पृष्ठ १/२०१

, इकारः । तृतीयस्वरवर्णः । अस्योच्चारणस्थानं

तालु । स च ह्रस्वो दीर्घः प्लुतश्च भवति ।
(अयञ्च उदात्तानुदात्तसरिद्-भेदात् त्रिविधः ।
अनुनासिकाननुनासिकभेदाच्च प्रत्येकं द्विविधः
एतेन षड्विध एव ।)
“इकारं परमानन्दसुगन्धकुसुमच्छविम् ।
हरिब्रह्ममयं वर्णं सदा रुद्रयुतं प्रिये ॥
सदा शक्तिमयं देवि गुरुब्रह्ममयं तथा ।
सदाशिवमयं वर्णं परं ब्रह्मसमन्वितम् ॥
हरिब्रह्मात्मकं वर्णं गुणत्रयसमन्वितम् ।
इकारं परमेशानि स्वयं कुण्डली मूर्त्तिमान्” ॥
इति कामधेनुतन्त्रम् ॥ (वङ्गीयभाषायां ।)
तस्य लेखनप्रकारो यथा,
“ऊर्द्ध्वाधः कुव्जिता मध्ये रेखा तत्सङ्गता भवेत् ।
लक्ष्मीर्व्वाणी तथेन्द्राणी क्रमात्तास्वेव संवसेत् ॥
शीर्षाधःकुञ्चिता रेखा दक्षोर्द्ध्वा कामरूपिणी ।
मात्राशक्तिः कोणयुता ध्यानमस्य प्रचक्ष्यते” ॥
इति वर्णोद्धारतन्त्रम् ॥ * ॥ (यद्यपि सिद्धान्त-
कौमुद्यां “इचुयशानाम् तालु” इति सामान्यतः
उक्तं तथापि शब्देन्दुशेखरादिष्वस्य विस्तरतो
विबृतिरुक्ता । यथा, -- “तुल्यास्य प्रयत्नमिति
सूत्रेण प्रशब्देन विलक्षणयन्तबोधेऽपि लोके
यत्नप्रयत्नयोः पर्य्यायतेति ध्वनयन्नाह प्रयत्नो
हि हिधा इति क्वचित् यत्नो द्विधेत्येव पाठः ।
एतेषां आभ्यन्तरत्वं वर्णोत्पत्तेः प्राग्भावित्वात् ।
तथाहि नाभिप्रदेशात् प्रयत्नप्रेरितः प्राणो
नाम वायुः ऊर्द्ध्वमाक्रमन् उरःप्रभृतीनि स्था-
नान्याहन्ति ततो वर्णस्य तदभिव्यञ्जकध्वनेर्वो-
त्पत्तिस्तत्रोत्पत्तेः । प्राक्जिह्वाग्रोपाग्रमध्यमूलानि
वर्णोत्पत्तिस्थानं ताल्वादि यदा सम्यक् स्पृशन्ति
तदा स्पृष्टता ईषत्स्पर्शे ईषत्स्पष्टता समी-
पावस्थाने संवृतता दूरावस्थाने विवृतता अतएव
इचुयशानां तालव्यत्वाविशेषेऽपि चवर्गे उच्चा-
रयितव्ये जिह्वाग्रादीनां तालु स्थानेन सम्यक् स्पर्शः
यकारे ईषत् स्पर्शः शकारेकारयोः समीपदू-
रावस्थानं । स्पृष्टं प्रयतनमिति यतेर्नपुंसके भावे
ल्युट् । प्रयत्नमित्यपपाठः नङन्तस्य पुंस्तत्वात् ।
“शेषाः स्पृष्टा हलप्रोक्ताः” इत्यादि । यथा,
शिक्षायां शब्देन्दुसारः । तथाहि “अचोऽस्पृष्टाः
यणस्त्वीषत् नेमस्पृष्टाः शलः स्मृताः । “शेषाः
स्पृष्टाः हलप्रोक्ताः” इत्यादि । अत्र अचः
अस्पृष्टाः स्पर्शाभावरूपविवृतत्ववन्तः यणस्त्वीषत्
अस्पृष्टा इत्यनुषज्यते तेन ईषदस्पृष्टा ईषद्विवृता
इत्यर्थः । नेम इत्यर्द्धे तेन शलः ईषत् विवृताः
यणमपेक्ष्याधिकविवृतत्ववन्त इत्यर्थः । अपि च --
“अग्निमीले पुरोहितं यज्ञस्य देवमृत्विजम् । हो-
तारं रन्तधातमम्” । ईले इत्येतत् समस्तमपि-
पदमनुदात्तम् “तिङ्ङतिङ” इति सूत्रेण अति-
ङन्तादग्निशब्दात् परस्य ईल इति तिङन्तस्य
निघातविधानात् अग्निमील इति पदयोः सं-
हिताकाले तु धातुगतस्य ईकारस्य स्वरितत्वम्
“उदात्तानुदात्तस्वरितः” इति सूत्रेण उदात्तात्
परस्यानुदात्तस्य स्थाने स्वरितः स्यात् इत्यर्थकेनानु-
दात्तस्य ईकारस्य स्थाने स्वरितादेशात् ततःपरस्य
ले इत्यत्र एकारस्य तिङ्प्रत्ययरूपस्य स्वरितात्
संहितायाम् पूर्ब्बस्येकारस्य नितरां उदात्तत्वम् ।
अपरञ्च ताल्वादिस्थानमाभ्यन्तरप्रयत्नैति सूच्य-
ते । अत्र मूलम् पाणिनीयशिक्षाग्रन्थे । यथा, --
“कण्ठ्यावहा विचुयशास्तालव्या ओष्ठजावुपू” ।
“स्वराणामुष्मणाञ्चैव विवृतं करणं मतम्” ।)
तस्य नामानि यथा, --
“इः सूक्ष्मा शाल्मली विद्या चन्द्रः पूषा सुगुह्यकः ।
सुमित्रः सुन्दरो वीरः कोटरः काटरः पयः ॥
भ्रूमध्यो माधवस्तुष्टिर्दक्षनेत्रञ्च नासिका ।
शान्तः कान्तः कामिनी च कामो विघ्नविनायकः ॥
नेपालो भरणी रुद्रो नित्या क्लिन्ना च पावका” ।
इति वर्णाभिधानतन्त्रम् ॥ (मातृकान्यासेऽस्य
दक्षिणचक्षुषि स्थानम् । यथा, मातृकान्यास-
धृतमन्त्रः “इं नमो दक्षिणचक्षुषि ईं नमो
वामचक्षुषि” । इति ।)

, गतौ । (भ्वादिं-इलपक्षे अदां-परं-सकं-अनिट् ।)

अयति । ल एति । पृथक्पाठसामर्थ्यात् पूर्ब्बो
न लित् । शेषस्तु इन गताविति प्रसिद्धः । यिनो-
ऽच्यणावित्यादिषु ग्रहणमस्यैव । इति दुर्गादासः ॥
(उत् ।) उदये । समुन्नतौ । यथा, --
“उदयति यदि भानुः पश्चिमे दिग्विभागे” इति ।
(अभि + उत् ।) अभ्युदये । समुन्नतौ । सर्व्वेः गत्यर्था
ज्ञानार्थाः प्राप्त्यर्थाश्च इत्यनेन प्राप्त्यर्थेऽप्यस्य बहुलः
प्रयोगः । यथा, -- मनुः ।
“ब्राह्मणः श्रेष्ठतामेति प्रत्यवायेन शूद्रताम्” ।
“अयमेति मन्दं मन्दं कावेरीवारिपावनः पवनः” ।
इति साहित्यदर्पणम् । (अति) अतिक्रमे । परा-
भवे । यथा, हितोपदेशे । १ ।
“अतीत्य हि गुणान् सर्व्वान् स्वभावो मूर्द्धि वर्त्तते” ।
“ततः परं जनस्थानं क्रोशत्रयमतीत्य वै” ।
इति रामायणे । (अनु) अनुकरणम् ।
“धानुरादेशमन्वेति तद्यथा हि तदर्पणः ।
नात्माधीनो मनुष्योऽयं कालं भजति कञ्चन” ॥
इति महाभारते । (अप) अपगमने । पलायने ।
“प्रत्यादेशव्यलीकमपैतु ते” । इति शाकुन्तले ।
(सम् + आ) सम्मिलने । “देवाश्चैतान् सभत्यो-
चूर्न्याय्यं वः शिशुरुक्तवान्” । इति मनुः । २ ।
१५२ । इत्यादयो ज्ञेयाः ।)

, ल, स्मृत्यां । (अदां-परं-सकं-अनिट् ।) अधि-

पूर्ब्बोऽयं । अधिग्रहणं अन्यपूर्ब्बस्य । केवलस्य च
प्रयोगनिरासार्थं । एवं सर्व्वत्र । ल अध्येति तव
लक्ष्मणः । इक स्मरणे इति प्रसिद्धोऽयं । इन्व-
दिक इत्यत्रास्यैव ग्रहणम् । इति दुर्गादासः ॥

ङ ल अध्ययने । (अदा०-आ० -सक० -अनिट् ।)

अधिपूर्ब्बोऽयं । अध्ययनमर्थतः शब्दतश्च गुरुतो
ग्रहणं । ङ ल वेदमधीते विप्रः । इति दुर्गादासः ॥
(“यः स्वाध्यायमधीतेऽब्दं विधिना नियतः शुचिः”
इति मनुः । २ । १३७ ।)

, व्य, भेदः । क्रोधोक्तिः । अपाकरणं । अनुकम्पा ।

इति मेदिनो ॥ खेदः । इति हेमचन्द्रः ॥ ।

इंरेजः, पुं, लण्ड्रदेशजातम्लेच्छजातिविशेषः । यथा, --

“अधिपा मण्डलानाञ्च संग्रामेष्वपराजिताः ।
इंरेजा नव षट् पञ्च लण्ड्रजाश्चापि भाविनः” ॥
इति मेरुतन्त्रे २३ प्रकाशः ॥

इः, [स्] व्य, कोपः । सन्तापः । दुःखमावना । इति

शब्दरत्नावली ॥

इः, पुं, (अस्य विष्णोः श्रीकृष्णस्यापत्यम् पुमान् ।

अ + इञ् ।) कामदेवः । इति पुरुषोत्तमहला-
युधौ ॥ यथा, आग्नेये एका क्षराभिधानम् ।
“इः कामे रतिलक्ष्म्योरी उः शिवे ब्रह्मकाद्य ऊः” ॥

इक्कटः, पुं, तृणविशेषः । तत्पर्य्यायः । बहुमूलः २ ।

इति त्रिकाण्डशेषः । कोशाङ्गः ३ इत्कटः ४ । इति
हारावली ॥ (इत्कटशव्देऽस्य विशेषो द्रष्टव्यः ॥)

इक्षुः, पुं, (इष्यतेऽभिलष्यतेऽसौ इति । इष् + क्सु ।)

स्वनामख्याततृणं । आक् इति भाषा । तत्पर्य्यायः ।
रसालः २ । इत्यमरः ॥ कर्कोटकः ३ वंशः ४
कान्तारः ५ सुकुमारकः ६ अधिपत्रः ७ मधुतृणः ८
वृष्यः ९ गुडतृणः १० । इति राजनिर्घण्टः ॥
मृत्युपुष्पः ११ महारसः १२ असिपत्रः १३ को-
शकारः १४ इक्षवः १५ । इति शन्दरत्नावली ॥
पयोधरः १६ । इति जटाधरः ॥ * ॥ तस्य भेदाः ।
वंशकः १ कान्तारः २ भीरुः ३ पौण्ड्रः ४ । इति
रत्नमाला ॥ सामान्येक्षुगुणाः । रक्तपित्तनाशित्वं ।
बलशुक्रकफकारित्वं । पाके मधुरत्वं । स्निग्धत्वं ।
गुरुत्वं । शीतलत्वं । मूत्रशुद्धिकारित्वञ्च । तस्य
मूले अतिमधुरत्वं । मध्ये मधरत्वं । ग्रन्थित्वज-
ग्रभागेष लवणरसत्वञ्च । इति राजवल्लभः ॥
मूलादूर्द्ध्व मधुरत्वं । मध्ये अतिमधुरत्वं । अग्र
क्रमाल्लवणत्वं नीरसत्वञ्च ॥ अभुक्ते इक्षुभक्षणगुणः ।
पित्तदातृत्वं । भुक्ते वातप्रकोपणत्वं । भुक्तिमध्ये
गुरुतरत्वश्च ॥ इति राजनिर्घण्टः ॥ दन्तनिष्पी-
डितेक्षुरसगुणाः । हिमत्वं । शुक्रकारित्वं । तृप्ति
जनकत्वम् । जीवनहितकारित्वम् । वायुरक्तपित्त
नाशित्वं । स्वादुत्वं । स्निग्धत्वं । प्रीतिदातृत्वं । रक्त-
वर्द्धकत्वं । मुखप्रह्लादकारित्वं । धातुवर्द्धकत्वञ्च ।
इति राजवल्लभः ॥ अपि च । रक्तदोषभ्रमशमन-
पृष्ठ १/२०२
:कारित्वं । अल्पश्लेष्मदातृत्वं । हृद्यत्वं । रुचिजनकत्वं ।
मूत्रशुद्धिकारित्वं । देहस्य कान्तिदातृत्वं । बल-
कारित्वं । पीयूषोपमत्वं । त्रिदोषशमनत्वञ्च ।
इति राजनिर्घण्टः ॥ यन्त्रनिष्पीडितरसगुणाः ।
रक्तशुक्रकारित्वं । शीतलत्वं । सारकत्वं । रुचि-
करत्वं । दाहजनकत्वञ्च ॥ इति राजवल्लभः ॥ अ-
पि च । दन्तनिष्पीडितरसगुणवद्गुणत्वं । किञ्चित्
पित्तवायुनाशित्वं । अकोमलत्वं । अस्वादुत्वं ।
क्षीरविष्टम्भदाहकारित्वञ्च । पर्य्युषिततद्रसगुणाः ।
वान्तिहरत्वं । वातजनकत्वं । जाड्यप्रतिश्यायरोग-
दातृत्वं । कफवायुकारित्वञ्च । इति राजनिर्घण्टः ॥
तत्पक्वरसगुणाः । गुरुत्वं । सुतीक्ष्णत्वं । कफवात-
नाशित्वञ्च । इति राजवल्लभः ॥ स्निग्धत्वं । अति-
शयगुरुत्वं । अतिपाके विदाहत्वं । पित्तास्नदोष-
कारित्वञ्च । इति राजनिर्घण्टः ॥
अस्य विकाराः ॥
“लसीकाफाणितगुडखण्डमत्स्यण्डिकासिताः ।
निर्म्मला लघवो ज्ञेयाः शीतवीर्य्या यथोत्तरम्” ॥
इति राजवल्लभः । अथेक्षुवर्गः । तत्रेक्षोर्नामानि
गुणाश्च ।
“इक्षुर्दीर्घच्छदः प्रोक्तस्तथा भूरिरसोऽपि च ।
गुडमूलोऽसिपत्रश्च तथा मधुतृणः स्मृतः ॥
इक्षवो रक्तपित्तघ्ना बल्या वृष्याः कफप्रदाः ।
स्वादुपाकरसाः स्निग्धा गुरवो मूत्रला हिमाः” ॥ * ॥
अथेक्षुभेदाः ।
“पौण्ड्रको भीरुकश्चापि वंशकः शतपोरकः ।
कान्तारस्तापसेक्षुश्च काण्डेक्षुः सूचिपत्रकः ॥
नैपालो दीर्घपत्रश्च नीलपोरोऽथ कोशकृत् ।
इत्येता जातयस्तेषां कथयामि गुणानपि” ॥ * ॥
अथ पौण्ड्रकभीरुकयोर्गुणाः ।
“वातपित्तप्रशमनो मधुरो रसपाकयोः ।
सुशीतो वृंहणो बल्यः पौण्ड्रको भीरुकस्तथा” ॥ * ॥
अथ कोशकारगुणाः ।
“कोशकारो गुरुः शीतो रक्तपित्तक्षयापहः” ॥ * ॥
अथ कान्तारेक्षुगुणाः ।
“कान्तारेक्षुर्गुरुर्वृष्यः श्लेष्मलो वृंहणः सरः” ॥ * ॥
अथ दीर्घपोरवंशकयोर्गुणः ।
“दीर्घपोरः सुकठिनः सक्षारो वंशकः स्मृतः” ॥ * ॥
अथ शतपोरकगुणाः ।
“शतपर्ब्बा भवेत् किञ्चित् कोशकारगुणान्वितः ।
विशेषात् किञ्चिदुष्णश्च सक्षारः पवनापहः” ॥ * ॥
अथ मनोगुप्तागुणाः ।
“मनोगुप्ता वातहरी तृष्णामयविनाशिनी ।
सुशीता मधुरातीव रक्तपित्तविनाशिनी” ॥ * ॥
अथ तापसेक्षुगुणाः ।
“तापसेक्षुर्भवेत् मृद्वी मधुरा श्लेष्मकोपना ।
तर्पणा रुचिकृच्चापि वृष्या च बलकारिणी” ॥ * ॥
अथ बालयुववृद्धेक्षुगुणाः ।
“बाल इक्षुः कफं कुर्य्यान्मेदोमेहकरश्च सः ।
युवा तु वातहृत् स्वादुरीषत्तीक्ष्णश्च पित्तनुत् ॥
रक्तपित्तहरो वृद्धः क्षतहृत् बलवीर्य्यकृत्” ॥ * ॥
अथाङ्गभेदेन भेदः ।
“मूले तु मधुरोऽत्यर्थं मध्येऽपि मधुरः स्मृतः ।
अग्र ग्रन्थिषु च ज्ञेयं इक्षुः पटुरसो जनैः” ॥ * ॥
अथ दन्तपीडितेक्षुरसगुणाः ॥
“दन्तनिष्पीडितस्येक्षोः रसः पित्तास्रनाशनः ।
शर्करासमवीर्य्यः स्यादविदाही कफप्रदः” ॥ * ॥
अथ यन्त्रपीडितस्येक्षुरसस्यं गुणाः ।
“मूलाग्रजन्तु ग्रन्थ्यादिपीडनान्मलसंकरात् ।
किञ्चित् कालं विधृत्याच विकृतिं याति यान्त्रिकः ॥
तस्माद्विदाही विष्टम्भी गुरुः स्याद्यान्त्रिको रसः” ॥
अथ पर्य्युषितस्येक्षुरसस्य गुणाः ।
“रसः पर्य्युषितो नेष्टो ह्यम्लो वातापहो गुरुः ।
कफपित्तकरः शोषी भेदनश्चातिमूत्रलः” ॥ * ॥
अथ पक्वस्येक्षुरसस्य गुणाः ।
“पक्वो रसो गुरुः स्निग्धः सुतीक्ष्णः कफवातनुत् ॥
गुल्मानाहप्रशमनः किञ्चित्पित्तहरः स्मृतः” ॥ * ॥
अथेक्षुरसस्य विकाराणां गुणाः ।
“इक्षोर्विकारास्तृड्दाहमूर्च्छापित्तास्ननाशनाः ।
गुरवो मधुरा बल्याः स्निग्धा वातहराः सराः ॥
वृष्या मोहहराः शीता वृंहणा विषहारिणः” ॥
इति भावप्रकाशः ॥
(अथ श्वेतेक्षुगुणाः ।
“रसायनोत्तमो बल्यो रोगवारणमुत्तमः ।
स्निग्धश्च तर्पणो वृष्यो वृंहणश्च सजीवनः ॥
स्वादुगुणाभिबद्धत्वाद्वातपित्तप्रशान्तिकृत् ।
वृष्योऽप्यन्तर्विदाही स्यात् सितेक्षुः कफकृन्मतः” ॥
अथ कृष्णेक्षुगणाः ।
“तद्वत् सुकृष्णो भवनं गुणानां
वृष्यो भवेत्तर्पणवृंहणश्च ।
सञ्जीवनं स्यान्मधुरो रसेन
शोषापहर्त्ता व्रणशोककारी” ॥ * ॥
अथ यन्त्रोद्भवरसगुणाः ।
“यन्त्रेण पीडितरसः कथितो गुरुश्च
वृष्यः कफञ्च कुरुतेऽथ सुशीतलश्च ।
पाके विदाहिबलकृच्च सुशोभनश्च
संसेवितो रुधिरपित्तरुजं निहन्ति” ॥ * ॥
अथ दन्तपीडितरसगुणाः ।
“दन्तेन पीडितरसो रुचिकृद्गुरुश्च
सन्तर्पणो बलकरः कफकृच्छ्रमघ्नः ।
विष्टम्भकोऽपि रुधिरञ्च तथैव पित्तं
शोषं निहन्ति मधुरः स हिमो सरश्च” ॥ * ॥
अथ पक्वरसगुणाः ॥ * ॥
“पक्वो गुरुतरः स्निग्धः सुतीक्ष्णः कफवातहा ।
पित्तघ्नोऽपि विशेषेण गुल्मातिसारकासनुत्” ॥ * ॥
इति हारीतः । तथा च वाभटः शार्ङ्गधरश्च ।
“इक्षोः रसो गुरुः स्निग्धो वृंहणः कफमूत्रकृत् ।
वृष्यः शीतोऽस्रपितघ्नः स्वादुपाकरसः सरः ।
सोऽग्रे सलवणो दन्तपीडितः शर्करासमः ॥
मूलाग्रजन्तुजग्धादिपीडनान्मलसङ्करात् ।
किञ्चित्कालं विधृत्या च विकृतिं याति यान्त्रिकः ॥
विदाही गुरुविष्टम्भी तेनासौ तत्र पौण्ड्रकः ।
शैत्यप्रसादमाधुर्य्यैर्वरस्तमनुवांशिकः ॥
शातपर्ब्बककान्तारनैपालाद्यास्ततः क्रमात् ।
सक्षाराः सकषायाश्च सोष्णाः किञ्चिद्विदाहिनः” ॥
“वृष्यः शीतः स्थिरः स्निग्धो वृंहणो मधुरो रसः ।
श्लेष्मणो भक्षितस्येक्षोर्यान्त्रिकस्तु विदह्यते ॥
शैत्यात् प्रसादान्माधुर्य्यात् पौण्ड्रकाद्वंशको वरः” ।
इति चरकः ॥ तथा च सुश्रुते ॥
“इक्षवो मधुरा विपाका गुरवः शीताः स्निग्ध-
बल्या वृष्या मूत्रला रक्तपित्तप्रशमनाः कृमिकफ-
कराश्चेति ते चानेकविधाः । तद्यथा, --
“पौण्ड्रको भ्रीरुकश्चैव वंशकः शतपोरकः ।
कान्तारस्तापसेक्षुश्च काष्ठेक्षुः सूचिपत्रकः ॥
नैपालो दीर्घपत्रश्च नीलपोरोऽथ कोशकृत् ।
इत्येता जातयः स्थौल्याद्गुणान् वक्ष्याम्यतः परम् ॥
सुशीतो मधुरः स्निग्धो वृंहणः श्लेष्मणः सरः ।
अविदाही गुरुर्वृष्यः पौण्ड्रको भीरुकस्तथा ॥
आभ्यां तुल्यगुणः किञ्चित्सक्षारोवंशको मतः ।
वंशवच्छतपोरस्तु किञ्चिदुष्णः स वातहा ॥
कान्तारतापसाविक्षू वंशकानुगुणौ मतौ ।
एवंगुणस्तु काष्ठेक्षु; स तु वातप्रकोपणः ॥
सूचीपत्रो नीलपोरो नैपालो दीर्घपत्रकः ।
वातलाः कफपित्तघ्नाः सकषाया विदाहिनः ॥
कोशकारो गुरुः शीतो रक्तपित्तक्षयापहः ।
अतीवमधुरो मूले मध्ये मधुर एव तु ॥
अग्रेष्वक्षिषु विज्ञेय इक्षूणां लवणो रसः ।
अविदाही कफकरो वातपित्तनिवारणः ॥
वक्त्रप्रह्लादनो वृष्यो दन्तनिष्पीडितो रसः ।
गुरुर्विदाही विष्टम्भी यान्त्रिकस्तु प्रकीर्त्तितः ॥
पक्वो गुरुः सरः स्निग्धः सुतीक्ष्णः कफवातनुत्” ॥)
कोकिलाक्षवृक्षः । इति राजनिर्घण्टः ॥

