शब्दकल्पद्रुमः


पृष्ठ १/०६१

अन्यदा, व्य, (अन्यस्मिन् काले अन्य + दा ।) काला-

न्तरे । अन्यसमये । यथा, --
“अन्यदा भूषणं पुंसः क्षमा लज्जेव योषितः ।
पराक्रमः परिभवे वैजात्यं सुरतेष्विव” ॥
इति माघः ॥

अन्यपुष्टः, पुं, (अन्यया स्वमातृभिन्नया पुष्टः ।)

कोकिलः । यथा, --
“अप्यन्यपुष्टाः प्रतिकूलशब्दाः
श्रोतुर्व्वितन्त्रीरिव ताड्यमानाः” ।
इति कुमारसम्भवे ॥

अन्यपूर्व्वा, स्त्री, (अन्यः पूर्व्वो यस्याः सा ।) पौनर्भवा

कन्या । एकस्मै वागादिना दत्ता पुनरन्येन विवा-
हिता कन्या । सा सप्तधा यथा, --
“सप्त पौनर्भवाः कन्या वर्जनीयाः कुलाधमाः” ।
वाचा दत्ता मनोदत्ता कृतकौतुकमङ्गला ॥
उदकस्पर्शिता या च या च पाणिगृहीतिका ।
अग्निं परिगता या तु पुनर्भूप्रसवा च या ॥
इत्येताः काश्यपेनोक्ता दहन्ति कुलमग्निवत् ।
इत्युद्वाहतत्त्वं ॥

अन्यभृत्, पुं, (अन्यान् कोकिलान् बिभर्त्ति पालयति

अन्य + भृ + क्विप् ।) काकः । इति हेमचन्द्रः ॥
(कोकिलः ।)

अन्यभृतः, पुं, (अन्यया स्वमातृभिन्नया भृतः पालितः

तृतीयातत्पुरुषः ।) कोकिलः । इति हलायुधः ॥
(“कलमन्यभृतासु भाषितं
कलहंसीषु मदालसं गतं” । इति रघुः ।)

अन्यमनस्कः, त्रि, भिन्नचित्तः । अन्यमनाः । अन्य-

स्मिन् मनो यस्य स इति बहुव्रीहौ कप्रत्ययेन
सिद्धः ॥ (विषयान्तरासक्तचित्ततया उपस्थित-
कार्य्येऽनवहितहृदयः । अस्थिरः । चञ्चलचित्तः ।)

अन्यवर्द्धितः, त्रि, (अन्यया योषिता वर्द्धितः पुष्टः ।)

अन्यपुष्टः । परैधितः । अन्येन प्रतिपालितः ।
इति जटाधरः ॥

अन्यवादी, [न्] त्रि, (अन्यत् पूर्ब्बस्वीकृतवाक्यात्

भिन्नं वदति, अन्य + वद् + णिनि उपपदसमासः ।)
इतरवादी । अस्थिरवादी । अन्यथावादी । यथा, --
“अन्यवादी क्रियाद्वेषी नोपस्थायी निरुत्तरः ।
आहूतप्रपलायी च हीनः पञ्चविधः स्मृतः” ॥
इति व्यवहारतत्त्वे नारदः ॥

अन्यशाखकः, पुं, (अन्या स्वशाखेतरा शाखा यस्य सः,

समासान्तः कः ।) स्ववेदशाखामुत्सृज्यापरशाखा-
श्रयकर्म्म कुर्व्वाणः । तत्पर्य्यायः । शाखारण्डः २ ।
इति हेमचन्द्रः ॥

अन्यादृक्, [श्] त्रि, (अन्यमिव पश्यति अन्य +

दृश् + क्विन्, उपपदसमासः । “दृक् दृशवतुषु”
इति आकारः ।) अन्यप्रकारः । इति मुग्धबोध-
व्याकरणं ॥

अन्यादृशः, त्रि, (अन्यैव पश्यति अन्य + दृश् + कञ्

आत्वञ्च ।) अन्यप्रकारः । इति मुग्धबोधव्याकरणं ॥

अन्यायः, पुं, (न्यायः । सङ्गतिः । युक्तिः । औचित्यं,

तस्मादन्यः नञ्समासः ।) न्यायभिन्नः । अनौ-
चित्यं । अयुक्तिः । यथा, --
“अन्यायेनापि यद्भुक्तं पित्रा पूर्ब्बतरैस्त्रिभिः ।
न तच्छक्यमपाकर्त्तुं क्रमात्त्रिपुरुषागतं” ॥
इति व्यवहारतत्त्वे नारदः ॥

अन्याय्यः, त्रि, (न्यायादनपेतः, न्याय + अनपेतार्थे

यत्, ततो नञ्समासः ।) अनुचितः । अयोग्यः ।
यथा, -- दृष्टार्थसत्त्वे अदृष्टकल्पनाया अन्याय्य-
त्वादित्यधिकरणमालायां माधवाचार्य्यः ॥ (अस-
ङ्गतः । गर्हितः । धर्म्मविरुद्धः । यक्तिविरोधी ।
“न्याय्यं सन्नेच्छते कर्त्तुमन्न्याय्यं वा करोति यः” ।
इति कात्यायनसंहिता ।)

अन्यूनः, त्रि, (नन्यूनः, नञ्समासः ।) न्यूनतारहितः ।

सम्पूर्णः । इति जटाधरः ॥

अन्येद्यु, [स्] व्य, (अन्यस्मिन् दिवसे निपातनात्

सिद्धम् ।) अन्यस्मिन्नहनि । दिवसान्तरे । अन्य-
दिने । इत्यमरः ॥
(“अन्येदुरात्मानुचरस्य भावं
जिज्ञासमाना मुनिहोमधेनुः” ।
इति रघुवंशे ।)

अन्योदर्य्यः, पुं स्त्री, (अन्यस्याः स्वमातृभिन्नविमातु-

रुदरे जातः अन्योदर + यत् एकपितृकः भिन्न-
मातृको भ्राता ।) वैमात्रेयः । यथा, --
“अन्योदर्य्यस्तु संसृष्टी नान्योदर्य्यो धनं हरेत्” ।
इति याज्ञवल्क्यः ॥ (अन्यमातृजः ।)

अन्योन्यं, त्रि, (अन्य + व्यतिहारार्थे द्वित्वं, ततः

पूर्ब्बपदात्परः सुश्च ।) उभयतः । तत्पर्य्यायः ।
इतरेतरं । २ परस्परं । ३ । इति हेमचन्द्रः ॥
(“अन्योन्यप्रतिघातसङ्कुलचलत्कल्लोलकोलाहलैः”
इति उत्तरचरिते ।)

अन्योन्याश्रयः, त्रि, (अन्योन्यमाश्रयति, अन्योन्य +

आ + श्रि + पचाद्यच् ।) परस्परज्ञानसापेक्षज्ञा-
नाश्रयः । इति स्मार्त्ताः ॥ स्वग्रहसापेक्षग्रहसापेक्ष-
ग्रहकः । इति तार्किकाः ॥ तर्कविशेषः । तस्य
लक्षणं । स्वापेक्षपेक्षितत्वनिबन्धनप्रसङ्गत्वं ।
अपेक्षा च ज्ञप्तौ उत्पत्तौ स्थितौ च ग्राह्या ।
तत्राद्या यथा । घटोऽयं यद्येतद्घटज्ञानजन्यज्ञान-
विषयः स्यात् तदैतद्घटभिन्नः स्यात् । द्वितीया
यथा । घटोऽयं यद्येतद्घटजन्यजन्यः स्यात् तदै-
तद्घटजन्यभिन्नः स्यात् । तृतीया यथा । घटोऽयं
यद्येतद्घटवृत्तिवृत्तिः स्यात् तथात्वेनोपलभ्येत । इति
जगदीशः ॥

अन्वक् [च्] त्रि, (अनु पश्चात् अञ्चति गच्छति अनु

+ अञ्च + क्विन्) पश्चाद्गामी । इत्यमरः ॥ (अनु
पदं । पश्चात् । “तां देवतापित्रतिथिक्रियार्था-
मन्वक् ययौ मध्यमलोकपालः” । इति रघुवंशे ।)

अन्वयः, पुं, (अनु + इण् + भावे अच् ।) वंशः । कुलं ।

इत्यमरः ॥
(“तदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तरः” ।
इति रघुवंशे । वंशपरम्परा ।
“रघूणामन्वयं वक्ष्ये तनुवाग्विभवोऽपि सन्” ।
इति रघुवंशे ।
“काव्यदेव्यभिधा शूरबधूः शुद्धान्वया” ॥
इति राजतरङ्गिणी । वंशजाताः पुत्त्रपौत्त्रादयः ।
“मातुर्दुहितरोऽभावे दुहितॄणां तदन्वयः” ।
इति नारदः ।
“स जीवन्नेव शूद्धत्वमाशु गच्छति सान्वयः” ।
इति मनुः ।) पदानां परस्पराकाङ्क्षा योग्यता
च । इति दुर्गादासः ॥ परस्परसम्बन्धः । इति
रामतर्कवागीशः ॥

अन्ववायः, पुं, (अनु + अव + इण् + भावे अच् ।)

वंशः । कुलं । इत्यमरः ॥ (“कथमेकान्ववायोऽय-
मस्माकं” । इति शाकुन्तले ।)

अन्वष्टका, स्त्री, (अष्टौ परिमाणान्यस्याः, अष्टन् +

कन्, इत्वाभावः, अष्टकामनुगता प्रादिसमासः ।)
अष्टकापश्चात्तिथिः । सा तु गौणचान्द्रपौषमाघ-
फाल्गुनाश्विनमासानां कृष्णनवमी । तत्र सा-
ग्नीनां मातृकश्राद्वं । इति श्राद्धविवेकः ॥ तत्र
साग्निकर्त्तव्यमातृपक्षश्राद्धं । यथा शङ्खः ।
“पित्रादित्रिकपत्नीषु भोज्या मातॄः प्रतिद्विजाः ।
स्त्रीणामेव तु तद्यस्मान्मातृश्राद्धमिहोच्यते” ॥
एतच्चान्वष्टकाश्राद्धं साग्निमात्रेण कर्त्तव्यं ।
तथा च विष्णः । अन्वष्टकास्वष्टकावदग्नौ हुत्वा
मात्रे पितामह्यै प्रपितामह्यै पूर्ब्बवद्ब्राह्मणान्
भोजयित्वा इति । अत्र होमत्वादेवाग्निप्राप्तेरग्नि-
ग्रहणं तन्नियमार्थं । न चाग्नौ करणहोमे विप्र-
पाण्यादेर्व्विधानादत्रापि तथेति वाच्यं । प्रकृती-
भूतश्राद्धविध्युक्तस्याधारान्तरस्य विकृतीभूतश्राद्धे
विशेषविहिताधारेण बाधात् । शरमयवर्हिषा
कुशमयवर्हिर्बाधवत् । न वा लौकिकाग्नौ होमः ।
“न पैत्रयज्ञियो होमो लौकिकाग्नौ विधीयते” ।
इति मनुवचनेन निषेधात् । श्राद्धचिन्तामणा-
वप्येवं । इति श्राद्धतत्त्वं ॥

अन्वक्षः, त्रि, (अनु + अक्ष + पचाद्यच् । अक्षमि-

न्द्रियमनुगतम्, प्रादिसमासः, प्रत्यक्षे, अनुगते
अनुपदे ।) पश्चाद्गामी । इत्यमरः ॥

अन्वाधिः, पुं, (अनु पश्चात् आधीयते न्यस्यते, अनु

+ आ + धा + कि ।) एकस्मिन् यदर्पितं वस्तु
तेन पुरुषान्तरे अमुष्मिन् स्वामिनि त्वं दास्यसीति
निक्षिप्तं तत् । इति विवादार्णवसेतुः ॥ कार्य्येषु
वाचनेन अमुष्मिन् पुरुषे त्वं दद्या इति परिभाष्य
यत् समर्पितं तत् । इति हलायुधः ॥ यथा, --
“अर्थमार्गणकार्य्येषु अन्यस्मिन् वचनान्मम ।
दद्यास्त्वमिति यो दत्तः स इहान्वाधिरुच्यते” ॥
इति कात्यायनः ॥ पुनर्बन्धकः । पश्चान्मानसी
व्यथा । अनुपूर्ब्बकस्य आधिशब्दस्य इत्यर्थद्वयमपि
सम्भवति ॥

अन्वाधेयं, क्ली, (अनु विवाहानन्तरमाधेयं समर्प-

णीयं, अनु + आ + धा + कर्म्मणि यत् ।) विवा-
हानन्तरपितृमातृभर्तृकुललब्धस्त्रीधनं । यथा, --
“विवाहात् परतो यत्तु लब्धं भर्त्तृकुलात् स्त्रिया ।
अन्वाधेयं तदुक्तन्तु लब्धं बन्धुकुलात्तथा” ॥
इति कात्यायनः, --

अन्वासनं, क्ली, (अनु + आस् + ल्युट्) स्नेहवस्तिः ।

अनुशोचनं । उपासना । इति विश्वमेंदिन्यौ ।
शिल्पादिगृहं । इति हलायुधः ॥ (अनुवासनं ॥
पृष्ठ १/०६२
:पश्चात् तापः ।)

अन्वाहार्य्यं, क्ली, (प्रतिमासमाहरणीयं, अनु + आ

+ हृ + ण्यत् ।) मासिकश्राद्धं । इत्यमरः ॥ तत्तु
प्रत्यमावास्याविहितं पार्ब्बणश्राद्धं अकृतसपिण्डी-
करणस्य वत्सरान्ते प्रतिमासं यत् श्राद्धं तदिति
केचित् । इति भरतः ॥ गोभिलगृह्योक्तकर्म्मणा-
माद्यङ्गश्राद्धं । तदन्ताङ्गदक्षिणा च । यथा, --
“यत् श्राद्धं कर्म्मणामादौ याचान्ते दक्षिणा भवेत् ।
अमावास्यं द्वितीयं यदन्वाहार्य्यं विदुर्बुधाः” ॥
इति गोभिलगृह्यं ॥

अन्वाहार्य्यकं क्ली, (प्रतिमासमाहरणीयं, अनु + आ

+ हृ + ण्यत्, ततः स्वार्थे कन् ।) अन्वाहाय्यं ।
यथा, --
“पिण्डान्वाहार्य्यकं श्राद्धं कुर्य्यान्मासानुमासिकं” ।
इति मनुः ॥

अन्वाहितं, त्रि, (अनु + आ + धा + कर्म्मणि क्त ।)

यदेकस्य हस्ते निहितं द्रव्यं तेनापि पश्चादन्यस्य
हस्ते स्वामिने देहीति निहितं तत् । इति
मिताक्षरा ॥
(“याचितान्वाहितन्यासनिक्षेपादिष्वयं विधिः” ।
इति याज्ञवल्क्यः, --
“एष एष विधिर्दृष्टो याचितान्वाहितादिषु” ॥
इति नारदः ।) गच्छित द्रव्य ताहार स्वामिके
दिते अन्यहस्ते अर्पणकरा इति भाषा ॥

अन्वितः, त्रि, (अनु + इण् + क्त ।) युक्तः । मिलितः ।

इति जटाधरः ॥ कृतान्वयपदादिः । यथा, --
“पदार्थान्तरैरन्वितानां सङ्केतो गृह्यते” ।
इति काव्यप्रकाशः ॥
(पदानां योग्यताकाङक्षादिरूपान्वयसहितः ।
परस्परं सम्बद्धः ।
“वर्णाः पदं प्रयोगार्हानन्वितैकार्थबोधकाः” ॥
इति साहित्यदर्पणे ।)

अन्विष्टः, त्रि, (अनु + इष् + क्त ।) अन्वेषितः ।

कृतान्वेषणः । इत्यमरः ॥ (“यद्वायुरन्विष्टमृगैः
किरातैरासेव्यते भिन्नशिखण्डिवर्हः” । इति कुमा-
रसम्भवे ।)

अन्वीतः, त्रि, (अनु + ईङ गतौ + कर्त्तरि क्तः ।)

अन्वितः । युक्तः । इति जटाधरः ॥

अन्वेषणं, क्ली, (अनु + इष् + ल्युट्) अन्वेषणा ।

अनुसन्धानं । यथा । “सुग्रीवो राममित्रं क्व
जनकतनयान्वेषणे प्रेषितोऽहं” । इति महाना-
टकम् । (“दोषान्वेषणमेव मत्सरयुषां नैसर्गिको
दुर्ग्रहः” । इत्युद्भटः ।)

अन्वेषणा, स्त्री, (अनु + इष् + णिच् + भावे युच् तस्य

अनः ततः टाप् ।) तर्कादिना यथाबोधितधर्माद्य-
न्वेषणं । अन्वेषणमात्रं । तत्पर्य्यायः परोष्टिः २
पर्य्येषणा ३ गवेषणा ४ । इत्यमरः ॥

अन्वेषितः, त्रि, (अनु + इष् + णिच् + कर्मणि क्त ।)

कृतान्वेषणः । तत्पर्य्यायः ॥ गवेषितः । २ अन्विष्टः ।
३ मार्गितः । ४ मृगितः । ५ इत्यमरः ॥ ६ परीष्टः ।
७ पर्य्येषितः । इति अन्वेषणापर्य्याये परीष्टि-
पर्य्येषणापददर्शनात् ॥

अन्वेष्टा, (ऋ) त्रि, (अनु + इष् + तृच् ।) अन्वेषण-

कर्त्ता । तत्पर्य्यायः ॥ आनुपद्यः २ । इति हेम-
चन्द्रः ॥ (“अन्वेष्टारो ब्राह्मणाश्च भ्रमन्ति शत-
शोमहों” । इति नलोपाख्यानं ।)

अप, व्य, (न पाति, न + पा + ड “चादयोऽसत्त्वे”

इति निपातसंज्ञया स्वरादिनिपातमव्ययमिति
अव्ययम् ।) उपसर्गविशेषः । अस्यार्थः । अनादरः ।
भ्रंशः । असाकल्यं । वैरूप्यं । त्यागः । नञर्थः ।
इति दुर्गादासः ॥ अपकृष्टार्थः । वर्ज्जनार्थः ।
वियोगः । विपर्य्ययः । विकृतिः । चौर्य्यं । निर्द्देशः ।
हर्षः । इति मेदिनी ॥

अपः, [स्] क्ली, (आप् + असुन्, पृषोदरादित्वात्

ह्रस्वः ।) यज्ञकर्म्म । इत्युणादिकोषः ।

अपकर्म्म, क्ली, (अपकृष्टं कर्म्म ।) दुष्क्रिया । मन्द-

कर्म्म । अपकृष्टार्थापोपसर्गेण कर्म्मशब्दस्य कर्म्म-
धारयसमासः ।

अपकारः, पुं, (अप + कृ + भावे घञ् ।) द्रोहः ।

अनुपकारः । मन्दकरणं । इति हलायुधः । (अ-
निष्टसाधनं । असद्व्यवहारः । अत्याचारः । द्वेषः ।
“उपकर्त्रारिणा सन्धिर्न मित्रेणापकारिणा ।
उपकारापकारौ हि लक्ष्यं लक्षणमेतयोः” ।
इति माघः ।)

अपकारगीः, [र्] स्त्री, (अपकारेण गीः वाक्यं ।)

अपकारवाक्यं । भर्त्सनं । इत्यमरः ।

अपकारी, [न्] त्रि, (अपकरोति, अप + कृ +

णिनि ।) अपकारकः । द्रोहकः । यथा, --
“अपकारिणि चेत् क्रोधः क्रोधः क्रोधे कथं न ते ।
धर्म्मार्थकाममोक्षाणां चतुर्णां परिपन्थिनि” ॥
इत्युद्भटः । (अहितकारी । अनिष्टसाधकः ।
पीडकः । दुर्वृत्तः । कुकर्म्मकारी ।
“किं भक्तेनासमर्थेन किं शक्तेनापकारिणा” ।
इति पञ्चतन्त्रम् ।)

अपकृष्टं, त्रि, (अप + कृष् + क्तः ।) जघन्यं । तत्-

पर्य्यायः । अधमं । २ निकृष्टं । ३ अणकं । ४ गर्ह्यं ।
५ अवद्यं । ६ काण्डं । ७ कुत्सितं । ८ प्रतिकृष्टं ।
९ याप्यं । १० वेफः । ११ अवमं । १२ ब्रुवं । १३
खेटं । १४ पापं । १५ अपशब्दं । १६ कुपूयं । १७
चेलं । १८ अर्व्वचं । १९ । इति हेमचन्द्रः ।

अपक्रमः, पुं, (अप + क्रम + भावे घञ्, “नोदात्तोप-

देशे मान्तस्येत्यादिना वृद्धिनिषेधः” ।) पलायनं ।
इत्यमरः ।

अपक्रिया, स्त्री, (अप् + कृ + भावे श ।) द्रोहः ।

अपकारः । इति हेमचन्द्रः ॥ (विपरीतप्रयोगः ।
“चतुर्थोपायसाध्ये तु रिपौ सान्त्वमपक्रिया” ।
इति माघः ।)

अपक्रोशः, पुं, (अप् + क्रुश् + भावे घञ् ।) निन्दनं ।

जुगुप्सनं । भर्त्सनं । इति शब्दरत्नावली ।

अपक्वः, त्रि, (न पच्यते, पच् + कर्म्मणि क्तः, ततो

नञ्समासः ।) पक्वभिन्नः । काँचा इति भाषा ।
यथा, --
“तैले विपर्य्ययं विद्यात् पक्वे चापक्व एव च” ।
इति वैद्यकपरिभाषा । तत्पर्य्यायः । २ असिद्धं ।
३ आमं । ४ असृतं । इति रत्नमाला ।
(“अपक्वे लवणं दद्यात् पक्वे दद्यात् मरीचकम्” ॥
इति आप्तवाक्ये ।)

अपगतः, त्रि, (अप + गम् + कर्त्तरि क्तः, अपयाते

पलायिते च ।) मृतः । इति हेमचन्द्रः । गतः ।
दूरीभूतः । यथा, -- “तापोनापगतस्तृषा न च
कृशा धूलो न धौता तनोः” इत्यादि वल्लालसेनः ।

अपगा, स्त्री, (अधोमुखेन गच्छति, अप + गम् +

कर्त्तरि डः, स्त्रियां टाप् ।) आपगा । नदी ।
इत्यमरटीकायां भरतः । (स्रोतस्वती द्वीपवती
स्रवन्ती निम्नगापगा इत्यमरः ।)

