शतपथब्राह्मणम्/काण्डम् ८/अध्यायः ५/ब्राह्मणम् ४

सर्वतो अषाढाया वेलायां स्तोमभागानामुपधानम्

८.५.४

ता अषाढायै वेलयोपदधाति । वाग्वा अषाढा रस एष वाचि तद्रसं दधाति तस्मात्सर्वेषामङ्गानां वाचैवान्नस्य रसं विजानाति - ८.५.४.१

यद्वेवाषाढायै । इयं वा अषाढाऽसावादित्य स्तोमभागा अमुं तदादित्यमस्यां प्रतिष्ठायां प्रतिष्ठापयति - ८.५.४.२

यद्वेवाषाढायै । इयं वा अषाढा हृदयं स्तोमभागा अस्यां तद्धृदयं मनो दधाति तस्मादस्यां हृदयेन मनसा चेतयते सर्वत उपदधाति सर्वतस्तद्धृदयं मनो दधाति तस्मादस्यां सर्वतो हृदयेन मनसा चेतयतेऽथो पुण्या हैता लक्ष्म्यस्ता एतत्सर्वतो धत्ते तस्माद्यस्य सर्वतो लक्ष्म भवति तं पुण्यलक्ष्मीक इत्याचक्षते - ८.५.४.३

अथैनाः पुरीषेण प्रच्छादयति । अन्नं वै पुरीषं रस एष तमेतत्तिरः करोति तस्मात्तिर इवान्नस्य रसः - ८.५.४.४

यद्वेव पुरीषेण । अन्नं वै पुरीषं रस एषोऽन्नं च तद्रसं च संतनोति संदधाति - ८.५.४.५

यद्वेव पुरीषेण । हृदयं वै स्तोमभागाः पुरीतत्पुरीषं हृदयं तत्पुरीतता प्रच्छादयति - ८.५.४.६

यद्वेव पुरीषेण । संवत्सर एषोऽग्निस्तमेतच्चितिपुरीषैर्व्यावर्तयति तद्याश्चतस्रः प्रथमाश्चितयस्ते चत्वार ऋतवोऽथ स्तोमभागा उपधाय पुरीषं निवपति सा पञ्चमी चितिः स पञ्चम ऋतुः - ८.५.४.७

तदाहुः । यल्लोकम्पृणान्ता अन्याश्चितयो भवन्ति नात्र लोकम्पृणामुपदधाति काऽत्र लोकम्पृणेत्यसौ वा आदित्यो लोकम्पृणैष उ एषा चितिः सैषा स्वयं लोकम्पृणा चितिरथ यदत ऊर्ध्वमा पुरीषात्सा षष्ठी चितिः स षष्ठ ऋतुः - ८.५.४.८

अथ पुरीषं निवपति । तत्र विकर्णीं च स्वयमातृण्णां चोपदधाति हिरण्यशकलैः प्रोक्षत्यग्निमभ्यादधाति सा सप्तमी चितिः स सप्तम ऋतुः - ८.५.४.९

ता उ वै षडेव । यद्धि विकर्णी च स्वयमातृण्णा च षष्ठ्या एव तच्चितेः - ८.५.४.१०

ता उ वै पञ्चैव । यजुषाऽन्यासु पुरीषं निवपति तूष्णीमत्र तेनैषा न चितिरथोलोकम्पृणान्ता अन्याश्चितयो भवन्ति नात्र लोकम्पृणामुपधाति तेनो एवैषा न चितिः - ८.५.४.११

ता उ वै तिस्र एव । अयमेव लोकः प्रथमा चितिर्द्यौरुत्तमाथ या एतास्तिस्रस्तदन्तरिक्षं तद्वा इदमेकमिवैवान्तरिक्षं ता एवं तिस्र एवं पञ्चैवं षडेवं सप्त - ८.५.४.१२