इक्षुकाण्डः, पुं, (इक्षुवृक्षस्य काण्ड इव काण्डो यस्य ।)

मुञ्जकः । शरमुञ्ज इति ख्यातः । इति शब्द-
चन्द्रिका ॥ (यथा, रामायणे २ । ९१ । १५ ।
“अपराश्चोदकं शीतमिक्षुकाण्डरसोपमम्” ।)
काशतृणम् । इति राजनिर्घण्टः ॥

इक्षुगन्धः, पुं, (इक्षुवृक्षस्य गन्ध इव गन्धो यस्य ।)

काशतृणम् । इति भावप्रकाशः ॥ क्षुद्रगोक्षुरक-
वृक्षः । इति राजनिर्घण्टः ॥

इक्षुगन्धा, स्त्री, (इक्षुगन्ध + टाप् ।) गोक्षुरकवृक्षः ।

गोखुरी इति भाषा । शुक्लभूमिकुष्माण्डः । को-
किलाक्षवृक्षः । कुलिया खारा इति भाषा ।
काशतृणम् । इत्यमरो मेदिनी च ॥ काशिया
इति भाषा ।

इक्षुगन्धिका, स्त्री, (इक्षुगन्ध + कन् + टाप् ।) भूमि-

कुष्माण्डः । इति शब्दरत्नावली ॥ (भूमिकुष्माण्ड-
शब्देऽस्या गुणादयो ज्ञेयाः ॥)

इक्षुतुल्या, स्त्री, (इक्षोस्तुल्या ।) तृणविशेषः । आ-

नाखु इति ख्याता । तत्पर्य्यायः । इक्ष्वाणिका २
अनिक्षुः ३ इक्षुबालिका ४ । इति रत्नमाला ॥

इक्षुदर्भा, स्त्री, (इक्षुवृक्षस्य दर्भो बन्ध इव दर्भो-

यस्याः ।) तृणविशेषः । तत्पर्य्यायः । सुदर्भा २
पत्रालुः ३ तृणपत्रिका ४ । अस्या गुणाः । सुमधु-
रत्वं । स्निग्धत्वं । ईषत्काषायत्वं । कफपित्तहरत्वं ।
रुचिजनकत्वं । लघुत्वं । परमतृप्तिकारित्वञ्च ।
पृष्ठ १/२०३
:इति राजनिर्घण्टः ॥

इक्षुनेत्रं, क्ली, (इक्षोर्नेत्रं ।) इक्षुमूलं । इति राज-

निर्घण्टः ॥

इक्षुपत्रः, पुं, (इक्षोः पत्रमिव तीक्ष्णं पत्रं यस्य ।)

यावनालनामधान्यविशेषः । इति राजनिर्घण्टः ॥
जोयार इति भाषा ।

इक्षुप्रः, पुं, (इक्षुरिव पूर्य्यते । इक्ष + पॄ + क ।)

शरतृणं । इति राजनिर्घण्टः ॥ (शरतृणशब्दे-
ऽस्य गुणादयो ज्ञातव्याः ।)

इक्षुबालिका, स्त्री, (इक्षोर्बालिकेव तदाकृतित्वात् ।)

इक्षुतुल्या । इति रत्नमाला ॥ अनाखु इति
ख्याता । काशः । इति राजनिर्घण्टः ॥ काशिया
इति भाषा ।

इक्षुमूलं, क्ली, (इक्षोः मूलमिव मूलं यस्य ।) वृक्षवि-

शेषः । तत्यर्य्यायः । इक्षुनेत्रं २ मोरटकं ३ वंश-
नेत्रं ४ वंशमूलं ५ मोरटं ६ वंशपूरकं ७ । इति
राजनिर्घण्टः ॥ (“अतीव मधुरो मूलः” इति सुश्रुतः ।)

इक्षुयोनिः, पुं, (इक्षोर्योनिरुत्पत्तिकारणं ।) पुण्ड्रक-

इक्षुः । इति राजनिर्घण्टः ॥ (तत्र पौण्डकः । शैत्य-
प्रसादमाधुर्य्यैर्वरः, इति वाभटः । पौण्ड्रकशब्दे
चास्य विशेषो ज्ञेयः ॥)

इक्षुरः, पुं, (इक्षुमिक्षुवत् गन्धं राति ददातीति ।

इक्षु + रा + क ।) कोकिलाक्षवृक्षः । इति रत्न-
माला ॥ कुलिया खारा इति भाषा । इक्षुः ।
गोक्षुरकवृक्षः । इति शब्दरत्नावली ॥ काशः ।
इति राजनिर्घण्टः ॥

इक्षुरकः, पुं, (इक्षुर + स्वार्थे + क ।) कोकिलाक्ष-

वृक्षः । स्थूलशरः । काशतृणं । इति राजनिर्घण्टः ।
(“स्वयङ्गुप्तेक्षुरकयोः फलचूर्णं सशर्करम् ।
धारोष्णेन नरः पीत्वा पयसा न क्षयं व्रजेत्” ॥
इति सुश्रुतः ॥)

इक्षुरसः, पुं, (इक्षोरिव रसो यस्य ।) काशतृणं ।

इति भावप्रकाशः ॥ (इक्षुवृक्षस्य रसः । अस्य गुणाः
क्रमेण यथा; दन्तपीडितेक्षुरसगुणाः । जीवन-
हितकारित्वं, हिमत्वं, शुक्रकारित्वं, तृप्तिजनकत्वं,
वायुरक्तपित्तनाशित्वं, स्वादुत्वं, रक्तवर्द्धकत्वं धातु-
वर्द्धकत्वञ्च यथा भावप्रकाशः ।
“दन्तद्धिष्पीडितस्येक्षो रसः पित्तास्रनाशनः ।
शर्करासमवीर्य्यः स्यादविवादी कफप्रदः” ॥
यन्त्रनिष्पीडितरसगुणाः, रक्तशुक्रकारित्वम्, शी-
तलत्वं, सारकत्वं, दाहजनकत्वं, किञ्चित् पित्त-
वायुनाशित्वं, क्षीरविष्टम्भदाहकारित्वञ्च यथा,
भावप्रकाशे, --
“मूलाग्रजन्तुग्रन्थ्यादिपीडनात् मलसंकरात् ।
किञ्चित्कालं विधृत्याथ विकृतिं याति यान्त्रिकः ॥
तस्मात् विदाही विष्टम्भी गुरुः स्यात् यान्त्रिको
रसः । पर्य्युषितेक्षुरसगुणाः । वान्तिहरत्वं, वातज-
नकत्वं, जाड्यप्रतिश्यायरोगदातृत्वं, कफवायुकारि-
त्वञ्च । यथा भावप्रकाशे ।
“रसः पर्य्युसितो नेष्टो ह्यम्लो वातापहो गुरुः ।
कफपित्तकरः शोषी भेदनश्चातिमूत्रलः” ॥ * ॥
पक्वेक्षुरसगुणाः । गुरुत्वं । सुतीक्ष्णत्वं । कफ-
वातनाशित्वं । स्निग्धत्वं । अतिपाके विदाहत्वं ।
पित्तास्रदोषशोषकारित्वञ्च । यथा भावप्रकाशे ।
“पक्वो रसो गुरुः स्निग्धः सुतीक्ष्णः कफवातनुत् ।
गुल्मानाहप्रशमनः किञ्चित् पित्तहरः स्मृतः” ॥ * ॥
इक्षुरसविकारगुणाः । यथा भावप्रकाशे ।
“इक्षोर्विकारास्तृड्दाहमूर्च्छापित्तास्रनाशनाः ।
गुरवो मधुरा बल्याः स्निग्धाः वातहराः सराः ।
वृष्या मोहहराः शीता वृंहणा विषहारिणः” ॥)

इक्षुरसक्वाथः, पुं, (इक्षुरसस्य क्वाथः ।) गुडः । इति

हेमचन्द्रः ॥ (गुडशब्देऽस्य गुणादयो व्याख्येयाः ।)

इक्षुरसोदः, पुं, (इक्षुरसवत् उदकं यस्य उदकस्य

उदभावः ।) इक्षुसमुद्रः । इति जटाधरः ॥

इक्षुवल्लरी, स्त्री, (इक्षुरिव सुस्वादा वल्लरी ।) क्षीर-

विदारी । क्षीरकन्दः । इति राजनिर्घण्टः ॥

इक्षुवल्ली, स्त्री, (इक्षुरिव सुस्वादा वल्ली लता ।)

क्षीरविदारी । इति राजनिर्घण्टः ॥

इक्षुवाटिका, स्त्री, पुण्ड्रकः । इति राजनिर्घण्टः ।

पुडि आक् इति भाषा ।

इक्षुवाटी, स्त्री, (इक्षोर्वाटीव ।) पुण्ड्रकः । इति

राजनिर्घण्टः ।

इक्षुवेष्टनः, पुं (इक्षोरिव वेष्टनं यस्य ।) भद्रमुञ्जः ।

इति राजनिर्घण्टः ॥

इक्षुशाकटं, क्ली, (इक्षोः क्षेत्रं । इक्षुशब्दात् क्षेत्रे

शकटशाकिनौ इति शाकटप्रत्ययः ।) इक्षुक्षेत्रम् ।
इति व्याकरणम् ॥ इक्षुर भूमि इति भाषा ।

इक्षुशाकिनं, क्ली, (इक्षोर्भवनं क्षेत्रं वा । इक्षु +

शाकिन ।) इक्षुक्षेत्रं । इति व्याकरणम् ॥

इक्षुसारः, पुं, (इक्षोः सारः ।) गुडः । इति राजनिर्घण्टः ॥

इक्ष्वाकुः पुं, (इक्षुमाकरोतीति । इक्षु + आङ् + कृ

+ मितद्र्वादित्वात् डुः । यद्वा इक्ष इति शब्दं
अकतीति अक गतौ बाहुलकादुण् ।) वैवस्वतमनु-
पुत्त्रः । स तु सत्ययुगे अयोध्यायां सूर्य्यवंशीयादि-
राजः । इति पुराणम् ॥ (गीतायाम् । ४ । १ ।
“विवस्वान् मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत्” ।
इक्ष्वाकोर्गोत्रे जाताः इति व्युत्पत्त्या वाच्यलिङ्गाः ।
इक्ष्वाकुवंशोद्भवाः । यथा रघुः । १ । ७२ ।
“इक्ष्वाकूणां दुरापेऽर्थे त्वदधीना हि सिद्धयः” ।)

इक्ष्वाकुः, स्त्री, (इक्षु + आङ् + कृ + डु ।) कटु-

कुम्बी । इत्यमरो मेदिनी च ॥ तितलाउ इति
भाषा । (“इक्ष्वाकुकुसुमचूर्णं वा पूर्ब्बवदेव क्षीरेण
काशश्वासच्छर्द्दिकफरोगेषूपयोगः” । इति सुश्रुते ।
“सिद्धं वक्ष्याम्यथेक्ष्वाकुकल्पं येषां प्रशस्यते” ।
अस्याः पर्य्यायो यथा ।
“लम्बाऽथ कटुकालावुतुम्बी पिण्डफला तथा ।
इक्ष्वाकौ फलिनी चैव प्रोच्यते तस्य कल्पना” ॥
अस्या रोगविशेषे प्रशस्तता यथा ।
“कासश्वासविषच्छर्द्दिज्वरार्त्ते कफकर्षिते ।
प्रताम्यति नरे चैव वमनार्थं तदिष्यते” ॥
अवस्थाभेदेनास्या व्यवहारो यथा ।
“अपुष्पस्य प्रबालानां मुष्टिं प्रादेशसम्मिताम् ।
क्षीरप्रस्थे श्टतं दद्यात् पित्तोद्रिक्ते कफज्वरे ॥
पुष्पादिषु च चत्वारः क्षीरे जीमूतके यथा ।
योगाहरितपाण्डूनां सुरामण्डेन पञ्चमः ॥
फलस्य रसभागञ्च त्रिगुणक्षीरसाधितम् ।
उरःस्थिते कफे दद्यात् स्वरभेदे सपीनसे ॥
हृतमध्येफलेजीर्णे स्थितं क्षीरं यदा दधि ।
जातं स्यात् कफजे कासे श्वासे वम्याञ्च तत्पिबेत् ॥
मस्तुना वा फलान्मध्यं पाण्डुकुष्ठविषार्द्धितः ।
तेन तक्रं विपक्वं वा सक्षौद्रलवणं पिबेत् ॥
अजाक्षीरेण वीजानि भावयेत् पाययेत च ।
विषगुल्मोदरग्रन्थिगण्डेषु श्लीपदेषु च ॥
तुम्ब्याः फलरसैः शुष्कैः सपुष्पैरवचूर्णितम् ।
छर्द्दयेन्माल्यमाघ्राय गन्धसम्पत्सुखोचितः ॥
भक्षयेत्फलमध्यं वा गुडेन पललेन च ।
इक्ष्वाकुफलतैलं वा सिद्धं वा पूर्ब्बवद्घृतम् ॥
पञ्चाशद्दशवृद्धानि फणादीनां यथोत्तरम् ।
पिबेद्विमृद्य वीजानि कषायेष्वासुतं पृथक् ।
यष्ट्याह्वकोविदाराद्यैर्मुष्टिमन्तर्नखं पिबेत् ॥
कषायैः कोविदाराद्यैर्मात्राश्च फलवत् स्मृताः ।
गुल्ममेहे प्रसेके च कल्कं मांसरसैः पिबेत् ॥
नरः साधु वमत्येवं न च दौर्ब्बल्यमश्नुते” ॥
“इक्ष्वाकुमूलं मदनं विशल्यातिविषे वचां ।
कुष्ठं किण्वाग्निकौ चापि पिबेत्तुल्यानि पूर्ब्बवत्” ॥)
इति चरकः ॥)

इक्ष्वारिः, पुं, (इक्षुवृक्षस्य अरिः ।) काशतृण । इति

राजनिर्घण्टः ॥ (काशशब्देऽस्य गुणादयो ज्ञा-
तव्याः ।)

इक्ष्वालिकः, पुं, (इक्षुरिव अलति व्याप्नोतीति ।)

काशतृणं । इति भावप्रकाशः ॥

इक्ष्वालिका, स्त्री, (इक्ष्वालिक + टाप् ।) इक्षतुल्या ।

इति रत्नमाला ॥ आनाखु इति भाषा । खागडा
इति केचित् ॥

इख, गतौ । (भ्वादिं-परं-सकं-सेट् ।) इति कवि-

कल्पद्रुमः ॥ तृतीयस्वरादिः । एखति । इति
दुर्गादासः ॥

इख, इ, गतौ । (भ्वादिं-परं-सकं-सेट्-इदित् ।) इति

कविकल्पद्रुमः ॥ तृतीयस्वरादिः । इ, इङ्खते । इति
दुर्गादासः ॥

इग, इ, गतौ । (भ्बादिं-परं-सकं-सेट्, इदित् ।) इति

कविकल्पद्रुमः ॥ तृतीयस्वरादिः । इ, इङ्गति
इङ्गितं । इति दुर्गादासः ॥ (यदुक्तं भारते ।
“त्वया सृष्टमिदं विश्वं यच्चेङ्गं यच्च नेङ्गति” ।

इङ्गं, त्रि, (इगि + क ।) अद्भुतं । जङ्गमं । इति

मेदिनीकरहेमचन्द्रौ ॥ (यथा, भारते ।
(“त्वया सृष्टमिदं विश्वं यच्चेङ्गं यच्च नेङ्गति” ।)

इङ्गः, पुं, (इङ्ग + घञ् ।) इङ्गितं । ज्ञानं । इति

मेदिनीकरहेमचन्द्रौ ॥

इङ्गितं, क्ली, (इगि + क्त ।) अभिप्रायानुरूपचेष्टा-

विष्करणं । ठार सङ्केत । इत्यादि भाषा । तत्य-
य्यायः । आकारः २ इङ्गः ३ । इत्यमरः ॥ गमनं ।
चेष्टा । इति हेमचन्द्रः ॥
(“आकारैरिङ्गितैर्गत्या चेष्टया भाषणेन च ।
नेत्रवक्त्रविकारेण लक्ष्यतेऽन्तर्गतं मनः” ॥
हितोपदेशे सुहृद्भेदः । (तथाच रघुः १ । २० ।)
पृष्ठ १/२०४
:“तस्य संवृतमन्त्रस्य गूढाकारेङ्गितस्य च” ।)

इङ्गुदः, पुं (इङ्गं द्यति अवखण्डयतीति । इङ्ग + दो

+ क । अस्य उक् ।) इङ्गुदीवृक्षः । इत्यमर-
भरतौ ॥
(“इङ्गुदन्तिक्तमधुरं स्निग्धोष्णं कफवातजित्” ।
इति चरकः ॥ ० ॥ विशेघोऽन्यश्चेङ्गुदीशब्दे ज्ञेयः ॥)

इङ्गुदी, स्त्री, (इङ्गुद + ङीष् ।) वृक्षविशेषः । इङ्गौट

इति भाषा । जीयापुता इति तु वङ्गदेशीयाः
प्रमादेन वदन्ति तस्य तु पुत्त्रजीव इत्यादीनि
नामानि प्रसिद्धानि । तत्पर्य्यायः । तापसतरुः २ ।
इत्यमरः ॥ हिङ्गुपत्रः ३ विषकण्टः ४ अनिलान्तकः
५ गौरत्वक् ६ तनुपत्रः ७ शूलारिः ८ तापसद्रुमः
९ तीक्ष्णकण्टः १० तैलफलः ११ पूतिगन्धः १२
विगन्धकः १३ क्रोष्टुफलः १४ ।
(यथा रघुः १४ । ८१ ।
“ता इङ्गुदीस्नेहकृतप्रदीप-
मास्तीर्णमेध्याजिनतल्पमन्तः” ॥)
अस्या गुणाः । मदगन्धित्वं । कटुत्वम् । उष्णत्वम् ।
फेनिलत्वम् । लघुत्वम् । रसायनत्वम् । जन्तु-
वातामयकफव्रणनाशित्वञ्च । इति राजनिर्घण्टः ॥
(अस्य पर्य्यायपूर्ब्बकं गुणानाह ।
“इङ्गुदोऽङ्गारवृक्षश्च तिक्तकस्तापसद्रुमः ।
इङ्गदः कुष्ठभूतादिग्रहव्रणविषक्रिमीन् ॥
हन्त्युष्णश्वित्रशूलघ्नस्तिक्तकः कटुपाकवान्” ।
इति भावप्रकाशः ॥) ज्योतिष्मतीवृक्षः । इति
रत्नमाला ॥ नयाफट्की इति भाषा ।

