७.४.२

स्वयमातृण्णामुपदधाति । इयं वै स्वयमातृण्णेमामेवैतदुपदधाति तामनन्तर्हितां पुरुषादुपदधात्यन्नं वै स्वयमातृण्णेयं वै स्वयमातृण्णेयमु वा अन्नमस्यां हि सर्वमन्नं पच्यतेऽनन्तर्हितमेवास्मादेतदन्नं दधात्युत्तरामुत्तरमेवास्मादेतदन्नं दधाति - ७.४.२.[१]

यद्वेव स्वयमातृण्णामुपदधाति । प्राणो वै स्वयमातृण्णा प्राणो ह्येवैतत्स्वयमात्मन आतृन्त्ते प्राणमेवैतदुपदधाति तामनन्तर्हिताम्पुरुषादुपदधाति प्राणो वै स्वयमातृण्णेयं वै स्वयमातृण्णेयमु वै प्राणो यद्धि किं च प्राणीयं तत्सर्वं बिभर्त्यनन्तर्हितमेवास्मादेतत्प्राणं दधात्युत्तरामुत्तरमेवास्मादेतत्प्राणं दधाति - ७.४.२.[२]

यद्वेव स्वयमातृण्णामुपदधाति । प्रजापतिं विस्रस्तं देवता आदाय व्युदक्रामंस्तासु व्युत्क्रामन्तीषु प्रतिष्ठामभिपद्योपाविशत् - ७.४.२.[३]

स यः स प्रजापतिर्व्यस्रंसत । अयमेव स योऽयमग्निश्चीयतेऽथ या सा प्रतिष्ठैषा सा प्रथमा स्वयमातृण्णा तद्यदेतामत्रोपदधाति यदेवास्यैषात्मनस्तदस्मिन्नेतत्प्रतिदधाति तस्मादेतामत्रोपदधाति - ७.४.२.[४]

तां वै प्रजापतिनोपदधाति । प्रजापतिर्ह्येवैतत्स्वयमात्मनः प्रत्यधत्त ध्रुवासीति स्थिरासीत्येतदथो प्रतिष्ठितासीति धरुणेति प्रतिष्ठा वै धरुणमास्तृता विश्वकर्मणेति प्रजापतिर्वै विश्वकर्मा तेनास्तृतासीत्येतन्मा त्वा समुद्र उद्वधीन्मा सुपर्ण इति रुक्मो वै समुद्रः पुरुषः सुपर्णस्तौ त्वामोद्वधिष्टामित्येतदव्यथमाना पृथिवीं दृंहेति यथैव यजुस्तथा बन्धुः - ७.४.२.[५]

प्रजापतिष्ट्वा सादयत्विति । प्रजापतिर्ह्येतां प्रथमां चितिमपश्यदपां पृष्ठे समुद्रस्येमन्नित्यपां हीयं पृष्ठं समुद्रस्य हीयमेम व्यचस्वतीम्प्रथस्वतीमिति व्यचस्वती च हीयं प्रथस्वती च प्रथस्व पृथिव्यसीति प्रथस्व पृथिवी चासीत्येतत् - ७.४.२.[६]

भूरसीति । भूर्हीयं भूमिरसीति भूमिर्हीयमदितिरसीतीयं वा अदितिरियं हीदं सर्वं ददते विश्वधाया इत्यस्यां हीदं सर्वं हितं विश्वस्य भुवनस्य धर्त्रीति सर्वस्य भुवनस्य धर्त्रीत्येतत्पृथिवीं यच्छ पृथिवीं दृंह पृथिवीं मा हिंसीरित्यात्मानं यच्छात्मानं दृंहात्मानं मा हिंसीरित्येतत् - ७.४.२.[७]