अपघनः, पुं, (अपहृत्य मिलित्वा वियुज्यते, अप +

हन् + “अपघनोऽङ्ग”-मिति पाणिनिसूत्रेण अप्
हस्थाने घ ।) अवयवः । अङ्गं । इत्यमरः । (“घृणि-
भिरपघनैर्घघरव्यक्तघोषान्” । इति सूर्य्यशतके ।)

अपघातः, पुं, अपहननं । अपकृष्टार्थापोपसर्गात्

हनधातोर्भावे घञ् हस्य घः नस्य तः । अपकृष्ट-
मृत्युफलकष्यापारः । अपहन्यते इति व्युत्पत्त्या
अपपूर्व्वक हनधातोर्भावे घञ्प्रत्ययेन निष्पन्नः ॥

अपचयः, पुं, (अप + चि + भावे अच् । अपहरणं ।)

क्षतिः । हानिः । तत्पर्य्यायः । अपहारः २ । इत्य-
मरः ॥ (पूजा सम्मानना । क्षयः । “देहस्यापचयो-
मतौ निविशते गाढो गृहेषु ग्रहः” । इति शान्ति-
शतके ।)

अपचायितः, त्रि, (अप + चाय + कर्म्मणि क्तः ।) पूजितः । इत्यमरः ।

अपचारः, पुं, (अप + चर् + भावे घञ्, अपथ्य-

सेवनं ।) अहिताचरणं । यथा, “योनिप्रदोषाच्च
भवन्ति शिश्ने पञ्चोपदंशा विविधापचारैः” ।
इति माधवकरः ।
(“कृतापचारोऽपि परैरनाविष्कृतविक्रियः ।
असाध्यं कुरुते कोपं प्राप्ते काले गदो यथा” ॥
इति माघः ।)

अपचितः, त्रि, (अप + चाय + पूजार्थे कर्म्मणि क्तः ।

अपचितश्चेति पाणिनिसूत्रेन पक्षे चायस्थाने
चिभाबः । अप + चि + क्तः ।) हीनः । व्ययितः ।
अवयवाद्यपचययुक्तः । क्षीणः । कृशः । “अपचित-
मपि गात्रं व्यायतत्वादलक्ष्यं” । इति शाकुन्तले ।

अपचितिः, स्त्री, (अप + चि + भावे क्तिन् । हानिः ।

व्ययः । पूजा । निष्कृतिः । इति मेदिनी । (क्षयः ।
ध्वंसः । सम्मानना ।
“अहं त्वपचितिं भ्रातुः पितुश्च सकलामिमां” ।
इति रामायणे ।)

अपच्छायः, त्रि, (अपगता छाया यस्मात् सः ।)

देवः । उपदेवः । निष्प्रभः । अपगता छाया
यस्मात् इति बहुव्रीहौ ह्रस्वः । (अपकृष्टच्छाया-
विशिष्टः । पिशाचादिः ।
“अजाखुरं खुरोत्सर्गमार्ज्जनीरेणुवज्जनैः ।
दीपखट्वापच्छायेव त्यज्यते निर्धनोजनः” ।)

अपञ्चीकृतं, क्ली, (अपञ्चात्मकं पञ्चात्मकं कृतं, पञ्च +

अभूततद्भावे च्चि कृ + क्तः, ततो नञ्समासः ।
सूक्ष्मभूतं । पञ्चीकृतभिन्नाकाशादिपञ्चभूतं । इति
वेदान्तसारः ।
पृष्ठ १/०६३
:(“पञ्चप्राणमनोबुद्धिदशेन्द्रियसमन्वितं ।
अपञ्चीकृतभूतोत्थं सूक्ष्माङ्गं भोगसाधनं” ॥
इति पञ्चदश्यां ।)

अपटान्तरं, त्रि, (पटेन वस्त्रेण तिरस्करिण्या इति

यावत् अन्तरं व्यवधानं यत्र तत्, ततो नञ्-
समासः ।) आसन्नं । संसक्तं ।) अपदान्तरं । अव्य-
वहितं । इत्यमरटीकायां स्वामी ॥

अपटी, स्त्री, (अल्पः पटः अल्पार्थे नञ्समासः,

गौरादित्वात् ङीष् ।) वस्त्रप्रावरणं । इति हेम-
चन्द्रः । कानात् । इति भाषा । (यवनिका । पर्द्दा ।
इत्यादि भाषा ।)

अपटुः, स्त्री, (न पटुः, नञ्समासः ।) व्याधितः ।

रोगी । इत्यमरः । पटुतारहितः । कार्य्याक्षमः ।
यथा, --
“सा क्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं
दोषैरन्यजनाश्रयैरपटवो जाताः स्म इत्युद्भुतं” ।
इत्यमरुकविः ॥

अपतर्पणं, क्ली, (अप + तृप् + भावे ल्युट् । लङ्घनं ।

रोगादौ भोजनाभावः । इति हेमचन्द्रः । (अप-
गतं तर्पणं तृप्त्यभावो यस्य तत् । गतलोभः ।
तृप्तिशून्यः ।)

अपत्थं, क्ली, (न पतति वंशो यस्मात्, पत + बाहु-

ल्यात् यत्, ततो नञ्समासः ।) पुत्त्रः । कन्या ।
तत्पर्य्यायः । २ सन्तानः । ३ तोकं । ४ सन्ततिः ।
५ प्रसूतिः । इति जटाधरः ।
(“अस्मिंस्तु निर्गुणं गोत्रे नापत्यमुपजायते”) ।
इति हितोपदेशे ।
“महीभृतः पुत्रवतोऽपि दृष्टिं
तस्मिन्नपत्ये न जगाम तृप्तिं” ।
इति कुमारसम्भवे ।)

अपत्यदा, स्त्री, (अपत्यं गर्भं तत्सेवनेन ददाति,

अपत्य + दा + कर्त्तरि कः, उपपदसमासः ।)
गर्भदात्रीवृक्षः । इति राजनिर्घण्टः ।

अपत्यपथः, पुं, (अपत्यस्य गर्भान्निःसारणस्य पन्था

मार्गः, षष्ठीतत्पुरुषः, समासान्त अच् ।) भगं ।
योनिः । इति हेमचन्द्रः ।

अपत्यशत्रुः, पुं, (अपत्यस्य शत्रुः, षष्ठीतत्पुरुषः ।)

कर्कटः । इति शब्दचन्द्रिका । काँकडा । इति
भाषा ।

अपत्रपः, त्रि, (अप + त्रप् + भावे अङ्, ।) त्रपा-

रहितः । निर्लज्जः । अपगता त्रपा यस्येति
बहुव्रीहौ आकारस्य ह्रस्वः ॥ (“सापत्रपः कुल-
गुरुर्विहितस्त्वया नः” । इति धनञ्जयविजय
व्यायोगे ।)

अपत्रपा, स्त्री, (अपगता त्रपा अन्यतो लज्जा

यस्याः सा, स्त्रियां टाप् लज्जाहीना । लज्जा-
शून्या ।) अन्यतो लज्जा । परस्मात् लज्जा । इत्य
मरः । लज्जामात्रं । इति रत्नकोषः ।

अपत्रपिष्णुः, त्रि, (अप + त्रप् + शीलार्थे कर्त्तरि

इष्णुच् ।) स्वभावसत्रपः । लज्जाशीलः । इत्यमरः ।
लाजुक इति भाषा ।

अपथं, क्ली, व्य, (न प्रशस्तः पन्थाः मार्गः, नञ्स-

मासः । नास्ति पन्थाः प्रशस्तः मार्गो यत्र तत् ।
प्रशस्तवर्त्मशून्ये नगरादौ ।) अपन्थाः । मार्ग
एव यो न भवति तत् । इत्थमरः । योनिः । इति
शब्दरत्नावली । (विमार्गः । कुपथः । असम्मार्गः ।
साधुविगर्हितः पन्थाः । “अपथे पदमर्पयन्ति
हि श्रुतवन्तोऽपि रजोनिमीलिताः” । इति
रघुवंशे ।
“न कश्चित् वर्णानामपथमपकृष्टोऽपि भजते” ।
इति शाकुन्तले ।)

अपथ्यं, त्रि, (पथ्ये वैद्योक्तभोजनादिनियमाय नीत्यु-

क्ताचाराय वा हितं यत् ततो नञ्समासः ।)
पथ्यभिन्नं । अहितं । यथा, --
“यत्पथ्यं यदपथ्यञ्च वक्ष्यते रक्तपित्तिनां” ।
इति पथ्यापथ्यग्रन्थः ।

अपदानं, क्ली, (अप + दैपशोधने भावे ल्युट्, विद्य-

मानार्थे अर्श आद्यच् । अथवा अपदायति परि-
शुध्यत्वेन कर्म्मणां, अप + दैप् + शोधने करणे
ल्युट् ।) अवदानं । वृत्तं कर्म्म । वृत्तिः प्रवर्त्तनं
सा प्रशस्ता विद्यते यत्र तत् । यत्र कर्म्मणि
वृत्तिः सर्व्वैः प्रशस्यते तत् इत्यर्थः । इत्यमर-
टीकायां स्वामी ॥
(“गणयत्यपदानसम्मितां
भवतः सोऽपि न सत्क्रियामिमां” ।
इति शाकुन्तले ।)

अपदान्तरः, त्रि, (नास्ति पदान्तरं व्यवधानं यत्र

सः ।) अव्यवहितः । संयुक्तः । इत्यमरः । अभिन्न-
पदे क्ली । (सन्निकर्षः । सान्निध्यं । सामीप्यं ।
नैकट्यं ।)

अपदिशं, क्ली, व्य, (दिशोर्मध्ये, अव्ययीभावः, समा-

सान्त अच् ।) दिक्कोणः । दिशोर्मध्यं । तत्-
पर्य्यायः । विदिक् २ । इत्यमरः ।
(“क्लीवाव्ययं त्वपदिशं दिशोर्मध्येविदिक् स्त्रियां” ।
इत्यमरः ।)

अपदेशः, पुं, (अप + दिश् + घञ् । स्थानं ।) निमित्तं ।

शरव्यं । स्वरूपाच्छादनं । तत्पर्य्यायः । २ व्याजः ।
३ लक्ष्यं । इत्यमरः । परानिष्टकारिभिन्नशठता ।
इति महाभारतटीका । (ख्यातिः । कीर्त्तिः ।
छलं ।
“रक्षापदेशान्मुनिहोमधेनो-
र्वन्यान् विनेष्यन्निव दुष्टसत्त्वान्” ।
इति रघुवंशे ।)

अपध्वंसजः, पुं, (अपध्वस्यतेऽनेन, अपध्वन्स +

करणे घञ्, अपध्वंसो जातीनां भिन्नतासम्पा-
दकः सङ्करस्तस्माज्जायते, अपध्वंस + जन् + ड,
उपपदसमासः ।) वर्णसङ्करः । यथा, --
“शूद्राणान्तु सधर्म्माणः सर्व्वेऽपध्वंसजाः स्मृताः” ।
इति मनुः । (प्रतिलोमजातः । भिन्नवर्णसङ्गम-
जातः । करणादिसंकीर्णवर्णः ।)

अपध्वस्तः, त्रि, (अप + ध्वन्स + क्तः ।) परित्यक्तः ।

निन्दितः । चूर्णीकृतः । इति मेदिनी । (अति-
दुराचारः ।) परित्यक्तः । “अपध्वस्तः परित्यक्ते
निन्दिते ऽप्यवचूर्णिते” । इति मेदिनी ।

अपनयनं, क्ली, (अप + नी + भावे ल्युट् ।) खण्डनं ।

दूरीकरणं । यथा, -- “इति श्रीशाम्बपुराणे रो-
गापनयने श्रीसूर्य्यवक्त्रविनिर्गतस्तवराजः समाप्तः”
इति ।
(“नातिश्रमापनयनाय यथा श्रमाय
राज्यं स्वहस्तधृतदण्डमिवातपत्रं” ।
इति शाकुन्तले ।)

अपनोदनं, क्ली, (अप + नुद् + भावे ल्युट् ।) खण्डनं ।

दूरीकरणं । यथा, -- “मानापनोदनविनोदनते
गिरीशे” । इति श्रीहर्षः । (अपनुदति दूरी-
करोति, अप + नुद् + कर्त्तरि बाहुल्यात् ल्युटि ।)
खण्डकः । दूरीकारकः ।
“यथाश्वमेधः क्रुतुराट् सर्व्वपापापनोदनः ।
तथाघमर्षणं जप्यं सर्व्वपापापनोदनं” ।
इति मनुः ।)

अपन्थाः, [थिन्] पुं, (न पन्थाः, नञ्समासः,

समासान्तविधेरनित्यत्वात् अत्र अजभावः ।) अ-
पथं । इत्यमरः ।

अपपात्रितः, त्रि, (अपकृष्टं पात्रं भोजनपात्रं यस्य

सः, येन जनेन भुक्ते भोजनपात्रमस्पष्टं भवतीति
यावत् चण्डालादिः, अपपात्रः कृतः, अपपात्र +
करोत्यर्थे णिच् + क्तः ।) उत्कटदोषैर्ज्ञातिभि-
र्भिन्नोदकीकृतः । यथा, -- अपपात्रितस्य रिक्थ-
पिण्डोदकानि निवर्त्तन्ते” । इति शुद्धितत्त्वे
शङ्खापस्तम्बौ ।

अपभ्रंशः, पुं, (अप + भ्रन्स + घञ् ।) ग्राम्यभाषा ।

अपभाषा । तत्पर्य्यायः । अपशब्दः २ । इत्यमरः ॥
पतनं । यथा, --
“अत्यारूढिर्भवति महतामप्यपभ्रंशनिष्ठा” ।
इत्यभिज्ञानशकुन्तलं ॥ (अधः पतनं । ध्वंसः ।
अधोगतिः ।)

अपमः, पुं, (अपकृष्टतया मीयते, अप + मा +

घञर्थे कः ।) क्रान्तिः । इति सिद्धान्तशिरोमणौ
गोलाध्यायः ॥

अपमानं, क्ली, (अप + मा + भावे ल्युट् ।) अनादरः ।

अमर्य्यादा । इति शब्दरत्नावली ॥ तत्पर्य्यायः ।
“स्यादवज्ञा परीहारः परिहारः पराभवः ।
अपमानं परिभवस्तिरस्कारस्तिरष्क्रिया ।
अवहेला च हेला म्यादवहेलनहेलने ।
क्षेपो निकारधिक्कारौ पर्य्यायः स्यादनादरे” ॥
इति शब्दरत्नावली ॥ * ॥ तस्य अप्रकाश्यत्वं
यथा, --
“अर्थनाशं मनस्तापं गृहे दुश्चरितानि च ।
वञ्चनञ्चापमानञ्च मतिमान्न प्रकाशयेत्” ॥
इति चाणक्यः ॥
(“अपमानं पुरस्कृत्य मानं कृत्वा तु पृष्ठतः ।
स्वकार्य्यमुद्धरेत् प्राज्ञः कार्य्यध्वंसे हि मूढता”) ॥

अपमित्यकं, क्ली, (अपमित्यपमानं स्वीकृत्य गृह्यते,

अप + मेङ् प्रणिमाने + क्त्वा तस्य ल्यप्, “मय-
तेरिदन्यतरस्यामिति आस्याने इतक्, ततः
कन् ।) ऋणं । इति हलायुधः ॥

अपमृत्युः, पुं, (अपकृष्टः रोगेणः विना मृत्युः मरणं

पृष्ठ १/०६४
:कर्म्मधारयः ।) अपघातमरणं । विना रोगेण
मरणं । यथा, --
“अपमृत्युभयं नास्ति मृतो मोक्षमवाप्नुयात्” ।
इति देवीमाहात्म्यकीलकं ॥ यत्तु शुद्धितत्त्वे प्रोक्तं
पक्षिमत्स्यमृगदंष्ट्रिशृङ्गिनखिपतनानशनवज्राग्नि-
विषबन्धजलप्रवेशांस्त्रक्षतादिजन्यमरणं तदेवाप-
मृत्युरिति सुधीभिर्विभाव्यं ॥

अपयानं, क्ली, (अपा या + भावे ल्युट्) पलायनं ।

इत्यमरः ॥ प्रमाणं । प्रस्थानं । “मानस्य द्रुत-
मपयानमास्थितस्य” । इति माघः ।)
“अपयानेऽपि च भवान् समर्थोलघुविक्रमः” ।
इति रामायणे ।

अपरं, क्ली, (न पूर्य्यते, पृ + अप् ततो नञ्-

समासः ।) हस्तिपश्चाद्भागः । गजान्त्यजङ्घादि-
भागः । इति मेदिनी ॥

अपरः, त्रि, (न पृणाति प्रीणयति, पॄ + पचाद्यच,

ततो नञ्समासः ।) अन्यः । इतरः । अर्ब्बाचीनः ।
इति मेदिनी ॥

अपरत्वं, क्ली, (अपरस्य भावः भावे त्व ।) न्यायमते

तत् द्विविधं । दैशिकं कालिकञ्च । दैशिकं यथा ।
अल्पसूर्य्यसंयोगज्ञानजन्यगुणः । तस्यासमवायि-
कारणं दिक्संयोगः ॥ कालिकं यथा ॥ अल्प-
सूर्य्यपरिस्पन्दज्ञानजन्यगुणः । तस्यासमवायि-
कारणं कालपिण्डसंयोगः । तदुभयं अपेक्षाबुद्धि-
जन्यं । अपेक्षाबुद्धिनाशादेव तदुभयोर्नाशः । इति
सिद्धान्तमुक्तावली ॥

अपरतिः, स्त्री, (अप + रम् + भावे क्तिन् ।) निवृत्तिः ।

विरतिः । इति हेमचन्द्रः ॥ (अपगता रति
प्रीतिर्यस्य सः त्रि, प्रातिरहितः । अप्रकृष्टा
रतिः प्रीतिर्यस्य सः त्रि, कुत्सितप्रीतियुक्तः ।)

अपरपक्षः, पुं, (अपरः शेषः पक्षः अथवा अपरः

शुक्लादितरः पक्षः, कर्म्मधारयः ।) कृष्णपक्षः ।
स तु पितृपक्षः । यथा । पूर्ब्बः पक्षो देवानाम-
परः पक्षः पितॄणामिति श्रुतिः ॥ पक्षौ पूर्ब्बा-
परौ शुक्लकृष्णौ मासस्तु तावुभौ । इत्यमरः ॥
मनुः । जथ श्राद्धममावास्यायां पितृभ्यो दद्यात्
पञ्चमीप्रभृति वापरपक्षस्य यदहर्व्वा सम्पद्यते ।
इति श्राद्धतत्त्वम् * ॥

अपररात्रः, पुं, (रात्रेः अपरः शेषावयवः, एकदेशि-

समासः, अच् समासान्तः “रात्राह्णाहाः पुंसि”
इति पुंस्त्वं ।) रात्रिशेषः । तत्पर्य्यायः । उच्चन्द्रः २ ।
इति त्रिकाण्डशेषः ॥

अपरस्परं, त्रि, (अपरे च परे च द्वन्द्वः, अपर-

स्पराः क्रियासातत्ये” इति सुडागमः, क्रिया-
वतां साहित्ये ।) क्रियासातत्यं । कर्मनिरन्तरता ।
इत्यमरः ॥

अपरा, स्त्री, (न पूर्य्यतेऽस्मात्, पॄ + अपादाने अप्,

ततो नञ्समासः ।) जरायूः । इति मेदिनी ॥
पश्चिमदिक् । इति हेमचन्द्रः ॥

अपराङ्गं, क्ली, (अपरस्य रसादेरङ्गम्, षष्ठीतत्पुरुषः ।)

गुणीभूतव्यङ्ग्यप्रभेदः । यथा अगूढमपरस्याङ्गमिति
भरतमुनिः ॥ अस्यार्थः । अपरस्य रसादेर्वाक्या-
र्थीभूतस्य वा वाच्यस्याङ्गं रसादि अनुरणनरूपं
वा । इति काव्यप्रकाशः ॥ तत्रैवोदाहरणं ।
“अयं स रसनोत्कर्षी पीनस्तनविमर्द्दनः । नाभ्यूरु-
जघनस्पर्शी नीवीविस्रंसनः करः” ॥ अत्र शृङ्गारः
करुणस्याङ्गमिति ॥

अपराङ्मुखः, पुं, (परा + अञ्च + क्विन्, पराक् मुखं

यस्य सः, ततो नञ्समासः ।) अविमुखः । सं-
मुखीभूतः । यथा, --
“आहवेषु मिथोऽन्योन्यं जिघांसन्तो महीक्षितः ।
युध्यमानाः परं शक्त्या स्वर्गं यान्त्यपराङ्मुखाः” ॥
इति मानवे ७ अध्याये ८९ श्लोकः ॥

अपराजितः, पुं, (परा + जि + क्तः, ततो नञ्-

समासः ।) शिवः । विष्णुः । ऋषिविशेषः । अनि-
र्ज्जिते त्रि । इति मेदिनी ॥

अपराजिता, स्त्री, दुर्गा । जयन्तीवृक्षः । अशन-

पर्णी । इति मेदिनी ॥ स्वल्पफला । विष्णुक्रान्ता ।
इति राजनिर्घण्टः ॥ शेफाली । शमीभेदः ।
शङ्खिनी । हपुषाभेदः । इति वैद्यकं ॥ स्वनाम-
ख्यातपुष्पलताविशेषः । शुक्लनीलभेदेन सा द्विधा ।
तस्याः पर्य्यायः । आस्फोता २ गिरिकर्णी ।
३ विष्णुक्रान्ता ४ । इत्यमरः ॥ आस्फोटा ५ ।
इति तट्टीका ॥ गवाक्षी ६ अश्वखुरी ७ श्वेता
८ श्वेतभण्डा ९ गवादनी १० । इति रत्नमाला ॥
अद्रिकर्णी ११ कटभी १२ दधिपुष्पिका
१३ गर्द्दभी १४ सितपुष्पी १५ श्वेतस्पन्दा १६
भद्रा १७ सुपुत्री १८ विषहन्त्री १९ नग-
पर्य्यायकर्णी २० अश्वाह्वादिखुरी २१ । अस्या
गुणाः । हिमत्वं । तिक्त्वत्वं । पित्तोपद्रवविष-
दोषनाशित्वं । चक्षुर्हितत्वं । त्रिदोषशमताका-
रित्वञ्च । इति राजनिर्घण्टः ॥ शोथकासनाशित्वं ।
कण्ठहितकारित्वञ्च । इति राजवल्लभः ॥
(“दशम्यां च नरैः सम्यक् पूजनीयाऽपराजिता ।
मोक्षार्थं विजयार्थञ्च पूर्ब्बोक्तविधिना नरैः ।
नवमीशेषयुक्तायां दशम्यामपराजिता ।
ददाति विजयं देवी पूजिता जयवर्द्धिनी” ॥
इति स्कान्दे ।)