इङ्गुलः, पुं, स्त्री, इङ्गुदीवृक्षः । इति भरतो द्विरूप-

कोषश्च ॥

इच्छा, स्त्री, (एषणं इच्छा । इष् + श + टाप् ।)

मनोधर्म्मविशेषः । तत्पर्य्यायः । आकाङ्क्षा २
वाञ्छा ३ दोहदः ४ स्पहा ५ ईहा ६ तृट् ७
लिप्सा ८ मनोरथः ९ कामः १० अभिलाषः ११
तर्षः १२ । इत्यमरः ॥ रुक् १३ इषा १४ श्रद्धा १५
तृष्णा १६ रुचिः १७ मतिः १८ दोहलं १९ छन्दः
२० इट् २१ । इति जटाधरः ॥ (यथा मनौ ५ । ४५
“योऽहिं सकानि भूतानि हिनन्त्यात्मसुखेच्छया” ।) ।
न्यायमते अस्याः कारणम् । (यथा, भाषापरि-
च्छेदे । १४८, १४९ ।)
“निर्दुःखत्वे सुखे चेच्छा तज्ज्ञानादेव जायते ।
इच्छा तु तदुपाये स्यादिष्टोपायत्वधीर्य्यदि ॥
चिकीर्षाकृतिसाध्यत्वप्रकारेच्छा तु या भवेत् ।
तद्धेतुः कृतिसाध्येष्टसाधनत्वमतिर्भवेत्” ॥
अस्याः प्रतिबन्धः । “बलवद्दिष्टहेतुत्वमतिः स्यात्
प्रतिबन्धिका” । इति भाषापरिच्छेदे १४८ ॥

इच्छावती, स्त्री, (इच्छा विद्यते यस्याः । इच्छा +

मतुप् । मस्य वः ।) धनादीच्छायुक्ता स्त्री । तत्-
पर्य्यायः । कामुका २ । इत्यमरः ॥

इच्छावसुः, पुं, (इच्छयाभिलाषमात्रेणव वसु धनं

यस्य ।) कुवेरः । इति जटाधरः ॥

इच्छुः, त्रि, (इच्छतीति । इषधातोर्निपातनात्

सिद्धम् ।) इच्छाविशिष्टः । आकाङ्क्षायुक्तः । इति
व्याकरणम् ॥ (यथा, रामायणे । ४ । ४ । ८ ।
(“शरण्यः शरणेच्छूनां पितुरादेशपालकः” ।)

इच्छुकः, पुं, (इच्छु + कन् ।) वृक्षविशेषः । इति शब्द

चन्द्रिका ॥ टावालेवु इति ख्यातः ।

इज्जलः, पुं, (एतीति । इ + क्विप् + तुक्; इत् जल-

मस्य ।) हिज्जलवृक्षः । हिजल गाछ इति भाषा ।
तत्पर्य्यायः । निचुलः २ अम्बुजः ३ । इत्यमरः ॥
(सपर्य्यायगुणाः यथा, भावप्रकाशे ।
“इज्जलो हिज्जलश्चापि निचुलश्चाम्बुजस्तथा ।
ज्जलवेतसवद्वेद्यो हिज्जलोऽयं विषापहः” ॥)

इज्यः, पुं, (इज्या विद्यते यस्य । इज्या अर्श आद्यच् ।)

वृहस्पतिः । इति ज्योतिषं शब्दरत्नावली च ॥
(“जीवार्किभानुजेज्यानां क्षेत्राणि स्युरजादयः” ।)

इज्यः, त्रि, (इज्या पूजास्त्यस्य । अर्शआद्यच् ।)

गुरुः । पूजनीयः । इति मेदिनी ॥

इज्या, स्त्री, (यजनं इति । यज + भावे क्यप् + टाप् ।)

दानं । यज्ञः । (यथा, रघुः । १ । ६८ ।)
(“सोहमिज्याविशुद्धात्मा प्रजालोपनिमीलितः”)
पूजा । सङ्गमः । इति मेदिनी ॥ (कर्म्मणि क्यप् ।)
गौः । इति राजनिर्घण्टः ॥ कुट्टनी । इति त्रि-
काण्डशेषः ॥

इज्याशीलः, पुं, (इज्यां यज्ञं शीलयति पुनःपुनरा-

चरतीति । इज्या + शील + ण ।) पुनःपुनर्यज्ञ-
कर्त्ता । तत्पर्य्यायः । यायजूकः २ । इत्यमरः ॥

इञ्चाकः, पुं, मत्सविशेषः । इति त्रिकाण्डशेषः ॥

इँच्ला मोचाचिङ्डि इति भाषा । (चिङ्गटशब्टे-
ऽस्य गुणादयो ज्ञातव्याः ॥)

इट गत्यां । (भ्वादिं-परं-सकं-सेट् ।) इति कवि-

कल्पद्रुमः ॥ एटति । इति दुर्गादासः ॥

इट्, [ष्] स्त्री, (इष् + क्विप् ।) इच्छा । इति जटाधरः ॥

इट्चरः, पुं, (एषणमिति इट् । इष् + क्विप् । तेन

चरति इति । इष् + चर् + अच् ।) षण्डः । इत्य-
मरः ॥ षाँड इति भाषा ।

इडा, स्त्री, (इल् + क + टाप् ।) बुधग्रहभार्य्या । सा

इक्ष्वाकुराजकन्या । (यथा हरिवंशे, --
“तत्र दिव्याम्बरधरा दिव्याभरणभूषिता ।
दिव्यसंहनना चैव इडा जज्ञे इति श्रुतिः” ॥)
गौः । (यथा, भारते, --
“इडाज्यहोमाहुतिभिर्मन्त्रशिक्षाविशारदैः” ।)
वचनं । (देवीभेदः । यथा, हरिवंशे, --
‘श्रुतिःप्रीतिरिडाकान्तिःशान्तिःपुष्टिःक्रिया तथा’ ।)
पृथ्वी । इति मेदिनी ॥ (यथा, महाभारते,
घोषयात्रापर्ब्बणि २३५ । १० ।
“पतत्रिसङ्घैः स जघन्यरात्रे
प्रबोध्यते नूनमिडातलस्थः” ।) स्वर्गः ।
शरीरस्य वामभागस्था नाडी । इति हेमचन्द्रः ॥
(तथा च षट्चक्रभेदे २ श्लोके ।
“मेरोर्वाह्यप्रदेशे शशिमिहिरशिरे सव्यदक्षे
निषण्णे, मध्ये नाडी सुषुम्ना त्रितयगुणमयी चन्द्र-
सूर्य्याग्निरूपा” ।
“मेरोर्मेरुदण्डस्य वाह्यप्रदेशे वहिर्भागे सव्यदक्षे
वामदक्षिणे पार्श्वे शशिमिहिरशिरे चन्द्रसूर्य्या-
त्मिके नाड्यौ इडापिङ्गलानाडीद्वयमितिफलि-
तार्थः । निषण्णे वर्त्तेते” । ज्ञानसङ्कलनीतन्त्रे । ८ ।
“इडा नाम सैव गङ्गा यमुना पिङ्गला स्मृता ।
गङ्गायमुनयोर्मध्ये सुषुम्ना च सरस्वती ॥
एतासां सङ्गमो यत्र त्रिवेणी सा प्रकीर्त्तिता ।
तत्र स्नातः सदा योगी सर्व्वपापैः प्रमुच्यते” ॥
इयन्तु सकामकर्म्मानुष्ठायिजीवानां पुंनरावर्त्ति-
कारिणी धूममार्गा पितृयानरूपिणी ।
अनयोरिडापिङ्गलयोर्मध्ये गता सुषुम्नैव ब्रह्म-
नाडी यस्यां नाड्यां इदं सर्व्वं विश्वं प्रतिष्ठितम् ।
यथा उत्तरगीतायाम् । २ अध्याये ।
“इडा च वामनिःश्वासः सोममण्डलगोचरा ।
पितृयानमितिज्ञेया वाममाश्रित्य तिष्ठति ॥ १२ ॥
गुदस्य पृष्ठभागेऽस्मिन् वीणादण्डस्य देहभृत् ।
दीर्घास्थि मूद्ध्निर्पर्य्यन्तं ब्रह्मदण्डेति कथ्यते ॥ १३ ॥
तस्यान्ते सुषिरं सूक्ष्मं ब्रह्मनाडीति सूरिभिः ॥ १४ ॥
इडा पिङ्गलयोर्मध्ये सुषुम्ना सूक्ष्मरूपिणी ॥
सर्व्वं प्रतिष्ठितं यस्यां सर्व्वगं सर्व्वतोमुखम्” ॥ १५ ॥
परं आसामिडादीनां नाडीनां शोधनमकुर्व्वन्
योगी कदाप्यात्मप्रसादं लब्धुं नार्हति तथा च
भगवच्छङ्करोक्तयोगशास्त्रे ।
“ईप्सितानि समभ्यस्य वाञ्छितानि यथाविधि ।
प्राणायामं ततो गार्गि जितासनगतोऽभ्यसेत् ॥
मृदासने कुशान् सम्यक् आस्तीर्य्यामृतमेव च ।
लम्बोदरञ्च सम्पूज्य फलमोदकभक्षणैः ॥
तदासने सुखासीनः सव्ये न्यस्येतरं करम् ।
समग्रीवशिराः सम्यक् संवृतास्यः सुनिश्चलः ।
प्राङ्मुखोदङ्मुखोवापि नासाग्रन्यस्तलोचनः ॥
अतिभुक्तमभुक्तञ्च वर्ज्जयित्वा प्रयत्नतः ।
नाडीसंशोध्रनं कुर्य्यात् उक्तमार्गेण यत्नतः ॥
वृथा क्लेशो भवेत्तस्य तच्छोधनमकुर्व्वतः ।
नासाग्रे शशभृद्वीजं चन्द्रातपवितानितम् ॥
सप्तमस्य तु वर्गस्य चतुर्थं वर्गसंयुतम् ।
विश्वमध्यस्थमालोक्य नासाग्रे चक्षुषी उभे ॥
इडया पूरयेद्वायुं वाह्यं ह्वादशमात्रकैः ।
ततोऽग्निं पूर्ब्बवद्ध्यायेत् स्फुरज्ज्वालावलीयुतम् ।
रुषष्ठं विन्दुसंयुक्तं शिखिमण्डलसंस्थितम् ॥
ध्यायेद्विरेचयेद्वायुं मन्दं पिङ्गलया पुनः ।
पुनः पिङ्गलयापूर्य्य घ्राणं दक्षिणतः सुधीः ॥
तद्वद्विरेचयेद् वायुमिडया तु शनैः शनैः ।
त्रिचतुर्वत्सरञ्चापि त्रिचतुर्मासमेव च ।
गुरुणोक्तप्रकारेण रहस्येवं समभ्यसेत्” ॥)

इडाचिका, स्त्री, (इडावत् अचति । इडा + अच् ।

ण्वुल् । टाप् + अत इत्वम् ।) वरटा । वोल्ता इति
भाषा । इति शब्दचन्द्रिका ॥

इडिका, स्त्री, (इडा + स्वार्थे क, इत्वम् ।) पृथ्वी ।

इति शब्दरत्नावली ॥
इडिक्वः, पुं, (इडिक् + कै + ड ।) वनच्छगलः ।
इति हेमचन्द्रः ॥

इड्वरः, पुं, (इट् + वृ + अच् ।) इट्चरः । वृषः ।

इत्यमरटीकायां स्वामी ॥

इत, इ बन्धे । (इदित् -दिवां -आत्मं -सक -सेट् ।)

इ इन्त्यते । इति दुर्गादासः ॥
पृष्ठ १/२०५

इतः, त्रि, (इ + क्त ।) गतः । स्मृतः । इति मेदिनी ॥

(प्राप्तः । ज्ञाने, क्ली ।)

इतः, [स्] व्य, (अस्मादिति निपातनात् सिद्धम् ।)

नियमः । पञ्चम्यर्थः । (यथा कुमारे २ । २८ ।
“तद्ब्रूत वत्साः किमितः प्रार्थयध्वं समागताः” ।)
विभागः । इति विश्वः ॥

इतरः, त्रि, (इना कामेन तरतीति । इ + तॄ + अच्

यद्वा इतेन ज्ञानेन क्षीयते इति बाहुलकात् अरः ।)
अन्यः (“वामेतरस्तस्य करः प्रहर्त्तुः” । इति
रघुः । २ । ३१ ।) नीचः । इत्यमरः ॥

इतरविशेषः, पुं, (इतरस्मात् विशेषः ।) अन्यप्रभेदः ॥

इतरेतरं, त्रि, अन्योऽन्यं । परस्परं । इति हेम-

चन्द्रः ॥ यथा, रघुः । ७ । ५४ ।)
(“व्यूहावुभौ तावितरेतरस्मात्
भङ्गं जयञ्चापतुरव्यवस्थम्” ।)

इतरेद्युः, [स्] व्य, (इतर + एद्युस् ।) इतरस्मिन्न-

हनि । अन्यदिने । इत्यमरः ॥

इतस्ततः, व्य, अत्र तत्र । एखाने सेखाने इति भाषा ।

यथा, --
“द्वे सहस्ने रथानां स गजानामयुतं रणे ।
इतस्ततो धावमानः सुरथो रथिनां वरः” ॥
इति जैमिनिभारते आश्वमेधिके पर्ब्बणि २०
अध्यायः ॥ अपि च ।
“ताडितास्तेन वीरेण फणीन्द्रास्त्रासमागताः ।
इतस्ततस्ते तन्मुक्ता गताः पातालमुज्जवाः” ॥
इति पाद्मे पातालखण्डे ४४ अध्यायः ॥

इति, व्य, (इण् + क्तिच् ।) हेतुः । (यथा, रघुः । २ । २२ ।

“वत्सोत्सुकापि स्तिमिता सपर्य्यां,
प्रत्यग्रहीत्सेति ननन्दतुस्तौ” ।)
प्रकरणम् । (यथा, मनुः । २ । १५ ॥
“उदितेऽनुदिते चैव समयाध्युसिते तथा ।
सर्व्वथा वर्त्तते यज्ञ इतीयं वैदिकी श्रुतिः” ॥)
प्रकाशः । (यथा, रघुः । १ । १२ ।
“दिलीप इति राजेन्दुरिन्दुः क्षीरनिधाविव” ॥)
आदिः । समाप्तिः । इत्यमरः ॥ निदर्शनम् ।
(“आपो नारा इति प्रोक्ता आपो वै नरसूनवः” ।
इति मनुः । १ । १० ।) प्रकारः । अनुकर्षः । पर-
कृतिः । इति मेदिनी ॥ (विवक्षानियमः । प्रत्यक्षं ।
अवधारणं । परामर्शः । मानम् । इत्थमर्थः ।
एवार्थः । “गुणानित्येव तान् विद्धि” । इति
रामायणे । १ म काण्डे ।)

इतिकथं, त्रि, (इति इत्थं प्रकारेण कथा यस्य ।)

अश्रद्धेयं । नष्टं । इति मेदिनी ॥

इतिकथा, स्त्री, अर्थशून्यवाक्यं । इति मेदिनी ॥

इतिह, व्य, (इति एवं च ह किल च ।) पारम्पर्य्यो-

पदेशः । तत्पर्य्यायः । ऐतिह्यं २ । इत्यमरः ॥

इतिहासः, पुं, (इतिह आस्तेऽस्मिन् । इतिह +

आस + घञ् ।) पूब्बवृत्तान्तः । पाचीनकथा ।
तत्पर्य्यायः । पुरावृत्तः २ । इत्यमरः ॥
(यथा, मनुः । ३ । २३२ ।
“आख्यानानीतिहासांश्च पुराणानि खिलानि च” ।)
व्यासादिप्रणीतभारतादिग्रन्थः । इति भरतः ॥

इत्कटः, पुं, (इतं समीपस्थं जनं कटति आच्छादयति

फलेन इति । इत् + कट् + अच् ।) वृक्षविशेषः ।
ओकडा इति भाषा । तत्पर्य्यायः । बहुमूलः २
वाटीदीर्घः ३ खरच्छदः ४ । इति रत्नमाला ॥
(“वीरणशालिषष्टिकेक्षुबालिकादर्मकुशकाशगुन्द्रे-
त्कटकतृणमूलानीति दशेमानि स्तन्यजननानि
भवन्ति” । इति चरकः ॥)

इत्किला, स्त्री, रोचनाख्यगन्धद्रव्यम् । इति शब्द-

चन्द्रिका ॥

इत्यं, व्य, (इदम् + थमु । एतेतौरथोरिति इदा-

देशः ।) इदंप्रकारं । इति वोपदेवः ॥ एइ प्रकार
इतिभाषा । (यथा रघौ । २ । २५ ।
“इत्थं व्रतं धारयतः प्रजार्थं
समं महिष्या महनीयकीर्त्तः ।)

इत्यः, त्रि, (इ + क्यप् ।) गम्यः । इति व्याकरणम् ॥

इत्वरः, त्रि, (एतीति + इ + क्वरप् ।) क्रूरकर्म्मा ।

पथिकः । टुर्व्विधः । नीचः । इति हेमचन्द्रः ॥

इत्वरी, स्त्री, (एति परपुरुषं प्राप्नोतीति । इ +

क्वरप् + ङीष् ।) असती । इत्यमरो मेदिनी च ॥
अभिसारिका । इति हेमचन्द्रः ॥

इद, इ, परमैश्वर्य्ये । (इदित् भ्वादि-परं-सकं-सेट् ।)

इति कविकल्पद्रुमः ॥ इ इन्दते इन्दति इन्द्रः ।
इति दुगर्दासः ॥

इदं, [म्] त्रि, (एति, इण् गतौ, इणो दमुगिदि दश-

पादीवृत्तिः । यद्वा इन्दति, इदि परमैश्वर्य्ये, इन्देः
कमिर्नलोपश्चेति दीक्षितः ।) पुरोवर्त्तिवाचकसर्व्व-
नाम । इति व्याकरणम् ॥ एइ इति भाषा ।

इदंकार्य्या, स्त्री, (इदम् कार्य्यं यस्याः ।) दुरालभा-

वृक्षः । इति शब्दचन्द्रिका ॥

इदा, स्त्री, संवत्सरादिवर्षपञ्चकान्तर्गततृतीयवत्सरः ।

इति मलमासतत्त्वं ॥ अस्या विवरणम् वत्सरशब्टे
द्रष्टव्यम् ॥

इदानीं, [न्] व्य, (इदम् + दानीं, इदम इश् ।) अस्मिन्

काले । सम्प्रति । इत्यमरः ॥
(“हविषे दीर्घसत्रस्य सा चेदानीं प्रचेतसः” ।
इति रघुः । १ । ८० ।) वाक्यभूषणम् । इति
शब्दरत्नावली ॥

इदानीन्तनं, त्रि, (इदानीं + भवार्थे ट्युः ।) इदानी-

म्भवं । सम्प्रतिजातं । आधुनिकं । इति व्याकरणम् ॥
“वासना चेदानीन्तनी प्राक्तनी च रसास्वादहेतुः” ।
इति साहित्यदर्पणे ३ परिच्छेदे । २९ ।)

इदावत्सरः, पुं, (इदा इति वत्सरः ।) संवत्सरादि-

पञ्चान्तर्गतवत्सरविशेषः । अस्मिन् वत्सरे अन्न-
वस्त्रदानं महाफलम् । इति विष्णुधर्म्मोत्तरम् ॥
(“संवत्सरोऽसि परिवत्सरोऽसीदावत्सरोसीद्वत्-
सरोऽसि” । इति वाजसनेयीसंहिता । २७ । ४५ ॥)

इद्धं, क्ली, (इन्द + क्तः ।) आतपः । दीप्तिः । इति

मेदिनी ॥ आश्चर्य्यं । इति जटाधरः ॥

इद्धः, त्रि, निर्म्मलः । इति शब्दरत्नावली ॥

इद्वत्सरः, पुं, इदावत्सरः । यथा, --

“संवत्सरस्तु प्रथमो द्वितीयः परिवत्सरः ।
इद्वत्सरस्तृतीयस्तु चतुर्थस्त्वनुवत्सरः ॥
पञ्चमो वत्सरस्तेषां तदेभिः पञ्चभिर्युगं ।
तेषु संवत्सरो ह्यग्निः सूर्य्यस्तु परिवत्सरः ॥
सोम इद्वत्सरस्तेषां वायुश्चैवानुवत्सरः ।
रुद्रस्तु वत्सरो ज्ञेयः पञ्चाव्दा ये युगात्मकाः” ॥
इति देवीपुराणे कालव्यवस्थानामाध्यायः ॥

