शतपथब्राह्मणम्/काण्डम् ८/अध्यायः ६/ब्राह्मणम् ३

८.६.३ अष्टगार्हपत्येष्टकोपधानम्

गार्हपत्यमुपदधाति । एतद्वै देवाः प्राप्य राद्ध्वेवामन्यन्त तेऽब्रुवन्केनेदमरात्स्मेति गार्हपत्येनैवेत्यव्रुवन्गार्हपत्यं वै चित्वा समारुह्य प्रथमां चितिमपश्याम प्रथमायै द्वितीयां द्वितीयायै तृतीयां तृतीयायै चतुर्थीं चतुर्थ्यै पञ्चमीं पञ्चम्या इदमिति - ८.६.३.१

तेऽब्रुवन् । उप तज्जानीत यथेयमस्मास्वेव राद्धिरसदिति तेऽब्रुवंश्चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवंस्तदिच्छत यथेयमस्मास्वेव राद्धिरसदिति - ८.६.३.२

ते चेतयमानाः । एतदपश्यन्निहेममाहृत्योपदधामहा इति तमिहाहृत्योपादधत तस्मिन्व्यवदन्त वसवः पुरस्ताद्रुद्रा दक्षिणत आदित्याः पश्चान्मरुत उत्तरतो विश्वे देवा उपरिष्टादिहोपदधामेहोपदधामेति - ८.६.३.३

तेऽब्रुवन् । मध्य एवोपदधामहै स नो मध्य उपहितः सर्वेषाम्भविष्यतीति तं मध्य उपादधत तदेतां राद्धिमात्मन्नदधत मध्यतो मध्यत एवैतदेतां राद्धिमात्मन्नदधत तथैवैतद्यजमानो यद्गार्हपत्यमुपदधात्येतामेवैतद्राद्धिमात्मन्धत्ते मध्यतो मध्यत एवैतदेतां राद्धिमात्मन्धत्ते - ८.६.३.४

यद्वेव गार्हपत्यमुपदधाति । अन्नं वै गार्हपत्योऽत्तायमग्निश्चितोऽत्त्र एवैतदन्नमपिदधाति मध्यतो मध्यत एवास्मिन्नेतदन्नं दधाति - ८.६.३.५

यद्वेव गार्हपत्यमुपदधाति । वेदिर्वै देवलोकोऽथ वा एष बहिर्वेदि चितो भवति तं यदिहाहृत्योपदधाति तदेनं वेदौ देवलोके प्रतिष्ठापयति - ८.६.३.६

यद्वेव गार्हपत्यमुपदधाति । योनिर्वै पुष्करपर्णमथ वा एष बहिर्योनि चितो भवति बहिर्द्धो वा एतद्योनेरग्निकर्म यत्पुरा पुष्करपर्णात्तं यदिहाहृत्योपदधाति तदेनं योनौ पुष्करपर्णे प्रतिष्ठापयति तथो हैषोऽबहिर्द्धा भवत्यष्टाविष्टका उपदधाति तस्योक्तो बन्धुस्तं वा एतैरेव यजुर्भिरेतयाऽऽवृता चिनोति यो ह्येवासौ स एवायं तमेवैतदाहृत्येहोपदधाति - ८.६.३.७

अष्टपुनश्चितीष्टकोपधानम्

अथ पुनश्चितिमुपदधाति । एतद्वै देवा गार्हपत्यं चित्वा तस्मिन्राद्धिं नापश्यन्योनिर्वै गार्हपत्या चितिरेषो वै योने राद्धिर्यद्रेतः प्रजातिस्तस्यामेतस्यां योनौ रेतः प्रजातिं नापश्यन् - ८.६.३.८

तेऽब्रुवन् । उप तज्जानीत यथास्यां योनौ रेतः प्रजातिं दधामेति तेऽब्रुवंश्चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवंस्तदिच्छत यथास्यां योनौ रेतः प्रजातिं दधामेति - ८.६.३.९