अपराद्धपृषत्कः, त्रि, (अपराद्धः लक्ष्यात् च्युतः पृषत्-

कोवाणो यस्य सः ।) लक्ष्यच्युतशायकः । यस्य
बाणो लक्ष्यात् च्युतः सः । इत्यमरः ॥
(“कृतहस्तः सुप्रयोगविशिखः कृतपुङ्खवत् ।
अपराद्धपृषत्कोऽसौ लक्ष्यात् यश्चुतसायकः” ॥
इत्यमरः ।)

अपराधः, पुं, (अप + राध् + भावे घञ् ।) अका-

र्य्यादिदोषः । तत्पर्य्यायः ॥ आगः २ मन्तुः ३ ।
इत्यमरः ॥ स च द्वात्रिंशद्विधो यथा । आगमे ।
“यानैर्व्वा पादुकैर्व्वापि गमनं भगवद्गृहे ।
देवोत्सवाद्यसेवा च अप्रणामस्तदग्रतः ॥
उच्छिष्टे वाथवाशौचे भगवद्दर्शनादिकं ।
एकहस्तप्रणामश्च तत्पुरस्तात् प्रदक्षिणं ॥
पादप्रसारणं चाग्रे तथा पर्य्यङ्कबन्धनम् ।
शयनं भक्षणं वापि मिथ्याभाषणमेव च ॥
उच्चैर्भाषामिथोजल्पो रोदनानि च बिग्रहः ।
निग्रहानुग्रहे चैव नृषु च क्रूरभाषणम्
कम्बलावरणञ्चैव परनिन्दा परस्तुतिः ।
अश्लीलभाषणं चैव अधोवायुविमोक्षणम् ॥
शक्तौ गौणोपचारश्च अनिवेदितभक्षणं ।
तत्तत्कालोद्भवानाञ्च फलादीनामनर्पणं ॥
विनियुक्तावशिष्टस्य प्रदानं व्यञ्जनादिके ।
पृष्ठीकृत्यासनं चैव परेषामभिवादनं ॥
गुरौ मौनं निजस्तोत्रं देवतानिन्दनं तथा
अपराधास्तथा विष्णोर्द्वात्रिंशत्परिकीर्त्तिताः” ॥ * ॥
वाराहे ।
“द्वात्रिंशदपराधा ये कीर्त्त्यन्ते वसुधे मया ।
वैष्णवेन सदा ते तु वर्जनीया प्रयत्नतः ॥
ये वै न वर्जयन्त्येतान् अपराधान् मयोदितान् ।
सर्व्वधर्म्मपरिभ्रष्टाः पच्यन्ते नरके चिरं ॥
राजान्नभक्षणञ्चैकमापद्यपि भयावहं ।
ध्वान्तागारे हरेः स्पर्शः परं सुकृतनाशनः ॥
तथैव विधिमुल्लङ्घ्य सहसा स्पर्शनं हरेः ।
द्वारोद्घाटो विना वाद्यं क्रोडमांसनिवेदनं ॥
पादुकाभ्यां तथा विष्णोर्मन्दिरायोपसर्पणं ।
कुक्कुरोच्छिष्टकलनं मौनभङ्गोऽच्युतार्च्चने ॥
तथा पूजनकाले च विडुत्सर्गाय सर्पणं ।
श्राद्धादिकमकृत्वा च नवान्नस्य च भक्षणं ॥
अदत्त्वा गन्धमाल्यादि धूपनं मधुघातिनः ।
अकर्म्मण्यप्रसूनेन पूजनञ्च हरेस्तथा ॥
अकृत्वा दन्तकाष्ठञ्च कृत्वा निधुवनं तथा ।
स्पृष्ट्वा रजस्वलां दीपं तथा मृतकमेव च ॥
रक्तं नीलमधौतञ्च पारक्यं मलिनं पटं ।
परिधाय मृतं दृष्ट्वा विमुच्यापानमारुतं ॥
क्रोधं कृत्वा श्मशानञ्च गत्वा भूत्वाप्यजीर्णभुक् ।
भक्षयित्वा क्रोडमांसं पिण्याकं जालपादकं ॥
तथा कुसुम्भशाकञ्च तैलाभ्यङ्गं विधाय च ।
हरेः स्पर्शो हरेः कर्म्मकरणं पातकावहं ॥ * ॥
किञ्च तत्रैव ।
मम शास्त्रं वहिष्कृत्य अस्माकं यः प्रपद्यते ।
मुक्त्वा च मम शास्त्राणि शास्त्रमन्यत् प्रभाषते ॥
मद्यपस्तु समासाद्य प्रविशेद्भवनं मम ।
यो मे कुसुम्भशाकेन प्रापणं कुरुते नरः ॥
अपि च ।
“मम दृष्टेरभिमुखं ताम्बूलं चर्व्वयेत्तु यः ।
कुरुवकपलाशस्थैः पुष्पैः कुर्य्यान्ममार्च्चनं ॥
ममार्च्चामासुरे काले यः करोति विमूढधीः ।
पाठाशनोपविष्टो यः पूजयेद्वा निरासनः ॥
वामहस्तेन मां धृत्वा स्नापयेद्वा विमूढधीः ।
पूजापर्य्युषितैः पुष्पैः ष्ठीवनं गर्व्वकल्पनं ॥
तिर्य्यक् पुण्ड्रधरो भुत्वा यः करोति ममार्चनं ।
याचितैः पत्रपुष्पाद्यैर्यः करोति ममार्चनं ॥
अप्रक्षालितपादो यः प्रविशेन्मम मन्दिरं ।
अवैष्णवस्य पक्वान्नं यो मह्यं विनिवेदयेत् ॥
अवैष्णवेषु पश्यत्सु मम पूजां करोति यः ।
अपूजयित्वा विघ्नेशं सम्भाष्य च कपालिनं ॥
नरः पूजान्तु यः कुर्य्यात् स्नपनञ्च नखाम्भसा ।
अमौनी घर्म्मलिप्ताङ्गो मम पूजां करोति यः ॥
पृष्ठ १/०६५
:ज्ञेयाः परेऽपि बहवोऽपराधाः सदसंमतैः ।
आचारैः शास्त्रविहितनिषिद्धातिक्रमादिभिः” ॥ * ॥
अथापराधशमनं ।
“संवत्सरस्य मध्ये च तीर्थे शौकरके मम ।
कृतोपवासः स्नानेन गङ्गायां शुद्धिमाप्नुयात् ॥
मथुरायां तथाप्येवं सापराधः शुचिर्भवेत् ।
अनयोस्तीर्थयोरङ्के यः सेवेत् सुकृती नरः ॥
सहस्रजन्मजनितानपराधान् जहाति सः” ।
स्कान्दे ।
“अहन्यहनि यो मर्त्त्यो गीताध्यायन्तु संपठेत् ।
द्वात्रिंशदपराधैस्तु अहन्यहनि मुच्यते” ॥
अत्र कार्त्तिकमाहात्म्ये ।
“तुलस्या कुरुते यस्तु शालग्रामशिलार्चनं ।
द्वात्रिंशदपराधांश्च क्षमते तस्य केशवः” ॥
तत्रैवान्यत्र ।
“द्वादश्यां जागरे विष्णोर्यः पठेत्तुलसीस्तवं ।
द्वात्रिंशदपराधानि क्षमते तस्य केशवः ॥
यः करोति हरेः पूजां कृष्णशस्त्राङ्कितो नरः ।
अपराधसहस्राणि नित्यं हरति केशवः” ॥
इति श्रीहरिभक्तिविलासे ८ विलासः ॥

अपराह्णः, पुं, (अह्नः अपरः एकदेशिसमासः,

समासान्तः टच्, अहःस्थाने अह्नादेशः ।) शेषं
अहः । दिनशेषभागः । इत्यमरः ।
(“रामाणां रमणीयतां विदधति ग्रीष्मापराह्णागमे”
इति अमरुशतके ।
“तथा श्राद्धस्य पूर्ब्बाह्णादपराह्णो विशिष्यते” ।
इति मनुः ।) विकाल इति भाषा । तस्य भेदाः ।
द्विधा विभक्तदिनस्य शेषभागः ॥ त्रिधा विभ-
क्तदिनस्य तृतीयभागः ॥ स तु त्रिंशद्दण्डदिन-
माने विंशतिदण्डात् परं दशदण्डं यावत् । पञ्चधा
विभक्तदिनस्य चतुर्थभागः । स तु अष्टादश-
दण्डात् परं षड्दण्डं यावत् । इति श्रुतिस्मृती ॥

अपराह्णतनं, त्रि, (अपराह्णे भवम् सप्तम्येकवच-

नान्त अपराह्ण + ट्यु तुट्च, “स्वकालतनेषु काल-
नाम्न इति” पक्षे अलुक् ।) अपराह्णभववस्तु ।
अपराह्णजातं । इति सिद्धान्तकौमुदी ॥

अपराह्णेतनं, त्रि, (अह्नोऽपरः एकदेशिसमासः,

तत्र भवम् अपराह्णे + ट्यु तुट्च, “स्वकालतनेषु
कालनाम्न” इति पक्षे अलुक् ।) अपराह्णतनं ।
इति सिद्धान्तकौमुदी ॥

अपरिकलितः, त्रि, (परि + कल् + कर्म्मणि क्तः,

ततो नञ्समासः ।) अज्ञातः । अदृष्टः । यथा, --
“अपरिकलितपूर्ब्बः कश्चमत्कारकारी
स्फुरति मम गरीयानेष माधुर्य्यपूरः ।
अयमहभपि हन्त प्रेक्ष्य यं लुब्धचेताः
सरभसमुपभोक्तुं कामये राधिकेव” ॥
इति ललितमाधवः ॥

अपरिच्छन्नं, त्रि, परिच्छदशून्यं । परिपूर्ब्बछदधातोः

कर्त्तरि क्ते नञ्समासः ॥

अपरिच्छिन्नं, त्रि, (परि + छिद् + क्त्व ततो नञ्-

समासः ।) परिच्छेदरहितं । असीम । वहिरन्तर-
शून्यं । यथा, -- “किञ्च परिच्छिन्नस्य नीडे पक्ष्यादे-
रिव प्रवेशो भवेत् तव त्वनावृतत्वात् अपरि-
च्छिन्नत्वेन वहिरन्तरभेदो नास्ति कुतः प्रवेशः” ।
इति श्रीधरस्वामी ॥

अपरिपक्वं, त्रि, परिपाकरहितं । किञ्चित्पक्वं ।

परिपूर्ब्बपचधातोः कर्त्तरि क्ते तस्य वत्वे चस्य च
कत्वे परिपक्वं ततो नञ्समासः ॥

अपरिमितं, त्रि, (परि + मा + क्त, ततो नञ्-

समासः ।) परिमाणरहितं । मानतुलासंख्याशून्यं ।
यथा, -- “अपरिमिता ध्रुवास्तनुभृतो यदि सर्व्व-
गतास्तर्हि न शास्यतेति नियमो ध्रुवनेतरथा” ।
इति श्रुत्यध्यायः ।

अपरिम्लानः, पुं, (परि + म्ला + क्त तस्य नत्वं,

ततो नञ्समासः ।) रक्ताम्लानवृक्षः । इति राज-
निर्घण्टः ॥ म्लानिरहिते वाच्यलिङ्गः ॥ (नूतनः ।
अपरिशुष्कः । निर्म्मलः ।)

अपरिष्कारः, पुं, (“संपर्य्युपेभ्यः करोतौ भूषणे

इति” सुडागमः ।) परिष्काराभावः । अनि-
र्म्मलत्वं । तद्वति त्रि । परिपूर्ब्बकृधातोर्भावे घञि
नञ्समासः ।

अपरिष्कृतं, त्रि, अमार्जितं । अनिर्म्मलं । अभूषितं ।

अनलङ्कृतं । परिपूर्ब्बकृधातोः कर्म्मणि क्ते नञ्-
समासः । यथा, --
“मलपूतिसमायुक्तश्लष्मविण्मूत्रपिच्छिलं ।
रेतोनिष्ठीवमानाभिः स्रवद्भिरपरिष्कृतं” ॥
इति कालिकापुराणे ५६ अध्यायः ॥

अपरिहार्य्यं, त्रि, (परि + हृ + कर्म्मणि ण्यत्, ततो

नञ्समासः ।) अपरिहरणीयं । अत्याज्यं । यथा,
“जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च ।
तस्मादपरिहार्य्येऽर्थे न त्वं शोचितुमर्हसि” ॥
इति श्रीभगवद्गीता ॥

अपरूपं, त्रि, (अपकृष्टं रूपं कर्म्मधारयसमासः ।)

अपकृष्टरूपं । विकृतरूपं । अपोपसर्गेण रूप-
शब्दस्य बहुव्रीहिसमासः ॥ कर्म्मधारयसमासे
क्ली ॥ लोके तु आश्चर्य्यमिति प्रसिद्धं ॥

अपरेद्युः, [स्] व्य, (अपरस्मिन् दिवसे दिवसस्य

एद्युशादेशः) । अपरेऽह्नि । अपरदिने । इत्य-
मरः ॥ (“पूर्ब्बेद्यरपरेद्युर्व्वाश्राद्धकर्म्मण्युपस्थिते निम-
न्त्रयेत विप्रान् वै” इति स्मृतिः ।)

अपर्णा, स्त्री, (नास्ति पर्ण्णं तपस्यायां पर्णभक्षण-

वृत्तिर्व्वा यस्याः सा, टाप् ।)
दुर्गा । इत्यमरः ॥
(“स्वयं विशीर्ण्णद्रुमपर्ण्णवृत्तिता
परा हि काष्ठा तपसस्तया पुनः ।
तदप्यपाकीर्णमतः प्रियंवदां
वदन्त्यपर्ण्णेति च तां पुराविदः” । इति कुमारस-
म्भवे ।)
पत्रशून्ये त्रि ॥

अपर्य्याप्तं, त्रि, (परि + आप् + क्त, नञ्समासः ।)

पर्य्याप्तिशून्यं । असीम । असमर्थं । यथा, --
“अपर्य्याप्तं तदस्माकं बलं भीष्माभिरक्षितं ।
पर्य्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितं” ॥
इति श्रीभगवद्गीता ॥

अपर्य्युषितं, क्ली, (परि + वस् + क्त, नञ्समासः ।)

अव्युष्टं । सद्योभवं । यथा नारसिंहे, --
“अपर्य्युषितनिश्छिद्रैः प्रोक्षितैर्जन्तुवर्जितैः ।
स्वीयारामोद्भवैर्वापि पुष्पैः संपूजयेद्धरिं” ॥
इत्याह्निकाचारतत्त्वम् ॥

अपर्व्वदण्डः, पुं, (अपर्ब्बः पर्ब्बरहितः ग्रन्थिशून्य

इति यावत् दण्डः कर्म्मधारयः ।) रामशरतृणं ।
इति राजनिर्घण्टः ॥

अपलं, क्ली, (अपलाति अपराक्रमणं गृह्णाति येन,

अप + ला + करणे क । नास्ति पलं मांसं यस्य
सः, मांसशून्यं ।) कीलकं । इति शब्दमाला ॥
पलशून्ये त्रि ॥

अपलपनं, क्ली, अपलापः । अपोपसर्गात् लपधातो-

र्भावे अनट् प्रत्ययः ॥ (पाणिनिमतेतु अप + लप् +
भावे ल्युट् ।)

अपलापः, पुं, (अप + लप् + भावे घञ् ।) सतोऽप्य-

सत्त्वेन कथनं । ज्ञातस्य गोपनं । तत्पर्य्यायः ।
२ निह्नुतिः । ३ अपह्नुतिः । ४ अपह्नवः । ५ निह्नवः ।
इति शब्दरत्नावली ॥ प्रेम । इति । मेदिनी ॥

अपलाषिका, स्त्री, (अप + लष् + भावे ण्वुल् ।)

तृष्णा । इति हेमचन्द्रः ॥

अपवनं, क्ली, (अपकृष्टं कृत्रिमत्वात् अल्पत्वाच्च वनं

कर्म्मधारयः ।) उपवनं । कृत्रिमवनं । इति
हेमचन्द्रः ॥

अपवरकः, पुं, (अपव्रियन्ते लोकाः सम्भज्यन्तेऽत्र,

अप + वृ + “ग्रहवृदृनिश्चिगमश्च” इति अप्,
ततः स्वार्थे कन्, अथवा अप + वृ + क्रादिभ्यः
संज्ञायां वुन् तस्य अकः ।) अन्तर्गृहं । तत्पर्य्यायः ।
२ गर्भागारं ३ वासौकः ४ शयनास्पदं । इति
हेमचन्द्रः ॥ (“दीपोऽपवरकस्यान्तर्वर्त्तते तत्प्रभा
वहिः” ।)

अपवर्गः, पुं, (अपवृज्यते संसारः मुच्यतेऽनेन, अप

+ वृज् + घञ् कुत्वं ।) मोक्षः । त्यागः । क्रिया-
वसानसाफल्यं । कर्म्मफलं । इति विश्वमेदिन्यौ ॥
क्रियान्तः । कार्य्यसमाप्तिः । इति जटाधरो रत्ना-
वली च ॥ पूर्णता । इति धरणी ॥ (निर्व्वाणं ।
मुक्तिः । “अपवर्गमहोदयार्थयोर्भुवमंशाविव धर्म्म-
योर्गतौ” इति रघुवंशे । समाप्तिः । शेषः ।
अवसानं । “क्रियापवर्गेघ्वनुजीविसात्कृताः कृत-
ज्ञतामस्य वदन्ति सम्पदः” । इति भारविः ।)

अपवर्ज्जनं, पुं, (अप + वृज् + भावे ल्युट् ।) दानं ।

मोक्षः । त्यागः । इति मेदिनी ॥

अपवादः, पुं, (अप + वद् + भावे घञ् ।) आज्ञा ।

निम्दा । तत्पर्य्यायः । अवर्णः २ आक्षेपः ३
निर्व्वादः ४ परीवादः ५ उपक्रोशः ६ जुगुप्सा ७
कुत्सा ८ गर्हणं ९ इत्यमरः ॥ (वचनीयं । “लोका-
पवादाद्भयं” इति नीतिशतके । “देव्यामपि
हि वैदेह्यां सापवादो यतो जनः” । “हा कथं
सीतादेव्या ईदृशमचिन्तनीयं जनापवादं देवस्य
कथयिष्यामि” । इति उत्तरचरिते । आज्ञा ।
अनुमतिः । आदेशः । “ततोऽपवादेन पताकिनी-
पतेश्चचाल निर्हादवती महाचमूः” । इति भार
पृष्ठ १/०६६
:विः ।) विश्वासः । इति मेदिनी ॥ विशेषः ।
बाधकः । यथा, --
“क्वचिदपवादविषयेऽप्युत्सर्गोऽभिनिविशते” ।
इति कलापपरिशिष्टं ॥ रज्जुविवर्त्तस्य सर्पस्य
रज्जुमात्रत्ववत् वस्तुविवर्त्तस्यावस्तुनोऽज्ञानादेः
प्रपञ्चस्य वस्तुमात्रत्वं । तदुक्तं ।
“सतत्त्वतोऽन्यथा प्रथा विकार इत्युदीरितः ।
अतत्त्वतोऽन्यथा प्रथा विवर्त्त इत्युदाहृतः” ॥
अस्य फलं । आभ्यां अध्यारोपापवादाभ्यां तत्त्व-
म्पदार्थशोधनमपि सिद्धं भवति । इति वेदान्त-
सारः ॥

अपवारणं, क्ली, (अप + वृ + णिच् भावे ल्युट् ।)

व्यवधानं । अन्तर्द्धानं । इत्यमरः ॥

अपवारितं, त्रि, (अप + वृ + णिच्, कर्म्मणि क्तः ।)

अन्तर्हितं । इति हेमचन्द्रः ॥

अपवित्रं, त्रिः (पू + इत्रच्, ततो नञ्समासः ।)

पवित्रतारहितं । अशुद्धं । यथा, --
“अपवित्रः पवित्रो वा सर्व्वावस्थां गतोऽपि वा ।
यः स्मरेत् पुण्डरीकाक्षं सवाह्याभ्यन्तरः शुचिः” ॥
इति स्मृतिः ॥ (अविशुद्धः । अनिर्म्मलः । दृषितः ।
मलिनः ।
“अपवित्रमिदं कर्म्म कृतं मोहान्धया तया” ।
इति रामायणे । “यदेष सारमेयोऽपवित्रः स्कन्धा-
रुढो नीयते” । इति पञ्चतन्त्रे ।)

अपविद्धः, त्रि, (अप + व्यध् + क्तः ।) प्रत्याख्यातः ।

निराकृतः । इति हेमचन्द्रः ॥ (त्यक्तः । प्रतिक्षिप्तः ।
“कुवेरस्य मनःशल्यं शंसतीव पराभवं ।
अपविद्धगदो बाहुर्भग्नशाख इव द्रुमः” ॥
इति कुमारसम्भवे । चूर्णीकृतः । दलितः ।
“मृदिताश्चापविद्धाश्च दृश्यन्ते कमलस्रजः” ।
इति रामायणे ।)

अपविद्धपुत्रः, पुं, (अपविद्धः पुत्त्रः, कर्म्मधारयः,)

द्वादशविधपुत्रमध्ये पुत्रविशेषः । स तु पोषणा-
द्यसमर्थमातापितृभ्यां त्यक्तः तयोरन्यतरमरणे
अन्यतरेण वा त्यक्तः अनन्तरं अन्येन गृहीत्वा
पुत्रत्वेन परिकल्पितः । यथा, --
“मातापितृभ्यामुत्सृष्टं तयोरन्यतरेण वा ।
यं पुत्रं परिगृह्णीयादपविद्धः स उच्यते” ॥
इति मनुः ॥