इध्मं, क्ली, (इन्ध + मक् ।) अग्निसन्दीपनकाष्ठम् ।

इत्यमरः ॥ जालानि काठ इति भाषा ।
(“तत्रेध्मानयने शुक्रो नियुक्तः कश्यपेन ह” ।
इति भारते ।)

इनः, पुं, (एतीति । इ + नक् ।) सूर्य्यः । प्रभुः । (“वसु

न इनस्पतिः” । ऋग्वेदे । ४३ । २ ।) नृपभेदः ।
इत्युणादिकोषः ॥

इनानी, स्त्री, वटपत्रीवृक्षः । इति राजनिर्घण्टः ॥

इन्दम्बरं, क्ली, (इन्दं महार्हम् अम्बरं नीलवस्त्रमिव ।)

इन्दीवरं । नीलोत्पलं । इति शब्दमाला ॥

इन्दिन्दिरः, पुं, भ्रमरः । इति हेमचन्द्रः ॥

इन्दिरा, स्त्री, (इन्द + किरच + टाप् ।) लक्ष्मीः ।

इति जटाधरः त्रिकाण्डशेषश्च ॥ (“मन्दं मन्दं
मन्दिरादिन्दिरेव” इति भामिनीविलासे ।)
शोभा । कान्तिः । यथा, “निशि निःसरदिन्दिरं
कथं तुलयामः कलयापि पङ्कजम्” । इति भामि-
नीविलासे ।)

इन्दिरामन्दिरं, क्ली, (इन्दिरायाः मन्दिरं वासस्थान-

मिव ।) विष्णुः । इति राजवल्लभः ॥

इन्दिरालयं, क्ली, (इन्दिरायाः लक्ष्म्याः आलयः ।)

पद्मं । इति शब्दरत्नावली । क्लीवत्वमभिधानात् ॥

इन्दिरावरं, क्ली, (इन्दिरायाः लक्ष्म्याः वरं प्रियं ।)

नीलोत्पलं । इति शब्दरत्नावली ॥

इन्दिवरं, क्ली, (इन्दतीति । इदि परमैश्वर्य्ये, इगुप-

धात् किदिति इन् । इन्दिर्लक्षीस्तस्याः वरं प्रियं ।)
नीलोत्पलं । इति शब्दमाला ॥

इन्दीवरं, क्ली, (इन्दी लक्ष्मीस्तस्याः वरं प्रियं ।) नील-

पद्मं । तत्पर्य्यायः । नीलाम्बुजन्म २ । इत्यमरः ।
कुवलयं ३ नीलाब्जं ४ नीलोत्पलं ५ । इति रत्न-
माला ॥ (“इन्दीवरेण नयनं मुखमम्बुजेन” । इति
कालिदासः । “इन्दीवरश्यामतनुर्नृपोऽसौ” । इति
रघुः । ६ । ६५ ।) (नीलोत्पलशब्देऽस्यगुणादयो ज्ञेयाः ।)

इन्दीवरिणी, स्त्री, (इन्दीवर + इनि ङीष् ।) उत्प-

लिनी । इति राजनिर्घण्टः ॥ (नीलोत्पलसमूहः ।)

इन्दीवरी, स्त्री, (इन्दीवरमस्त्यस्याः । अर्श आद्यच्

गौरादित्वात् ङीष् ।) शतमूली । इति मेदिनी-
राजनिर्घण्टौ ॥
(“वासानिम्बपटोलकेतकिबलाकुष्माण्डकेन्दीवरी”
इति परिभाषायां ॥)

इन्दीवारं, क्ली, (इन्द्या लक्ष्म्या वारो वरणं यस्मिन् ।)

इन्दीवरं । इत्यमरटीकायां रायमुकुटः ॥

इन्दुः, पुं, (उनत्ति अमृतधारया भुवं क्लिन्नां करोति

इति । उन्द + उ + आदेरिच्च ।) चन्द्रः ।
(“दिलीप इति राजेन्दरिन्दुः क्षीरनिधाविव” ।
इति रघुः । १ । १२ ।) कर्पूरः । इत्यमरः ॥
(चन्द्रसमसंख्यः एकसंख्यायुक्तः । मृगशिरानक्षत्रम् ॥
“दिवार्ककिरणैर्जष्टं स्पष्टमिन्दुकरैर्निशि” ।
पृष्ठ १/२०६
:इति वैद्यकद्रव्यगुणः ॥)

इन्दुकः, पुं, (इन्दुरिव शुक्लत्वात् । इन्दु + कन् ।)

अश्यन्तकवृक्षः । इति राजनिर्घण्टः ॥

इन्दुकमलं, क्ली, (इन्दुश्चन्द्र इव शुभ्रं कमलं ।) सितो-

त्पलं । इति राजनिर्घण्टः ॥

इन्दुकलिका, स्त्री, (इन्दुरिव शुक्ला कलिका यस्याः ।)

केतकी । इति राजनिर्घण्टः ॥ (केतकीशब्देऽस्या
विशेषो ज्ञेयः ॥)

इन्दुकान्तः, पुं, (इन्दुः कान्तः प्रियो यस्य । चन्द्रोदये-

ऽयं निष्यन्दतीतिभावः ।) चन्द्रकान्तमणिः । इति
राजनिर्घण्टः ॥

इन्दुकान्ता, स्त्री, (इन्दुः कान्तो यस्याः ।) रात्रिः ।

इति हेमचन्द्रः ॥

इन्दुजनकः, पुं, (इन्दोर्जनकः ।) समुद्रः । इति त्रिकाण्ड-

शेषः ॥ (समुद्रात् चन्द्रोत्पत्तिकथा भारते आदि-
पर्ब्बणि अष्टादशाध्याये द्रष्टव्या । यथा, --
“ततः शतसहस्रांशुर्मथ्यमानात्तु सागरात् ।
प्रसन्नात्मा समुत्पन्नः सोमः शोतांशुरुज्ज्वलः” ॥ ३४ ॥)

इन्दुजा, स्त्री, (इन्दोर्जायते या । इन्दु + जन् + ड ।)

नर्म्मदा नदी । इति हेमचन्द्रः । नर्व्वदा इति
ख्याता । (इयं च प्रतीच्यामवन्तिषु स्थिता प्रत्यक्
स्रोतोवहा च । यथा, --
“अवन्तिषु प्रतीच्यां वै कीर्त्तयिष्यामि ते दिशि ।
यानि तत्र पवित्राणि पुण्यान्यायतनानि च ॥
प्रियङ्ग्वाम्रवनोपेता वानीरफलशालिनी ।
प्रत्यक्स्रोता नदी पुण्या नर्मदा तत्र भारत” ! ॥
इति भारते आदिपर्ब्बणि ८९ अध्यायः ॥)

इन्दुपुत्रः, पुं, (इन्दोः पुत्रः ।) बुधग्रहः । इति शब्द-

रत्नावली ॥

इन्दुपुष्पिका, स्त्री, (इन्दुरिव शुभ्रं पुष्पं यस्याः ।)

कलिकारोवृक्षः । इति राजनिर्घण्टः ॥ विषला-
ङ्गला इति भाषा ।

इन्दुभृत्, पुं, (इन्दुं बिभर्त्तीति । इन्दु + भृ + क्विप् ।)

शिवः । इति हेमचन्द्रः ॥

इन्दुमती, स्त्री, (इन्दुः पुर्णेन्दुर्विद्यते यस्याः । इन्दु +

मतुप् ।) पूर्णिम्छि इति राजनिर्घण्टः ॥ (इन्दमती
पूर्णिमेव आनन्ददायिका स्वनामख्याता विदर्भ-
राजभगिनी, अजराजपत्नी । यथा, -- रघुः ।
“अथेश्वरेण क्रथकैशिकानां
स्वयंवरार्थं स्वसुरिन्दुमत्याः” । ५ । ३९ ।
“वसुधामपि हस्तगामिनी-
मकरोदिन्दुमतीमिवापरां” । ८ । १ ।)

इन्दुरत्नं, क्ली, (इन्दुरिव शुभ्रं रत्नम् ।) मुक्ता । इति

राजनिर्घण्टः ॥

इन्दुलेखा, स्त्री, (इन्दोश्चन्द्रस्य लेखेव ।) अमृता ।

सोमलता । शशिकला । इति मेदिनी । यमा-
निका इति शब्दमाला ॥

इन्दुलोहकं, क्ली, (इन्दुलोह + कन् ।) रौप्यं । इति

राजनिर्घण्टः ।

इन्दुवल्ली, स्त्री, (इन्दोर्वल्ली लता ।) सोमलता । इति

जटाधरः ॥ (सोमलताशब्देऽस्या गुणादयो व्या-
ख्येयाः ॥)

इन्दुव्रतं, क्ली, (इन्दवे इन्दुलोकार्थं वा व्रतं ।) चान्द्राय-

णव्रतं । इति त्रिकाण्डशेषः ॥ (यथा, महाभारते ॥)
(“इन्दुव्रतसहस्रं तु यश्चरेत् कायशोधनम् ।
पिबेत् यश्चापि गङ्गाम्भः समौ स्यातां न वा समौ”)

इन्दूरः, पुं, मूषिकः । इति जटाधरः । इँदुर इति

भाषा ॥ (गणेशबाहनं । इति पुराणम् ।)

इन्द्रः, पुं, (इन्दतोति । इदि परमैश्वर्य्ये तस्मात् रन्-

प्रत्ययः ।) देवराजः । स तु अदितिपुत्त्रः । पूर्ब्ब-
दिक्पतिश्च । तस्य भार्य्या शची । पुत्त्राः जयन्तः १
ऋषभः २ मीढ्वांश्च ३ । अस्त्रं वज्रं । वाहनं ऐरा-
वतः । पुरी अमरावती । वनं नन्दनं । तत्पर्य्यायः ।
मरुत्वान् २ मघवा ३ विडोजाः ४ पाकशासनः ५
वृद्धश्रवाः ६ सुनासीरः ७ पुरुहूतः ८ पुरन्दरः ९
जिष्णुः १० लेखर्षमः ११ शक्रः १२ शतमन्युः १३
दिवस्पतिः १४ सुत्रामा १५ गोत्रभित् १६ वज्री १७
वासवः १८ वृत्रहा १९ वृषा २० वास्तोस्पतिः २१
सुरपतिः २२ बलारातिः २३ शचीपतिः २४ जम्भ-
भेदी २५ हरिहयः २६ स्वाराट् २७ नमुचि-
सूदनः २८ संक्रन्दनः २९ दुश्च्यवनः ३० तुराषाट्
३१ मेघवाहनः ३२ आखण्डलः ३३ सहस्राक्षः ३४
ऋभुक्षा ३५ । इत्यमरः । महेन्द्रः ३६ कौशिकः ३७
पूतक्रतुः ३८ विश्वम्भरः ३९ हरिः ४० पुरदंशा
४१ शतधृतिः ४२ पृतनाषाड् ४३ अहिद्विषः
४४ । इति जटाधरः ॥ वज्रपाणिः ४५ देवराजः
४६ पर्व्वतारिः ४७ पर्य्यण्यः ४८ देवताधिपः ४९
नाकनाथः ५० पूर्ब्बदिक्पतिः ५१ पुलोमारिः ५२
अर्हः ५३ प्राचीनवर्हिः ५४ तपस्तक्षः ५५ । इति
शब्दरत्नावली । तस्य चतुर्द्दश नाम भेदा यथा ।
“इन्द्रश्च विश्वभुग् ज्ञेयो विपश्चित्तदन्तरम् ।
विभुः प्रभुः शिखिश्चैव तथैब च मनोजवः ।
तेजस्वी साम्प्रतस्त्विन्द्रो वलिर्भाव्यस्त्वनन्तरम् ॥
अद्भुतस्त्रिदिवश्चैव दशमस्त्विन्द्र उच्यते ।
सुशान्तिश्च सुकीर्त्तिश्च ऋतधाता दिवस्पतिः ।
इति भूता भविष्याश्च इन्द्रा ज्ञेयाश्चतुर्द्दश” ॥
इति देवीपुराणे कालव्यवस्थध्यायः ।
विष्कुम्भादिसप्तविंशतियोगान्तर्गतषड्विंशयोगः ।
तत्र जातफलम् ।
“प्रतापशीलो बलवान् गुणज्ञः
श्लेष्माधिकः श्रीकमलाभ्यपेतः ।
किलेन्द्रयोगो यदि जन्मकाले
महेन्द्रतुल्यः पुरुषः प्रसन्नः” ।
इति कोष्ठीप्रदीपः ॥ * ॥ अन्तरात्मा आदित्य-
विशेषः । इति मेदिनी (यथा, हरिवंशे ।
“तत्र शक्रश्च विष्णुश्च जज्ञाते पुनरेव ह” ।)
कुटजवृक्षः । रात्रिः । इति धरणी ॥ उपह्वीप-
विशेषः । इति शब्दमाला ॥ परमेश्वरः । इति
वेदान्तः ॥ (“इन्द्रो मायाभिः पुरुरूप ईयते”
इति श्रुतिः ॥ इन्द्रियं । श्रेष्ठः । प्रथमः । यथा,
नरेन्द्रो राजा । पक्षीन्द्रो गरुडः । इत्यादिः ।)

इन्द्रकं, क्ली, (इन्द्रस्य ऐश्वर्य्यशालिनः कं सुखं यस्मिन् ।)

सभागृहम् । तत्पर्य्यायः । अस्थानगृहं २ । इति
हेमचन्द्रः ॥

इन्द्रकीलः, पुं, (इन्द्रस्य कील इव ।) मन्दरपर्ब्बतः ।

इति हेमचन्द्रः ॥ (यथा रामायणे २ । ८० । १८ ।
“तत्रेन्द्रकीलप्रतिमाः प्रतोलिवरशोभिताः ।)

इन्द्रकुञ्जरः, पुं, (इन्द्रस्य कुञ्जरः ।) ऐरावतहस्ती ।

इति जटाधरः ॥

इन्द्रकोषः, पुं, (इन्द्रस्य ऐश्वर्य्यशालिनः कोषः ।)

मञ्चः । खट्वा । इति त्रिकाण्डशेषः ॥ तमङ्गकः ।
इति हेमचन्द्रः । घोझला गोँजला इत्यादिख्यातः ।
निर्यूहोऽपि । यथा, महेश्वरः ।
“निर्यूहः शेखरे द्वारे निर्य्यासे नागदन्तके” ।

इन्द्रगोपः, पुं, (इन्द्रो गोपो रक्षको यस्य ।) रक्तवर्ण-

कीटबिशेषः । मखमली इति भाषा । तत्पर्य्यायः ।
अग्निरजः २ वैराटः ३ तितिभः ४ अग्निकः ५ इति
हेमचन्द्रः । शक्रगोपः ६ वर्षाभूः ७ रक्तवर्णः ८ ।
इति राजनिर्घण्टः ॥ (“अविरलवितरेवहीन्द्र-
गोपैः” । इति किराते । १९ । ३ ।)

इन्द्रचन्दनं, क्ली, (इन्द्रस्य चन्दनं वृक्षविशेषः ।)

हरिचन्दनम् । इति राजनिर्घण्टः ॥

इन्द्रचिर्भिटी, स्त्री, लताविशेषः । तत्पर्य्यायः । इन्दी-

वरा २ युग्मफला ३ दीर्घवृन्ता ४ उत्तमारणी ५
पुष्पमञ्जरिका ६ द्रोणी ७ करम्भा ८ नलिका ९ ।
अस्या गुणाः । कटुत्वं । शीतत्वं । पित्तश्लेष्मकास-
दोषव्रणकृमिनाशित्वं । चक्षुर्हितकारित्वञ्च । इति
राजनिर्घण्टः ॥

इन्द्रच्छन्दः, [स्] क्ली, (इन्द्र इव सहस्रपुच्छेन छाद्यते

इति । इन्द्र + छद् + असुन् । निपातनात् सिद्धं ।)
सहस्रगुच्छहारः । इति हेमचन्द्रः ॥