विश्वस्मै प्राणायापानाय । व्यानायोदानायेति प्राणो वै स्वयमातृण्णा सर्वस्मा उ वा
एतस्मै प्राणः प्रतिष्ठायै चरित्रायेतीमे वै लोकाः स्वयमातृण्णा इम उ लोकाः प्रतिष्ठा चरित्रमग्निष्ट्वाभिपात्वित्यग्निष्ट्वाभिगोपायत्वित्येतन्मह्या स्वस्त्येति महत्या स्वस्त्येत्येतच्छर्दिषा शंतमेनेति यच्छर्दिः शंतमं तेनेत्येतत्सादयित्वा सूददोहसाधिवदति तस्योक्तो बन्धुरथ साम गायति तस्योपरि बन्धुः - ७.४.२.[८]

तदाहुः । कथमेष पुरुषः स्वयमातृण्णायानभिनिहितो भवतीत्यन्नं वै स्वयमातृण्णा प्राणः स्वयमातृण्णानभिऽनिहितो वै पुरुषोऽन्नेन च प्राणेन च - ७.४.२.[९]

अथ दूर्वेष्टकामुपदधाति । पशवो वै दूर्वेष्टका पशूनेवैतदुपदधाति तद्यैरदोऽग्निरनन्तर्हितैः पशुभिरुपैत्त एते तानेवैतदुपदधाति तामनन्तर्हितां स्वयमातृण्णाया उपदधातीयं वै स्वयमातृण्णानन्तर्हितास्तदस्यै पशून्दधात्युत्तरामुत्तरांस्तदस्यै पशून्दधाति - ७.४.२.[१०]

यद्वेव दूर्वेष्टकामुपदधाति । प्रजापतेर्विस्रस्तस्य यानि लोमान्यशीयन्त ता इमा ओषधयोऽभवन्नथास्मात्प्राणो मध्यत उदक्रामत्तस्मिन्नुत्क्रान्तेऽपद्यत - ७.४.२.[११]

सोऽब्रवीत् । अयं वाव माऽधूर्वीदिति यदब्रवीदधूर्वीन्मेति तस्माद्धूर्वा धूर्वा ह वै तां दूर्वेत्याचक्षते परोऽक्षं परोऽक्षकामा हि देवास्तदेतत्क्षत्रं प्राणो ह्येष रसो लोमान्यन्या ओषधय एतामुपदधत्सर्वा ओषधीरुपदधाति - ७.४.२.[१२]

तं यत्र देवाः समस्कुर्वंस्तदस्मिन्नेतं प्राणं रसं मध्यतोऽदधुस्तथैवास्मिन्नयमेतद्दधाति तामनन्तर्हितां स्वयमातृण्णाया उपदधातीयं वै स्वयमातृण्णानन्नर्हितास्तदस्या ओषधीर्दधात्युत्तरामुत्तरास्तदस्या ओषधीर्दधाति सा स्यात्समूला साग्रा कृत्स्नतायै। यथा स्वयमातृण्णायामुपहिता भूमिं प्राप्नुयादेवमुपदध्यादस्यां ह्येवैता जायन्त इमामनु प्ररोहन्ति - ७.४.२.[१३]

काण्डात्काण्डात्प्ररोहन्ती । परुषः परुषस्परीति काण्डात्काण्डाद्ध्येषा पर्वणः पर्वणः प्ररोहत्येवा नो दूर्वे प्रतनु सहस्रेण शतेन चेति यथैव यजुस्तथा बन्धुः - ७.४.२.[१४]

या शतेन प्रतनोषि । सहस्रेण विरोहसीति शतेन ह्येषा प्रतनोति सहस्रेण विरोहति
तस्यास्ते देवीष्टके विधेम हविषा वयमिति यथैव यजुस्तथा बन्धुर्द्वाभ्यामुपदधाति तस्योक्तो बन्धुः सादयित्वा सूददोहसाधिवदति तस्योक्तो बन्धुः - ७.४.२.[१५]