अपविषा, स्त्री, (अप अपगतं विषं यस्याः सा,

स्त्रियां टाप् ।) निर्व्विषीतृणं । इति राज-
निर्घण्टः ॥

अपशदः, पुं, (अप + शद् + कर्त्तरि अच् । अपसद

इति पाठे अप + सद् + अच् ।) अपसदः । नीचः
इत्यमरटीकायां भरतः ॥

अपशब्दः, पुं, (अप असंस्कृतः शब्दः, कर्म्म-

धारयः ।) असंस्कृ तशब्दः । अशास्त्रीयशब्दः ।
लौकिकशब्दः । ग्राम्यभाषा । तत्पर्य्यायः । अप-
भ्रंशः २ । इत्यमरः ॥
(“तएव शक्तिवैकल्यात् प्रमादालसतादिभिः ।
अन्यथोच्चारिताः शब्दा अपशब्दा इतीरिताः” ॥
इति हरिवंशे ।)
“आभीरादिगिरः काव्येष्वपभ्रंश इति स्मृतः ।
शास्त्रेषु संस्कृ तादन्यदपभ्रंशतयोदितं” ॥
इति दण्डी ॥

अपशुक् [च्] पुं, (शुच् + भावे क्विप्, अपगता शुक्

शोको यस्य सः ।) आत्मा । यथा । “क उत्तम-
श्लोकगुणानुवादात् पुमान् विरज्येत विनापशु-
ग्घ्नात्” । इति श्रीभागवतं ॥

अपशोकः, पुं, (अपगतः शोको यस्मात् सः ।) अशो-

कवृक्षः । इति राजनिर्घण्टः ॥ (“शोकरहितः ।
टुःखहीनः ।
“हरप्रीतिकरो वृक्षो ह्यशोकः शोकनाशनः ।
दुर्गाप्रीतिकरोऽसि त्वं मामशोकं सदा कुरु” ॥
देवीपूजापद्धतिः ।)

अपष्ठं, क्ली, (अप + स्था + कः, अम्बाम्बागोसव्याप-

इत्यादिना षत्वं ।) अङ्कुशाग्रं । इति हेमचन्द्रः ॥

अपष्ठु, व्य, (अप + स्था + “अपदुःसुभ्यः स्थः कुः,

इति कु, सुषमादित्वात् षत्वम् ।) निरवद्यं । विप-
रीतं । शोभनं । इति शब्दमाला ॥

अपष्ठुः, पुं, (अप + स्था + कु, सुषमादित्वात् षत्वं ।)

कालः । वामे त्रि । इति मेदिनी ॥ (समयः ।
असत्यः । विरुद्धार्थः । प्रतिकूलः । विपरीतः ।
“तव धर्म्मराज इति नाम कथमिदमपष्ठु पठ्यते ।
भौमदिनमभिदधत्यथवा भृशमप्रशस्तमपि मङ्गलं
जनाः ।” इति माघः । वामः । दक्षिणेतरः ।)

अपष्ठुरं, त्रि, (अप + स्था + कुरच्, सुषमादित्वात्

षत्वं ।) प्रतिकूलं । इति हेमचन्द्रः ॥

अपष्ठुलं, त्रि, (अप + स्था + कुरच्, रस्य लत्वं ।)

प्रतिकूलं । विपरीतं । इति त्रिकाण्डशेषः ॥

अपसदः, पुं, (अपसीदति अपकृष्टत्वं प्राप्नोति,

अप + सद् + पचाद्यच् ।) नीचः । इतरलोकः ।
इत्थमरः ॥
(“विप्रस्य त्रिषु वर्णेषु नृपतेर्वर्णयोर्द्वयोः ।
वैश्यस्य वर्णे चैकस्मिन् षडेतेऽपसदाः स्मृताः” ॥
इति मनूक्ते अनुलोमवर्णस्त्रीजाते वर्णसङ्करभेदे
मूर्द्धावसिक्तादौ पुं स्त्रीं ।)

अपसरः, पुं, (अप + सृ + भावे अच् ।) अपसरणं ।

स्थानात् स्थानान्तरगमनं । अपोपसर्गात् गत्यर्थ-
सृधातोर्भावे अल्प्रत्ययः ॥
(“निरन्वयोऽनपसरः प्राप्तः स्याच्चौरकिल्विषं” ।
इति मनुः ।)

अपसर्ज्जनं, क्ली (अप + सृज + भावे ल्युट् ।) मोक्षः ।

परित्यागः । दानं । इति भूरिप्रयोगः ॥ (बधः ।
हत्या । परिवर्जनं ।)

अपसर्पः, त्रि, (अपसर्पति, अप + सृप् + कर्त्तरि

अच् ।) चरः । हर्करा इति प्रसिद्धः । इत्य-
मरः ॥ (गूढचरः । स्पशः ।
“यथार्हवर्णः प्रणिधिरपसर्पश्चरः स्पशः ।
चारश्च गूढपुरुषश्चाप्तः प्रत्ययितस्त्रिषु” ॥
इत्यमरः ।
“सर्पाधिराजोरुभुजोऽपसर्पं
पप्रच्छ भद्रं विजितारिभद्रः” ।
इति रघुवंशे ।)

अपसलवि, व्य, (अप + सल् + बाहुल्यात् अवि ।)

प्रदेशिन्यङ्गुष्ठयोरन्तरा । पितृतीर्थं । यथा ।
“प्रदेशिन्यङ्गुष्ठयोरन्तरा अपसलवि अपसव्यं वा
तेन पितृभ्यो निदधाति” । इति श्राद्धतत्त्वे भट्ट-
भाष्यधृतगृह्यं ॥

अपसव्यं, क्ली, (सव्यादपक्रान्तं, “निरादयो गता-

द्यर्थे पञ्चम्या” इति समासः ।) अपसलवि । पितृ-
तीर्थं । इति श्राद्धतत्त्वे भट्टभाष्यधृतगृह्यं ॥

अपसव्यः, त्रि, (सव्यादपक्रान्तः, “निरादयो गता-

द्यर्थे पञ्चम्या” इति समासः ।) शरीरदक्षिण-
भागः । प्रतिकूलः । इति मेदिनी ॥ (विपरीतः ।
“वाता मण्डलिनश्चैनमपसव्यं प्रचक्रमुः” ।
इति रामायणे ।)

अपस्करः, पुं, (अपकीर्य्यते, अप + कॄ + अप्,

“अपस्करो रथाङ्गमिति” पाणिनिसूत्रेण सुडा-
गमः ।) रथाङ्गं । तच्च अक्षयुगचक्रादि । इत्यमरः ॥
गुह्यद्वारं । विष्ठा । इति धरणी ॥

अपस्नातः, त्रि, (अपकृष्टत्वेन स्नातः अमङ्गलार्थत्वात्,

अप + स्ना + कर्त्तरि क्तः ।) मृतमुदिश्यकृतस्नानो
जनः । इत्यमरः ॥ (“अपस्नातश्चानिष्पीडित-
मौलिरेव भवनमाजगाम” इति हर्षचारेते ।)
संस्कारार्थं स्नापितो मृतः । इति स्वामी ॥

अपस्नानं, क्ली, (अप + स्ना + भावे ल्युट् ।) मृत-

स्नानं । मृतोद्देशकस्नानं । इति हेमचन्द्रः ॥ (अप-
वित्रस्नानं । स्नानावशिष्टजलेन स्नानं । स्नानोदकं ।
स्नानावशिष्टं जलं ।
“उद्वर्त्तनमपस्नानं विण्मूत्रे रक्तमेव च ।
श्लेष्मनिष्ठूतवान्तानि नाधितिष्ठेत्तु कामतः”
इति मनुः ।)

अपस्मारः, पुं, (अपस्मर्य्यते पूर्ब्बवृत्तं विस्मर्य्यतेऽनेन,

अप + स्मृ + करणे घञ् ।) रोगविशेषः । मृगी
इति भाषा । तत्पर्य्यायः । अङ्गविकृतिः २ ला-
लाधः ३ भूतविक्रिया ४ । इति राजनिर्घण्टः ॥ * ॥
तस्य सामान्यरूपं ।
“तमःप्रवेशः संरम्भो दोषोद्रेकहतस्मृतेः ।
अपस्मार इति ज्ञेयो गदो घोरश्चतुर्व्विधः” ॥ * ॥
तस्य निदानपूर्ब्बिका सम्प्राप्तिः ।
“चिन्ताशोकादिभिः क्रुद्धादोषा हृत्स्रोतसि स्थिताः ।
कृत्वा स्मृतेरपध्वंसमपस्मारं प्रकुर्व्वते” ॥ * ॥
तस्य पूर्ब्बरूपं । यथा, --
“हृत्कम्पः शून्यता स्वेदो ध्यानं मूर्च्छा प्रमूढता ।
निद्रानाशश्च तस्मिंश्च भविष्यति भवत्यथ” ॥ * ॥
वातिकस्य रूपं ।
“कम्पते प्रदशेत् दन्तान् फेनोद्वामी श्वसित्यपि ।
परुषारुणकृष्णानि पश्येद्रूपाणि चानिलात्” ॥ * ॥
पैत्तिकस्य रूपं ।
“पीतफेनाङ्गवक्त्राक्षः पीतासृग्रूपदर्शनः ॥
सतृष्णोष्णानलव्याप्तलोकदर्शी च पैत्तिकः” ॥ * ॥
श्लैष्मिकरूपं ।
“शुक्लफेनाङ्गवक्त्राक्षः शीतहृष्टाङ्गजो गुरुः ।
पश्यन् शुक्लानि रूपाणि श्लैष्मिको मुच्यते चिरात्” ॥ *
त्रिदोषजरूपं ।
पृष्ठ १/०६७
:“सर्व्वैरेभिः समस्तैश्च लिङ्गैर्ज्ञेयस्त्रिदोषजः” ॥ * ॥
असाध्यलक्षणं ॥
अपस्मारः स चासाध्यो यः क्षीणस्यानवश्च यः ॥ * ॥
अरिष्टलक्षणं ।
“प्रस्फुरन्तं सुबहुशः क्षीणं प्रचलितभ्रुवं ।
नेत्राभ्याञ्च विकुर्व्वाणमपस्मारो विनाशयेत्” ॥ * ॥
तस्य वेगकालः ।
“पक्षाद्वा द्वादशाहाद्वा मासाद्वा कुपिता मलाः ।
अपस्माराय कुर्व्वन्ति वेगं किञ्चिदथांन्तरं ॥
देवे वर्षत्यपि यथा भूमौ वीजानि कानिचित् ।
शरदि प्रतिरोहन्ति तथा व्याधिसमुच्चयाः” ॥
इति माधवकरः ॥ * ॥ तस्य चिकित्सा । यथा, --
“तैलेन लशुनः सेव्यः पयसा च शतावरी ।
ब्राह्मीरसश्च मधुना सर्व्वापस्मारभेषजं ॥ * ॥
चूर्णैः सिद्धार्थकादीनां भक्षितैरथवापि तैः ।
गोमूत्रपिष्टैः सर्व्वाङ्गलेपैः शाम्यत्यपस्मृतिः” ॥
सिद्धार्थकादिः उन्मादोक्तः ॥ * ॥
“शिग्रुकट्वङ्गकिणिहीनिम्बत्वग्रसपाचितं ।
चतुर्गुणे गवां मूत्रे तैलमभ्यङ्गने हितं” ॥
कट्वङ्गः शोनापाठा । किणिही चिरिचिरा ॥ * ॥
“निर्गुण्डीभववन्दाकनावनस्य प्रयोगतः ।
उपैति सहसा नाशमपस्मारो महागदः ॥ * ॥
मनोह्वा तार्क्ष्यविष्ठा वा शकृत् पारावतस्य च ।
अञ्जनाद्धन्त्यपस्मारमुन्मादञ्च विशेषतः” ॥
मनोह्वा मनःशिला । तार्क्ष्यो गरुडः । शकृत्
विष्ठा ॥ * ॥
“यः खादेत् क्षीरभक्ताशी माक्षिकेण वचारजः ।
अपस्मारं महाघोरं चिरोत्थं स जयेद्ध्रुवं” ॥
वचा घुरवच् ॥ * ॥
“कुष्माण्डकफलोत्थेन रसेन परिपेषितं ।
अपस्मारविनाशाय षष्ठ्याह्वं च पिबेत् त्र्यहं” ॥
त्र्यहमिति एतस्य पानाद्दिवसत्रयेणैवापस्मारोप-
शमो भवतीत्यभिप्रायः ॥ * ॥
“ब्राह्मीरसवचाकुष्ठशङ्खपुष्पीशृतं घृतं ।
पुराणं स्यादपस्मारोन्मादग्रहहरं परं” ॥
एतस्य प्रक्रिया । पुराणं गोघृतं प्रस्थमितं वचा-
कुष्ठशङ्खपुष्पीणां समुदितानां कुडवमितानां क-
ल्केन प्रस्थमितब्राह्मीरसपिष्टेन पचेत् । ब्राह्मी-
घृतं ॥ * ॥
“कुष्माण्डकरसे सर्पिरष्टादशगुणे पचेत् ।
यष्ट्याह्वकल्कं तत्पानमपस्मारविनाशनं” ॥
कुष्माण्डकघृतं ॥ * ॥
“द्वौ कीटमेषौ विधिवदानीय रविवासरे ।
कण्ठे भुजे वा संधार्य्य जयेदुग्रामपस्मृतिं” ॥
अयन्तु कीटो नदीतीरे सिकतामध्ये तिष्ठति ॥ * ॥
“शिग्रुकुष्ठजलाजाजीलशुनव्योषहिङ्गुभिः ।
वस्तमूत्रे शृतं तैलं नावनं स्यादपस्मृतौ” ॥
जलं बालकं । अजाजी जीरकः । वस्तः छागः ।
नावनं नस्यं ॥ * ॥ इत्यपस्माराधिकारः । इति
भावप्रकाशः ॥

अपहारः, पुं, (अप + हृ + भावे घञ् ।) अपचयः ।

हानिः । इत्यमरः ॥ अपहरणं । चौर्य्यं । संगोपनं ।
धनस्वाम्यनुपयोगिव्ययः । इति दायभागः ॥ (वि
नाशः ।
“कर्णनासापहारेण भगिनी मे विरूपिता” ।
इति रामायणे । स्तेयं । यद्धान्यापहारादिकं कर्म्म
द्रव्यस्वामिसमक्षं बलात्कृतं तत्साहसं स्यात् ।
इति कल्लूकभट्टः । निह्णवः । “कथं वा आत्मनः
अपहारं करोमि” । इति शाकुन्तले ।)

अपहारकः, त्रि, (अप + हृ + ण्वुल् ।) अपहारी ।

अपहरणकर्त्ता । यथा, --
“परापवादनिरतः परद्रव्यापहारकः” ।
इति पुराणं ॥
(“द्विविधान् तस्करान् विद्यात् परद्रव्यापहारकान्
प्रकाशांश्चाप्रकाशांश्च चारचक्षुर्महीपतिः” ॥
“अन्नहर्त्तामयावित्वं मौक्यं वागपहारकः ।
वस्त्रापहारकः श्वैत्रं पङ्गुतामश्वहारकः” ॥
इति मनुः । चौरः ।
“योऽन्यथा सन्तमात्मानमन्यथा सत्सु भाषते ।
स पापकृत्तमोलोके स्वेन आत्मापहारकः” ।
इति मनुः ।)

अपहासः, पुं, (अप + हस् + भावे घञ् ।) अका-

रणहास्यं । इति हेमचन्द्रः ॥

अपह्नवः, पुं, (अप + ह्नु + भावे अप् ।) अपलापः ।

स्नेहः । इति मेदिनी ॥
(“ऋणे देये प्रतिज्ञाते पञ्चकं शतमर्हति ।
अपह्नवे तद्द्विगुणं तन्मनोरनुशासनम्” ॥
इति मनुः ।)

अपह्नुतिः, स्त्री, (अप + ह्नु + भावे क्तिन् ।) अप-

लापः । अपह्नवः । इति शब्दरत्नावली ॥ उप-
मेयासत्यकरणपूर्ब्बकोपमानसत्यताव्यवस्थापिका-
लङ्कृतिः । तस्या लक्षणं ।
“प्रकृतं यन्निषिध्यान्यत्साध्यते सा त्वपह्नुतिः” ।
उदाहरणं ।
“अवाप्तः प्रागल्भ्यं परिणतरुचः शेलतनये ।
कलङ्को नैवायं विलसति शशाङ्कस्य वपुषि ॥
अमुष्येयं मन्ये विगलदमृतस्यन्दिशिशिरे ।
रतिश्रान्ता शेते रजनिरमणी गाढमुरसि” ॥
इति काव्यप्रकाशः ॥
(“प्रकृतं प्रतिषिध्यान्यस्थापनं स्यादपह्नुतिः ।
गोपनीयं कमप्यर्थं द्योतयित्वा कथञ्चन ॥
यदि श्लेषेणान्यथा वाऽन्यथयेत् साप्यपह्नुतिः” ।
इति साहित्यदर्पणे ।)

अपांनाथः, पुं, (अपां नाथः अलुक्समासः ।) समुद्रः ।

इति राजनिर्घण्टः ॥

अपांनिधिः, पुं, (निधीयतेऽत्र, नि + धा + अधि-

करणे किः, अपां निधिः आधारः ।) समुद्रः ।
वारांनिधिः इति दर्शनात् ॥

अपांपतिः, पुं, (अपां पतिः, अलुक्समासः ।) समुद्रः ।

इत्यमरः ॥ वरुणः । अप्पतिरित्यमरेणोक्तत्वात् ॥

अपांपित्तं, क्ली, (अपां पित्तमिव तदुत्पन्नत्वात् तस्य

पित्तत्वं, अलुक्समासः ।) अग्निः । इति शब्द-
रत्नावली ॥ चित्रकवृक्षः । वह्निसंज्ञक इत्यमरे-
णोक्तत्वात् ॥

अपाक्, [च्] त्रि, (अप + अञ्च + क्विन्, नलीपः ।)

दक्षिणदिग्भववस्तु । तत्पर्य्यायः । अपाचीनं २ ।
इति हेमचन्द्रः ॥

अपाकः, पुं, (पच + भावे घञ्,ततो नञ्समासः ।)

पाकाभावः । अजीर्णता । यथा, --
“अङ्गमर्द्दोऽरुचिस्तृष्णा आलस्यं गौरवं ज्वरः ।
अपाकः शून्यताङ्गानामामवातस्य लक्षणं” ॥
इति माधवकरः ॥ पाकाभावविशिष्टे त्रि । यथा, --
“गात्रप्रदेशे क्वचिदेव दोषाः
संमूर्च्छिता मांसमसृक् प्रदूष्य ।
वृत्तं स्थिरं मन्दरुजं महान्त-
मनल्पमूलं चिरवृद्ध्यपाकं” ॥
इति माधवकरः ॥

अपाकशाकं, क्ली, (न पच्यते, पच् + घञ्, नञ्-

समासः, अपाकः शाको यस्य तत् ।) आर्द्रकं ।
इति राजनिर्घण्टः ॥

अपाङ्गः, पुं, (अपाञ्चति वक्रं गच्छति चक्षुर्यत्र, अप

+ अञ्च + अधिकरणे घञ् ।) नेत्रयोरन्तः । चक्षुः-
कोणः ।
(“चलापाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमतीं” ।
इति शाकुन्तले । “कुवलयदृशां लोललोलैरपाङ्गैः” ।
इति शान्तिशतके ।) तिलकः । इत्यमरः ॥ अङ्ग-
हीने त्रि । इति मेदिनी ॥

अपाङ्गकः, पुं, (अपकृष्टमङ्गं यस्य समासान्तः कः ।)

अपामार्गवृक्षः । इति शब्दरत्नावली ॥ आपां
इति भाषा । अङ्गहीने त्रि ॥

अपाङ्गदर्शनं, क्ली, (अपाङ्गेन नेत्रप्रान्तेन दर्शनं

तृतीयातत्पुरुषः ।) कटाक्षः । इति हेमचन्द्रः ॥

अपाची, स्त्री, (अप + अञ्च + क्विन्, स्त्रियां ङीप् ।)

दक्षिणदिक् । इति हलायुधः ॥

अपाचीनं, त्रि, (अपाच्यां दक्षिणस्यां दिशि भवं,

अपाच् खः तस्य ईन ।) अपागर्थं । दक्षिणदिग्-
भववस्तु । विपर्य्यस्तं । विपरीतं । इति विश्व-
मेदिन्यौ ॥

अपाच्यं, त्रि, दक्षिणदिग्भववस्तु । अपाची दक्षिण-

दिक् ततो भवार्थे ष्ण्यप्रत्ययः ॥ पचनायोग्यं । पच-
धातोः कर्म्मणि घ्यणि पाच्यं पश्चान्नञ्समासः ॥

अपाटवं, क्ली, (पटोर्भावः पटु + भावे अण् नास्ति

पाटवं पटुता यत्र तत् ।) रोगः । इति हेमचन्द्रः ॥
अपटुता । जडता । पटोर्भावः पाटवं ततो नञ्-
समासः ॥

अपात्रं, क्ली, (कुत्सितं पात्रं अप्राशस्त्ये नञ्समासः ।)

कुपात्रं । असत्पात्रं । यथा । “अपात्रे पातयेद्दत्तं
सुवर्णं नरकार्णवे” । इति मलमासतत्त्वं ॥ (योग्य-
ताहीनं । निन्दितं । विद्यातपोहीनं । दानादि-
योग्यताहीनं ।
“विद्येव कन्यका मोहादपात्रे प्रतिपादिता ।
यशसे न न धर्म्माय जायेतानुशयाय तु” ॥
इति कथासरित्सागरे ।)

अपात्रीकरणं, क्ली, (अनपात्रं अपात्रं कुत्सित्पात्रं

क्रियतेऽनेन, अपात्र + च्चि + कृ + करणे ल्यट् ।)
नवविधपापमध्ये पापविशेषः । तच्चतुर्व्विधं ।
पृष्ठ १/०६८
:निन्दितधनादानं १ वाणिज्यं २ शूद्रसेवनं ३ असत्य-
भाषणं ४ । इति प्रायश्चित्तविवेकः ॥
(“निन्दितेभ्यो धनादानं बाणिज्यं शूद्रसेवनं ।
अपात्रीकरणं ज्ञेयमसत्यस्य च भाषणं” ॥
इति मनुः ।)

