ब्राह्मणम् १ पञ्चनाकसदेष्टकोपधानम्, पञ्चचूडेष्टकोपधानम्

१ पञ्चनाकसदिष्टकोपधानम्--तत्र च सार्थवादं पञ्चनाकसदिष्टकोपधानविधानं नाकसन्नामनिर्वचनं च, तच्च विहितमुपधानं प्रागादिचतुर्दिक्षु मध्ये च कर्तव्यमिति सार्थवादं विधानं, पुरस्ताद्दक्षिणतः पश्चादुत्तरतो मध्ये चोपधेयाया नाकसदिष्टकायां उपधाने मन्त्रान्विनियुज्य तेषां साभिप्रायं व्याख्यानं, नाकसदिष्टकोपधानस्य प्रयोजनाभिधानेन प्रशंसनम्.
पञ्चचूडेष्टकोपधानम्--तत्र च सार्थवादं पञ्चचूडेष्टकोपधानविधानं पञ्चचूडानामनिर्वचनं च, पञ्चानां नाकसदां पञ्चानां चूडानां च सोपपत्तिकं विविध्येनसामानाधिकरण्यं प्रतिपाद्य तद्द्वारा प्रशंसनं, पञ्चचूडेष्टकोपधानस्य प्रयोजन निरूपणं, पुरस्ताद्दक्षिणतः पश्चादुत्तरतो मध्ये चोपधेयायाश्चूडेष्टकाया उपधाने मन्त्रान्विनियुज्य तेषां साभिप्रायं व्याख्यानं, प्रकारान्तरेण चूडेष्टकोपधानस्य प्रयोजनकथनं, पञ्चानां नाकसदां पञ्चानां चूडानां च संख्या सम्भूय तस्या विराड्रूपत्वेन प्रशंसनं, विराडात्मिकाया अस्याश्चितेरग्नेराशीष्ट्वमन्तत्वमुत्तमचितित्वं चाभिधाय तद्द्वारा प्रशंसनं, नाकसच्चूडयोरन्तरा सार्थवादं पुरीषनिवपनविधानं, विहिते उपधाने दिक्परत्वेन क्रमविशेषं विधाय प्रकारान्तरेण फलसम्बन्धप्रदर्शनं चेत्यादि.

ब्राह्मणम् २ एकत्रिंशच्छन्दस्येष्टकोपधानम्

२ एकत्रिंशच्छन्दस्येष्टकोपधानम् -- तत्र च छन्दस्यानां सार्थवादं सप्रयोजनमुपधानविधानं, छन्दस्यानां तृचेनोपधानं विधाय तत्प्रशंसनम् , अतिच्छदा:शब्दनिरुक्तिपूर्वकं छन्दस्यासु महदुक्थस्यानुप्रवेशवर्णनम् , उपधानसाधनभूतमन्त्रगतछन्दसां शिरआद्यवयवैः सोपपत्तिकं प्रशंसनं, छन्दस्यानामुपधानप्रयोजनाभिधानं, तत्र पुरस्तात्तिसृणां शिरोरूपाणां गायत्रीणां--पुरस्तादेव रेतःसिग्वेलायां तिसृणामुरोरूपाणां त्रिष्टुभां पश्चाद्रेतःसिग्वेलायां तिसृणां श्रोणीरूपाणां जगतीनां--पश्चादेव जगतीभ्योऽनन्तर्हितानां तिसृणां सक्थिरूपाणामनुष्टुभां-अषाढावेलायां पुरस्तात्तिसृणां पर्शुरूपाणां बृहतीनां-बृहतीनां पुरस्तात्तिसृणां कीकसारूपाणां ककुभां-गायत्रीभ्योऽनन्तर्हितानां तिसृणां ग्रीवारूपाणामुष्णिहां--पार्श्वयोस्तत्र दक्षिणतस्तिसृणां पक्षरूपाणां पंक्तीनां उत्तरतश्चतसृणां पक्षरूपाणामेव पदपंक्तीनां-पुरीषवत्याः पुरस्तादुदररूपाया एकस्या अविच्छन्दसः-पश्चात्तिसृणां प्रतिष्ठारूपाणां द्विपदानां-एवमेकत्रिंशच्छन्दस्येष्टकानां सार्थवादमुपधानविधानं तत्रापि पुरीषवती अतिच्छन्दाश्चैते उभे इष्टके संस्पृष्टे पुरीषसहिते प्राच्यौ च स्वयमातृण्णाया दक्षिणत उपदध्यादिति तयोः सार्थवादमुपधानप्रकारविशेषनिरूपणं च, एवमुक्तरीत्या उपधाने कृते यजमानस्यात्मा सुकृतो भवत्यन्यथा दुष्कृतो भवतीति प्रतिपादनं, प्रसङ्गात्पुष्पाख्ययोः साम्नोर्निधने अभिधाय तद्व्याख्यानं चेत्यादि.


ब्राह्मणम् ३ अष्टगार्हपत्येष्टकोपधानम्, अष्टपुनश्चितीष्टकोपधानम्

३ अष्टगार्हपत्येष्टकोपधानम्--तत्र चात्मनो मध्येऽष्टानां गार्हपत्येष्टकानां सार्थवादं सेतिहासं छन्दस्योत्तमाष्टेष्टकोपधानसाधनभूतैर्यजुर्भिरेवोपधानविधानं. अष्टपुनश्चितीष्टकोपधानम्--तत्र च मध्यत एवाष्टगार्हपत्येष्टकावत्पुनश्चितीष्टकानामुपधानविधानम् , एकेषां मतेन पुनश्चितीष्टकानां जघनार्धे पुच्छसन्धावुपधानमभिधाय तत्प्रतिषिध्य च पुनर्मध्यत एवोपधानस्य समर्थनं, पुनश्चितीनामष्टसंख्यां विधाय तस्याः प्रशंसनम् , एतासामष्टानामिष्टकानां पञ्चकृत्वःसादनं विधाय तत्प्रशंसनं, पुनश्चितिनामधेयनिर्वचनं, पुनरेकेषां मतेन जघनार्धे गार्हपत्येष्टकानामुपधानं पूर्वार्धे च पुनश्चितीनामुपधानमभिधाय तद्द्वयमपि प्रत्याख्याय च प्रागुक्तोपधानपक्षस्यैव समर्थनं, गार्हपत्येष्टकानां पुनश्चितीष्टकानां चोपधानस्य प्रकारान्तरेण पुनः प्रशंसनं, विहितेऽष्टानां पुनश्चितीनामुपधानेऽष्टौ. मन्त्रान्विनियुज्य तेषां व्याख्यानं चेत्यादि.