ते चेतयमानाः । एतां पुनश्चितिमपश्यंस्तामुपादधत तदेतस्यां योनौ रेतः प्रजातिमदधुर्मध्यतो मध्यत एवैतदेतस्यां योनौ रेतः प्रजातिमदधुस्तथैवैतद्यजमानो यत्पुनश्चितिमुपदधात्येतस्यामेवैतद्योनौ रेतः प्रजातिं दधाति मध्यतो मध्यत एवैतदेतस्यां योनौ रेतः प्रजातिं दधाति - ८.६.३.१०

तां हैके जघनार्ध उपदधति । जघनार्धाद्वै रेतः सिच्यते पुच्छसंधौ पुच्छाद्वै रेतः सिच्यत इति न तथा कुर्याद्बहिर्द्धा ह ते योने रेतः प्रजातिं दधति ये तथा कुर्वन्ति मध्य एवोपदध्यात्तत्सम्प्रति योनौ रेतः प्रजातिं दधाति - ८.६.३.११

अष्टाविष्टका उपदधाति । अष्टाक्षरा गायत्री गायत्रोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतद्रेतोभूतं सिञ्चति पञ्च कृत्वः सादयति पञ्चचितिकोऽग्निः पञ्चऽर्तवः संवत्सरः संवत्सरोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतद्रेतो भूतं सिञ्चत्यष्टाविष्टकाः पञ्च कृत्वः सादयति तत्त्रयोदश त्रयोदश मासाः संवत्सरस्त्रयोदशाग्नेश्चितिपुरीषाणि यावानग्निर्यावत्यस्य मात्रा तावत्तद्भवति - ८.६.३.१२

यद्वेव पुनश्चितिमुपदधाति । एतद्वा एतदयथायथं करोति यदाहवनीयाद्गार्हपत्यमुत्तरं चिनोति तद्यत्पुनश्चितिमुपदधाति य एवायमग्निश्चितस्तमेवैतदाहृत्यास्योपरिष्टात्पुनश्चिनोति तद्यच्चितं सन्तं पुनश्चिनोति तस्मात्पुनश्चितिः - ८.६.३.१३

तद्धैके । जघनार्धे गार्हपत्यमुपदधति पूर्वार्धे पुनश्चितिमाहवनीयश्च वा एतौ गार्हपत्यश्चैवं वा एतावग्नी इति न तथा कुर्यादयं वै लोको गार्हपत्यो द्यौराहवनीय उत्तरो वा असावस्यै तस्मादेनामुत्तरामेवोपदध्यात् - ८.६.३.१४

यद्वेव गार्हपत्यं च पुनश्चितिं चोपदधाति । वेदिश्च हैते अग्नेरुत्तरवेदिश्चाथ ये अमू पूर्वे निवपत्यध्वरस्य ते अथ हैते अग्नेस्तद्यदेते उपधायाग्निं निदधाति वेदौ चैवैनमेतदुत्तरवेदौ च प्रतिष्ठापयति - ८.६.३.१५

यद्वेव पुनश्चितिमुपदधाति । पुनर्यज्ञो हैष उत्तरा हैषा देवयज्या पुनर्यज्ञमेवैतदुपधत्त उत्तरामेव देवयज्यामुप हैनं पुनर्यज्ञो नमति - ८.६.३.१६

यद्वेव पुनश्चितिमुपदधाति । यं वै तं प्राणा ऋषयोऽग्रेऽग्निं समस्कुर्वन्त्स एष तमेवैतत्पुनश्चिनोति तद्यच्चितं सन्तं पुनश्चिनोति तस्माद्वेव पुनश्चितिः - ८.६.३.१७