अथ द्वियजुषमुपदधाति । इन्द्राग्नी अकामयेतां स्वर्गं लोकमियावेति तावेतामिष्टकामपश्यतां द्वियजुषमिमामेव तामुपादधातां तामुपधायास्यै प्रतिष्ठायै स्वर्गं लोकमैतां तथैवैतद्यजमानो यद्द्वियजुषमुपदधाति येन रूपेण यत्कर्म कृत्वेन्द्राग्नी स्वर्गं लोकमैतां तेन रूपेण तत्कर्म कृत्वा स्वर्गं लोकमयानीति सा यद्द्वियजुर्नाम द्वे ह्येतां देवते अपश्यतां यद्वेव द्वियजुषमुपदधाति यजमानो वै द्वियजुः - ७.४.२.[१६]

तदाहुः । यदसावेव यजमानो योऽसौ हिरण्मयः पुरुषोऽथ कतमदस्येदं रूपमिति दैवो वा अस्य स आत्मा मनुषोऽयं तद्यत्स हिरण्मयो भवत्यमृतं वाऽअस्य तद्रूपं देवरूपममृतं हिरण्यमथ यदियं मृदः कृता भवति मानुषं ह्यस्येदं रूपम् - ७.४.२.[१७]

स यदमूमेवोपदध्यात् । नेमामपशिंष्यात्क्षिप्रे हास्माल्लोकाद्यजमानः प्रेयादथ यदिमामपशिनष्टि यदेवास्येदं मानुषं रूपं तदस्यैतदपशिनष्टि तथो हानेनात्मना सर्वमायुरेति - ७.४.२.[१८]

स यन्नानूपदध्यात् । न हैतं दैवमात्मानमनुप्रजानीयादथ यदनूपदधाति तथो हैतं दैवमात्मानमनुप्रजानाति तामनन्तर्हितां दूर्वेष्टकाया उपदधाति पशवो वै दूर्वेष्टका यजमानं तत्पशुषु प्रतिष्ठापयति - ७.४.२.[१९]

तदाहुः । कथमस्यैतावात्मानौ प्राणेन संततावव्यवच्छिन्नौ भवत इति प्राणो वै स्वयमातृण्णा प्राणो दूर्वेष्टका यजमानो द्वियजुः स यदनन्तर्हितां स्वयमातृण्णायै दूर्वेष्टकामुपदधाति प्राणेणैव तत्प्राणं संतनोति संदधात्यथ यदनन्तर्हितां दूर्वेष्टकायै द्वियजुषमुपदधाति प्राणो वै दूर्वेष्टका यजमानो द्वियजुरेवमु हास्यैतावात्मानौ प्राणेन संततावव्यवच्छिन्नौ भवतः - ७.४.२.[२०]

यास्ते अग्ने सूर्ये रुचो । या वो देवाः सूर्ये रुच इति रुचं रुचमित्यमृतत्वं वै रुगमृतत्वमेवास्मिन्नेतद्दधाति द्वाभ्यामुपदधाति तस्योक्तो बन्धुरथो द्वयं ह्येवैतद्रूपं मृच्चापश्च सादयित्वा सूददोहसाधिवदति तस्योक्तो बन्धुः - ७.४.२.[२१]

अथ रेतःसिचा उपदधाति । इमौ वै लोकौ रेतःसिचाविमौ ह्येव लोकौ रेतः सिञ्चत
इतो वा अयमूर्ध्वं रेतः सिञ्चति धूमं सामुत्र वृष्टिर्भवति तामसावमुतोवृष्टिं तदिमा अन्तरेण प्रजायन्ते तस्मादिमौ लोकौ रेतःसिचौ - ७.४.२.[२२]

विराड्ज्योतिरधारयदिति । अयं वै लोको विराट्स इममग्निं ज्योतिर्धारयति स्वराड्ज्योतिरधारयदित्यसौ वै लोकः स्वराट्सो मुमादित्यं ज्योतिर्धारयति विराड्वहेमौ लोकौ स्वराट्च नानोपदधाति नाना हीमौ लोकौ सकृत्सादयति समानं तत्करोति तस्मादु हानयोर्लोकयोरन्ताः समायन्ति - ७.४.२.[२३]