अपादानं, क्ली, (अपादीयते विश्लिष्यतेऽस्मात्, अप +

आ + दा + ल्युट् ।) यस्माद्वस्तुनो वस्त्वन्तरस्य चलनं
भवति तत् । षट्कारकमध्ये पञ्चमकारकं । तत्रै-
कादशार्थे पञ्चमी स्यात् यथा । यतोऽपायः । यथा
वृक्षात् पर्णं पतति १ । यतो भीः । यथा व्याघ्रात्
बिभेति २ । यतो जुगुप्सा । यथा पापात् जुगु-
प्सते धीरः ३ । यतः पराजयः । यथा सिंहात्
पराजयते हस्ती ४ । यतः प्रमादः । यथा धर्म्मात्
प्रमाद्यति नीचः ५ । यत आदानं । यथा भूपात्
धनमादत्ते विप्रः ६ । यतो भूः । यथा पितुः
पुत्त्रो जायते ७ । यतस्त्राणं । यथा व्याघ्रात् गां
रक्षति गोपः ८ । यतो विरामः । यथा जपाद्विर-
मति विप्रः ९ । यतोऽन्तर्द्धिः । यथा गुरोरन्तर्द्धत्ते
शिष्यः १० । यतो वारणं । यथा यवेभ्यो गां
वारयति ११ । इति मुग्धबोधटीकायां दुर्गा-
दासः ॥

अपानं, क्ली, (अपनयति मलादि निःसारयति, अप

+ अन् + णिच् + पचाद्यच् ।) मलद्वारं । तत्प-
र्य्यायः । गुदं २ । पायुः ३ । इत्यमरः ॥ गुह्यं ४ ।
गुदवर्त्म ५ । इति जटाधरः ॥ तनुर्ह्रदः ६ । मार्गः
७ । इति शब्दरत्नावली ॥

अपानः, पुं, (अपानिति अधोदेशात् निःसरति,

अप + अन् + अच् ।) गुदस्थवायुः । इत्यमरः ॥
अवाग्गमनवान् पाष्वादिस्थानवर्त्ती वायुः । इति
वेदान्तसारः ॥
(“अधोनयत्यपानस्तु आहारञ्च नृणामधः ।
मूत्रशुक्रवहो वायुरपान इति कीर्त्त्यते” ॥
इत्युक्तलक्षणोऽवाग्गमनवान् कृकाटिकापृष्ठपार्श्व-
पायूपस्थवृत्तिवायुः । गुदस्थवायुः ।)
(“प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ” ।
इवि भगवद्गीता ।)

अपापः, त्रि, (नास्ति पापं यस्य सः ।) निष्पापः ।

पापशून्यः । यथा, --
“इयं दाशरथे सीता सुव्रता ब्रह्मचारिणी ।
अपापा हि त्वया त्यक्त्वा ममाश्रमसमीपतः” ॥
इति रामायणं ॥

अपामार्गः, पुं, (अपामृज्यते रोगो दूरीक्रियते अनेन,

अप + आ + मृज् + करणे घञ् ।) वृक्षविशेषः ।
आपां इति भाषा । तत्पर्य्यायः । शैखरिकः २
धामार्गवः ३ मयूरकः ४ प्रत्यक्पर्णी ५ कीशपर्णी
६ किणिही ७ खरमञ्जरी ८ । इत्यमरः ॥ शैख-
रेयः ९ अधामार्गवः १० केशपर्णी ११ इति
तट्टीका ॥ स्थलमञ्जरी १२ प्रत्यक्पुष्पी १३ क्षार-
मध्यः १४ अधोघण्टा १५ शिखरी १६ इति
रत्नमाला ॥ दुर्ग्रहः १७ अध्वशल्यः १८ काण्डीरकः
१९ मर्कटी २० दुरमिग्रहः २१ वाशिरः २२
पराकपुष्पी २३ कण्टी २४ मर्कटपिप्पली २५
कटुमञ्जरिका २६ अघाटः २७ क्षरकः २८ पाण्डु-
कण्टकः २९ नालाकण्टः ३० कुब्जः ३१ । अस्य
गुणाः । तिक्तत्वं । उष्णत्वं । कटुत्वं । कफार्शःकण्डू-
दरामयविषरोगनाशित्वं । धारकत्वं । वान्तिकारि-
त्वञ्च । इति राजनिर्घण्टः ॥ अग्निवत्तीक्ष्णत्वं ।
क्लेदकारित्वं । स्रंसनत्वञ्च । इति राजवल्लभः ॥ * ॥
तत्फलगुणाः । रसे स्वादुत्वं । पाके दुर्ज्जरत्वं ।
विष्टम्भित्वं । वायुकारित्वं । रूक्षत्वं । रक्तपित्त-
प्रसादनत्वञ्च । इति भावप्रकाशः ॥ (अपामार्ग
ओषधोनां सर्व्वासामेक इद्वशीति अथर्व्ववेदः ।)

अपाम्पतिः, पुं, (अपां पतिः, अलुक्समासः ।) समुद्रः ।

इत्यमरः ॥ वरुणः । अप्पतिरित्यमरेणोक्तत्वात् ॥

अपाम्पित्तं, क्ली, (अपां पित्तमिव अलुक्समासः तदु-

त्पन्नत्वात् ।) अग्निः । इति शब्दरत्नावली ॥ चित्रक-
वृक्षः । वह्निसंज्ञक इत्यमरेणोक्तत्वात् ।

अपायः, पुं, (अप + इन् + भावे अच् ।) विश्लेषः ।

इति रामतर्कवागीशः ॥ चलनं । इति दुर्गादासः ॥
विनाशः । यथा, --
“सा काशी त्रिपुरारिराजनगरी पायादपायाज्ज-
गत्” । इति काशीखण्डं ॥

अपारं, क्ली, (नास्ति पारं यस्य तत् ।) अवारं ।

नद्यादेरर्व्वाक्पारं । इति हलायुधः ॥ असीमे
त्रि ॥

अपावृतं, त्रि, (अप + आ + वृ + आच्छादने क्तः ।)

पिहितं । आवृतं । स्वतन्त्रं । स्वाधीनं । इति
मेदिनी ॥ (उद्घाटितं । अनावृतं । अपसारिता-
वरणं ।
“यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतं” ।
इति गीता ।)

अपावृत्तं, त्रि, (अप + आ + वृत् + क्तः ।) लुठितं ।

इति हेमचन्द्रः ॥ लोटा । गडागडि इति भाषा ।
(अन्तरितं । परावृत्तं । निवृत्तं ।
“प्रतिग्रहादपावृत्तः सन्तुष्टो येन केनचित्” ।
इति महाभारते ।)

अपाश्रयः, पुं, (अपाश्रियते आच्छाद्यतेऽनेन, अप

+ आ + श्रि + करणे अच् ।) प्राङ्गणावरणं ।
सामियाना । चाँदोया इति भाषा । तत्पर्य्यायः ।
मत्तालम्बः २ प्रग्रीवः ३ मत्तवारणः ४ । इति
हेमचन्द्रः ॥ आश्रयशून्ये त्रि ॥ (चन्द्रातपः ।
निराश्रयः । आश्रितः । अधीनः ।
“ब्राह्मणापाश्रयो नित्यमुत्कृष्टां जातिमश्नुते” ।
इति मनुः ।)

अपासङ्गः, पुं, (अप + आ + सन्ज + घञ् ।) उपा-

सङ्गः । तूणः । इत्यमरटीकासारसुन्दरी ॥

अपासनं, क्ली, (अप + अस + भावे ल्युट् ।) मारणं ।

इत्यमरः ॥

अपास्तं, त्रि, (अप + अस + क्तः ।) निरस्तं । यथा ।

एतेन नातिसन्ध्यासमीपत इत्यनेन राक्षसीवेला-
मात्रं निषिध्यते इति मैथिलमतमपास्तं । इति
तिथ्यादितत्त्वं ॥

अपाक्षं, त्रि, (अक्षमिन्द्रियमपगतमनुगतमिति

यावत्, प्रादिसमासः । अपकृष्टमक्षि चक्षुः कर्म्म-
धारयः, अच् समासान्तः । अपगतमक्षि चक्षुः
कर्म्मधारयः, अच्, समासान्तः ।) प्रत्यक्षं । इति
त्रिकाण्डशेषः । कुत्सितचक्षुः । लोचनशून्यं ।
एतावर्थौ व्युत्पत्तिलब्धौ ॥

अपि व्य, (न पिबति पिगतौ क्विप्, आगमशास्त्रस्या-

नित्यत्वान्न तुक् ।) उपसर्गविशेषः । अस्यार्थाः ।
आहरणं । सम्भावनं । निन्दा । अनुज्ञा । अल्पत्वं ।
समुञ्चयः । इति दुर्गादासः ॥ प्रश्नः । शङ्का । युक्त-
पदार्थः । कामाचारक्रिया । इति विश्वमेदिन्यौ ।
(“अपिः पदार्थसम्भावनान्ववसर्गगर्हासमुच्चयेषु”
इति पाणिनिसूत्रम्) ॥

अपिगीर्णं, त्रि, (अपि + गॄ + कर्म्मणि क्तः ।) स्तुतं ।

वर्णितं । इत्यमरः ॥

अपिच्छिलः, त्रि, (न पिच्छिलः नञ्समासः ।)

पैच्छिल्याभावविशिष्टः । पिच्छिलताशून्यः । यथा ।
“प्रमेहिणो यदा मूत्रमनाविलमपिच्छिलं” ।
इति माधवकरः ॥ (परिष्कृतः । अमलिनः ।
निर्मलः । गाढः ।)

अपितु व्य, (अपि + तु ।) यद्यर्थं । यद्यपि । इति

त्रिकाण्डशेषः ॥

अपिधानं, क्ली, (अपि + धा + भावे ल्युट् ।) आच्छा-

दनं । अन्तर्द्धानं । इत्यमरः ॥ (आवरणं । “द्वारे
पुरस्योद्घटितापिधाने” । इति कुमारसम्भवे ।
“शिलापिधाना काकुत्स्थ दुर्गं चास्याः प्रवेशनं” ।
इति रामायणे ।)

अपिनद्धं, त्रि, (अपि + नह् + कर्म्मणि क्तः, अस्य

वालोपे पिनद्धञ्च ।) परिहितवस्त्रादि । तत्प-
पर्य्यायः । आमुक्तः २ प्रतिमुक्तः ३ पिनद्धः ४ ।
इत्यमरः ॥

अपीतः, पुं, (पा + कर्म्मणि क्तः । न पीतः, नञ्-

समासः ।) पीतभिन्नवर्णः । तद्विशिष्टे अकृतपाने
च त्रि इति नञ्समस्तपीतशब्दस्यैतावर्थौ ॥

अपीनसं, क्ली, (अपीनाय अस्थूलत्वाय सीयते कल्पते,

अपीन + सो + कर्म्मकर्त्तरिकः । पीनसात् रोग-
विशेषात् भिन्नं नञ्समासः ।) पीनसरोगः ।
इति रभसः ॥ तद्रहिते त्रि ॥

अपीव्यं, त्रि, अतिसुन्दरं । यथा, --

“अपीव्यदर्शनं शश्वत् सर्व्वलोकनमस्कृतं ।
सन्तं वयसि कैशोरे भृत्यानुग्रहकातरं” ॥
इति श्रीभागवतं ॥

अपुच्छा, स्त्री, (नास्ति पुच्छमग्रभागो यस्याः सा,

टाप् ।) शिंशपावृक्षः । इति शब्दचन्द्रिका ॥
(त्रि, लाङ्गूलहीनः । शिखरहीनः ।)

अपुनर्भवः, पुं, (न पुनर्भवति न पुनरुत्पद्यतेऽस्मात्,

न पुनर् + भू + अपादाने अप्, मयूरव्यंसकादि-
त्वात् समासः ।) मुक्तिः । कैवल्यं । इति हेम-
चन्द्रः ॥ पुनर्जन्माभावः । यथा, --
“हेतौ लिङ्गे प्रशमने रोगाणामपुनर्भवे ।
ज्ञानं चतुर्विधं यस्य स राजार्हो भिषक्तमः” ॥
इति चरकः ॥ (कर्त्तरि अचि तु पुनर्जन्मशून्यः मुक्त-
इति यावत् ।)

अपुष्पफलदः, पुं, (अपुष्पं, पुष्पं विना फलं ददाति,

पृष्ठ १/०६९
:अपुष्पफल + दा + कर्त्तरि कः, उपपदसमासः ॥)
पनसवृक्षः । इति राजनिर्घण्टः ॥ पुष्पव्यतिरेक-
जातफलवृक्षमात्रं ॥ (अहेतुकफलदातरि त्रिं)

अपूपः, पुं, (न पूयते विशीर्य्यति, न + पूय + पः,

यलोपः ।) पिष्टकः । इत्यमरः ॥ गोधूमः । इति
राजजिर्घण्टः ॥
(“वृथाकृसरसं यावं पायसापूपमेव च” ।
इति मनुः ।)

अपूप्यः, पुं, (अपूपाय हितः “विभाषा हविर-

पूपादिभ्यः” इति पाणिनिसूत्रेण यत् ।) गोधूम-
चूर्णं । इति जटाधरः ॥ मयदा इति भाषा ।

अपूरणी, स्त्री, (न पूरयति पुष्पगन्धेन मनःप्रीतिं

पूर्णां करोति निर्गन्धत्वात्, पूर + णिच् + कर्त्तरि
ल्युट्, स्त्रियां ङीप् तती नञ्समासः ।) शाल्मलि-
वृक्षः । इति शब्दचन्द्रिका ॥

अपूर्व्वं, क्ली, (नास्ति पूर्व्वं पूर्व्वकालभवं दृष्टं यस्य

तत् ।) कर्म्मजन्यमदृष्टं । तत्पर्य्यायः । अनुशयः २
नियोगः ३ अतिशयः ४ कार्य्यं ५ प्रयोगः ६ ।
इति स्मृतिः ॥ तच्चतुर्तिधं यथा । फलापूर्ब्बं १
समुदायापूर्ब्बं २ उत्पत्त्यपूर्ब्बं ३ अङ्गापूर्ब्बं ४ । येन
स्वर्ग आरभ्यते तत् फलापूर्ब्बं । अमावास्यायां
त्रयाणां यागानामेकः समुदायः पौर्णमास्यामपरः
तयोर्भिन्नकालवर्त्तिनोः संहत्यफलापूर्ब्बारम्भायो-
गात्तदारम्भाय समुदायद्वयजन्यमपूर्ब्बद्वयं कल्प-
नीयं । तयोरेकैकस्यारम्भाय एकैकसमुदायवर्त्तिनां
त्रयाणां यागानां भिन्नक्षणवर्त्तित्वेन संघातापत्त्य-
भावात् यागत्रयजन्यानि त्रीण्युत्पत्त्यपूर्ब्बाणि क-
ल्पनीयानि । तेषाञ्चाङ्गोपकारमन्तरेणानिष्पत्ते-
रङ्गानां चानेकक्षणवर्त्तिनां संघातासम्भवात् अ-
ङ्गापूर्ब्बाणि कल्पनीयानि । तत्र त्वयं विभागः ।
इत्यधिकरणमाला ॥

अपूर्व्वं, त्रि, (नास्ति पूर्व्वं यस्य, न पूर्व्वः नञ्समासः ।)

आश्चर्य्यं । यथा, --
“अपूर्ब्बेयं हरेर्माया त्रिगुणा रज्जुरूपिणी ।
यया मुक्त्वो न चलति बद्धो धावति धावति” ॥
इति उद्भटः ॥ पूर्ब्बदिग्देशकालभिन्नं ॥

अपेतराक्षसी, स्त्री, (अपेतः राक्षस इव पातकं

यस्याः सा, गौरादित्वात् ङीष् ।) तुलसीवृक्षः ।
इति राजनिर्घण्टः ॥

अपेयं, त्रि, (पा + कर्म्मणि अर्हाद्यर्थे यत् ।) पाना-

योग्यं । अपानीयं । यथा, -- “मद्यमपेयमदेय-
मनिग्राह्यं” । इति तिथ्यादितत्त्वे उशनःसूत्रं ॥
(“जलधिजलमपेयं पण्डिते निर्धनत्वं” ।)
(“यैः कृतः सर्व्वभक्ष्योऽग्निरपेयश्च महोदधिः ।
क्षयी चाप्यायितः सोमःको न नश्येत्प्रकोप्य तान्” ॥
इति मनुः ।)

अपेक्षणीयं, त्रि, (अप + ईक्ष + कर्म्मणि अनीयर् ।)

अपेक्षायोग्यं । अपेक्ष्यं । अपेक्षितब्यं । यथा, --
“आत्मा यत्नेन रक्ष्यो रणशिरसि पुनः सोऽपि
नापेक्षणीयः” । इति नवरत्नमध्ये शङ्कुः ॥

अपेक्षा, स्त्री, (अप + ईक्ष + भावे अ, स्त्रियां

टाप् ।) कार्य्यनिमित्तयोरन्योन्याभिसम्बन्धः । इति
सुपद्मटीकायां विष्णुमिश्रः ॥ आकाङ्क्षा । यथा, --
“सा प्रक्रिया या कथमित्यपेक्षा” । इति वेदा-
न्तटीकायां वाचस्पतिमिश्रः ॥ (आकाङ्क्षा । अभि
लाषः । आशा ।
“अपेक्षा भिक्षायामपि किमपि चेतः स्त्रपयति” ।
इति शान्तिशतके । प्रयत्नः । अनुरागः । सम्मा-
नना ।
“अलब्धं चैव लिप्सेत लब्धं रक्षेदपेक्षया ।
रक्षितं वर्द्धयेच्चैव वृद्धं पात्रेषु निक्षिपेत्” ॥
इति मनुः । पर्य्यालोचनं । विचारः । अनुचि-
न्तनं ।
“सत्यामपि तपःसिद्धौ नियमापेक्षया मुनिः” ।
इति रघुवंशे ।
“न क्षुद्रोऽपि प्रथमसुकृतापेक्षया संश्रयाय” ।
इति मेघदूते ।)

अपेक्षाबुद्धिः, स्त्री, अनेकैकत्वंविषयकबुद्धिः । ना-

नैकत्वावगाहिबुद्धिः । अयमेकः अयमेक इत्या-
कारबुद्धिः । इति भाषापरिच्छेदः ॥
(“अनेकैकत्वबुद्धिर्या सापेक्षाबुद्धिरुच्यते” इति
“अपेक्षाबुद्धिनाशाच्च नाशस्तेषां निरूपितः”
इति च भाषापरिच्छेदे ।)

अपोगण्डः, त्रि, (अपकृष्टकर्म्मणि वेदविहितकार्य्या-

दन्यकर्म्मणि गण्डः उद्यतः, गडि उद्यमे + पचा-
द्यच्, निपातनात् अपशब्दस्याकारस्य उकारः,
अपसि कर्म्मणि गण्डः अतिभीरुत्वात् त्याज्यः ।)
स्वभावतो न्यूनाधिकाङ्गविशिष्टः । तत्पर्य्यायः ।
पोगण्डः २ विकलाङ्गः ३ अङ्गहीनकः ४ । इति
शब्दरत्नावली ॥ शिशुः । वलिभः । त्रिवलियुक्तः ।
इति मेदिनी ॥ अतिभीरुः । इति विश्वो हेम-
चन्द्रश्च ॥ द्वे स्वभावतो न्यूनाधिकाङ्गे ऊनविंशत्य-
ङ्गुलीकैकविंशत्यङ्गुलीकादौ जने वर्त्तते इत्यर्थः ।
विकलं स्वभावहीनं अङ्गमस्य विकलाङ्गः । अप-
कृष्टं गच्छति अपोगण्डः । नाम्नीति गमेर्डः नि-
पातनात् पस्य पोभावः ।
“अपोगण्डस्तु शिशुके विकलाङ्गे च भीरुके” ।
इति विश्वः ॥ निपातनादपस्यादिलोपे पोगण्डो-
ऽपि । पोगण्डो विकलाङ्गे स्यादिति हलायुधः ॥
पोगण्डो विकलाङ्गकः । इति रत्नकोषः । इति
तट्टीकायां भरतः ।

अपोदिका, स्त्री, (अपगतमुदकं यस्याः सा, स्त्रियां

टाप्, पृषोदरादित्वात् दित्त्वं ।) उपोदिका ।
पूतिकाशाकं । इत्यमरटीकायां स्वामी ॥

अपोहः, पुं, (अप् + ऊह + भावे घञ् ।) अपगत-

ऊहः । वितर्काभावः । शुश्रूषाद्यष्टधाधीगुणान्त-
र्गतषष्ठगुणः ।
(“शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा ।
ऊहोऽपहोऽर्थविज्ञानं तत्त्वज्ञानं च धीगुणाः”) ॥
इति हेमचन्द्रः ॥ अतद्व्यावृत्तिः । इति काव्य-
प्रकाशटीकायां महेश्वरः ॥

अप्तः, [स्] क्ली (आप्यते स्वर्गो लभ्यंतेऽनेन, आप +

करणे तस ह्रस्वः ।) यज्ञकभ्मः । इत्युणादिकोषः ॥

अप्तुः, पुं, (आप्यते भोगाय प्राप्यते यः, आप् +

कर्म्मणि तुः ह्रस्वः ।) शरीरं । अङ्गं । इत्युणादि-
कोषः ॥ (“अथाप्तवे द्वितीये यामाहुतिं जुहो-
ति” । इति शतपथब्राह्मणः ।)

अप्नः, [स्] क्ली, (आप् + असुन् नुट् ह्रस्वश्च ।)

जलं । वेदप्रयोगोऽयं ॥

अप्पतिः, पुं, (अपां पतिः, षष्ठीतत्पुरुषः ।) वरुणः ।

इत्यमरः ॥ समुद्रः । अपाम्पतिरिति दर्शनात् ॥

अप्पित्तं, क्ली, (अपां पित्तमिव ।) अग्निः । इत्य-

मरः ॥ चित्रकवृक्षः । वह्निसंज्ञकत्वात् ॥

अप्रकटः, त्रि, (न प्रकटः व्यक्तः नञ्समासः ।)

अव्यक्तः । अप्रकाशः । यथा, --
“प्रकटाप्रकटा चेति लीला सेयं द्विधोच्यते” ।
इति भागवतामृते पद्मपुराणं ॥ अस्य विवरणं
लीलाशब्दे द्रष्टव्यं ॥

अप्रकाण्डः, पुं, (नास्ति प्रकृष्टः काण्डः स्कन्धो यस्य

सः ।) काण्डरहितवृक्षः । स तु झिण्टिकादिः ।
तत्पर्य्यायः । स्तम्बः २ गुल्मः ३ । इत्यमरः ॥