इन्द्रजालं, क्ली, (इन्द्राणामिन्द्रियाणां जालं आव-

रकम् । यद्वा इन्द्रस्य परमेश्वरस्य जालं माया
इव ।) मायाकर्म्म । भोजवाजि, भेल्कि इत्यादि
भाषा । तत्पर्य्यायः । कुहकं २ जालं ३ कुसृतिः ४ ।
तद्विवरणग्रन्थो यथा, --
“अथातः संप्रवक्ष्यामि चेन्द्रजालमनुत्तमम् ।
व्याधिदारिद्रहरणं जरामृत्युविनाशनम् ॥
इन्द्रस्य यो न जानाति जालेशं रुद्रभाषितम् ।
निग्रहानुग्रहे तस्य का शक्तिः परमेश्वरि ! ॥
न तेषां जायते सिद्धिर्गोत्रे क्षेत्रे गृहेऽपि वा ।
इन्द्रजालं न जानाति स क्रुद्धः किं करिष्यति ॥
न जीवति वरारोहे संसारे दुःखसागरे ।
इन्द्रजालं न जानाति कुतः सौख्यं भवेत्ततः ॥
कौतूहलं कुतस्तेषां कुतः कामा वरानने ! ।
संसारसागरे घोरे कामलुब्धाश्च मानवाः ।
रुद्रकर्म्म न हि तेषां कुतः सौख्यं विधीयते ॥
यथा नदौनदाः सर्व्वे सागरे समुपागताः ।
तथा सर्व्वाणि शास्त्राणि इन्द्रजालस्थितानि च ॥
तप्तानाञ्च यथा भानुः शीतलानां यथा शशो ।
गम्भीराणां यथा सिम्धुर्जालेन्द्रञ्च तथा प्रिये ! ।
तथा किं बहुनोक्तेन वर्णनेन पुनः पुनः ।
जालेन्द्रस्य समं शास्त्रं न भूतं न भविष्यति” ॥ * ॥
“अथातः संप्रवक्ष्यामि ओषधीनां विधिं वरे ।
येन विज्ञानमात्रेण सर्व्वसिद्धिर्भविष्यति ॥
महाकालस्य वीजानि प्रस्थमेकं समाहरेत् ।
पृष्ठ १/२०७
:धात्रीरसेन देवेशि ! सप्त वारान् विभावयेत्” ॥
गुटिका कर्त्तव्या तां गुटिकां मुखे निक्षिप्य
पारावतो भवति ॥ १ ॥ “अथातः संप्रवक्ष्यामि
शृणु त्वं मम वल्लभे । छागस्य शीर्षं संगृह्य कृष्ण-
मृत्तिकां पूरयित्वा पुनर्धुस्तूरवीजानि वापयेत् काले
तानि पुष्पितानि भवन्ति तदा यस्योपरि निक्षि-
पेत् स छागो भवति ॥ २ ॥ मयूरशीर्षमादाय
कृष्णचतुर्दश्यां मृत्तिकां पूरयेत् शणवीजानि वाप-
येत् यदा फलितो पुष्पितो भवति तदा शण-
वीजानि ग्रीवायां बन्धयेत् तेन मयूरो भवेत् ॥ ३ ॥
कृष्णचतुर्दश्यां मयूरशीर्षमादाय कृष्णमृत्तिकां
पूरयेत् कार्पासवीजानि वापयेत् यदा फलिताः
पुष्पिता भवन्ति पुष्पफले संगृह्य समस्तं पेषयित्वा
अङ्गं विलिप्य पानीयमध्ये प्रविश्य तथा जले
तिष्ठेत् यथा स्थले ॥ ४ ॥ कृष्ण-काक-शीर्षमादाय
काकमाचीवीजानि वापयेत् यदा फलिताः
पुष्पिता भवन्ति तत्फलं संगृह्य मुखे प्रक्षिप्य
काको भवति काक इव गच्छति मह्या उद्गीर्णे
मोक्षः ॥ ५ ॥ पारावतशीर्षमादाय कृष्णमृत्तिकां
पूरयित्वा तिलवीजानि वापयेत् क्षीरोदकेन सिञ्च-
नीयं यदा पुष्पिता भवन्ति तदा मुखे संस्थाप्य
अन्तर्हितो भवेत् ॥ ६ ॥ तेषां फलानां चूर्णं कृत्वा
तेन चूर्णेन यं स्पृशति स किङ्करो भवेत् सर्व्वस्वं
ददाति ॥ ७ ॥ तानि तिलानि संगृह्य नेत्राञ्जनेन
सह पिष्ट्वा कपिलादुग्धेन गुटिकां कारयेत् ।
सप्तरात्रं पाचयेत् । तां गुटिकां मुखे निक्षिप्य
अन्तर्हितो भवति देवैरपि न दृश्यते मनुष्याणां
का कथा । उद्गीर्णेन पुरुषो भवति । जीवेद्वर्षशतं
स्त्रियः सर्व्वे जनाश्च वश्या भवन्ति ॥ ८ ॥ गृध्रशिरः
समादाय कृष्णचतुर्दश्यां कृष्णमृत्तिकां निक्षेपेत्
लशुनवीजानि वापयेत् यदा फलं पुष्पं भवति तदा
पुष्यनक्षत्रे पुष्पं गृहीत्वा अञ्जनेन सह कपिला-
घृतेन कज्जलं पातयेत् चक्षुरञ्जनीयं तावत् योजन-
शतं पश्यति मेदिनीं दिवा नक्षत्राण्यपि पश्यति
लाभस्तस्य । किञ्चित् कर्त्तुमिच्छति तत् करोति
न संशयः ॥ ९ ॥ अन्ये च सर्व्वे जीवाः एवं उष्ट्र-
गद्धभमहिष्यादिलघुवृहज्जीवाः । यत् यत् वीजं
यस्य शिरसि वापयेत् यदा पुष्पितः फलितो
भवति तदा यस्य वीजानि मुखे निक्षिप्यन्ते स
जीवो भवति नात्र सन्देहः ॥ १० ॥ * ॥ अथ
सर्व्वेषां धारणमन्त्रः । ॐ ह्रीं ह्रीं ह्रें ऐं लं लं ॐ
भौ स्वाहा । एकादशाक्षरो मनुरस्य पुरश्चरणं
लक्षजपः । दशांशहोमः घृतेन तर्पणं मार्जनं
ब्राह्मणभोजनादिकं कारयित्वा सिद्धिर्भवति ॥ * ॥
अथ वश्याधिकारः ।
“मातुलुङ्गस्य मूलन्तु धुस्तूरवीजकेन च ।
पलाण्डुपुष्पमादाय सूक्ष्मचूर्णन्त् कारयेत् ॥
योऽस्य गन्धं समाघ्राति स च स्नेहेन पश्यति ।
दुन्दुभिं पटहांश्चैव शङ्खांश्चैव तु लेपयेत् ॥
एष भूतोपसृष्टानां कुमारीणां गृहेषु च ।
भृपतेः सेव्यमानानां तथापत्यापजीविनां ॥
न चाग्निर्दह्यते वेश्म यत्रैष सोऽगदो भवेत्” ।
अत्र मन्त्रः ।
ॐ “रक्तचामुण्डे अमुकं मे वशमानय ह्रीँ ह्रीं
हूं फट् । अयुतं जप्तव्यम् । ॐ नमोऽस्तु आदित्याय
किलि किलि चिलि चिलि धूमं लिहि यक्षिणि
मोदते हि शाकिनि अनिदुद्रुशूलपाणि स्वाहा ॥
वर्णाः ४० शिलाकृतिके मन्त्रे । ॐ नमो गुहा-
वासिन्यै गुहपति गुहिले मनोजवो ॐ एं ॐ
विज्वे नमः । शिलायाः कृतिः करलिखिता खदि-
रानलसन्तप्तलिङ्गा यतो नवयोषितोऽपि आक-
र्षणं । वर्णाः २६ । ॐ नमः कपालरुद्राय सर्व्व-
लोकवशङ्कराय अनाथायाप्रतिहतबलवीर्य्यपरा-
क्रमप्रभवाय हा हा हे हे पच पच मारय मारय
कपट कपट काट सर्प कर्म्मकरि अमुकं मे वश-
मानय स्वाहा । ७७ । वर्णाः अयुतजपाद्वशी-
करोति ॥ * ॥ अन्यप्रकारः ।
“पारावतस्य हृदयं चक्षुर्जिह्वा च शोणितम् ।
अञ्जनं रोचनयुतं वनितावशकृत् परम्” ॥
तत्र मन्त्रः । ॐ नय नय महारिणि नमो देव्यै
स्वाहा ॥ १५ ॥ एकविंशतिवारान् परिजप्य सिद्धि-
र्भवति ॥ * ॥ अन्यप्रकारः ।
“कपालं मानुषं गृह्यं कनकस्य फलानि च ।
कर्पूरं मधुसंयुक्तं निघृष्य तिलकेन च ॥
नारी वा पुरुषोऽनेन वश्यो भवति नित्यशः ।
एष कापालिको योगो वशिष्ठस्य शुभंमतम्” ॥ * ॥
अन्यप्रकारः । पुरुषार्थी ।
“कर्पूरं वालुकं लाक्षा रजसा सप्तभावितं ।
रतिकाले भगं लिप्य पतिर्दासो भविष्यति” ॥ * ॥
अन्यप्रकारः ।
“नरजिह्वां ममुद्धृत्य सूह्मचूर्णन्तु कारयेत् ।
जलेन च सुशीतेन दापयेत् तद्विचक्षणः ॥
पाने फले च पुष्पे च भक्ष्ये भोज्ये च दापयेत् ।
प्रजापतिकुलोद्भूता यदि साक्षादरुन्धती ॥
साभिसक्ता प्रियं याति नान्यं पुरुषमिच्छति” ॥ * ॥
अन्यप्रकारः ।
“कनकञ्चाप्यपामार्गं सुरसा गौरसर्षपाः ।
तिलतैलेन पिष्ट्वापि योनिलेपः प्रशस्यते” ॥
अत्र मन्त्रः । ॐ नम शय्यायै दरि विदरि या-
मिनि अमुकं मे वशमानय स्वाहा ॥ * ॥ अन्य-
प्रकारः । हरितालं श्मशाने कृष्णचतुर्दश्यां क्षिप्त्वा
कुष्ठविमिश्रं ग्राह्यं अवश्यं वशी भवेत् स नरः ॥ * ॥
अन्यप्रकारः । ऋतुनवलोचनतालाललाटास्थि-
बाणसाधितं तैलं सकलमनुजेन्द्रललनावशङ्करं
मकरालये पुष्ये । नरतैलं प्रेताम्बरवर्क्तिकं कृत्वा
मात्रे रात्रौ प्रज्वाल्यार्कवृक्षस्कन्धे कज्जलं कृत्वा
चक्षुषी अभ्यञ्जयेत् यंपश्यति स वश्यो भवति ॥ * ॥
अन्यप्रकारः ।
“कर्णदन्तमलं लाला स्वदेहाक्षिमलत्रयम् ।
नासिकोद्भवरक्तञ्च चूर्णमेतद्बलायुतम् ॥
एतत् सर्व्वं समुद्धृत्य गुटिकां कारयेद्बुधः ।
पानभोजनके देया वशीकरणमुत्तमम्” ॥ * ॥
अन्यप्रकारः ।
काकजिह्वा वचा कुष्ठं आत्मनो रुधिरं स्त्रियः ।
तद्भावितञ्च मञ्जिष्ठा तगरं गौरसर्षपाः ॥
शिवनिर्माल्यसंयुक्तं समभागानि कारयेत् ।
भोज्ये पानेऽथवा देयाः स्त्रीणान्तु वशकारकाः ॥
नित्यं पुरुषमिच्छन्ती मृतमप्यनुगच्छति ॥ * ॥
अन्यप्रकारः । कृष्णसर्पमप्यङ्गुलप्रमाणं शिर-
श्छित्वास्यास्यं सर्षपादिभिः पूरयित्वा छायाशुष्कं
शोषयेत् । परतः सर्षपान् ग्राहयित्वा तानि
यस्मै दीयते स वश्यो भवति ॥ * ॥ अन्यप्रकारः ॥
पूगीफलं निर्गिलित्वापानमार्ग निर्गतं गृह्यधुस्तूर-
रसान्तरितं कृत्वा सप्तदिनानि पूजयेत् ॥ पुनः
कुङ्कुमचन्दनैरधिभाव्य यस्मै दीयते स वश्यो
भवति ॥ * ॥ अन्यप्रकारः ।
“दर्दुरयुग्मं गृहीत्वा तद्धूमेन दाहयेत् ।
तद्भस्म सह पानेन वश्यकृत् परमो मतः” ॥ * ॥
अन्यप्रकारः ।
“अजगन्धस्य पत्राणि वचा कुष्ठेन मावयेत् ।
श्मशानभस्मसंयुक्तं चूर्णञ्चेत्त्रिषु दुर्लभम् ॥
अनेनैव तु चूर्णेन जोटयेत् त्रिश्च पादपम् ।
पुष्पितं फलितं दृष्ट्वा चूर्णं वृक्षाद्विलग्नयेत् ।
तत्क्षणात् फलते वृक्षो नरनारीषु का कथा ॥ * ॥
अन्यप्रकारः ।
“जिह्वामूले सप्तरात्रं सैन्धवेनापि मिश्रितम् ।
ददाति यस्य पानेषु सोऽपि वश्यो भवेत् क्षणात्” ॥ *
अन्यप्रकारः ।
“गोपित्तं सैन्धवञ्चैव वृहतीफलमेव च ।
लेपमेतत् प्रयोक्तव्यं नरनारीवशङ्करम्” ॥ * ॥
अन्यप्रकारः ।
“बालामूलं चूर्णयित्वा रक्तरेतःसमन्वितः ।
दद्यात् पानेन प्रमदां क्षिप्रमेव वशं नयेत् ॥
पुत्त्रादिञ्च धनं त्यक्त्वा दासीवत् भवति तु सा ।
यत्र वा नीयते तत्र पश्चात् भ्रमति विह्वला” ॥ * ॥
अन्यप्रकारः । वल्मीकमृत्तिकायाः प्रतिकृतिं कृत्वा
क्षीरेण स्नाप्य आज्येन वा अभ्यज्य तस्य लवणाहुति-
मेकविंशतिवारं जुहुयात् त्रिरात्रेण वश्यो भवति
सप्तरात्रेणाथवा । देवीञ्च गान्धारीं यक्षिणीं शक्र-
स्यापि पत्नीं वशमानयति ॥ * ॥ अन्यप्रकारः ।
“उद्गातुः पक्षिणो मलमात्मनो रुधिरान्वितम् ।
स्त्रीपुंसयोः प्रदातव्यं वशीकरणमुत्तमम्” ॥
अत्र मन्त्रः । त्रिशूलिने त्रिनेत्राय हिलि हिलि
स्वाहा । वर्णाः १४ । सप्तजप्तेन सिद्धिः ॥ * ॥
अन्यप्रकारः ।
“कृष्णपक्षचतुर्दश्यां मृतभस्म तु ग्राहयेत् ।
स्त्रीणाञ्च मूर्द्ध्नि दातव्यं विद्यया परिजप्तया ॥
दह्यते मुह्यते नारी पच्यते शुष्यतेऽपि च ।
अङ्गानि चैव भज्यन्ते यदि तं न समाविशेत्” ॥
अत्र मन्त्रः । ॐ नमश्चामुण्डे श्मशानवासिनि
स्वाहा । वर्णाः । १४ । सप्तरात्रेण प्रेरकः ॥ * ॥
अन्यप्रकारः ।
“श्वेतार्कं रोचनायुक्तं आत्ममूत्रेण पेषयेत् ।
ललाटे तिलकं कृत्वा त्रैलोक्यं क्षोभयेत् क्षणात् ।
दृष्टमात्रेण तेनैव सर्व्वो भवति किङ्करः” ॥ * ॥
अन्यप्रकारः ।
पृष्ठ १/२०८
:“श्वेतार्कं चन्दनेनैव रमयेत् सह लेपयेत् ।
दीयते कस्यचिद्वापि पश्चाद्दासी भविष्यति ॥ * ॥
अथ पतिवशीकरणम् ।
“मधुकं सह तैलेन सार्षपेण तु पेषयेत् ।
एतेन पाणिमभ्यज्य भर्त्रा सा सहिता स्वपेत् ॥
संवृत्ते मैथुनीभावे पतिर्दासो भविष्यति” ॥ * ॥
अन्यच्च ।
“मनःशिलाकुङ्कुमसर्षपाश्च
तथा च कुष्ठं सहदेवदारु ।
रक्तञ्च रक्तं पलितेन सार्द्धम्
प्रपेषयेत् सूक्ष्मतरं महान्तम् ॥
प्रस्नातपूर्ब्बाभिमुखोऽपि भूत्वा
संस्मृत्य लक्ष्मीञ्चरुकेण पूज्य ।
ततः प्रकुर्य्यात् तिलकं ललाटे
वामाच्च हस्ताच्चतुरङ्गुलीभिः ॥
पुंदृष्टमात्रेण भवेत् स कान्ता-
दासातिदासश्च किमत्र चित्रम्” ॥ * ॥
अथ लिङ्गलेपाधिकारः ।
“वृहतीफलमूलानि पिप्पली मरिचानि च ।
भया रोचनया सार्द्धं लिङ्गलेपोत्तमो मतः ॥
निःशेषस्त्रीजगत्कर्षं नाम्ना स्त्रीहृदयाङ्कुशम् ।
मोहनं शस्त्रमेतद्धि मदनस्य स्मृतं बुधैः” ॥ * ॥
अन्यच्च ।
“कुष्ठञ्च धातकीपुष्पं मरिचानि वचा तथा ।
अनेन लिङ्गमालिप्य कृत्स्नां श्यामां वशं नयेत् ॥
तासाञ्चित्तहरोऽप्येष मृतमप्यनुगच्छति ।
विवशा भक्तिभावेन पश्चात् सर्व्वं प्रयच्छति” ॥ * ॥
अन्यच्च ।
“पञ्चरक्तानि संगृह्य शुभानि च यथेच्छया ।
सर्व्वाणि समभागानि प्रियङ्गुञ्चापि तत्समम् ॥
नागरं दशभागेन लेपः कान्तावशङ्करः” ॥ * ॥
अन्यच्च ।
“देवदारु वचा कुष्ठं चतुर्थं वैश्वभेषजं ।
आम्लवीजरसैर्युक्तं गौरीश्यामावशङ्करम्” ॥ * ॥
अन्यच्च ।
“हरिद्रा वृहतीमूलं भद्रमुस्तं तथोत्पलम् ।
विडङ्गं कृष्णं वैरञ्च समभागानि कारयेत् ॥
लिङ्गलेपोत्तमो ह्येष रक्तवल्लीवशङ्करः” ॥ * ॥
अन्यच्च ।
“हरिद्रा पिप्पलीमूलं पद्मं मधुकमेव च ।
एतानि समभागानि नवनीतेन पेषयेत् ॥
लिङ्गलेपोत्तमो ह्येष गौरीप्रीताय शाङ्करः” ॥ * ॥
“कौशिकशोणितलेपात् सेचनाद्वापुष्टं भवेल्लिङ्गं ।
तद्वशन्तेजस्तम्भमयं कीलकसदृशं भवेच्च ॥
कौशिकं रुधिरं गृह्य गोमूत्रेण च पेषयेत् ।
वीर्य्यं हि स्तम्भयेन्नित्यं प्रहरार्द्धं न संशयः” ॥ * ॥
सर्व्वसाधारणो मन्त्रः । ॐ एं ह्रीं ह्रीं श्रीं
फट् स्वाहा । अनेन मन्त्रेण सर्व्वयोगानभिमन्त्र्य
सिद्धिः” । इति श्रीपार्ब्बतीपुत्त्रश्रीनित्यनाथविर-
चिते सिद्धखण्डे तन्त्रसारे कौतूहलविद्यानाम
इन्द्रजालतन्त्रम् ॥ * ॥ पुस्तकत्रयमालोच्य यथासाध्यं
शोधितमेतत् ॥ * ॥ * ॥ अपिच । ईश्वर उवाच ।
“इन्द्रजालं विना रक्षां न करोतीति निश्चितम् ।
रक्षामन्त्रं महामन्त्रं सर्व्वसिद्धिप्रदायकम्” ॥
“ओं नमो नारायणाय विश्वम्भराय इन्द्रजाल-
कौतुकानि दर्शय दर्शय सिद्धिं कुरु कुरु स्वाहा”
अष्टोत्तरशतजपेन सिद्धिः ॥ * ॥ अथ रक्षामन्त्रः ।
“ओं नमः परब्रह्मपरात्मने मम शरीरे पाहि
पाहि कुरु कुरु” ॥
“उल्लुकस्य कपालेन घृतेनाहतकज्जलं ।
तेन नेत्राञ्जनं कृत्वा रात्रौ पठति पुस्तकम् ॥ १ ॥
अङ्कोलवीजनिक्षिप्ते गुरुवारे मुखे गजे ।
मन्त्रेण सिञ्चयेन्नित्यं यावद्वीजफलं ह वै ॥
त्रिलौहवेष्टितं कृत्वा एकवीजं मुखे स्थितम् ।
मत्तमातङ्गवीर्य्यस्तु वायुतुल्यपराक्रमः ॥
दशहेमद्विषट्ताम्रं षोडशं रूप्यभागकम् ।
एवं संख्या त्रिलोही च ज्ञातव्या सर्व्वकर्म्मणि ॥ २ ॥
यानि कानि च वीजानि जङ्गमं स्थलमेव च ।
अङ्कोलवीजनिक्षिप्ते मुखे भूमितले ध्रुवम् ॥
तद्वीजं मुखमध्यस्थं त्रिलोहैर्वेष्टितं कुरु ।
तद्रूपो हि भवेन्मर्त्त्यो नान्यथा शङ्करोदितम् ॥ ३ ॥
यानि कानि च वीजानि अङ्कोलतैलमेलनात् ।
सफलो जायते वृक्षः सिद्धियोगमुदाहृतम् ॥ ४ ॥
शवमुखे विन्दुमात्रं तत्तैलं निःक्षिपेद्यदि ।
एकयामं भवेत् जीवो नान्यथा शङ्करोदितम् ॥ ५ ॥
शिग्रुवीजस्थितं तैलं पारावतपुरीषकम् ।
वराहस्य वसायुक्तं गृहीत्वा च समं समम् ॥
गर्दभस्य वसायुक्तं हरितालं मनःशिला ।
एभिस्तु तिलकं कृत्वा यथा लङ्केश्वरो नृपः ॥ ६ ॥
उल्लुविष्ठां गृहीत्वा तु एरण्डतैलपेषणात् ।
यस्याङ्गेनिक्षिपेत् विन्दुं स क्षिप्तो जायते ध्रुवम् ॥ ७ ॥
सर्पदन्तं गृहीत्वा तु कृष्णवृश्चिककण्टकम् ।
कृकलारक्तसंयुक्तं सूक्ष्मचूर्णन्तु कारयेत् ॥
यस्याङ्गे निक्षिपेञ्चूर्णं सद्यो याति यमालयम् ॥ ८ ॥
सिन्दुरं गन्धकं तालं समं पिष्ट्वा मनःशिलाम् ।
तल्लिप्तवस्त्रं शिरसि अग्निवत् दृश्यते ध्रुवम् ॥ ९ ॥
अर्कक्षीरं वटक्षीरं क्षीरं डुम्बरसम्भवम् ।
गृहीत्वा पात्रके लिप्ते जलपूर्णं करीति च ।
दुग्धं संजायते तत्र महाकौतुककौतुकम् ॥ १० ॥
अङ्कोलतैललिप्ताङ्गो दृश्यते राक्षसाकृतिः ।
पलायन्ते नराः सर्व्वे पशुपक्षिगजाहयाः ॥ ११ ॥
अङ्कोलस्य तु तैलेन दीपं प्रज्वालयेन्नरः ।
रात्रौ पश्यति भूतानि खेचराणि महीतले ॥ १२ ॥
बुधे वा शनिवारे वा कृकलां परिगृह्य च ।
शत्रुर्मूत्रयते यत्र कृकलां तत्र निःक्षिपेत् ॥
निखनेद्भूमिमध्येषु उद्धृते च पुनः सुखी ।
नपुंसकं भवेत् सत्यं नान्यथा शङ्करोदितम् ॥ १३ ॥
गन्धकं हरितालञ्च गोमूत्रञ्च विषं तथा ।
सूक्ष्मचूर्णमयं कृत्वा किञ्चिद्वह्निं विनिःक्षिपेत् ॥
विघ्नाः सर्व्वे पलायन्ते यथा युद्धेषु कातराः ॥ १४ ॥
इति दत्तात्रेयतन्त्रे ईश्वरदत्तात्रेयसंवादे इन्द्र-
जालकौतुकदर्शनं नाम एकादशः पटलः ॥ * ॥ * ॥
अन्यच्च ।
“वश्याकर्षणकर्म्माणि वसन्ते योजयेत् प्रिये ।
ग्रीष्मे विद्वेषणं कुर्य्यात् प्रावृषि स्तम्भनं तथा ॥
शिशिरे मारणञ्चैव शान्तिकं शरदि स्मृतम् ॥
हेमन्ते पौर्णमास्याञ्च ऋतुकर्म्मविशारदः ।
वसन्तश्चैव प्रर्ब्बाह्ने ग्रीष्मो मध्याह्न उच्यते ॥
वर्षा ज्ञेयापराह्ने तु प्रदोषे शिशिरः स्मृतः ।