यद्वेव रेतःसिचा उपदधाति । आण्डौ वै रेतःसिचौ यस्य ह्याण्डौ भवतः स एव रेतः सिञ्चति विराड्ज्योतिरधारयत्स्वराड्ज्योतिरधारयदिति विराड्वहेमावाण्डौ स्वराट्च तावेतज्ज्योतिर्धारयतो रेत एव प्रजापतिमेव नानोपदधाति नाना हीमावाण्डौ सकृत्सादयति समानं तत्करोति तस्मात्समानसम्बन्धनौ ते अनन्तर्हिते द्वियजुष उपदधाति यजमानो वै द्वियजुरनन्तर्हितौ तद्यजमानादाण्डौ दधाति - ७.४.२.[२४]

अथ विश्वज्योतिषमुपदधाति । अग्निर्वै प्रथमा विश्वज्योतिरग्निर्ह्येवास्मिंलोके विश्वं ज्योतिरग्निमेवैतदुपदधाति तामनन्तर्हितां रेतःसिग्भ्यामुपदधातीमौ वै लोकौ रेतःसिचावनन्तर्हितं तदाभ्यां लोकाभ्यामग्निं दधात्यन्तरेवोपदधात्यन्तरेव हीमौ लोकावग्निः - ७.४.२.[२५]

यद्वेव विश्वज्योतिषमुपदधाति । प्रजा वै विश्वज्योतिः प्रजा ह्येव विश्वं ज्योतिः
प्रजननमेवैतदुपदधाति तामनन्तर्हितां रेतःसिग्भ्यामुपदधात्याण्डौ वै रेतःसिचावनन्तर्हितां तदाण्डाभ्यां प्रजातिं दधात्यन्तरेवोपदधात्यन्तरेव ह्याण्डौ प्रजाः प्रजायन्ते - ७.४.२.[२६]

प्रजापतिष्ट्वा सादयत्विति । प्रजापतिर्ह्येतां प्रथमां चितिमपश्यत्पृष्ठे पृथिव्या ज्योतिष्मतीमिति पृष्ठे ह्ययं पृथिव्यै ज्योतिष्मानग्निः - ७.४.२.[२७]

विश्वस्मै प्राणायापानाय । व्यानायेति प्राणो वै विश्वज्योतिः सर्वस्मा उ एतस्मै प्राणो
विश्वं ज्योतिर्यच्छेति सर्वं ज्योतिर्यच्छेत्येतदग्निष्टेऽधिपतिरित्यग्निमेवास्या अधिपतिं
करोति सादयित्वा सूददोहसाधिवदति तस्योक्तो बन्धुः - ७.४.२.[२८]

अथऽर्तव्ये उपदधाति । ऋतव एते यदृतव्ये ऋतूनेवैतदुपदधाति मधुश्च माधवश्च वासन्तिकावृतू इति नामनी एनयोरेते नामभ्यामेवैने एतदुपदधाति द्वे इष्टके भवतो द्वौ हि मासावृतुः सकृत्सादयत्येकं तदृतुं करोति - ७.४.२.[२९]

तद्यदेते अत्रोपदधाति । संवत्सर एषोऽग्निरिम उ लोकाः संवत्सरस्तस्यायमेव लोकः प्रथमा चितिरयमस्य लोको वसन्त ऋतुस्तद्यदेते अत्रोपदधाति यदेवास्यैते आत्मनस्तदस्मिन्नेतत्प्रतिदधाति तस्मादेते अत्रोपदधाति - ७.४.२.[३०]

यद्वेवैते अत्रोपदधाति । प्रजापतिरेषोऽग्निः संवत्सर उ प्रजापतिस्तस्य प्रतिष्ठैव प्रथमा चितिः प्रतिष्ठो अस्य वसन्त ऋतुस्तद्यदेते अत्रोपदधाति यदेवास्यैते आत्मनस्तदस्मिन्नेतत्प्रतिदधाति तस्मादेते अत्रोपदधाति ते अनन्तर्हिते विश्वज्योतिष उपदधाति प्रजा वै विश्वज्योतिरनन्तर्हितास्तत्प्रजा ऋतुभ्यो दधाति तस्मात्प्रजा ऋतूनेवानुप्रजायन्त ऋतुभिर्ह्येव गर्भे सन्तं सम्पश्यन्त्यृतुभिर्जातम्- ७.४.२.[३१]