अप्रकाशः, पुं, (न प्रकाशः नञ्समासः ।) प्रकाशा-

भावः । तत्पर्य्यायः । जनान्तिकं २ । इति त्रि-
काण्डशेषः ॥ (गुप्तः । अप्रकाशितः । गूढः ।
“द्विविधांस्तस्करान् विद्यात् परद्रव्यापहारकान् ।
प्रकाशांश्चाप्रकाशांश्च चारचक्षुर्महीपतिः” ॥
इति मनुः । न प्रकाशते इति अप्रकाशः, पचा-
द्यच् । अन्धकारावृतः । अदृश्यः ।
“प्रकाशश्चाप्रकाशश्च लोकालोक इवाचलः” ।
इति रघुवंशे । निहितः । प्रच्छादितः । प्रोथितः ।
“यानि चैवंप्रकाराणि कालाद्भमिर्न भक्षयेत् ।
तानि सन्धिषु सीमायामप्रकाशानि कारयेत्” ॥
इति मनुः । रहसि । परोक्षं ।
“नाततायिबधे दोषो हन्तुर्भवति कश्चनः ।
प्रकाशं वा प्रकाशं वा मन्युस्तम्मन्युमृच्छति” ॥
इति मनुः ।) तद्विशिष्टे त्रि ॥

अप्रकृष्टः, पुं, (न प्रकृष्टः नञ्समासः ।) काकः ।

इति शब्दरत्नावली ॥ अधमे त्रि ॥

अप्रखरः, त्रि, (न प्रखरः तीक्ष्णः नञ्समासः ।)

प्राखर्य्यरहितः । अतीक्ष्णः । तद्धर्म्मे क्ली । खं
रातीति कः खरः प्रकृष्टः खरः प्रखरस्ततो नञ्-
समासः । (मृदुः । शान्तः ।)

अप्रगुणः, त्रि, (न प्रकृष्टो गुणो धैर्य्यरूपो यस्य

सः, गुणमप्राप्तः प्रादिसमासः ततो नञ्समासः ।)
व्याकुलः । व्यस्तः । इत्यमरः ॥

अप्रतिकरः, त्रि, (प्रति करोति विश्वासं नोत्पा-

दयति प्रति + कृ + कर्त्तरि अच्, न प्रतिकरः
ततो नञ्समासः ।) विश्वस्तः । विश्वासपात्रं ।
इति जटाधरः ॥

अप्रतिपक्षः, त्रि, अप्रतियोगी । विपक्षशून्यः ।

नास्ति प्रतिपक्षो यस्य इति बहुव्रीहिसमास-
निष्पन्नः ॥

अप्रतिभः, त्रि, अप्रत्युत्पन्नमतिः । अप्रगल्भः । नास्ति

प्रतिभा नवनवोन्मेषशालिनी प्रज्ञा यस्य सः ।
इति प्रतिभान्वतशब्दार्थे भरतः ॥ (मृदुः । लज्जा-
शीलः । हतज्ञानः ।) (स्त्रियां उत्तरस्याप्रतिपत्ति-
पृष्ठ १/०७०
:रूपो निग्रहस्थानविशेषः, उत्तरार्हे परोक्तं बुद्ध्वा-
पि यत्रोत्तरामेये उत्तरं न प्रतिपद्यते तत्र अप्र-
तिभानिग्रहस्थानम् ।)

अप्रतिरथं, क्ली, (नास्ति प्रतिरथः समः मङ्गलार्थ-

त्वेन यस्य तत् ।) यात्रा । सामवेदः । मङ्गलं ।
इति भूरिप्रयोगत्रिकाण्डशेषौ ॥ (युद्धार्थयानं ।
युद्धसमये यात्राकृतमङ्गलं ।
“यद् यात्रा मङ्गलं साम तदप्रतिरथं विदुः” ॥
इति हारावली ।)

अप्रतिरथः, पुं, (नास्ति प्रतिरथः प्रतियोद्धा यस्य

सः ।) योद्धा इति भूरिप्रयोगः ॥ तुल्ययोद्धृ-
रहितः । इति पुराणं ॥
(“दौष्मन्तिमप्रतिरथं तनयं प्रसूय”
इति शाकुन्तले ।
“एतेषां तमसामिवाप्रतिरथैस्तेजोभिः” ।
इति महावीरचरिते ।)

अप्रतिरूपकथा, स्त्री, (नास्ति प्रतिरूपा अनुरूपा

कथा यस्यां सा ।) अप्रतिवचना वाक् । अतुल्या
कथा । तत्पर्य्यायः । सङ्गनिका २ । इति
त्रिकाण्डशेषः ॥

अप्रतिष्ठः, त्रि, अप्रतिष्ठितः । प्रतिष्ठारहितः ।

नास्ति प्रतिष्ठा यस्येति बहुव्रीहौ ह्रस्वः । यथा ।
हयशीर्षपञ्चरात्रीयसङ्कर्षणकाण्डे ।
“सर्व्वसूक्तेषु कर्त्तव्या प्रतिष्ठा विधिना बुधैः ।
फलार्थिभिस्त्वप्रतिष्ठं यस्मान्निष्फलमुच्यते” ॥
इति मठादिप्रतिष्ठातत्त्वं ॥
(“अप्रतिष्ठे रघज्येष्ठे का प्रतिष्ठा कुलस्य नः” ।
इति उत्तरचरिते ।)

अप्रतुलं, क्ली, (प्रकृष्टतुलाया अभावः, अव्ययीभावः ।)

प्रकृष्टपरिमाणाभावः । अनिर्वृतिरिति लोक-
प्रसिद्धिः । प्रकृष्टतुलारहिते त्रि । नास्ति प्रकर्षा
तुला यस्य धनादेः धनादेर्यस्य वा ॥

अप्रत्ययः, पुं, (प्रति + इन् + भावे अच्, ततोनञ्-

समासः । नास्ति प्रत्ययः विश्वासो यस्य वा) (स-
न्दहः । संशयः ।
“बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः” ॥
इति शाकुन्तले ।) प्रत्ययाभावः । अविश्वासः ।
यथा “दोषाणां सन्निधानं कपटशतमयं क्षेत्रम-
प्रत्ययानां” । इति श्रीशिह्लनः ।

अप्रत्यक्षः, त्रि, (अक्षमिन्द्रियं प्रतिगतः प्रादिसमासः,

न प्रत्यक्षः नञ्समासः ।) प्रत्यक्षशून्यः । इन्द्रिया-
गोचरः । तत्पर्य्यायः । अतीन्द्रियः २ । इत्यमरः ।
(“किन्तु तस्य बलज्ञोऽहं भ्रातृरूपस्य वैरिणः ।
अप्रत्यक्षं च मे वीर्य्यं समये तव राघव” ॥)
प्रत्यक्षाभावे क्ली ॥

अप्रधानं, क्ली, (न प्रधानं, नञ्समासः ।) प्राधान्य-

रहितं । तत्पर्य्यायः । अप्राग्र्यं २ उपसर्ज्जनं ३ ।
इत्यमरः ॥ वाच्यलिङ्गोऽप्ययं । इति भरतः ॥

अप्रमत्तः, त्रि, (प्र + मद् + क्तः, ततोनञ्समासः ।)

अवधानविशिष्टः । सावधानः । यथा, --
“पापात् पराजितो दुःखादप्रमत्तो विधेः सतः” ।
इति वोपदेवः ॥

अप्रयोगः, पुं, (प्र + युज् + घञ्, ततो नञ्समासः)

प्रयोगाभावः । अनुल्लेखादिः । यथा । “उक्तार्था-
नामप्रयोगः” । इति दुर्गादासः ॥

अप्रलम्बं, क्ली, (प्र + लम्ब + घञ्, नञ्समासः ।)

अविलम्बं । शीघ्रं । इति हलायुधः ॥ तद्वति त्रि ।
(सत्वरः । विलम्बरहितः । झटिति ।)

अप्रशस्तं, त्रि, (प्र + शनस् + क्तः, नञ्समासः ।)

असत् । अश्रेष्ठं । अविहितं । यथा, --
“अप्रशस्तं निशि स्नानं राहोरन्यत्र दर्शनात्” ।
इति तिथ्यादितत्त्वे पराशरः ॥ (मूत्रपुरीषादिकं ।
“अप्रशस्तन्तु कृत्वाप्सु मासमादीत भक्षभुक्” ।
इति मनुः ।)

अप्रसन्नं, त्रि, (प्र + सद् + क्तः, नञ्समासः ।) आविलं ।

अनच्छं । इति शब्दरत्नावली ॥ अतुष्टं । यथा, --
“त्वयि प्रसन्ने परशर्म्मभिः किं
त्वय्यप्रसन्ने परशर्म्मभिः किं” ।
इति प्राचीनाः ॥ (अतुष्टः । अप्रफुल्लः । विषण्णः ।
विरक्तः । प्रतिकूलः । “अप्रसन्नमनाः किं नु सदा
मां प्रति वत्सलः” । इति रामायणे ।)

अप्रसिद्धं, त्रि, (प्र + सिध् + क्तः, नञ्समासः ।)

प्रसिद्धतारहितं । अविख्यातं । यथा, --
“लिङ्गं सामर्थ्यं रूढिगतं प्रसिद्धं न त्वप्रसिद्धं” ।
इति तिथ्यादितत्त्वं ॥ (“अप्यप्रसिद्धं यशसे हि
पुंसामनन्यसाधारणमेव कर्म्म” इति कुमारसम्भवे ।)

अप्रस्तुतं, त्रि, (न प्रस्तुतं नञसमासः ।) अप्रक्रान्तं ।

प्रकरणाप्राप्तं । यथा, -- “अप्रस्तुतप्रशंसा सा या
चैव प्रंस्तुताश्रया” ।
इति काव्यप्रकाशः ॥ अप्रशंसितं । प्रपूर्ब्बस्तुत्यर्थ-
स्तुधातोः कर्म्मणि क्ते नञ्समासः ॥
“अप्रस्तुतप्रस्तुतयोर्द्दोपकन्तु निगद्यते ।
अथ कारकमेकं स्यादनेकासु क्रियासु चेत्” ॥
इति साहित्यदर्पणे ।)

अप्रस्तुतप्रशंसा, स्त्री, काव्यालङ्कारविशेषः । सा च

अप्राकरणिकस्यार्थस्य अभिधानेन प्राकरणिक-
स्याक्षेपः । तस्या लक्षणं । “अप्रस्तुतप्रशंसा सा या
चैव प्रस्तुताश्रया । सा च कार्य्ये निमित्ते सामान्ये
विशेषे प्रस्तुते सति” ।
“तदन्यस्य वचस्तुल्ये तुल्यस्येति च पञ्चधा” ॥
आद्याया उदाहरणं यथा, --
“याताः किन्न मिलन्ति सुन्दरि पुनश्चिन्ता त्वया
मत्कृते नो कार्य्यातितरां कृशासि कथयत्येवं
सवाष्पे मयि । लज्जामन्थरतारकेण निपतद्धा-
राश्रुणा चक्षुषा दृष्ट्वा मां हसितेन भाविमरणो-
त्साहस्त्वया सूचितः” ॥
इति काव्यप्रकाशः ॥ इतरासां उदाहरणानि
बाहुल्यान्नोक्तानि ॥

अप्रहतं, त्रि, (न प्रहन्यते स्म, प्र + हन् + क्तः,

नञ्समासः ।) अकृष्टभूमिः । खिला भूमिः ।
इत्यमरः ॥ (वस्त्रभेदः । तल्लक्षणं तथा, --
“ईषद्धौतं नवं श्वेतं सदशं यन्त्रधारितं ।
निर्नेजकाक्षालितं चाप्रहतं वास उच्यते” ॥
इति ।)

अप्राग्र्यं, त्रि, (प्राग्र्यः प्रधानं नञ्समासः ।) अप्र-

धानं । इत्यमरः ॥

अप्राचीनं, त्रि, अपुरातनं । नव्यं । प्राचीतरदिग्-

जातं । प्राग्भवं प्राचीनं ततो नञ्समासः ॥

अप्राप्तः, त्रि, (प्र + आप् + कर्म्मणि क्तः, नञ्-

समासः ।) अलब्धः । यथा । “अप्राप्तप्रापको
विधिः” । इति सङ्कल्पकौमुदी दुर्गादासश्च ॥
(अनधिगतः ।
“अप्राप्तयोस्तु या प्राप्तिः सैव संयोग ईरितः” ।
इति भाषापरिछेदे । अनुपस्थितः । अनागतः ।
न्यूनवयाः । अप्राप्तकालः ।
“उत्कृष्टायाभिरूपाय वराय सदृशाय च ।
अप्राप्तामपि तां तस्मै कन्यां दद्यात् यथाविधि” ॥
इति मनुः ।)

अप्राप्तव्यवहार, पुं, (अप्राप्तः व्यवहारोयेन सः, अथवा

अप्राप्तः व्यवहारः व्यवहारयोग्यं वयो येन सः ।)
व्यवहारानभिज्ञः । अप्राप्तवयस्कः । नावालग् इति
आरवी भाषा । यथा, --
“अप्राप्तव्यवहाराणां धनं व्ययविवर्ज्जितं ।
न्यसेयुर्बन्धुमित्रेषु प्रोषितानां तथैव च” ॥
इति दायतत्त्वधृतकात्यायनवचनं ॥ किञ्च ।
“गर्भस्थैः सदृशो ज्ञेयः अष्टमाद्वत्सरात् शिशुः ।
बाल आषोडशाद्वर्षात् पोगण्डोऽपि निगद्यते ॥
परतो व्यवहारज्ञः स्वतन्त्रः पितरावृते” ॥
इति व्यवहारतत्त्वघृतनारदवचनं ॥

अप्राप्तिः, स्त्री, (प्र + आप् + भावे क्तिन्, नञ्-

समासः ।) अप्रापणं । अलाभः । तद्वति त्रि ।
यथा, --
“तदप्राप्तिमहादुःखविलीनाशेषपातका” ।
इति काव्यप्रकाशकारः ॥

अप्राप्यं, त्रि, (प्र + आप् + कर्म्मणि ण्यत्, नञ्-

समासः ।) अप्रापणीयम् । अप्राप्तव्यं । प्रपूर्ब्बादाप-
धातोः कर्म्मणि ये नञ्समासः ॥

अप्रामाणिकः, त्रि, (प्रमाणेन सिद्धः, प्रमाण + ठक्

तस्य इकः, नञ्समासः) प्रमाणानभिज्ञः । प्रमाणा-
सिद्धः । प्रामाण्यरहितः । यथा । “अतोऽवि-
भक्तार्जितत्वमात्रेण धनस्य साधारणत्वाभिधान-
मप्रामाणिकं” । इति दायभागः ॥

अप्रामाण्यं, क्ली, (प्रमाणस्य भावः, प्रमाण + भावे

ष्यञ्, नञ्समासः ।) प्रामाण्याभावः । यथा, --
“अप्रामाण्यं जनयति सदा नन्दसूनोर्वियोगः” ।
इति पदाङ्कदूतं ॥

अप्रियं, त्रि, (प्री + कर्त्तरि कः, नञ्समासः ।)

अनभीष्टं । अनीप्सितं । अप्रीतिकरं । अहृद्यं ।
यथा, --
“सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यमप्रियं” । इति पुराणं ॥

अप्रियवचः, क्ली, (अप्रियं अप्रीतिकरं वचः वाक्यं

कर्म्मधारयः ।) निष्ठुरवाक्यं । इति पारुष्यशब्दार्थे
भरतः ॥

अप्रिया, स्त्री, (न प्रिया न प्रीतिकरी लोकानां,

नञ्समासः ।) शृङ्गीमत्स्यः । इति शब्दरत्नावली ॥
(अप्रीतिकरी नारी ।)
पृष्ठ १/०७१

अप्रीतं, त्रि, प्रीतिरहितं । असन्तुष्टं । प्रीत्यर्थ-

प्रीधातोः कर्त्तरि क्ते नञ्समासः ॥

अप्रेतराक्षसी, स्त्री, (न प्रेता प्राप्ता राक्षसमिव

पातकं प्रादिसमासः, गौरादित्वात् ङीष् ।) अ-
पेतराक्षसी । तुलसी । इति रत्नमाला ॥

अप्सरसः, स्त्री, (अद्भ्यः समुद्रजलेभ्यः सरन्ति उद्-

यान्ति, अप् + सृ + असुन् ।) स्वर्व्वेश्याः । उर्व्वशी-
मेनकाद्याः । बहुवचनान्तोऽयं शब्दः । इत्यमरः ॥
(“अप्सु निर्मथनादेव रसात् तस्मात् वरस्त्रियः ।
उत्पेतुर्मनुजश्रेष्ठ तस्मादप्सरसोऽभवन्” ॥)

अप्सरा, स्त्री, स्वर्व्वेश्या । इति शब्दरत्नावली ।

(“स्त्रियां बहुष्वप्सरसः स्यादैकत्वेऽप्सरा अपि” ।
इति शब्दार्णवे ।)

अफलः, त्रि, (नास्ति फलं वृक्षीत्पन्नं धर्म्मोत्पन्नं वा

यस्य सः ।) विफलः । निष्फलः । इति हेमचन्द्रः ॥
फलकाले अनुत्पन्नफलकवृक्षः । तत्पर्य्यायः । बन्ध्यः २
अवकेशी ३ । इत्यमरः ॥ झावुकवृक्षः । इति
शब्दचन्द्रिका ॥

अफला, स्त्री, (नास्ति फलं यस्या सा ।) भूम्यामलकी ।

अफेनं, क्ली, (निन्दितं फेनं निर्य्यासो यस्य तत् ।)

वृक्षनिर्यासविशेषः । आफिं इति भाषा । तत्-
पर्य्यायः । खस्खसरसं २ निफेनं ३ अहिफेनकं ४
अस्य गुणाः । सन्निपातनाशित्वं । शुक्रबलमोह-
कारित्वञ्च ॥ तत्तु चतुर्व्विधं । एकं श्वेतवर्णं ।
अन्नजीर्णताकारकत्वान्नाम जारणं । द्वितीयं कृष्ण-
वर्णं । मृत्युकारकत्वान्नाम मारणं । तृतीयं पीतवर्णं ।
वयःस्तम्भनकारकत्वान्नाम धारणं । चतुर्थं कर्व्वूर-
वर्णं । मलसारकत्वान्नाम सारणं । इति राज-
निर्घण्टः ॥ (त्रि, फेनरहितः । “अनुष्णाभिरफेना-
भिरद्भिस्तीर्थेन धर्म्मवित्” । इति मनुः ।)

अब इ ङ शब्दे । इति कविकल्पद्रुमः ॥ इ अम्ब्यते ।

ङ अम्बते अम्बांपुत्त्रः । इति चतुर्भुजः दुर्गादासश्च ॥

अबद्धं, त्रि, (बन्ध + क्तः, नञ्समासः ।) प्रकृतानु-

पयोगिवचनं । समुदायार्थशून्यवाक्यं । अनर्थक-
कथा । इत्यमरः ॥
(“जरद्गवः कम्बलपादुकाभ्यां ।
द्वारि स्थितो गायति मङ्गलानि ॥
तं ब्राह्मणी पृच्छति पुत्त्रकामा ।
राजन् रुमायां लशुनस्य कोऽर्थः” ॥
इत्याद्यस्य विषयः । अनियन्त्रितः । स्वाधीनः ।
मुक्तः ।) बन्धनशून्यं ॥

अबद्धकं, त्रि, (बन्ध + क्तः, नञ्समासः, स्वार्थे कन् ।)

समुदायार्थशून्यवाक्यं । इति शब्दरत्नावली ॥

अबद्धमुखः, त्रि, (न बद्धं नञ्समासः, अबद्धं यथा-

भिलाषकथनेन अप्रतिबद्धं मुखं यस्य सः ।) अ-
प्रियवादी । दुर्म्मुखः । इत्यमरः ॥ (स्त्रियां वा
ङीप् अबद्धमुखी अबद्धमुखा) ।

अबध्यं, त्रि, (हन्तुमयोग्यं हन् + अर्हाद्यर्थे कर्म्मणि

यत्, “हनोवा बधच” इति बधादेशे । बधम-
र्हति इति बध्यः, न बध्यः, नञ्समासः ।) अन-
र्थकवाक्यं । बधायोग्यं । इति मेदिनी ॥
(“अबद्धाञ्च स्त्रियं प्राहुस्तिर्य्यग्योनिगतामपि” ।
इति स्मृतिः । बधदण्डायोग्ये ब्राह्मणे च,
“बधः स्वर्व्वस्वहरणं पुरान्निर्वासनाङ्कने” ।
“तदङ्कच्छेदैत्युक्तो दण्ड उत्तमसाहसः ।
अविशेषेण सर्व्वेषामेष दण्डविधिः स्मृतः ॥
बधादृते ब्राह्यणस्य न बधं ब्राह्मणोऽर्हति” ॥
इति मिताक्षरायां ।)

अबन्धः, त्रि, (बन्ध + ण्यत्, न बन्ध्यः अफलः नञ्-

समासः ।) सफलः । फलकाले फलयुक्तवृक्षः ।
तत्पर्य्यायः । फलेग्रहिः २ । इत्यमरः ॥ फल-
ग्रहिः ३ । इति तट्टीका ॥ अमोघफलोदयः ४ ।
इति राजनिर्घण्टः ॥ (“इयेष सा कर्त्तुमबन्ध्य-
रूपतां” । इति कुमारसम्भवे । “याज्यमाशं-
सिताबन्ध्यप्रार्थनं” । “कर्म्मभिरप्यबन्ध्यैः” । इति
रघुवंशे ।)

अबलं, त्रि, (नास्ति बलं सामर्थ्यं यस्य तत् ।) बल-

रहितं । दुर्ब्बलं । यथा । “अबलस्वकुलाशिनो
झसान्” । इति नैषधं ॥

अबलः, पुं, (नास्ति बलं यस्य सः, क्षणभङ्गुरत्वात्

तस्य तथात्वं ।) वरुणवृक्षः । इति शब्दचन्द्रिका ॥

अबला, स्त्री, (नास्ति बलं यस्याः सा ।) नारी ।

इत्यमरः ॥ (“तस्मिन्नद्रौ कतिचिदबलाविप्रयुक्तः स
कामी” । इति मेघदूते ।)