येन ऋषयस्तपसा सत्त्रमायन्निति । अमूनेतदृषीनाहेन्धाना अग्निं स्वराभरन्त इतीन्धाना अग्निं स्वर्गं लोकमाहरन्त इत्येतत्तस्मिन्नहं निदधे नाके अग्निमिति स्वर्गो वै लोको नाको यमाहुर्मनव स्तीर्णबर्हिषमिति ये विद्वांसस्ते मनवस्तीर्णबर्हिषमिति सर्वदा हैव स स्तीर्णबर्हिः - ८.६.३.१८

तं पत्नीभिरनुगच्छेम देवाः । पुत्रैर्भ्रातृभिरुत वा हिरण्यैरित्येतेनैनं सर्वेणानुगच्छेमेत्येतन्नाकं गृभ्णानाः सुकृतस्य लोक इति स्वर्गो वै लोको नाकः स्वर्गं लोकं गृह्णानाः सुकृतस्य लोक इत्येतत्तृतीये पृष्ठे अधि रोचने दिव इत्येतद्ध तृतीयं पृष्ठं रोचनं दिवो यत्रैष एतत्तपति - ८.६.३.१९

आ वाचो मध्यमरुहद्भुरण्युरिति । एतद्ध वाचो मध्यं यत्रैष एतच्चीयते भुरण्युरिति भर्तेत्येतदयमग्निः सत्पतिश्चेकितान इत्ययमग्निः सतां पतिश्चेतयमान इत्येतत्पृष्ठे पृथिव्या निहितो दविद्युतदिति पृष्ठे पृथिव्या निहितो दीप्यमान इत्येतदधस्पदं कृणुतां ये पृतन्यव इत्यधस्पदं कुरुतां सर्वान्पाप्मन इत्येतत् - ८.६.३.२०

अयमग्निर्वीरतमो वयोधा इति । अयमग्निर्वीर्यवत्तमो वयोधा इत्येतत्सहस्रियो द्योततामप्रयुच्छन्निति सहस्रियो दीप्यतामप्रमत्त इत्येतद्विभ्राजमानः सरिरस्य मध्य इतीमे वै लोकाः सरिरं दीप्यमान एषु लोकेष्वित्येतदुप प्रयाहि दिव्यानि धामेत्युप प्रयाहि स्वर्गं लोकमित्येतत् - ८.६.३.२१

सम्प्रच्यवध्वमुप सम्प्रयातेति । अमूनेतदृषीनाह समेनं प्रच्यवध्वमुप चैनं सम्प्रयातेत्यग्ने पथो देवयानान्कृणुध्वमिति यथैव यजुस्तथा बन्धुः पुनः कृण्वाना पितरा युवानेति वाक्च वै मनश्च पितरा युवाना वाक्च मनश्चैतावग्नी अन्वातांसीत्त्वयि तन्तुमेतमिति योऽसावृषिभिस्तन्तुस्ततस्तमेतदाह - ८.६.३.२२

उद्बुध्यस्वाग्ने प्रतिजागृहि त्वमिति । इममेतदग्निमाहोच्चैनं बुध्यस्व प्रति चैनं जागृहीतीष्टापूर्ते संसृजेथामयं चेति यथैव यजुस्तथा बन्धुरस्मिन्त्सधस्थे अध्युत्तरस्मिन्निति द्यौर्वा उत्तरं सधस्थं विश्वे देवा यजमानश्च सीदतेति तद्विश्वैर्देवैः सह यजमानं सादयति - ८.६.३.२३

येन वहसि सहस्रम् । येनाग्ने सर्ववेदसमित्येतद्धास्य प्रतिज्ञाततमं धाम येन सहस्रं वहति येन सर्ववेदसं तेनेमं यज्ञं नो नय स्वर्देवेषु गन्तव इति तेन न इमं यज्ञं नय स्वर्गं लोकं देवेषु गन्तव इत्येतदयं ते योनिर्ऋत्विय इति तस्योक्तो बन्धुरष्टाविष्टका उपदधाति तस्यो एवोक्तः - ८.६.३.२४