अर्द्धरात्रे च हेमन्तः शरदं तत्परं स्मृतम्” ॥ * ॥
अथ पक्षादिनिर्णयः ।
“कृष्णपक्षे मारणादि शुक्लपक्षे च वर्द्धनम् ॥
द्वादश्यां मारणं कर्म्म एकादश्यां तथैव च ।
तृतीयां नवमीञ्चैव वश्याकर्षञ्च कारयेत् ।
स्तम्भनञ्च चतुर्दश्यां चतुर्थ्यां प्रतिपद्यपि ॥
द्वितीयां षष्ठीमष्टम्यां कारयेत् शान्तिकर्म्म च ।
अश्विनीमृगमूलाश्च पुष्या पुनर्व्वसुस्तथा ॥
वश्याकर्षञ्च कर्त्तव्यं कारयेच्च सदा बुधः ।
ज्येष्ठा च उत्तराषाढा अनुराधा च रोहिणी ॥
कारयेन्मारणं शान्तिं स्तम्भनं विजयं तथा ।
विधिमन्त्रसमायुक्तमौषधं सफलं भवेत्” ॥ * ॥
अथ वशीकरणम् ।
“सिग्दूरमाक्षिककपोतमलानि पिष्ट्वा
लिङ्गं विलिप्य रमते तरुणीं नवोढां ।
शान्तिं न याति पुरुषो मनसापि नूनं
दासी भवेदिति मनोहरदिव्यमूर्त्तिः ॥
पुष्ये रुद्रजटामूलं मुखस्थं कारयेद्बुधः ।
ताम्बूलादौ प्रदातव्यं वश्या भवति निश्चितम् ॥
तथैव पाटलीमूलं ताम्बूलेन तु वश्यकृत् ।
नागपुष्पं प्रियङ्गुञ्च तगरं पद्मकेशरम् ॥
जटामांसी समं नीत्वा चूर्णयेत् मन्त्रवित्तमः ।
साङ्गं धूपयते तेन भजते कामवत् स्त्रियः” ॥
ॐ मूली मूली महामूली सर्व्वं संक्षोभभयेभ्यः
उपद्रवेभ्यः स्वाहा । धूपमन्त्रः ॥
“पानीयस्याञ्जलीन् सप्त दत्त्वा विद्यामिमां जपेत् ।
सालङ्कारां नवां कन्यां लभते मासमात्रतः ॥
ॐ विश्वावसुर्नाम गन्धर्ब्बः कन्यानामधिपतिः सुरूपां
सालङ्कारां देहि मे नमस्तस्मै विश्वावसवे स्वाहा ।
“कन्यागृहे शालकाष्ठं क्षिपेदेकादशाङ्गुलम् ।
ऋक्षेच पूर्ब्बफल्गुन्यां यस्तां कन्यां प्रयच्छति ॥ * ॥
अथ सर्व्वजनवशीकरणम् ।
“शिला च रोचनामूलं वारिणा तिलके कृते ।
दृष्टमात्रे वशं याति नारी वा पुरुषोऽपि वा ॥
स्वर्णेन वेष्टनं कृत्वा तेनैव तिलके कृते ।
सम्भाषणेन सर्व्वेषां त्रैलोक्यं वशमानयेत्” ॥
ॐ ह्रीँ क्लीँ ऐँ क्षौँ भोगप्रदा भैरवी मातङ्गी
त्रैलोक्यं वशमानय स्वाहा । औषधोपरि सहस्रजपं
कुर्य्यात् । पुनः सप्तवारजपेन तिलकं कारयेत्
शक्रसमोऽपि वश्यो भवति । इति कालनाथविर-
चिते इन्द्रजाले १ अध्यायः ॥ * ॥
अथाकर्षणं । ॐ ह्रीँ चामुण्डे ज्वल ज्वल प्रज्वल
प्रज्वल स्राहा । अनेन मन्त्रेण स्त्रियं दृष्ट्वा जपं
कुर्य्यात् तत्क्षणात् पृष्ठतः समागच्छति । पूर्ब्ब-
मेवायुतजपेन सिद्धिः ॥
“अश्लेषायां समादाय अर्ज्जुनस्य च व्रध्नकम् ।
अजमूत्रेण संपिष्य स्त्रीणां शिरसि दापंयत् ॥
पृष्ठ १/२०९
:पुरुषस्य पशूनां वा क्षिपेदाकर्षणं भवेत्” ॥ * ॥
अथ जयः ।
“गोजिह्वां शिखिमूलं वा मुखे शिरसि संस्थिता ।
कुरुते सर्व्ववादेषु जयं पुष्ये समुद्धृते ॥
मार्गशीर्षपौर्णमास्यां शिखिमूलं समुद्धरेत् ।
बाहौ शिरसि वा धार्य्यं विवादे विजयो भवेत् ॥
गिरिकर्णीं शमीं गुञ्जां श्वेतवर्णां समाहरेत् ।
चन्दनेनान्वितञ्चैव तिलकेन जयी नरः ॥
कणकार्कवटावह्निर्विद्रुमः पञ्चमस्तथा ।
तिलकं कुरुते यस्तु पश्येत्तं पञ्चधा रिपुः ॥
आर्द्रायां वटवन्दाकं गृहीत्वा धारयेत् करे ।
संग्रामे जयमाप्नोति जयां स्मृत्वा जयी भवेत्” ॥
अस्य मन्त्रः । ॐ नमो महाबलपराक्रम समस्त-
विद्याविशारद अमुकस्य भूजबलं बन्धय बन्धय
दृष्टिं स्तम्भय स्तम्भय अङ्गानि धूनय धूनय पातय
पातय महीतले ह्रीं ॥ * ॥ अथ सौभाग्यम् ।
“पुष्योद्धृतं सितार्कस्य मूलं वामेतरे भुजे ।
बद्ध्वा सौभाग्यमाप्नोति दुर्भगापि न संशयः ॥
रक्तचितार्कमूलन्तु सोमग्रस्ते समुद्धृतं ।
क्षीद्रैः पिष्ट्वा वटीं कुर्य्यात् तिलकं शुभमङ्गना” ॥ * ॥
अथ ईश्वरादिक्रोधोपशमनं । ॐ शान्ते प्रशान्ते
सर्व्वक्रोधोपशमनि स्वाहा ।
अनेन मन्त्रेण त्रिःसप्तधा जपेन मुखं मार्जयेत् ।
ततः क्रोधोपशमनं भवति” ॥ * ॥ गजनिवारणम् ।
“श्वेतापराजितामूलं हस्तस्थं वारयेत् गजम् ।
मूलं त्रिशूल्या वक्त्रस्थं गजवश्यकरं भवेत्” ॥ * ॥
व्याघ्रनिवारणं ।
“मुखस्थं वृहतीमूलं हस्तस्थं व्याघ्रभीतिजित्” ।
ह्रीं ह्रीं ह्रीं श्रीं श्रो श्रो स्वाहा ।
इत्यष्टाक्षरमन्त्रेण लोष्ट्रं पठित्वा क्षिपेत् ।
तदा मुखं न चालयति गन्तुमशक्यः ॥
“मूलं कृष्णचतुर्दश्यां ग्राहयेल्लाङ्गलीभवम् ।
हस्तस्थं व्याघ्रभीतादिभयहृत् परिकीर्त्तितम्” ॥
इति इन्द्रजालतन्त्रे ३ उपदेशः ॥ * ॥ अथ स्तम्भनम् ।
“श्वेतगुञ्जोत्थितं मूलं मुखस्थं दृष्टतुण्डजित्” ।
ॐ ह्रीँ रक्ष रक्ष चामुण्डे तुरु तुरु अमुकं मे
वशमानय वशमानय स्वाहा । अयं चण्डामन्त्रः ।
उक्तयोगसिद्धिः ॥
“पुष्यार्के मधुवन्दाकं गृहीत्वा प्रक्षिपेद्बुधः ।
सभामध्ये च सर्व्वेषां मूखस्तम्भः प्रजायते” ॥ * ॥
मेघस्तम्भनम् । इष्टकद्वयसंपुटमध्ये मेघसंख्यक-
चतुरस्रं विलिख्य उद्याने स्थापयेत्तदा मेधान्
स्तम्भयति । मन्त्रः । “मेघान् स्तम्भय स्तम्भय” ॥ * ॥
नौकास्तम्भनम् ।
“भरण्यां क्षीरकाष्ठस्य कीलं पञ्चाङ्गुलं क्षिपेत् ।
नौकामध्ये तदा नौकास्तम्भनं जायते ध्रुवम्” ॥ * ॥
निद्रास्तम्भनम् ।
“मूलं वृहत्या मधुकं पिष्ट्वा नस्यं समाचरेत् ।
निद्रास्तम्भनमेतद्धि मूलदेवेन भाषितम्” ॥ * ॥
शस्त्रस्तम्भनम् ।
“कपित्थस्य च वन्दाकं कृत्तिकायां समाहरेत् ।
“वक्त्रसंस्थन्तु देवस्य शस्त्रस्तम्भनकं परम् ॥
करे सुदर्शनामूलबन्धनात् स्तम्भनं तथा” ।
ॐ अहो कुम्भकर्ण महाराक्षस निकषागर्भ-
सम्मतपरसैन्यस्तम्भन महाभय रणरुद्र आज्ञापय
स्वाहा । अष्टोत्तरसहस्रजपात् सिद्धिः ॥
“गृहीत्वा शुभनक्षत्रे अपामार्गस्य मूलकम् ।
लेपमात्रे शरीराणां सर्व्वशस्त्रनिवारणम् ॥
पुष्यार्के श्वेतगुञ्जाया मूलमुद्धृत्य धारयेत् ।
हस्ते काण्डभयं नास्ति संग्रामे च कदाचन” ॥ * ॥
गोमहिष्यादिस्तम्भनम् ।
“उष्ट्रस्यास्थि चतुर्दिक्षु निखनेत् भूतले ध्रुवम् ।
गां मेषीं महिषीं वाजीं स्तम्भयेत् करिणीमपि” ॥ * ॥
बुद्धिस्तम्भनम् ।
“भृङ्गराजमपामार्गं सिद्धार्थं सहदेविकाम् ।
ओलं वचाञ्च श्वेतार्कं ध्रुवमेषां समाहरेत् ॥
लौहपात्रे विनिक्षिप्य द्विदिनान्ते समुद्धरेत् ।
तिलकैः सर्व्वभूतानां बुद्धिस्तम्भकरं परम्” ॥
ॐ नमो भगवते विश्वामित्राय नमः सर्व्व-
मुखीभ्यां विश्वामित्र आगच्छ आगच्छ स्वाहा ।
उक्तयोगस्यायं मन्त्रः ॥ * ॥ चौरगतिस्तम्भननम् ।
ॐ ब्रह्मवेशिनि शिवे रक्ष रक्ष स्वाहा । अनेन
मन्त्रेण सप्तपाशान् गृहीत्वा त्रीणि कट्यां बद्ध्वा
अपरान् मुष्टिभ्यां धारयेत् । इति चौराणां गति-
स्तम्भनम् । * ॥ गर्भस्तम्भनम् ।
“ग्राह्यं कृष्णचतुर्दश्यां धूस्तूरस्य तु मूलकम् ।
कट्यां बद्ध्वा रमेत् कान्तां न गर्भं धारयेत् क्वचित् ॥
मुक्तेन लभते गर्भं पुरा नागार्ज्जुनोदितम् ।
तन्मूलचूर्णं योनिस्थं न गर्भें सम्भवेत् क्वचित् ॥
सिद्धार्थमूलं शिरसि बद्ध्वा कान्तां रमेत्तु थां ।
न गर्भं धारयेत् सा स्त्री मुक्तेन लभते पुनः” ॥ * ॥
शुक्रस्तम्भनम् ।
“नीलीमूलं श्मशानस्थं कट्यां बद्ध्वा तु वीर्य्यधृक् ।
रक्तापामार्गमूलन्तु सोमवारे निमन्त्रयेत् ॥
भौमे प्रातः समुद्धृत्य कट्यां बद्ध्वा तु वीर्य्यधृक्” ॥
इति कामरत्ने ३ उपदेशः ॥ * ॥ मोहनम् ।
“शृङ्गीवचानलदसर्जरसं समानं
कृत्वा त्रुटिं मलयजञ्च षडेकमिश्रम् ।
यो धूपयेन्निजगृहं वसनं शरीरं
तस्यापि दास इव मोहमुपैति लोकः” ॥
भृङ्गराजः केशराजो लज्जा च सहदेविका ।
एभिस्तु तिलकं कृत्वा त्रैलोक्यं मोहयेन्नरः” ॥
ॐ अं आं इं ईं उं ऊं ऋं ॠं हूं फट् ।
“अनेनैव तु मन्त्रेण कृत्वा ताम्बूलभावनम् ।
साध्यस्य मुखनिक्षिप्तेमोहमायाति तत्क्षणात्” ॥
ॐ भीँ क्षीँ भोँ मोहय । इमं मन्त्रं वारत्रयं
जपेत् । मोहमाप्नोति मानवः ॥ * ॥ देहरञ्जनम् ।
“कदम्बपत्रं लोध्रञ्च अर्ज्जुनस्य च पुष्पकम् ।
पिष्ट्वा गात्रोद्वर्त्तनाच्च कायदुर्गन्धनाशनम् ॥
एला-शटी-पत्रक-चन्दनानि
तोयाभयाशिग्रुघनामयानि ।
ससौरभोऽयं सुरराजयोगः
ख्यातः सुगन्धो नरमोहयोग्यः” ॥ * ॥
मुखरञ्जनम् ।
“रसालजम्बूफलगर्भसारः
सकर्कटो माक्षिकसंयुतश्च ।
स्थितो मुखान्ते पुरुषस्य रात्रौ
करोति पुंसां मुखवासमिष्टम् ॥
चूर्णं मुराकेशरकुष्ठकानां
प्रातदिनान्ते परिलेढि या स्त्री ।
अप्यर्द्धमासेन मुखस्य वासः
कर्पूरतुल्यो भवति प्रकाशः” ॥ * ॥
केशकृष्णीकरणादि ।
“लोहकिट्टं जवापुष्पं पिष्ट्वा धात्रीफलं समम् ।
त्रिदिनं लेपयेत् शीर्षं त्रिमासं केशरञ्जनम्” ॥
इति कृष्णीकरणम् ॥ * ॥ केशशुक्लीकरणम् ।
“वज्राक्षीरेण सप्ताहं अन्वहं भावयेत्तिलम् ।
तत्तैललिप्ताः केशाः स्युः शुक्लाश्च नात्र संशयः ॥
इति कामरत्ने ४ उपदेशः ॥ * ॥ अथ वाजीकरणं
“अश्विन्यां वटवन्दाकं क्षीरैः पिष्ट्वा महाबलः ।
पुष्योद्धृतं पिबेन्मूलं श्वेतार्कस्य प्रयत्नतः ॥
स्वप्तरात्रन्तु गोक्षीरैर्वृद्धोऽपि तरुणायते” ।
“चूर्णं विदार्य्याः स्वरसेन तस्याः
विभावितं भास्कररश्मिजाले ।
मध्वाज्यसंमिश्रितमेव लीढे-
द्दशस्त्रियो गच्छति निर्विशङ्कः” ॥ * ॥
जन्मबन्ध्याचिकित्सा ।
“समूलपत्रां सर्पाक्षीं रविवारे समुद्धरेत् ।
एकवर्णगवां क्षीरैः कन्याहस्तेन पेषयेत् ॥
ऋतुकाले पिबेत् बन्ध्या पलार्द्धं तद्दिने दिने ।
क्षीरशाल्यन्नमुद्गञ्च लघ्वाहारं प्रदापयेत् ॥
एवं सप्तदिनं कुर्य्यात् बन्ध्या भवति गर्भिणी ।
उद्वेगं भयशोकञ्च दिवानिद्रां विवर्जयेत् ॥
न कर्म्म कारयेत् किञ्चित् वर्जयेत् सावगाहनम् ।
पतिसङ्गं चरेत् सा च नात्र कार्य्या विचारणा ॥
कृष्णापराजितामूलं छागीक्षीरेण संपिबेत् ।
ऋतुकाले समायाते भुक्त्वा गर्भधरा भवेत् ॥
गोक्षुरस्य तु वीजन्तु पिबेन्निर्गुण्डिकारसैः ।
त्रिरात्रं सप्तरात्रं वा बन्ध्या भवति गर्भिणी” ॥
इतीन्द्रजाले जन्मबन्ध्याचिकित्सा ॥ * ॥
अथ काकबन्ध्याचिकित्सा ।
“अश्वगन्धीयमूलन्तु ग्राहयेत् पुष्यभास्करे ।
पेषयेन्महिषीक्षीरैः पलार्द्धं भक्षयेत् सदा ॥
सप्ताहाल्लभते गर्भं काकबन्ध्या चिरायुषम्” ।
इतीन्द्रजाले काकबन्ध्याचिकित्सा ॥ * ॥
अथ मृतवत्साचिकित्सा ।
“प्राङ्मुखः कृत्तिकाऋक्षे बन्ध्या कर्कोटकीं हरेत् ।
तत्कन्दं पेषयेत्तोयैः कर्षमात्रं सदा पिबेत् ॥
या वीजपूरद्रुममूलमेकं
क्षीरेण पक्वं प्रपिबेत् विमिश्रम् ।
ऋतौ निजं या तु पतिं प्रयाति
दीर्घायुषं सा तनयं प्रसूते ॥
मञ्जिष्ठा मधुकं कुष्ठं त्रिफला शर्करा बला ।
मेदा पयस्या काकोली मूलञ्चैवाश्वगन्धजम् ॥
अजमोदा हरिद्रे द्वे हिङ्गुः कटुकरोहिणी ।
उत्पलं कुमुदं द्राक्षा काकल्यौ तन्मूलद्वयम् ॥
पृष्ठ १/२१०
:एतेषां कर्षकैर्भागैर्घृतप्रस्थ विपाचयेत् ।
शतावरीरसं क्षीरं घृतस्येदं चतुर्गुणम् ॥
संपिबेन्नियतं नारी नित्यं स्त्रीषु च शस्यते ।
पुत्त्रान् जनयते नारी मेधाढ्यान् प्रियदर्शनान् ॥
या चैवास्थिरगर्भास्यात् या नारी जनयेत् मृतम् ।
अल्पायुषञ्च जनयेत् या च कन्याः प्रसूयते ॥
योनिदोषे रजोदोषे गर्भस्नावे च शस्यते ।
प्रजावर्द्धनमायुष्यं सर्व्वग्रहनिवारणम् ॥
नान्मा फलघृतं ह्येतदायुष्यं परिकीर्त्तितम् ।
नोक्तञ्च लक्ष्मणामूलं वदन्त्यत्र चिकित्सकाः ॥
जीववत्सा शुक्लवर्णा घृतमत्र तु दीयते ॥
अरण्यगोमयेनात्र वह्नेर्न्त्वला प्रदीयते” ।
अत्र पयस्या क्षीरयुक्तभूमिकुष्माण्डम् । उत्पलं ।
नीलं । इतीन्द्रजाले मृतत्रत्साचिकित्सा ॥ * ॥
अथ गर्भस्रावचिकित्सा । प्रथमे मासि ।
“गोक्षीरैः पेषयेत्तुल्यं पद्मवेशरचन्दनम् ।
पतने तं पिबेन्नारी महागर्भः स्थिरो भवेत् ॥
अथवा मधुकं दारु शरवृक्षस्य वीजकम् ।
संपिष्य क्षीरकाकोलीं पिबेत् क्षीरैश्च गोभवैः ॥ १ ॥
नीलोत्पलं मृणालञ्च षष्ठी कर्कटश्टङ्गिका ।
गोक्षीरश्च द्वितीये च पीत्वा शाम्यति वेदना ॥ २ ॥
श्रीखण्डं तगरं कुष्ठं मृणालं पद्मकेशरम् ।
पिबेत् शीतोदकैः पिष्ट्वा तृतीये वेदनावती ॥
अथवा क्षीरकाकीलीबलानन्तापयः पिबेत् ॥ ३ ॥
शीतोत्पलं मृणालानि गोक्षीरक-कशेरुकम् ।
तुर्य्यमासे गवां क्षीरं पिबेत् सा वेदनापरा ॥
अथवा मधुकं रास्ना श्यामा ब्राह्मणयष्टिका ।
अनन्ता पेषयित्वा तु गवां क्षीरैः समं पिबेत् ॥ ४ ॥
पुनर्णवा च काकोली तगरं नीलमुत्पलम् ।
गोक्षीरं पञ्चमे मासि गर्भक्लेशहरं भवेत् ॥
अथवा वृहतीयुग्मं यज्ञाङ्गं कट्फलं त्वचः ।
गोघृतं क्षीरसंयुक्तं पिबेत् पिष्ट्वा च पञ्चमे ॥ ५ ॥
सिता काशाखुमज्जा च शीततोयेन पेषयेत् ।
षष्ठे मासि गवां क्षीरैः पिबेत् क्लेशं निवर्त्तयेत् ॥
अथवा गोक्षुरं शिग्रुं मधुकं पृश्निपर्णिकाम् ।
बलायुक्ता पिबेत् पिष्ट्वा गोदुग्धैः षष्ठमाषके ॥ ६ ॥
काष्ठकं पौष्करं मूलं शृङ्गाटं नीलमुत्पलम् ।
पिष्ट्वा च सप्तमे मासि क्षीरैः पीत्वा प्रशाम्यति ॥
अथवा मकरद्राक्षां शृङ्गाटञ्च सकेशरम् ।
मृणालं शर्करायक्तं क्षीरैः पेयन्तु सप्तमे ॥ ७ ॥
यष्टी पठ्माक्षार्कमुस्तं केशरं गजपिप्पली ।
नीलोत्पलं गवां क्षीरैः पिबेदष्टममासके ॥
अथवा विल्वमूलञ्च कपित्थं वृहती शमी ।
इक्षुपाटलयोर्मूलं एभिः क्षीरं प्रसाधयेत् ।
तत्क्षीरमष्टमे पीत्वा गर्भे शाम्यति वेदना ॥ ८ ॥
विशालावीजकक्कोलं मधुना सह लेपयेत् ।
वेदना नवमे मासि शान्तिमाप्नोति नान्यथा ॥
अथवा मधुकं श्यामा ह्यनन्ता क्षीरकाकली ।
एभिः सिद्धं पिबेत् क्षीरं नवमे वेदनावती ॥ ९ ॥
शर्करा गोस्तनी द्राक्षा सक्षुद्रं नीलमुत्पलम् ।
पाययेत् दशमे मासि गवां क्षीरैः प्रशान्तये ॥
अथवा शुद्धसंसिद्धं गोक्षीरं दशमे पिबेत् ।
अथवा मधुकं दारु शुद्धक्षीरेण संपिबेत् ॥ १० ॥
क्षौद्रं वृषं चन्दनसिन्धुजातं
महेन्द्रराजं पयसा सुपिष्टम् ।
गर्भं क्षरन्तं प्रतिहन्ति शीघ्रं
योगो विभुञ्जन् किल मूलदैवैः” ॥
इति इन्द्रजाले गर्भस्रावचिकित्सा ॥ * ॥
अथ गर्भशुष्कम् ।
“गोक्षीरं शर्करायुक्तं गर्भशुष्कप्रशान्तये ।
पिबेद्वा मधुकं चूर्णं गाम्भारीफलचूर्णकम् ॥
समांसं गव्यदुग्धेन गर्भिणी च प्रशान्तये” ॥ * ॥
अथ सुखप्रसवयोगः ।
“श्वेतं पुनर्णवामूलं चूर्णं योनौ प्रवेशयेत् ।
तत्क्षणात् प्रसूते नारी गर्भे सति प्रपीडिते ॥
वासकस्य तु मूलन्तु चोत्तरस्थं समुद्धरेत् ।
कट्यां बद्ध्वा सप्तसूत्रैः सुखं नारी प्रसूयते ॥
सहदेव्याश्च मूलं वा कटिस्थं प्रसवेत् सुखम् ।
अपामार्गस्य मूलन्तु ग्राहयेच्चतुरङ्गुलम् ॥
द्वारि प्रवेशयेत् योनौतत्क्षणात् सा प्रसूयते” ॥ * ॥
अथ स्तनवर्द्धनं स्तनोत्थापनञ्च ।
“तैलं वचादाडिमकल्कसिद्धं
सिद्धार्थजं लेपनतो नितान्तम् ।
नारीकुचौ चारुतरौ सुपीनौ
कुर्य्यादसौ योगवरः प्रदिष्टः ॥
श्रीपर्णिकाया रसवल्कसिद्धं
तिलोद्भवं तैलवरं प्रदिष्टम् ।
तुलेन वक्षोजयुगे प्रदेयं
प्रयाति वृद्धिं पतितोऽपि नार्य्याः ॥
प्रथमकुसुमकाले नस्ययोगेन पीतं
सनियमममरास्यं तण्डलाम्भो युवत्याः ।
कुचयुगलसुपीनं क्वापि नो याति पातं
कथित इति पुरैव चक्रदत्तेन योगः” ॥ * ॥
अथ योनिसंस्कारः ।
“प्रक्षालयेन्निम्बुकषायनीरैः
स्विन्नाज्यकृष्णागुरुगुग्गुलानां ।
धूपेन योनिं निशि धूपयित्वा
नारी प्रमीदं विदधातु भर्त्तुः” ॥ * ॥
अथ लोमशातनम् ।
“पलाशभस्मान्विततालचूर्णै-
रम्भाम्बुमिश्रैः परिलिप्य भूयः ।
कन्दर्पगेहे मृगलोचनानां
रोमाणि रोहन्ति कदापि नैव” ॥
इति इन्द्रजालतन्त्रसंग्रहः ॥ युद्धे क्षुद्रोपायविशेषः ।
इति हेमचन्द्रः ॥