अबाधं, त्रि, (नास्ति बाधा यस्य तत् ।) बाधशून्यं ।

अनिवारितं । तत्पर्य्यायः । निरर्गलं २ । इत्यमरः ।
अनर्गलं ३ उच्छृङ्खलं ४ उद्दाम ५ अनियन्त्रितं
६ निरङ्कुशं ७ । इति हेमचन्द्रः ॥ बाधा पीडा तया
हीनञ्च ॥ (अङ्कशास्त्रे त्रिभुजांशविशेषः । अस्फु-
टत्वं । अविष्पटता । जटिलीभावः ।)

अबिन्धनः, पुं, (आपएव इन्धनमुद्दीपनसाधनं

यस्य सः ।) वाडवाग्निः । इति सन्देहभञ्जिका ॥
(“अबिन्धनं वह्निमसौ बिभर्त्ति” । इति रघुवंशे ।)

अबोधः, पुं, (बुध + भावे घञ्, नञ्समासः ।)

अज्ञानं । यथा । “निसर्गदुर्बोधमबोधविक्लवाः” ।
इति भारविः ॥ बहुव्रीहौ त्रि ॥ (अज्ञानः ।
मूढः ॥ अनभिज्ञः । हतबुद्धिः । किङ्कर्त्तव्यविमूढः ।)

अब्ज, क्ली, (अप्सुजायते, अप् + जन + कर्त्तरि डः,

उपपदसमासः ।) पद्मं । इति मेदिनी ॥ दशा-
र्व्वुदसंख्या । शतकोटिः । इति लीलावती ॥

अब्जंः, पुं, (अद्भ्यः जायते, अप् + जन् + डः ।)

चन्द्रः । धन्वन्तरिः । निचुलवृक्षः । इति मेदिनी ॥

अब्जः, पुं, क्ली, (अद्भ्यः जायते, अप् + जन + डः ।)

शङ्खः । इति मेदिनी ॥ (जलभवशुक्तिमुक्तादिकं ।)
“अब्जमश्ममयञ्चैव राजतञ्चानुपस्कृतं” ।
“अब्जेषु चैव रत्नेषु सर्व्वेष्वश्ममयेषु च” ।
इति मनुः ।)

अब्जजः, पुं, (अब्जात् विष्णुनाभिपद्मात् जायते,

अब्ज + जन् + कर्त्तरि डः ।) ब्रह्मा । इति त्रि-
काण्डशेषः ॥

अब्जभोगः, पुं, (अब्जस्य शङ्खस्य भोग इव शरीर-

मिव भोगो यस्य सः ।) पद्मकन्दः । इति शब्द-
चन्द्रिका ॥

अब्जयोनिः, पुं, (अब्जं विष्णुनाभिपद्ममेव योनि-

रुत्पत्तिस्थानं यस्य सः ।) विधाता । ब्रह्मा । इत्य-
मरः ॥

अब्जवाहनः, पुं, (अब्जमिव शङ्खवत् शुभ्रं वाहनं

वृषो यस्य सः ।) शिवः । इति त्रिकाण्डशेषः ॥

अब्जहस्तः, पुं, (अब्जं पद्यं हस्ते यस्य सः ।) सूर्य्यः ।

इति हेमचन्द्रः ॥

अब्जिनी, स्त्री, (अब्जानां समूहः, अब्ज + पुष्करादि-

त्वात् इनि, स्त्रियां ङीप् ।) पद्मिनी । इति
राजनिर्घण्टः ॥ पद्मसमूहः । पठ्मलता । पद्मयुक्त-
देशः । इति नलिनीशब्दटीकायां भरतः ॥

अब्जिनीपतिः, पुं, (अब्जिन्याः पद्मसमूहस्य पतिः,

षष्ठीतत्पुरुषः ।) सूर्य्यः । इति हेमचन्द्रः ॥

अब्दः, पुं, (अबति सीमानं रक्षति अब + “अब्जा-

दय” इति दन् मेघपर्ब्बतविशेषपक्षे तु अपो
ददाति, अप् + दा + कर्त्तरि कः ।) वत्सरः ।
मेघः । मुस्ता । इति मेदिनी ॥ पर्ब्बतविशेषः ।
इति विश्वः ॥

अब्दसारः, पुं, (अब्दस्य मुस्तायाः सारः मूल-

निर्य्यासः ।) कर्पूरभेदः । इति राजनिर्घण्टः ॥

अब्धिः, पुं, (आपो जलानि धीयन्तेऽत्र, अप् + धा

+ अधिकरणे किः, उपपदसमासः ।) समुद्रः ।
इत्यमरः ॥

अब्धिकफः, पुं, (अब्धेः समुद्रस्य कफ इव कफाकार-

तया तस्य तादृशत्वं ।) समुद्रफेनः । तत्पर्य्यायः ।
हिण्डीरः २ । फेनः ३ । इत्यमरः ॥

अब्धिजौ, पुं, (अब्धौ जायेते अब्धि + जन + कर्त्तरि

डः, उपपदसमासः ।) अश्विनीकुमारौ । द्विवचना-
न्तोऽयं शब्दः । इति हेमचन्द्रः ॥

अब्धिद्वीपा, स्त्री, (अब्धिसंख्याता लवणादिसप्त-

संख्याता द्वीपा यस्याः सा ।) पृथिवी । इति
त्रिकाण्डशेषः ॥

अब्धिनगरी, स्त्री, (अब्धेः समुद्रस्य सन्निहिता

नगरी ।) द्वारकापुरी । इति त्रिकाण्डशेषः ।

अब्धिनवनीतकः, पुं, (अब्धेः समुद्रस्य नवनीतमिव,

षष्ठीतत्पुरुषः ।) चन्द्रः । इति शब्दरत्नावली ॥

अब्धिफेनः, पुं, (अब्धेः समुद्रस्य फेनः, षष्ठीतत्पुरुषः ।)

समुद्रफेनः । इति राजनिर्घण्टः ॥

अब्धिमण्डूकी, स्त्री, (अब्धिं समुद्रं मण्डयति, अब्धि

+ मण्ड + ऊक, स्त्रियां ङीष् ।) मुक्तास्फोटः ।
शुक्तिः । इति हेमचन्द्रः ॥ झिनुक इति भाषा ॥

अब्धिशयनः, पुं, (अब्धौ प्रलये समुद्रे शेते, शी +

बाहुल्यात् कर्त्तरि ल्युट्, सप्तमीतत्पुरुषः ।) विष्णुः ।
इति हेमचन्द्रः ॥ (नारायणोहि प्रलये अब्धौ
शेते, यटुक्तं, --
“आपो नारा इति प्रोक्ता आपो वै नरसूनवः ।
ता यदस्यायनं पूर्ब्बं तेन नारायणः स्मृतः” ।
इति मनुः ।)

अब्ध्यग्निः, पुं, (अब्धेः समुद्रस्य अग्निः, षष्ठीतत्पुरुषः ।)

वडवानलः । इति हेमचन्द्रः ॥

अब्भक्षः, पुं, (अपोभक्षयति, अप + भक्षि +

शिलिकामिभक्ष्याचरिभ्यो ण इति कर्त्तरि णः,
उपपदसमासः ।) सर्पः । इति त्रिकाण्डशेषः ।
पृष्ठ १/०७२

अब्भ्रं, क्ली, (अपो बिभर्त्ति, अप् + भृ + कर्त्तरि

कः ।) मेघः । इत्यमरः । मुस्तातृणं । अभ्रकधातुः ।
इति राजनिर्घण्टः ॥

अब्भ्रमातङ्गः, पुं, (अब्भ्रस्य, मेघस्य अधिपः मा-

तङ्गः शाकपार्थिवादित्वात् समासः, मध्यपद-
लोपश्च ।) ऐरावतः । इत्यमरः ॥

अब्भ्रिः, स्त्री, (अपः नौकामलापनयनाय बिभर्त्ति

धारयति, अप् + भृ + किः ।) काष्ठकुद्दालः ।
नौकामलापनयनार्थकुद्दालाकृतिकाष्ठं । इत्यमरः ॥
(पण्यादिद्रव्याणां समष्टीकरणपात्रं । तीक्ष्णाग्रो
लोहेदण्डः ।
“अब्भ्रिं कार्ष्णायसीं दद्यात् सर्पं हत्वा द्विजोतमः ।
पलालभारकं षण्डे सैसकञ्चैकमासकं” ॥
इति मनुः ।)

अब्भ्रियं, त्रि, (अभ्रे मेघे भवं, अभ्र + घ तस्य इय ।)

मेधोद्भववस्तु । इत्यमरः ॥

अब्रह्मचर्य्यकं, क्ली, (ब्रह्मचर्य्यविरोधि, विरोधे नञ्-

समासः । ततः स्वार्थे कन् ।) मैथुनं । इति
त्रिकाण्डशेषः ॥ ब्रह्मचर्य्यशून्ये त्रि ॥

अब्रह्मण्यं, क्ली, (ब्रह्मणि ब्राह्मणोचितकर्म्मणि

अहिंसादौ साधु, ब्रह्मण् + यत्, नञ्समासः ।)
नाट्योक्तौनायं बध्य इत्याकारोक्तिः । अबधयाच्ञा ।
तत्पर्य्यायः । अबध्योक्तिः २ । इत्यमरः ॥ (“नेपथ्ये
अब्रह्मण्यमब्रह्मण्यं । अत्रान्तरे ब्राह्यणेन मृतं
पुत्त्रमुत्क्षिप्य राजद्वारे सोरस्ताडनमब्रह्मण्य-
मुद्घोषितं” ।
इति उत्तरचरिते । वेदविरुद्धं अतिनिन्दितं कर्म्म ।
निरतिशयव्यसनशोकादिप्रकाशोक्तिरियं ।)

अभ इ ङ ध्वनौ । इति कविकल्पद्रुमः ॥ इ अम्भ्यते ।

ङ अम्भते । इति दुर्गादासः ॥

अभयं, क्ली, (भयस्याभावः इत्यव्ययीभावः, यद्वा नास्ति

भयं यस्मात् तत्, हरीतक्यां दुर्गामूर्त्तिभेदे च
स्त्री ।) वीरणमूलं । इत्यमरः ॥ भयाभावः ।
(“नातः परतरो धर्म्मो नृपाणां यद्रणार्ज्जितं” ।
विप्रेभ्यो दीयते द्रव्यं प्रजाभ्यश्चाभयं सदा” ।
इति याज्ञवल्क्यः ।
“योदत्वा सर्व्वभूतेभ्यः प्रव्रजत्यभयं गृहात् ।
तस्य तेजोमया लोका भवन्ति ब्रह्मवादिनः” ॥
इति मनुः ।)
“प्रवृत्तिञ्च निवृत्तिञ्च कार्य्याकार्य्ये भयाभये ।
बन्धं मोक्षञ्च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी” ॥
इति श्रीभगवद्गीता ॥ भयरहिते त्रि । इति
विश्वः ॥

अभयडिण्डिमः, पुं, (अभयाय स्वयोद्धृभयाभावाय-

डिण्डिमः ।) युद्धढक्का । सङ्ग्रामपटहः । इति
त्रिकाण्डशेषः ॥

अभया, स्त्री, (नास्ति भयं यस्याः सा ।) हरीतकी ।

इत्यमरः ॥ चम्पादेशजातपञ्चशिरा हरीतकी । सा
नेत्ररोगे प्रशस्ता । इति राजवल्लभः ॥ (दुर्गा ।)

अभक्ष्यं, त्रि, (भक्ष + कर्म्मणि ण्यत्, नञ्समासः ।

अभक्षणीयं । अखाद्यं । यथा, --
“अधार्य्यं चर्म्म मे सद्भिः करिष्यसि किमस्थिभिः ।
अभक्ष्यं चैव मे मांसं त्वादृशैर्ब्रह्मचारिभिः” ॥
इति रामायणं ॥ (भोजनायोग्यं वस्तु, भक्षणाय
मन्वादिभिः शास्त्रकारैः निषिद्धं द्विजातिभिः वर्ज्ज-
नीयं वस्तु । तानि च यथा, लशुनगृञ्जनपलाण्ड्वा-
ख्यानि त्रीणि स्थूलकन्दशाकानि । विष्ठादिजातानि
तण्डुलीयादीनि च । लोहितवृक्षनिर्य्यासः । छेदनो-
द्भववृक्षनिर्य्यासः । शेलुफलं । गव्यं । पेयुषञ्च ।
देवाद्यनुद्देशेन आत्मार्थं पक्वाः कृसरसंयावपाय-
सापूपाः । असंस्कृत पशुमांसं । नैवेद्यार्थमन्नानि
निवेदनात् प्राक् । हवींषि च होमात् प्राक्
इत्यादि ।)

अभाजनं, क्ली, (न भाजनं, नञ्समासः ।) अपात्रं ।

अयोग्यं । यथा, --
“दीधीवेवीट्समः कश्चित् गुणवृद्ध्योरभाजनं ।
क्विप्प्रत्ययनिभः कश्चिद्यत्र सन्निहिते न ते” ॥
इति काव्यप्रकाशः ॥ पात्ररहिते त्रि ॥

अभावः, पुं, (भू + भावेघञ, नञ्समासः ।) मरणं ।

असत्ता । इति विश्वमेदिनौ ॥
“अस्ति पुत्त्रो वशे यस्य भृत्योभार्य्या तथैवच ।
अभावे सति सन्तोषः स्वर्गस्थोऽसौ महीतले” ॥
इति चाणक्यः ।
(“अग्न्यभावे तु विप्रस्य पाणावेवोपपादयेत् ।
साक्ष्यभावे प्रणिधिभिर्वयोरूपसमन्वितैः” ॥
इति मनुः ।) द्रव्यादिषट्कभिन्नः । स द्विविधः ।
संसर्गाभावः १ अन्योन्याभावश्च २ । इति भाषा-
परिच्छेदः ॥ भावशून्यः भावः स्थायिभावादिरिति
अलङ्कारशास्त्रं ॥

अभावनीयः, त्रि, अचिन्तनीयः । चौरादिकचिन्त-

नार्थभूधातोः कर्म्मण्यनीये नञ्समासः ॥

अभाषणं, क्ली, (भाष् + ल्युट्, नञ्समासः ।) अक-

थनं । मौनं । इत्यमरः ॥

अभि, व्य, (न भाति, न + भा + कि ।) उपसर्ग-

विशेषः । अस्यार्थाः । समन्तात् । उभयार्थः ।
वीप्सा । इत्थम्भावः । धर्षणं । इति दुर्गादासः ॥
अभिलाषः । आभिमुख्यं । इति मेदिनी ॥ चिह्नं ।
इति वोपदेवहेमचन्द्रौ ॥

अभिकः, त्रि, (अभिकामयते इति अनुकाभिकेति

साधुः ।) कामी । कामुकः । इत्यमरः ॥

अभिक्रमः, पुं, (अभि + क्रम + घञ् । नोदात्तेति

वृद्ध्यभावः । अभिक्रम्यते कर्म्मणा प्रारभ्यते इति
व्युत्पत्त्या कर्म्मारब्धफले प्रारम्भे च ।) अभीतयो-
धादेर्युद्धे शत्रुसम्मुखगमनं ।
आरोहणं । इति हेमचन्द्रः ॥

अभिख्या, स्त्री, (अभि + ख्या + अङ् ।) नाम ।

शोभा । कीर्त्तिः । इति मेदिनी ॥ आख्यानं ।
इति शब्दरत्नावली ॥ (शोभा । सौन्दर्य्यं । रमैति रघुवंशे ।
णीयता ।
“काप्यभिख्या तयोरासीत् व्रजतोः शुद्धवेशयोः” ।
“कामप्यमिख्यां स्फुरितैरपुष्य-
दासन्नलावण्यफलोऽधरोष्ठः” ।
इति कुमारसम्भवे । यशः ॥)

अभिग्रस्तः, त्रि, (अभि + ग्रस् + कर्म्मणि क्तः ।)

शत्रुणाक्रान्तः । इत्यभिपन्नशब्दार्थे अमरः ॥
(अभियुक्तः ।)

अभिग्रहः, पुं, (अभि + ग्रह् + भावे अप् ।) अभि-

योगः । इत्यमरः ॥ कलहाह्वानं । अपचिकीर्षया
अतिक्रम्याक्रमणं । आभिमुख्येन युद्धादिप्रवृत्तिः ।
इति तट्टीकायां भरतः ॥ गौरवं । अभिग्रहणं ।
इति मेदिनी ॥ लुट् इति भाषा । (चौर्य्यकरणं ।)

अभिग्रहणं, क्ली, (अभि + ग्रह + भावे ल्युट् ।)

अभिहारः । इत्यमरः ॥ चौर्य्यकरणं । सम्मुखे
हरणं । इति तट्टीकायां भरतः ॥ (साहसं ।
अपचिकीर्षया अतिक्रम्याक्रमणं ।)

अभिघातः, पुं, (अभि + हन् + भावे घञ् ।) दण्डा-

दिभिरभिहननं । आघातः । यथा, --
“अभिघाताभिचाराभ्यामभिषङ्गाभिशापतः” ।
इति माधवकरः ॥ प्रश्नादौ कवर्गादिवर्गाणां पूर्ब्ब-
स्थितचतुर्थद्वितीयतृतीयचतुर्थवर्णाः क्रमेण पर-
स्थितवर्गैकैकद्वित्रिवर्णयुक्ताः । तत्र क्ली । यथा --
“अभिघातं स्यात् पूर्ब्बं वेदद्वित्र्यब्धिवर्णाश्चेत् ।
नगवर्गाणां परतो धरणीचन्द्रद्विरामाढ्याः” ॥
इति केरलग्रन्थः ॥ (प्रहारः । अभिहननं । आ-
घातः ।
“चञ्चद्भुजभ्रमितचण्डगदाभिघात-
संचूर्णितोरुयुगलस्य सुयोधनस्य” ।
इति वेणीसंहारे । सङ्घर्षणं । संमर्द्दः । पीडनं ।
क्लेशदानं । शोकक्षोभः ।
“सम्भवांश्च वियोनीषु दुःखप्रायासु नित्यशः ।
शीतातपाभिघातांश्च विविधानि भयानि च” ॥
इति मनुः । प्रतीकारः । अपसारणं ।)

अभिघाती, [न्] पुं, (आभिमुख्येन हन्ति, अभि +

हन् + णिनि ।) शत्रुः । इत्यमरः ॥ (विपक्षः ॥
आक्रमणकारी ।
“एकदा न विगृह्णीयात् बहून् राजाभिघातिनः ।
सदर्पोऽप्युरगः कीटैर्बहुभिर्नश्यति ध्रुवं” ॥
इति हितोपदेशे । पीडाजनकः । आघातकारी ।
“सुव्यवस्थितमन्त्रेण परमर्म्माभिघातिना ।
भवितव्यं नरेन्द्रेण न कामवशवर्त्तिना” ।
इति रामायणे । प्रतीकारः । अपसारणं ।)

अभिघारः, पुं, (अभि घार्य्यते समन्तात् वह्नौ

सिच्यते, अभि + घृ क्षरणे णिच् + अच् ।) घृतं ।
इति राजनिर्घण्टः ॥

अभिचरः, पुं, (आभिमुख्येन सेवायै चरति, अभि +

चर् + ट ।) दासः । भृत्यः । इति हेमचन्द्रः ॥

अभिचारः, पुं, (आभिमुख्येन शत्रुबधार्थं चारः

कार्य्यकरणं अभि + चर + भावे घञ् ।) हिंसा-
कर्म्म । इत्यमरः ॥ अथर्व्ववेदोक्तमन्त्रयेन्त्रादि-
निष्पादितमारणोच्चाटनादिहिंसात्मककर्म । इति
भरतः ॥ मारणादिफलकतान्त्रिकप्रयोगविशेषः ।
स षड्विधः । मारणं १ मोहनं २ स्तम्भनं ३
विद्वेषणं ४ उच्चाटनं ५ वशीकरणं ६ । इति
तन्त्रसारः ॥ उपपातकविशेषः । इति प्रायश्चित्त-
विवेकः ॥ स तु श्येनादियज्ञेनानपराधस्य मारणं ।
इति कुल्लूकभट्टः ॥ यथा, --
पृष्ठ १/०७३
:“हिंसौषधीनां स्त्र्याजीवोऽभिचारोमूलकर्मच” ।
इति मनौ ११ अध्यायः ॥ * ॥ अथाभिचारः ।
“ॐ विरुद्धे रूपिणि चण्डिके वैरिणममुकं देहि
देहि स्वाहा” । इति खड्गमभिमन्त्र्य खङ्गमन्त्रांश्च
पठित्वा खड्गं संपूज्य छागादिकममुकोऽसि इति
वैरिनाम्नाभिमन्त्र्य रक्तसूत्रेण त्रिधा मुखं बद्ध्वा
वैरिनाम्ना प्राणप्रतिष्ठां कृत्वा ।
“ॐ अयं स वैरी यो द्वेष्टि तमिमं पशुरूपिणं ।
विनाशय महादेवि स्फें स्फें खादय खादय” ॥
इति पठित्वा बलिशिरसि पुष्पं दत्त्वा बलिमन्त्रं
पठित्वा बलिं संपूज्य अद्याश्विने मासि महा-
नवम्यां अमुकगोत्रोऽमुकदेवशर्म्मा अमुकशत्रु-
नाशाय इमं छागं महिषं वा अमुकदैवतं भग-
वत्यै दुर्गायै तुभ्यमहं सम्प्रददे । इत्युत्सृज्य आं
क्रूं फट् इति छित्त्वा मूलं पठित्वा एतद्रुधिरं दुर्गायै
नमः । इति रक्तं शिरश्च दत्त्वा अष्टाङ्गमांसै-
र्होमं मूलमन्त्रेण कुर्य्यादिति तन्त्रसारः ॥

अभिचारी, [न्] त्रि, (अभिचरति शत्रुबधार्थं

कर्म्म करोति, अभि + चर + णिनि ।) अभि-
चारकर्त्ता । तन्त्रादिशास्त्रोक्तानिष्टकारी । अभि-
पूर्ब्बचरधातोः कर्त्तरि णिन् ॥

अभिजनः, पुं, (अभिजायतेऽत्र, अभि + जन् +

आधारे घञ्, वृद्ध्यभावः ।) ख्यातिः । जन्मभूमिः ।
कुलश्रेष्ठः । वंशः । इति मेदिनी ॥ (अन्वयः ।
“अभिजनतपोविद्यावीर्य्यक्रियातिशयैर्निजैः” ।
इति महावीरचरिते ।
“कथं दशरथाज्जातः शुद्धाभिजनकर्म्मणः” ।
इति रामायणे ।)