अथाषाढामुपदधाति । इयं वा अषाढेमामेवैतदुपदधाति तां पूर्वार्ध उपदधाति प्रथमा हीयमसृज्यत - ७.४.२.[३२]

सा यदषाढा नाम । देवाश्चासुराश्चोभये प्राजापत्या अस्पर्धन्त ते देवा एतामिष्टकामपश्यन्नषाढामिमामेव तामुपादधत तामुपधायासुरान्त्सपत्नान्भ्रातृव्यानस्मात्सर्वस्मादसहन्त यदसहन्त तस्मादषाढा तथैवैतद्यजमान एतामुपधाय द्विषन्तम्भ्रातृव्यमस्मात्सर्वस्मात्सहते - ७.४.२.[३३]

यद्वेवाषाढामुपदधाति । वाग्वा अषाढा वाचैव तद्देवा असुरान्त्सपत्नान्भ्रातृव्यानस्मात्सर्वस्मादसहन्त तथैवैतद्यजमानो वाचैव द्विषन्तं भ्रातृव्यमस्मात्सर्वस्मात्सहते वाचमेव तद्देवा उपादधत तथैवैतद्यजमानो वाचमेवोपधत्ते - ७.४.२.[३४]

सेयं वामभृत् । प्राणा वै वामं यद्धि किं च प्राणीयं तत्सर्वं बिभर्ति तेनेयं वामभृद्वाग्घ त्वेव वामभृत्प्राणा वै वामं वाचि वै प्राणेभ्योऽन्नं धीयते तस्माद्वाग्वामभृत् - ७.४.२.[३५]

त एते सर्वे प्राणा यदषाढा । तां पूर्वार्ध उपदधाति पुरस्तात्तत्प्राणान्दधाति तस्मादिमे पुरस्तात्प्राणास्तान्नान्यया यजुष्मत्येष्टकया पुरस्तात्प्रत्युपदध्यादेतस्यां चितौ नेत्प्राणानपिदधानीति - ७.४.२.[३६]

यद्वपस्याः पञ्च पुरस्तादुपदधाति । अन्नं वा आपोऽनपिहिता वा अन्नेन प्राणास्तामनन्तर्हितामृतव्याभ्यामुपदधात्यृतुषु तद्वाचं प्रतिष्ठापयति सेयं वागृतुषु प्रतिष्ठिता वदति - ७.४.२.[३७]

तदाहुः । यत्प्रजा विश्वज्योतिर्वागषाढाऽथ कस्मादन्तरेणऽर्तव्ये उपदधातीति संवत्सरो वा ऋतव्ये संवत्सरेण तत्प्रजाभ्यो वाचमन्तर्दधाति तस्मात्संवत्सरवेलायां प्रजा वाचं प्रवदन्ति - ७.४.२.[३८]

अषाढासि सहमानेति । असहन्त ह्येतया देवा असुरान्त्सहस्वारातीः सहस्व पृतनायत इति यथैव यजुस्तथा बन्धुः सहस्रवीर्यासि सा मा जिन्वेति सर्वं वै सहस्रं सर्ववीर्याऽसि सा मा जिन्वेत्येतत्सादयित्वा सूददोहसाधिवदति तस्योक्तो बन्धुः - ७.४.२.[३९]

तदाहुः । कस्मादभिस्वयमातृण्णमन्या इष्टका उपधीयन्ते प्राच्य एता इति द्वे वै योनी इति ब्रूयाद्देवयोनिरन्यो मनुष्ययोनिरन्यः प्राचीनप्रजनना वै देवाः प्रतीचीनप्रजनना मनुष्यास्तद्यदेताः प्राचीरुपदधाति देवयोनेरेवैतद्यजमानं प्रजनयति - ७.४.२.[४०]