इन्द्रजालिकः, त्रि, (इन्द्रजालं करोति इन्द्रजालेन

दीव्यतीति वा । इन्द्रजाल + ठक् ।) कुहककारी ।
इति जटाधरः ॥ वाजीकर इति भाषा ।

इन्द्रजित्, पुं, (इन्द्रंजितवान् इति । इन्द्र + जि +

क्विप् ।) रावणपुत्रः । तत्पर्य्यायः । मेघनादः २
मन्दोदरीसुतः ३ । इति जटाधरः ॥
(अस्य जन्मविवरणं यथा, रामायणे ७ । १२ । सर्गे,
“एवमुक्तस्तदा राम ! राक्षसेन्द्रेण दानवः ।
महषेर्स्तनयं ज्ञात्वा मयो दानवपुङ्गवः ॥
दातुं दुहितरं तस्मै रोचयामास तत्र वै ॥ १६ ॥
करेण तु करं तस्या ग्राहयित्वा मयस्तदा ।
प्रहसन् प्राह दैत्येन्द्रो राक्षसेन्द्रमिदं वचः ॥ १७ ॥
इयं ममात्मजा राजन् हेमयाप्सरसा धृता ।
कन्या मन्दोदरी नाम पत्न्यर्थं प्रतिगृह्यताम् ॥ १८ ॥
वाढमित्येव तं राम ! दशग्रीवोऽभ्यभाषत ।
प्रज्वाल्य तत्र चैवाग्निमकरोत् पाणिसङ्ग्रहम्” ॥ १९ ॥
“ततो मन्दोदरी पुत्रं मेघनादमजीजनत् ।
स एष इन्द्रजिन्नाम युष्माभिरभिधीयते ॥ २८ ॥
जातमात्रेण हि पुरा तेन रावणसूनुना ।
रुदता सुमहान् मुक्तो नादो जलधरोपमः ॥ २९ ॥
जडीकृता च सा लङ्का तस्य नादेन राघव ! ।
पिता तस्याकरोत् नाममेघनाद इति स्वयम्” ॥ ३० ॥
अस्य यथा इन्द्रजिदित्यभिधानं जातं तदपि उक्तं
तत्रैव ३५ सर्गे ।
“जिते महेन्द्रेऽतिबले रावणस्य सुतेन वै ।
प्रजापतिं पुरस्कृत्य ययुर्लङ्कां सुरास्तदा ॥ १ ॥
तत्र रावणमासाद्य पुत्त्रभ्रातृभिरावृतम् ।
अब्रवीद् गगने तिष्ठन् सामपूर्ब्बं प्रजापतिः ॥ २ ॥
वत्स रावण ! तुष्टोऽस्मि पुत्त्रस्य तव संयुगे ।
अहोऽस्य विक्रमौदार्य्यं तव तुल्योऽधिकोऽपि वा ॥ ३ ॥
जितं हि भवता सर्व्वं त्रैलोक्यं स्वेन तेजसा ।
कृता प्रतिज्ञा सफला प्रीतोऽस्मि ससुतस्य ते ॥ ४ ॥
अयञ्च पुत्त्रोऽतिबलस्तव रावण वीर्य्यवान् ।
जगतीन्द्रजिदित्येव परिख्यातो भविष्यति ॥ ५ ॥
बलवान् दुर्जयश्चैव भविष्यत्येव राक्षसः ।
यं समाश्रित्य ते राजन् स्थापितास्त्रिदशा वशे” ॥ ६ ॥
महावीरो लक्षणस्तु विभीषणेन वानरादिभिश्च-
सह निकुम्भिलां गला तत्रस्थमेनमिन्द्रजितं
व्यापादयामास इति तत्रैव लङ्काकाण्डे ५ सर्ग-
मारभ्य ७ सर्गेषु उक्तम् ॥
स्वनामख्यातो दानवः । यथा हरिवंशे । ३ । ८३ ।
“इन्द्रजित् सत्यजिच्चैव वज्रनामस्तथैव च ।
महानाभश्च विक्रान्तः कालनाभस्तथैव च” ॥)

इन्द्रजिद्विजयी, [न्] पुं, (इन्द्रजितः रावणपुत्त्रस्य ।

विजयी इति । इन्द्रजित् + वि + जि + णिनि ।)
लक्ष्मणः । इति शब्दरत्नावली ॥ (अस्य विवरणन्तु
रामायणे । ६ । ९१ सर्गे उक्तम् । यथा, --
“इत्युक्ता बाणमाकर्णं विकृष्य तमजिह्मगम् ।
लक्ष्मणः समरे वीरः ससर्जेन्द्रजितं प्रति ॥ ७२ ॥
ऐन्द्रास्त्रेण समायोज्य लक्ष्मणः परवीरहा ।
तच्छिरः सशिरस्त्राणं श्रीमत् ज्वलितकुण्डलम् ।
प्रमथ्येन्द्रजितः कायात् पातयामास भूतले” । ६३ ।)

इन्द्रतूलं, क्ली, (इन्द्रस्य तूलं । आकाशे उड्डीयमान-

त्वात् ।) आकाशपतितसूत्रम् । आकाशवुडिर
सुता इति भाषा । तत्पर्य्यायः । वृद्धसूत्रकम् २
ग्रीष्महासम् ३ वंशकफम् ४ वाततूलम् ५ मरु-
द्धजम् ६ । इति हारावली ॥

इन्द्रतूलकं, क्ली, (इन्द्रतूलमेव । इन्द्रतूल + स्वार्थेकन् ।)

इन्द्रतूलं । इति त्रिकाण्डशेषः ॥
पृष्ठ १/२११

इन्द्रदारुः, पुं, (इन्द्रस्य दारुः ।) देवदारुवृक्षः । इति

भावप्रकाशः ॥ (अस्य पर्य्यायः ।
“देवदारु स्मृतं दारुभद्रं दार्व्वीन्द्रदारु च ।
मस्तदारुद्रुकिलिमं कृत्रिमं सुरभूरुहः” ॥)

इन्द्रद्रुः, पुं, (इन्द्रस्य द्रुर्वृक्षः ।) अर्ज्जुनवृक्षः । इत्य-

मरः ॥ कुटजवृक्षः । इति राजनिर्घण्टः ॥

इन्द्रद्रुमः, पुं, (इन्द्रस्य द्रुमो वृक्षः ।) अर्ज्जुनवृक्षः ।

इति शब्दरत्नावली ॥

इन्द्रनीलः, पुं, (इन्द्रवत् नीलः ।) मरकतमणिः ।

इति हेमचन्द्रः ॥ पान्ना इति भाषा । (अस्य
परीक्षा यथा, चिन्तामणिधृतवचनम् ।
“क्षीरमध्ये क्षिपेत् नीरं क्षीरञ्चेत् नीलतां व्रजेत् ।
इन्द्रनीलमितिख्यातं तदाहि रत्नकोविदैः” ॥
“क्वचित् प्रभालेपिभिरिन्द्रनीलै-
र्मुक्तामयी यष्टिरिवानुविद्धा” ॥
इति रघुवंशे । १३ । ५४ । यथा, भावप्रकाशः ॥
अथ इन्द्रनीलगोमेदयोर्नामानि ।
“नीलन्तथेन्द्रनीलञ्च गोमेदः पीतरत्नकम्” ।)

इन्द्रनीलकः, पुं, (इन्द्रनील + स्वार्थे कन् ।) मरकत-

मणिः । इति शब्दरत्नावली ॥

इन्द्रपुष्पा, स्त्री, (इन्द्रनीलवत् पुष्पं यस्याः ।) लाङ्ग-

लिकीवृक्षः । इति रत्नमाला ॥ विषलाङ्गला इति
ख्याता । (लाङ्गलिकीशब्देऽस्या विवरणं ज्ञेयं ।)

इन्द्रपुष्पिका, स्त्री, (इन्द्रपुष्पैव । कन् ।) कलिकारी ।

इति राजनिर्घण्टः ॥ विषलाङ्गला इति भाषा ।

इन्द्रप्रस्थं, क्ली, (इन्द्रस्य इन्द्रकीलस्य प्रस्थम् इव ।)

राजयुधिष्ठिरनिर्म्मितनगरम् । अधुना दिल्ली
इति ख्यातम् । (यथा, महाभारते १ । २०८ । २८ ।
“ततः पुण्ये शिवे देशे शान्तिं कृत्वा महारथाः ।
नगरं यापयामासुर्द्वैपायनपुरोगमाः ॥
सागरप्रतिरूपाभिः परिखाभिरलङ्कृतं” ॥
“तत्त्रिपिष्टपसङ्काशं इन्द्रप्रस्थं व्यरोचत ।
मेघवृन्दमिवाकाशे विद्धं विद्युत्समावृतम्” ॥)

इन्द्रप्रहरणं, क्ली, (इन्द्रस्य प्रहरणम् ।) इन्द्रस्यास्त्रम् ।

वज्रम् । इति हलायुधः ॥

इन्द्रभेषजं, क्ली, (इन्द्रं महत् भेषजम् ।) शुण्ठी ।

इति शब्दरत्नावली ॥

इन्द्रमहकामुकः, पुं, (इन्द्रमहं कामयते इति ।

इन्द्रमह + काम + उकञ् ।) कुक्कुरः । इति त्रि-
काण्डशेषः ॥

इन्द्रयवः, पुं, क्ली, (इन्द्रस्य इन्द्रवृक्षस्य यवः यवाकार-

वीजत्वात् तथात्वम् ।) स्वनामख्याततिक्तवीजविशेषः ।
तत्पर्य्यायः । कलिङ्गम् २ भद्रयवम् ३ । इत्यमरः ॥
शक्राह्वः ४ शक्रवीजम् ५ वत्सकः ६ वत्सकवीजम् ७
भद्रजः ८ कुटजः ९ कुटजवीजम् १० कलिङ्गवीजम्
११ । अस्य गुणाः । कटुत्वम् । तिक्तत्वम् । शीतत्वम् ।
कफवातरक्तपित्तहरत्वम् । दाहातिसारशमनत्वम् ।
ज्वरदोषशूलमूलनाशित्वञ्च । इति राजनिर्घण्टः ॥
कुडचिर विचि इति भाषा । यथा, --
“उक्तं कुटजवीजन्तु यवमिन्द्रयवं तथा ।
कलिङ्गञ्चापि कालिङ्गं तथा भद्रयवं स्मृतम्” ॥
इति क्लीवे अमरः प्राह ।
“क्वचिदिन्द्रस्य नामैव भवेत्तदभिधायकम् ।
फलानीन्द्रयवास्तस्य तथा भद्रयवा अपि” ॥
इति धन्वन्तरिः प्राह ।
“ऐन्द्रं यवं त्रिदोषघ्नं संग्राहि कटु शीतलम् ।
ज्वरातीसाररक्तार्शःकृमिविसर्पकुष्ठनुत् ॥
दीपनं गुदकीलास्रवातास्नश्लेष्मशूलजित्” ।
इति भावप्रकाशः ॥ (यथा, वैद्यकद्रव्यगुणः ।
“तद्वोजं ज्वरजित्तिक्तं रक्तपित्तातिसारजित्” ।)

इन्द्रलुप्तं, क्ली, (इन्द्राणां इन्द्रनीलवर्णकेशानां लुप्तं

लोपो यस्मात् ।) केशरोगविशेषः । टाक इति
भाषा । तस्य लक्षणम् ।
“रोमकूपानुगं पित्तं वातेन सह मूर्च्छितम् ।
प्रच्यावयति रोमाणि ततः श्लेष्मा सशोणितः ॥
रुणद्धि रोमकूपांस्तु ततोऽन्येषामसम्भवः ।
तदिन्द्रलुप्तं खालत्यं रुज्येति च विभाव्यते” ॥
इति निदानम् ॥ खालत्यं रुज्येति च तस्य पर्य्याय-
कथनम् । तथाच भोजः ।
“तदिन्द्रलुप्तमित्याहुः खल्लीं रुज्याञ्च केचन” ।
कार्त्तिकस्त्वाह । “इन्द्रलूप्तं श्मश्रुणि भवति खालत्यं
शिरोरुहेष्वेव रुज्या सवेदनेति आगमस्तत्र नास्ति” ॥
इति तट्टीका ॥ अथेन्द्रलुप्तस्य चिकित्सा ।
“तिक्तपटोलीपत्रस्वरसैर्घृष्टा शमं याति ।
चिरकालजापि रुज्या नियतं दिवसत्रयेणैव ॥
गोक्षुरस्तिलपुष्पाणि तुल्यञ्च मधुसर्पिषः ।
शिरः प्रलेपितं तेन केशैः समुपचीयते ॥
हस्तिदन्तमसीं कृत्वा छागीदुग्धरसाञ्जनः ।
लोमान्यनेन जायन्ते लेपात् पाणितलेष्वपि ॥
यष्टीन्दीवरमृद्वीकातैलाज्यक्षीरलेपनैः ।
इन्द्रलुप्तं शमं याति केशा स्युश्च घना दृढाः ॥
जातीकरञ्जवरुणकरवीराग्निपाचितम् ।
तैलमभ्यञ्जनाद्धन्ति इन्द्रलुप्तं न संशयः ॥
स्नुहीपयः पयोऽर्कस्य लाङ्गलीमार्कवो विषम् ।
अजामूत्रं सगोमूत्रं रत्तिका सेन्द्रवारुणी ॥
सिद्धार्थकस्तीक्ष्णगन्धा सम्यगेभिर्विपाचितम् ।
तैलं भवति नियमात् खालित्यव्याधिनाशनम् ॥
स्नुहीदुग्धादितैलम्” । इति भावप्रकाशः ॥
(“केशघ्नस्य चिकित्सान्तु श्टणु हारीत ! साम्प्रतम् ।
रूक्षं सपाण्डुरं वातात् पित्ताद्रक्तं सदाहकम् ॥
कफान्वितं भवेत् स्निग्धं रक्तात्पाकं व्रजन्ति तत् ।
सन्निपातेन सदृशं जायते सर्व्वलक्षणम्” ॥
अस्य चिकित्सा यथा ॥ * ॥
“गुडेन सुरसा शुण्ठी मातुलुङ्गरसेन तु ।
केशघ्ने वातसम्भूते धावनञ्च प्रशस्यते ॥ १ ॥
त्रिफलाञ्च वचां शुण्ठीं गुडेनापि प्रपेषितम् ।
धावनं कफसम्भूते चेन्द्रलुप्ते प्रशस्यते ॥ २ ॥
पैत्तिके च हितं दुग्धं नवनीतान्वितन्तथा ।
सिताशिवाफलं यष्टी पैत्तिके धावनं मतम् ॥ ३ ॥
भृङ्गराजरसं ग्राह्यं शृङ्गवेररसन्तथा ।
सौवीरकरसेनापि तिलान् पिष्ट्वा प्रलेपनम् ॥
पश्चात् कार्य्यं पूरुषेण स्नानमुष्णेन वारिणा ।
धवार्ज्जुनकदम्बस्य शिरीषमपि रोहितम् ॥
क्वाथमेषां शिरोदद्रून् शमयेदिन्द्रलुप्तकभ् ।
कुरूवकस्य पुष्पेण जपायाः कुसुमेन च ॥
घृष्टस्य चेन्द्रलप्तस्य कृतमेव निवारणम् ।
पैत्तिकानि च लिङ्गानि दृष्ट्वा दुग्धेन धावनम् ॥
शीतलानि प्रदेयानि पैत्तिकेन विधीयते” ॥
“धुस्तूरपत्राणि च मागधीनां
निशा विशालागृहधूमकुष्ठम् ।
घृतेन युक्तञ्च जलेन पिष्टं
शिरःप्रलेपे क्षतवारणं स्यात् ॥
पित्ते कृते दोषयुते च रोगे
पटोलपत्रं पिचुमर्द्दकं वा ।
तथामलक्या फलमेव पिष्ट्वा
घृतेन खण्डेन प्रलेपनञ्च ॥
निवार्य्यते मस्तकजं क्षतञ्च
शिरोर्त्तिसङ्घान् विनिहन्ति चैतत् ।
गजेन्द्रदन्तस्य मसीं गृहीत्वा
प्रलेपनं वा नवनीतकेन ॥
तिलार्कभल्लातकदग्धमाष-
क्षारस्य लेपो नबनीतकेन ।
सर्पस्य क्षारस्य तथा प्रयोगः
खल्लाटके केशचयं करोति” ॥
इति हारीतः ॥
“तेजोऽनिलाद्यैः सहकेशभूमिम्
दग्ध्वाशु कुर्य्यात् खलतिन्नरस्य” ॥ * ॥
चिकित्सा यथा चरके ।
“खालत्ये पलिते वल्यां हरिल्लोम्नि च शोधितम् ।
नस्यैस्तैलैः शिरोवक्तप्रलेपैश्चाप्युपाचरेत् ॥
सिद्धं विदारीगन्धाद्यैर्जीवनीयैरथापि च ।
नस्यं स्यादणुतैलं वा खालत्यपलितापहम्” ॥)

इन्द्रलुप्तः, पुं, (इन्द्राणां इन्द्रनीलवत् केशानां लुप्तं

नाशो यस्मात् ।) केशनाशकरोगः । तत्पर्य्यायः ।
इन्द्रलुप्तकः २ केशघ्नः ३ । इति राजनिर्घण्टः ॥