अभिजातः, त्रि, (अभिजन् + भावे क्तः, अभिमतं

प्रशस्तं जातं जन्म यस्य सः ।) सुन्दरः । न्याय्यः ।
इति विश्वः ॥ कुलजः । कुलीनः । बुधः । पण्डितः ।
इत्यमरः ॥ (श्रेष्ठवंशोद्भवः ।
“जात्यस्तेनाभिजातेन शूरः शौर्य्यवता कुशः ।
अमन्यतैकमात्मानमनेकं वशिनां बशी” ॥
इति रघुवंशे ।
“न म्लेच्छितव्यं यज्ञादौ स्त्रीषु नापकृतं वदेत् ।
मङ्खीर्णं नाभिजातेषु नाप्रबुद्धेषु संस्कृतं” ॥
इति मनुः । उचितः । उपयुक्तः । योग्यः । सुरूपः ।
मनोहरः । मान्यः । पूज्यः । धन्यः । श्लाघ्यः ।
भगवान् । समृद्धः ।)

अभिजित्, क्ली, (अभि + जि + क्विप् ।) दिवसस्या-

ष्टममुहूर्त्तं । कुतपकालैति प्रसिद्धं ॥ यथा, --
“अपराह्णे तु संप्राप्ते अभिजिद्रोहिणोदये ।
यदत्र दीयते जन्तोस्तदक्षयमुदाहृतं” ॥
इति मत्स्यपुराणं ॥ नक्षत्रविशेषः । तत्तु तार-
कात्रयात्मकशृङ्गाटकाकृति । उत्तराषाढायाः
शेषपञ्चदशदण्डाः श्रवणायाः प्रथमदण्डचतुष्टयं
एतदूनविंशतिदण्डात्मकमभिजिद्भवति ॥ इति
ज्योतिषं ॥ तत्र जातफलं ।
“अतिसुललितकान्तिः सम्मतः सज्जनानां
ननु भवति विनीतश्चारुकीर्त्तिः सुवेशः ।
द्विजवरसुरभक्तो व्यक्तवाङ्मानवः स्याद-
भिजिति यदि सूतिर्भूपतिः स्वस्ववंशे” ॥
इति कोष्ठीप्रदीपः ॥

अभिज्ञः, त्रि, (अभि साकल्येन जानाति, अभि +

ज्ञा + कर्त्तरि कः ।) प्रवीणः । निपुणः । विज्ञः ।
इत्यमरः ॥ (बोद्धा । दक्षः । कुशलः ।
“अभिज्ञाश्छेदपातानां क्रियन्ते नन्दनद्रुमाः” ।
“अनभिज्ञास्तमिस्राणां दुर्द्दिनेष्वभिसारिकाः” ।
इति कुमारसम्भवे ।)

अभिज्ञानं, क्ली, (अभिज्ञायतेऽनेन, अभि + ज्ञा +

करणे ल्युट् ।) चिह्नं । इति हेमचन्द्रः । (अङ्कः ।
लक्षणं ।
“एतस्मान्मां कुशलिनमभिज्ञानदानाद्विदित्वा
मा कौलीनाच्चकितनयने मय्यविश्वासिनी भूः” ।
इति मेघदूते । स्मृतिः । ज्ञानभेदः ।
“एवमुक्तस्तु रामेण हनूमान् वानरर्षभः ।
पूर्ब्बवृत्तमभिज्ञानं भूयः संप्रत्यभाषत” ॥
इति रामायणे । सोऽयमितिज्ञानसाधनं चिह्नं ।
स्मरणार्थमङ्गुरीयादिकं चिह्नं । “अयं मैथिल्य-
भिज्ञानं काकुत्स्थस्याङ्गुरीयकः” । इति भट्टि-
काव्ये ।)

अभितः, [स्]व्य, (अभि + तसिल् ।) शीघ्रं । साकल्यं ।

आभिमुख्यं । उभयतः । “अङ्गान्ययाक्षीदभितः
प्रधानं” । इति भट्ठिकाव्ये ।) समीपं । इति
मेदिनी ॥

अभिधर्षणं, क्ली, (अभि + धृष् + भावे ल्युट् ।)

रक्षःपिशाचभूतादेरभिषङ्गः । इति महाभारतं ॥
सर्व्वतोभावेन धर्षणञ्च ॥

अभिधा, स्त्री, (अभि + धा + करणे भावे च अङ्,

स्त्रियां टाप् ।) नाम । इति हेमचन्द्रः ॥ न्याय-
मते शब्दशक्तिः । मीमांसामते विधिसमवेत-
विधिव्यापारीभूतपदार्थः । तस्या लक्षणं । “स
मुख्योऽर्थस्तत्र मुख्यो व्यापारोऽस्याभिधोच्यते” ।
इति काव्यप्रकाशः ॥ * ॥ तत्र “सङ्केतितार्थस्य
बोधनादग्रिमाभिधा” । इति साहित्यदर्पणं ॥ (आ-
ख्या । आह्वा । अभिधानं । नामधेयं ।)

अभिधानं, क्ली, (अभिधीयते अनेन, अभि + धा

+ करणे ल्युट् ।) नाम । इत्यमरः ॥ कथनं ।
यथा । “तवाभिधानाद्व्यथते नताननः” । इति
भारविः ॥ शब्दकोषः । यथा । “कृत्तद्धितसमा-
सानामभिधानं नियामकं” । इति वोपदेवः ॥
(आख्या । नामधेयं ।
“आख्याह्व अभिधानञ्च नामधेयञ्च नाम च” ।
इत्यमरः । “शिखरिणि क्वनु नाम कियञ्चिरं
किमभिधानमसावकरोत्तपः” । इति साहित्य-
दर्पणे । उक्तिः । उल्लेखः । निर्द्देशः ।)

अभिधेयं, क्ली, अभिधानं । नाम । (“इति प्रयो-

जनाभिधेयसम्बन्धाः” इति वोपदेवः ।) अभिधीयते
अनेनेति करणे यः ॥

अभिधेयं, त्रि, (अभि + धा + कर्म्मणि यत् ।) अभि-

धागम्यं । वाच्यं । प्रतिपाद्य । यथा । “इति प्रयो-
जनाभिधेयसम्बन्धाः” । इति वोपदेवः ॥

अभिध्या, स्त्री, (अभि + ध्यैङ + अङ् + टाप् ।) परस्वे

विषयस्पृहा । इत्यमरः ॥ परद्रव्ये जिघृक्षा ।
दोषचिन्तापूर्ब्बकं परस्वे लिप्सा इत्येके । विषय-
प्रार्थना । इति स्वामी । विषयस्य लाभस्य स्पृहा
विषयस्पृहा विषयेन चौर्य्यादिना स्पृहा इति
तृतीयासमासः इत्यन्ये । विषयिस्पृहेतिपाठे पर-
स्वविषये विषयितया स्पृहा जिघृक्षामात्रं । इति
कश्चित् इति कौमुदी । इत्यमरटीकायां भरतः ॥
अभिलाषः । इति रायमुकुटः ॥

अभिनन्दनः, पुं, (अभिनन्दयति, अभि + नदि +

णिच् + ल्युट्) बुद्धविशेषः । चतुर्थस्तीर्थकरजिनो-
ऽयं । इति हेमचन्द्रः ॥ सर्व्वतोभावेनानन्दजनके
त्रि ॥

अभिनयः, पुं, (अभिनीयते हृद्गतक्रोधादिभावः

प्रकाश्यतेऽनेन अभि + नी + करणे अच् ।) हृद्गत-
क्रोधादिभावाभिव्यञ्जकः । अङ्गुल्यादिना व्यक्ती-
कृतमनःकार्य्यं । तत्पर्य्यायः । व्यञ्जकः २ । इत्य-
मरः ॥ दृश्यकाव्यं । रङ्गादिभिर्नटैः रामयुधिष्ठिरा-
दीनामवस्थानुकरणं । स चतुर्व्विधः । आङ्गिकः १ ।
वाचिकः २ । आहार्य्यः ३ । सात्त्विकः ४ । इति
साहित्यदर्पणं ॥ (“तामेतां परिभावयन्त्वभिनयै-
र्विन्यस्तरूपा बुधाः शब्दब्रह्मविदः कवेः परिणत-
प्रज्ञस्य वाणीमिमाम्” । इति उत्तरचरिते ।)

अभिनवः, त्रि, (अभि + नु + भावे अप् ।) नूतनः ।

इत्यमरः ॥
(“अभिनवमधुलोलुपस्त्वं
तथा परिचुम्ब्य चूतमञ्जरीम्” ।
इति शाकुन्तले ।)

अभिनवोद्भित् [द्] पुं, (अभिनवं यथातथा उद्भि-

नत्ति उद्भिद्य जायते, अभिनव + उत् + भिद् +
कर्त्तरि क्विप् ।) अङ्कुरः । इत्यमरः ॥

अभिनिर्मुक्तः, पुं, (अभि साकल्येन सायन्तनकार्य्येण

निर्मुक्तः ।) सूर्य्यास्तकालशायी । यस्मिन् सुप्ते
सूर्य्योऽस्तं याति सः । इत्यमरः ॥
(“सूर्य्येण ह्यभिनिर्मुक्तः शयानोऽभ्युदितश्च यः ।
प्रायश्चित्तमकुर्व्वाणो युक्तः स्यान्महतैनसा” ॥
इति मनुः ।)

अभिनिर्याणं, क्ली, (शत्रुमभिलक्षीकृत्य निर्य्याणं

निर्गमः ।) विजिगीषोः प्रयाणं । यात्रा । इत्य-
मरः ॥ (जिगीषया गमनं ।
“यत्सेनयाभिनिर्य्याणं स्मृतं तदभिषेणनम्” ।
इति हलायुधः ।)

अभिनिवेशः, पुं, (अभि + नि + विश् + भावे घञ् ।)

मनःसंयोगविशेषः । मनोनिवेशः । आवेशः ।
शास्त्रादौ प्रवेशः । तत्पर्य्यायः । निबन्धः २ । इति
हेमचन्द्रः ॥ योगशास्त्रमते मरणजन्यभयजनका-
विद्याविशेषः ॥ (आग्रहः । अवश्यमिदं कर्त्तव्य-
मित्यादिरूपोऽध्यवसायः । दृढसङ्कल्पः ।
“इत्युक्तवन्तं जनकात्मजायां
नितान्तरूक्षाभिनिवेशमीशं” ।
इति रघुवंशे ।
“अथानुरूपाभिनिवेशतोषिणा
कृताभ्यनुज्ञा गुरुणा गरीयसा” ।
पृष्ठ १/०७४
:इति कुमारसम्भवे । आसक्तिः । अनुरागः ।
अभिलाषः । “बलीयान् खलु मेऽभिनिवेशः” ।
इति शाकुन्तले ।)

अभिनिष्ठानः, पुंः (अभि + नि + स्तन् + घञ्, अभि-

निसः स्तनः शब्दसंज्ञायां इति षत्वं ।) विसर्गः ।
अक्षरं । इति मेदिनी ॥

अभिनीतः, त्रि, (अभि + नी + क्तः ।) युक्तः ।

न्याय्यः । अतिसंस्कृतः । प्रशस्तो भूषितो वा ।
अमर्षी । क्रोधनः अक्षमावान् वा । इत्यमरः ॥
(“अस्मिन्नेव प्रकरणे धनञ्जयमुदारधीः ।
अभिनीततरं वाक्यमित्युवाच युधिष्ठिरः” ।
इति महाभारते । विज्ञः । धीरः ।
“स भवान् वित्तसम्पन्नः स्थितः पथि निरत्यये ।
मित्रार्थमभिनीतत्वं यथावत् कर्त्तुमर्हसि” ।
इति रामायणे ।)

अभिनेता, [तृ] त्रि, (अभि + नी + कर्त्तरि तृच् ।)

अभिनयकर्त्ता । केचो संओयाला इत्यादि भाषा ।
इति नाटकप्रसिद्धं ॥

अभिपन्नः, त्रि, (अभि + पद् + कर्त्तरि क्तः ।) अप-

राद्धः । अपराधवान् । व्यापद्गतः । प्राप्तविपत्तिः ।
अभिग्रस्तः । शत्रुणाक्रान्तः । इत्यमरः ॥ (स्वी-
कृतः । अङ्गीकृतः । अभिभूतः । पीडितः ।
“दाहप्रपाकौ शिशिराभिनन्दाः ।
पित्ताभिपन्नेनयने भवन्ति” ।
“दृष्टिर्दोषाभिपन्ना” । इति सुश्रुते ।)

अभिप्रायः, पुं, (अभि + प्र + इन् + भावे अच् ।)

इच्छाविशेषः । तत्पर्य्यायः । आशयः २ छन्दः ३ ।
इत्यमरः ॥ आकूतं ४ भावः ५ । इति जटाधरः ।
(अभिसन्धिः । हृद्गतो भावः ।
“दुर्य्योधन ममाप्येतत् हृदि संपरिवर्त्तते ।
अभिप्रायस्य पापत्वात् नैवं तु विवृणोम्यहं” । इति मनुः ।)
इति महाभारते ।
“तेषां स्वं स्वमभिप्रायमुपलभ्य पृथक् पृथक्” ।

अभिप्रेतं, त्रि, (अभि + प्र + इन् + क्तः ।) अभि-

प्रायविषयीभूतं । अभीष्टं । यथा, --
“कामाय तु हितं काम्यमभिप्रेतार्थसिद्धये ।
पार्ब्बणेन विधानेन तदप्यक्तं खगाधिप” ॥
इति भविष्यपुराणं ॥ (वाञ्छितः । सम्मतः ।)

अभिभवः, पुं, (अभि + भू + भावे अप् ।) गर्व्व-

नाशः । परिभवः । पराभवः । इति शब्दरत्ना-
वली हेमचन्द्रश्च ॥ (पराजयः । तिरस्कारः ।
“रघोरभिभवाशङ्कि चुक्षुभे द्विषतां मनः” ।
इति रघुवंशे ।
“बलवानपि निस्तेजाः कस्य नाभिभवास्पदं” ।
इति हितोपदेशे ।)

अभिभूतः, त्रि, (अभि + भू + क्तः ।) ज्ञानरहितः ।

तत्पर्य्यायः । इतिकर्त्तव्यतामूढः २ विहस्तः ३
व्याकुलः ४ अभिमायः ५ विक्लवः ६ विह्वलः ७ ।
इति जटाधरः ॥ पराभूतः । भद्मदर्पः । तत्प-
र्य्यायः । आत्तगर्व्वः २ । इति जटाधरः ॥ आत्त-
गन्धः ३ । इत्यमरः ॥ अभिहतः ४ । इति
तट्टीका ॥
(“दैत्याभिभूतस्य युवामवोढं
मग्नस्य दोर्भिर्भुवनस्य भारम्” ।
इति भट्टिः ।)

अभिभूतिः, स्त्री, (अभि + भू + भावे क्तिन् ।) अ-

नादरः । अवज्ञा । इति शब्दरत्नावली । (परा-
भवः । पराजयः । मानभङ्गः । निकारः ।
“अभिभूतिभयादसूनतः
सुखमुह्यन्ति न धाम मानिनः” ।
इति भारविः ।)

अभिमतं, त्रि, (अभि + मन् + कर्मणि क्तः ।) इष्टं ।

सम्मतं । यथा, --
“अभिमतफलशंसी चारु पुस्फोर बाहु-
स्तरुषु चुकुवुरुच्चैः पक्षिणश्चानुकूलाः” ।
इति भट्टिः ॥ (हृद्यः । प्रियः । हृदयङ्गमः ।
“स माधवेनाभिमतेन सख्या
रत्या च साशङ्क्षमनुप्रयातः” ।
इति कुमारसम्भवे ।
“अनिशमपि मकरकेतुर्मनसो-
रुजमावहन्नभिमतो मे” ॥
इति शाकुन्तले ।)

अभिमन्त्रणं, क्ली, (अभि + मन्त्र + करणे ल्युट् ।)

आह्वानं । आकारणं । इति हेमचन्द्रः ॥ डाकन्
इति भाषा । (मन्त्रपाठेन संस्कारकरणं ।
यथा, --
“दत्त्वान्नं पृथिवीपात्रमिति पात्राभिमन्त्रणम्” ।
इति याज्ञवल्क्यः ।)

अभिमन्थः, पुं, (अभि मथ्यते चक्षुः पीड्यतेऽनेन,

अभि + मन्थ + करणे घञ् ।) चक्षूरोगः । इति
त्रिकाण्डशेषः ॥ अधिमन्थ इति वैद्यके पाठः ।
तस्य निदानसम्प्राप्तिरूपाणि ।
“वृद्धैरेतैरभिष्यन्दैर्नराणामक्रियावतां ।
तावन्तस्त्वधिमन्थाः स्युर्नयने तीव्रवेदनाः ॥
उत्पाट्यत इवात्यर्थं नेत्रं निर्म्मथ्यते तथा ।
शिरसोऽर्द्धञ्च तं विद्यादधिमन्थं स्वलक्षणैः” ॥
स तु चतुर्विधः । यथा । “हन्याद्दृष्टिं श्लैष्मिकः
सप्तरात्रादधिमन्थो रक्तजः पञ्चरात्रात् । षड्रात्रा-
द्वै वातिकः संनिहन्यान्मिथ्याचारात् पैत्तिकः
सद्य एव” ॥ इति माधवकरः ॥

अभिमन्युः, पुं, (अभिमन्यते युद्धार्थं, अभि + मन् +

युच्, निपातनात् अनादेशाभावः ।) अर्ज्जुनपुत्त्रः ।
स तु सुभद्रागर्भजातः । इति महाभारतं ॥

अभिमरः, पुं, (अभिम्रियतेऽस्मात्, अभि + मृ +

अप्) युद्धं । बधः । स्वसैन्यभय । इति विश्व-
मेदिन्यौ ॥ बन्धनं । इति जटाधरः ॥ (संहारः ।
समरः । अवरोधः । स्वपक्षाद्भयं । सङ्केतस्थल-
निर्गमः । प्राणनिरपेक्षो यो द्रव्य हेतोः व्याडं
हस्तिनं वा योधयति सः अभिमरः इत्येके ।)

अभिमर्द्दः, पुं, (अभि + मृद् + भावे घञ् ।) अव-

मर्द्दः । पीडनं । सम्परायः । युद्धं । इति मेदिनी ॥
(शत्रुकृतपीडनं । विपक्षराजस्य उच्छेदसाधनं ।
“कृतोऽभिमर्द्दः कुरुभिः प्रसह्य” । इति महा-
भारते ।)

अभिमातिः, पुं, (अभि + मा + कर्त्तरि क्तिच् ।)

शत्रुः । इति हेमचन्द्रः ॥

अभिमानः, पुं, (अभि + मन् + भावे घञ् ।) अर्था-

दिना दर्पः । तत्पर्य्यायः । अहङ्कारः २ गर्ब्बः ३
ज्ञानं ४ बोधः ५ प्रणयः ६ प्रेमप्रार्थना ७
हिंसा ८ हननं ९ । इत्यमरभरतौ ॥ स्मयः १०
अवलेपः ११ दर्पः १२ अवश्यायः १३ टङ्कः १४ ।
इति जटाधरः ॥ अपि च ।
“गर्ब्बो मदोऽभिमानः स्यादहङ्कारस्त्वहङ्कतिः ।
स्यादुद्धतमनस्कत्वे मानश्चित्तसमुन्नतिः ।
अहङ्कारस्य पर्य्याय इति केचित् प्रचक्षते” ॥
इति शब्दरत्नावली ॥

अभिमानितं, क्ली, (अभिमानः जातोऽस्य, अभि-

मानः + इतच् । अभिमान्यतेऽत्र, अभि + मन् +
णिच् + आधारे क्तः ।) सुरतं । मैथुनं । इति त्रि-
काण्डशेषः ॥ अभिमानयुक्ते त्रि ॥ (गर्व्वः । मदः ।
दर्पः ।)

अभिमानी, [न्] त्रि, (अभिमन्यते, अभि + मन्

+ णिनि ।) अभिमानयुक्तः । अभिमानग्रस्तः ।
यथा, --
“कर्त्ता द्यूतच्छलानां जतुमयशरणीद्दीपितः सो-
ऽभिमानी” । इति वेणीसंहारः ॥

अभिमायः, त्रि, (मायामविद्यामधिगतः, प्रादि-

समासः ।) इतिकर्त्तव्यतामूढः । अभिभूतः । इति
जटाधरः ॥

अभिमुखं, त्रि, (अभिगतो मुख । अत्यादयः क्रान्ता-

द्यर्थे द्वितीयया इति समासः ।) सम्मुखं । इति
जटाधरः ॥

अभियातिः, पुं, (युद्धार्थमभिमुखं यातिः गमनं,

अभि + या क्तिच् ।) शत्रुः । इति हेमचन्द्रः ॥

अभियाती, [न्] पुं, (युद्धार्थमभियानं गमनं, अभि

+ या + भावे क्तः; इनि ।) शत्रुः । इत्यमर-
टीकायां रायमुकुटः ॥

अभियुक्तः, त्रि, (अभि + युज् + क्तः ।) तत्परः । पर-

कर्तृकरुद्धः । इति मेदिनी ॥
(“उद्दामेन द्विरदपतिना सन्निपत्याभियुक्तः” ।
इति उत्तरचरिते ।
“अभियुक्तो यदा पश्येत् न किञ्चिद्धितमात्मनः ।
युध्यमानस्तदा प्राज्ञो म्रियते रिपुणा सह” ।
इति हितोपदेशे ।) स्मृतिशास्त्रमते अभियोग-
विषयीभूतः । आसामी इति ख्यातः । तत्पर्य्यायः ।
प्रत्यर्थी २ प्रतिवादी ३ । यथा, --
“अभियुक्तोऽभियोगस्य यदि कुर्य्यादपह्नवं ।
मिथ्या तत्तु विजानीयादुत्तरं व्यवहारतः” ॥
इति व्यवहारतत्त्वे नारदः ॥

अभियोक्ता, [ऋ] त्रि, (अभि + युज् + कर्त्तरि तृच् ।)

अभियोगकर्त्ता । विवादकर्त्ता । फरियादी इति
ख्यातः । तत्पर्य्यायः । वादी २ अर्थी ३ । यथा, --
“अभियोक्ता प्रगल्भत्वात् वक्तुं नोत्सहते यदि ।
तदा कालः प्रदातव्यः कार्य्यशक्त्यनुरूपतः” ॥
इति व्यवहारतत्त्वे नारदः ॥