर्दिगात्मकत्वं चाभिधाय पुनस्तासां सम्भूय प्रतिष्ठात्मकत्वमुपवर्ण्य तद्द्वारा प्रशंसनम् , उत्तमानामष्टानां स्तोमभागानां गायत्र्यात्मकत्वं त्रयीलक्षणब्रह्मात्मकत्वं च प्रतिपाद्य तद्द्वारा प्रशंसनम् , एकेषां मतेन त्रिंशत्तम्या:स्तोमभागेष्टकायाः समन्त्रकं सयुक्तिकमुपधानं विधाय सकारणं सोपपत्तिकं तत्प्रत्याख्यानं चेत्यादि.


ब्राह्मणम् ४ सर्वतो अषाढाया वेलायां स्तोमभागानामुपधानम्

४ सर्वतोऽषाढाया वेलायां स्तोमभागानामुपधानं कर्तव्यमिति सार्थवादं विधानम्, एतासामुपहितानां स्तोमभागानां पुरीषेण प्रच्छादनं विधाय तस्य बहुप्रकारेण प्रशंसनं, स्तोमभागानन्तरीयपुरीषनिपवनस्य पञ्चमचितित्वमभिधाय पञ्चमर्तुत्वेन प्रशंसनम् , अन्यासां चितीनां लोकम्पृणान्तत्वमस्याश्चतेस्तद्रहितत्वं चेति सोपपत्तिकमभिधानं, तत्र चादित्यात्मिकाया लोकम्पृणायाः षष्ठचितित्वमभिधाय षष्ठर्तुत्वेन प्रशंसनं, पुरीषनिवपनं विकर्णीस्वयमातृण्णयोरुपधानं हिरण्यशकलैः प्रोक्षणं अग्नेरभ्याधानं चेत्येतत्क्रियाजातस्य सप्तमचितित्वमभिधाय सप्तमर्तुत्वेन प्रशंसनं, चितिषु प्रासङ्गिकं षट्त्वप्रदर्शनम्, अन्यासु चितिषु पुरीषनिवपनस्य समन्त्रकत्वमस्यां चितौ त्वमन्त्रकत्वं चेति सोपपत्तिकमभिधानं, प्रथमोत्तमयोश्चित्योरिदंलोकत्वं मध्यमानां तिसृणां चितीनामन्तरिक्षलोकत्वं चेत्याद्यमिधानं चेति.