इन्द्रलुप्तकं, क्ली, (इन्द्रलुप्त + स्वार्थे कन् ।) इन्द्रलुप्त-

रोगः । इति भूरिप्रयोगो जटाधरहेमचन्द्रौ च ॥

इन्द्रवारुणिका, स्त्री, (इन्द्रवारुणी + कन् + टाप् ।)

इन्द्रवारुणीलता । इति शब्दचन्द्रिका ॥

इन्द्रवारुणी, स्त्री, (इन्द्रं वारयति । इन्द्र + वृ +

णिच् + उन् । ङीप्) लताविशेषः । राखाल ससा
इति भाषा ॥ तत्पर्य्यायः । विशाला २ । इत्यमरः ॥
ऐन्द्री ३ चित्रा ४ गवाक्षी ५ गजचिर्भटा ६
मृगेर्व्वारु ७ पिटङ्कीकी ८ मृगादनी ९ । इति
रत्नमाला ॥ इन्द्रा १० अरुणा ११ गवादनी १२
क्षुद्रसहा १३ इन्द्रचिर्भिटी १४ सूर्य्या १५ विषघ्नी
१६ गणकर्णिका १७ अमरा १८ माता १९ सुकर्णी
२० सुफला २१ तारका २२ वृषभाक्षी २३ पीत-
पुष्पा २४ इन्द्रवल्लरी २५ हेमपुष्पी २६ क्षुद्रफला
२७ वारुणी २८ बालकप्रिया २९ रक्तैर्व्वारुः ३०
विषलता ३१ शक्रवल्ली ३२ विषापहा ३३ अमृता
३४ विषवल्ली ३५ । चित्रफला ३६ । इति जटा-
धरः ॥ अपि च ।
“ऐन्द्रीन्द्रवारुणी चित्रा गवाक्षी च गवादनी ।
वारुणी च पराप्युक्ता सा विशाला महाफला ॥
श्वेतपुष्पा मृगाक्षी च मृगैर्वारुर्मृगादनी ।
गवादनीद्वयं तिक्तं पाके कटुरसं लघु ॥
वीर्य्योष्णं कामलापित्तकफप्लीहोदरापहम् ।
पृष्ठ १/२१२
:श्वासकाशापहं कुष्ठगुल्मग्रन्थिव्रणप्रणुत् ॥
प्रमेहमूढगर्भामगण्डामयविषापहम्” ।
इति भावप्रकाशः ॥ अस्या गुणाः । तिक्तत्वम् । कटु-
त्वम् । शीतत्वम् । रेचनत्वम् । गुल्मपित्तीदरश्लेष्म-
कृमिकुष्ठज्वरापहत्वञ्च ॥ इति राजनिर्घण्टः ॥

इन्द्रवृद्धा, स्त्री, (इन्द्रेण इन्द्रियजनितदोषेण वृद्धा ।

यद्वा इन्द्रः श्रेष्ठोऽपि वृद्धः कृशो भवति यस्याः ।)
व्रणरोगविशेषः । तस्य लक्षणम् ।
“पद्मकर्णिकवन्मध्ये पिडकाभिः समाचिताम् ।
इन्द्रवृद्धान्तु तां विद्याद्वातपित्तोत्थितां भिषक्” ॥
इति निदानम् ॥ तस्याश्चिकित्सा ।
विवृत्तामृन्द्रवृद्धाञ्च गर्द्दभीं जालगर्द्दभम् ।
पैत्तिकस्य विसर्पस्य क्रियया साधयेत् भिषक् ।
पाके तु शोषयेदाज्यपक्वैर्मधुरभेषजैः” ॥
इति भाबप्रकाशः ॥
(“या पद्मकर्णिकाकारा पिटिका पिटिकान्विता ।
साविद्धा वातपित्ताभ्यां ताभ्यामेव च गर्द्दभी” ॥)

इन्द्रवृक्षः, पुं, (इन्द्रस्य वृक्षः ।) देवदारु । इति

जटाधरः ॥ (देवदारुशब्देऽस्य गुणादयो ज्ञातव्याः ॥)

इन्द्रसावर्णिः, पुं, चतुर्द्दशमनुः । अस्मिन् मन्वन्तरे

वृहद्भानुरवतारः । शुचिरिन्द्रः । पवित्रचाक्षुषा-
दयो देवाः । अग्निबाहुशुचिशुद्धमागधाद्याः सप्त-
र्षयः । उरुगम्भीरब्रध्नाद्या मनुपुत्रा भविष्यन्ति ॥
इति श्रीभागवतम् ॥ (अयं हि भौत्यनाम्ना च-
आख्यातः । यथा, विष्णुपुराणे ३ । २ ।
“भौत्यश्चतुर्दशश्चात्र मैत्रेय भविता मनुः ।
शुचिरिन्द्रः सुरगणास्तत्र पञ्च शृणुष्व तान् । ४० ।
चाक्षुषाश्च पवित्राश्च कनिष्ठा भ्राजिरस्तथा ।
वयोवृद्धाश्च वै देवाः सप्तर्षीनपि मे शृणु । ४१ ।
अग्निबाहुः शुचिः शुक्रो मागधोऽग्नीध्र एव च ।
युक्तस्तथाजितश्चान्यो मनुपुत्त्रानतः शृणु । ४२ ।
उरुगम्भीरब्रध्नाद्या मनोस्तस्य सुता नृपाः” । ४३ ।
मार्कण्डेयपुंराणेऽपि १०० अध्याये उक्तरूपेण
वर्णितम् । अधुना तु सप्तममन्वन्तरस्याष्टाविंशति-
तमं यगं ।)

इन्द्रसुतः, पुं, (इन्द्रस्य सुतः ।) बालिनामवानरराजः ।

इति हेमचन्द्रः ॥ अर्ज्जुनवृक्षः । इति राज-
निर्घण्टः ॥ जयन्तः । अर्ज्जुनः ॥

इन्द्रसुरसः, पुं, (इन्द्रः इन्द्रवृक्ष इव सुरसः सुपथ्य-

रसः ।) सिन्दुवारवृक्षः । इत्यमरः ॥ निसिन्दा
इति ख्यातः । (सिन्दुवारशब्दे निगुर्ण्डीशब्दे च
अस्य गुणादयो ज्ञेयाः ॥)

इन्द्रसुरिसः, पुं, वृक्षविशेषः । निसिन्दा इति भाषा ।

तत्पर्य्यायः । इन्द्राणी २ निर्गुण्डी ३ सुरसा ४ ।
इति रत्नमाला ॥ इन्द्रसुरसः ५ सिन्दुवारः ६
इन्द्राणिका ७ । इत्यमरः ॥ विसुन्धकः ८ सिन्धकं
९ सुरसः १० सिन्धुवारितः ११ इन्द्रालिका १२
सिन्धुवारकः १३ । इति शब्दरत्नावली ॥ (इन्द्राणी-
शब्देऽस्य विशेषो ज्ञेयः ।)

इन्द्रा, स्त्री, (इदि + रन् ।) फणिज्झकवृक्षः । इति

मेदिनी ॥ काँटा जामीर इति भाषा । इन्द्रपत्नी ।
शची । इति शब्दरत्नावली ॥

इन्द्राग्निधूमः, पुं, (इन्द्राग्नेर्मेघवह्नेर्धूम इव ।) हिमं ।

इति हारावली ॥

इन्द्राणिका, स्त्री, (इन्द्राणी + कन् ।) इन्द्रसुरिस-

वृक्षः । इत्यमरः ॥

इन्द्राणी, स्त्री, (इन्द्रस्य ऐश्वर्य्यशालिनः सुरराजस्य

वा पत्नी । इन्द्र + इन्द्रवरुणेति ङीष् आनुक् च ।)
दुर्गा । यथा, --
“ऐश्वर्य्यं परमं यस्या वशे चैव सुरासुराः ।
इदि परमैश्वर्य्ये च इन्द्राणी तेन सा शिवा” ॥
इति देवीपुराणे ४५ अध्यायः ॥ * ॥ इन्द्रभार्य्या ।
तत्पर्य्यायः । पुलोमजा २ शची ३ । इत्यमरः ॥
पौलीमी ४ । इति मेदिनी ॥ पूतक्रतायी ५ ।
इति जटाधरः ॥ माहेन्द्री ६ जयवाहिनी ७ ऐन्द्री
८ शतावरी ९ । इति शब्दरत्नावली ॥
(“यथेन्द्राणी महेन्द्रस्य लक्ष्मीर्लक्ष्मीपतेर्यथा” ॥
इति भविष्यपुराणे षट्पञ्चमीव्रतकथायाम् । इन्द्र-
शक्तिः । यथा ऋग्वेदे १ । २२ । १२ । “इहेन्द्राणी
मुपह्वये वरुणानीं” । “इन्द्राणीं इन्द्रस्य सूर्य्यस्य
वायोर्वाशक्तिम्” । इति दयानन्दस्वरस्वतीकृत-
भाष्यम् ।) इन्द्रसुरिसवृक्षः । स्त्रीणां करणं ।
इति मेदिनी ॥ नीलसिन्दुवारवृक्षः । स्यूलैला ।
सूक्ष्मैला । इति राजनिर्घण्टः ॥ अष्टमातृकान्त-
र्गतमातृकाविशेषः ॥ इति स्मृतिः ॥

इन्द्रानुजः, पुं, (अनु पश्चात् जायते इति अनुजः क-

निष्ठः । इन्द्रस्यानुजः । विष्णुः खलु कश्यपात् अदितौ
वामनरूपेण इन्द्रस्य पश्चात् जातः ।) विष्णुः ।
इति हेमचन्द्रः ॥ (विवृतिर्वामनशब्दे द्रष्टव्या ।)

इन्द्रायुधं, क्ली, (इन्द्रस्यायुधमिव चापाकृतिंत्वात् ।)

इन्द्रधनुः । इत्यमरः ॥ रामधनुक गण्डी इत्यादि
भाषा ।
(“स नादं मेघनादस्य धनुश्चेन्द्रायुधप्रभम्” ।
इति रघुवंशे । १२ । ७९ । तथा, मनुः । ४ । ५९ ।
“न दिवीन्द्रायुधं दृष्ट्वा कस्यचिद्दर्शयेद्बुधः” ।)

इन्द्रारिः, पुं, (इन्द्रस्य अरिः शत्रुः ।) असुरः ।

इत्यमरः ॥

इन्द्रावरजः, पुं, (इन्द्रस्य अवरजः वामनरूपेण

अनुजः ।) विष्णुः । इत्यमरः ॥

इन्द्राशनः, पुं, (इन्द्रस्य अशनः खाद्यद्रव्यम् ।) संविदा-

वृक्षः । इति शब्दमाला ॥ सिद्धि इति भाषा ।
गुञ्जा । इति हारावली ॥ कुच इति भाषा ।
(“इन्द्राणिकेन्द्राशनकञ्च” ।
“तथाचेन्द्राशनोत्कटैः” ।
“ग्रीष्मसुन्दरमण्डूकी जयन्तीन्द्राशनस्य च” ॥
इति वैद्यकरसेन्द्रसारसंग्रहः ॥)

इन्द्रियं, क्ली, (इन्द्रस्यात्मनोलिङ्गमनुमापकम् । इन्द्रेण

ईश्वरेण सृष्टं । इन्द्रे णात्मना मम चक्षुर्मम श्रोत्र-
मित्यादि क्रमेण ज्ञातं । इन्द्रेण जुष्टं वा इत्याद्यर्थेषु
इन्द्रशब्दात् निपातनात् घच् ।) ज्ञानकर्म्म-
साधनम् । तत्पर्य्यायः । हृषीकम् २ विषयि ३ ।
इत्यमरः ॥ अक्षम् ४ करणम् ५ ग्रहणम् ६ । इति
राजनिर्घण्टः ॥ तत्र तु ज्ञानेन्द्रियाणि पञ्च । यथा ।
कर्णः १ त्वक् २ चक्षुः ३ जिह्वा ४ नासिका ५
कर्म्मेन्द्रियाणि पञ्च यथा । वाक् १ पाणिः २ पादः
३ पायुः ४ उपस्थः ५ । अन्तरिन्द्रियाणि चत्वारि ।
मनः १ बुद्धिः २ अहङ्कारः ३ चित्तं ४ ॥ मनस्तावदि-
न्द्रियाणां नियामकम् । चतुर्द्दश देवाः चतुर्द्दशे-
न्द्रियनियन्तारः । तत्र श्रोत्रस्य देवता दिक् ।
त्वचो वातः । चक्षुषः सूर्य्यः । रसनायाः प्रचेताः
घ्राणस्याश्विनौ । वाचो वह्निः । हस्तस्य इन्द्रः ।
पादस्य विष्णुः । पायोर्मित्रः । उपस्थस्य प्रजापतिः ।
मनसश्चन्द्रः । बुद्धेश्चतुर्मुखः । अहङ्कारस्य शङ्करः ।
चित्तस्याच्युतः । इति वेदान्तः ॥ न्यायमते ।
पृथिव्या इन्द्रियं घ्राणं । जलस्य जिह्वा । तेजस-
श्चक्षुः । वायोस्त्वक् । आकाशस्य कर्णः ।
(अथ बुद्धेर्ब्रह्मा । अहङ्कारस्येश्वरः । मनसश्चन्द्रमाः ।
दिशः श्रोत्रस्य । त्वचो वायुः । सूर्य्यश्चक्षुषोः ।
रसनस्यापः । पृथिवी घ्राणस्य । वचसोऽग्निः ।
हस्तयोरिन्द्रः । पादयोर्विष्णुः । पायोर्मित्रं ।
प्रजापतिरुपस्थस्येति । इति सुश्रुतः ॥) (यथा,
मनुः । २ । ८८ । “इन्द्रियाणां विचरतां विषये-
ष्वपहारिषु” ।
विज्ञानम् । यथा, ऋग्वेदे १ । १११ । २ ।
“यथा क्षयाम सर्व्ववीरया विशातन्तः शर्द्धाय
धासथास्विन्द्रियम्” । “इन्द्रियं विज्ञानम्” इति
दयानन्दभाष्यम् ।) शुक्रम् । वीर्य्यम् । इत्यमरः ॥

इन्द्रियस्वापः, पुं, (इन्द्रियस्य स्वापः सम्यक् निरोधः ।)

प्रलयः । इति राजनिर्घण्टः ॥

इन्द्रियायतनं, क्ली, (इन्द्रियाणां आयतनमाश्रय-

स्थानम् ।) शरीरम् । इति हेमचन्द्रः ॥

इन्द्रियार्थः, पुं, (इन्द्रियाणामर्थः ।) इन्द्रियजन्यज्ञान-

विषयः । यथा । रूपं । शब्दः । गन्धः । रसः ।
स्पर्शः । तत्पर्य्यायः । विषयः २ गोचरः ३ । इत्य-
मरः ॥ (यथा, मनुः । ४ । १६ ।
“इन्द्रियार्थेषु सर्व्वेषु न प्रसज्जेत कामतः” ।
“अपि स्वदेहात् किमुतेन्द्रियार्थात्
यशोधनानां हि यशो गरीयः” ।
इति रघुः । १४ । ३५ ।)

इन्द्रेज्यः, पुं, (इन्द्रस्य इज्यः ।) वृहस्पतिः । इति

शब्दरत्नावली ॥

इन्ध ई ध ङ ञि द्युतौ । इति कविकल्पद्रुमः ॥

(रुधां-आत्मं-अकं-सेट् ।) ह्रस्वादिः । ई ञि इन्धो-
ऽस्ति । ङ ध इन्धे । इति दुर्गादासः ॥

इन्धनं, क्ली, (इन्धे दीप्यतेऽग्निरनेन । इन्ध + करणं

+ ल्युट् ।) अग्निसन्दीपनतृणकाष्ठादि । जालानी
काठ इति भाषा । तत्पर्य्यायः । इध्मम् २ एधः ३
समित् ४ एधम् ५ । इत्यमरः ॥ समिन्धनम् ६ ।
इति शब्दरत्नावली ॥ (यथा, मनुः । ७ । ११८ ।
“अन्नपानेन्धनादीनि ग्रामिकस्तान्यवाप्नुयात्” ।)

इन्वकाः, स्त्री, इल्वलाः । मृगशिरोनक्षत्रोपरि-

स्थितपञ्चताराः । इत्यमरटीकायां स्वामी ॥

इभः, पुं, स्त्री, (एति गच्छतीति । इण भन् । औ-

णादिकोऽयं प्रत्ययः ।) हस्ती ।
(“खराश्वोष्ट्रमृगेमानामजाविकबधन्तथा” ।
इति मनुः । ११ । ६८ । यथा, उत्तरचरिते ।
पृष्ठ १/२१३
:“इभदलितविकीर्णग्रन्थिनिष्यन्दगन्धः” ।)
उत्तरपदे श्रेष्ठवाचकः । इत्यमरः ॥

इभकणा, स्त्री, (इभो हस्तीव कणा ।) गजपिप्पली ।

इति रत्नमाला ॥ (“कर्पूरं जातिकोषं सजल-
मिभकणा तेजपत्रं लवङ्गम्” । इति वैद्यकरसे-
न्द्रसारसंग्रहः ।)

इभदन्ता, स्त्री (इभस्य दन्त इव । इभदन्त + टाप् ।)

नागदन्तीवृक्षः । इति रत्नमाला ॥ (नागदन्ती-
शब्देऽस्या गुणादयो ज्ञेयाः ।)

इभनिमीलिका, स्त्री, (इभस्य हस्तिन इव निमी

लिका ।) वैदग्धी । भङ्गिः । इति त्रिकाण्डशेषः ॥

इभपालकः, पुं, (इभानां पालकः ।) हस्तिपकः ।

इति हेमचन्द्रः ॥ माहुत् इति भाषा ।

इभमाचलः, पुं, (इभमाचालयति । इभ + आङ् +

चल + णिच् + बाहुलकात् ख ।) सिंहः । इति
भूरिप्रयोगः ॥

इभषा, स्त्री, (इभ + षा + क + टाप् ।) स्वर्णक्षीरीवृक्षः ।

इति रत्नमाला ॥

इभाख्यः, पुं, (इभस्य आख्या यस्मिन् ।) नागकेशर-

वृक्षः । इति त्रिकाण्डशेषः ॥

इभोषणा, स्त्री, इभकणा । गजपिप्पली । इति शब्द-

चन्द्रिका ॥ (गजपिप्पलीशब्टेऽस्या विवरणम् ज्ञेयम् ।)

इभ्यः, त्रि, (इभमर्हतीति दण्डादित्वात् यत् ।) धन-

वान् । इत्यमरः ॥ (पुं, राजा । हस्तिपकः ।) (यथा
छान्दग्योपनिषदि । १ । १० । “उषस्तिर्ह चाक्रायण
इभ्यग्रामे प्रद्राणक उवास । सहेभ्यम् कुल्मा-
षाण्खादन्तं बिभिक्षे” ।)

इभ्या, स्त्री, हस्तिनी । शल्लकी । इति मेदिनी ॥

इयं, स्त्री, इदम् शब्दस्य स्त्रीलिङ्गे प्रथमायां रूपं ।

एइ स्त्री इति भाषा । इति व्याकरणम् ॥

इयत्, त्रि, (इदम् परिमाणमस्य । इदम् + वतुप्

वस्य यः ।) कियत्संख्याबोधकम् । इति व्याकरणम् ॥
एतो इति भाषा । (यथा, रघुवंशे । १३ । ६७ ।
“इयन्ति वर्षाणि तया सहोग्र
मभ्यस्यतीव व्रतमासिधारम्” ।)

इयत्ता, स्त्री, (इयत् + तल् ।) इयतो भावः । सीमा ।

परिमाणम् । सङ्ख्या । इत्यादि ॥
(“श्रमेण तदशक्त्या वा न गुणानामियत्तया” ।
इति रघुवंशे । १० । ३२ ।)

इरणं, त्रि, ईरणं । शून्यं । ऊषरभूमिः । इत्यमर-

टीकायां रमानाथः ॥

इरम्मदः, पुं, (इरया उदकेन माद्यति दीप्यते अबि-

न्धत्वात् इति उग्रम्पश्येरम्मदेत्यादिना खश्प्रत्ययो
मुमागमश्च निपातितः ।) वज्राग्निः । तत्पर्य्यायः ।
मेघज्योतिः २ । इत्यमरः ॥ मेघाग्निः ३ । इति
जटाधरः ॥ अन्योन्यसङ्घट्टनेन मेघान्निःसृत्य यज्ज्यो-
तिर्वृक्षादौ पतति सः । मेघेत्युपलक्षणं वात-
जाग्निरपि । इति भरतः ॥

इरा, स्त्री, (इं कासं राति ददाति इति । इ + रा

+ क । यद्वा एतीति इ + रन् + टाप् निपातनात्
गुणाभावः ।) भूमिः । वाक्यम् । मद्यम् । जलम् ।
इत्यमरः ॥ (यथा, आश्वलायनगृह्यसूत्रे । २ । ९ ।
“इरां वहन्तो घृतमुक्षमाणा
मित्रेण साकं सह संविशन्तु” ।)
सरस्वती । इति शब्दरत्नावली ॥ (अन्नम् ।)
कश्यपपत्नीविशेषः ।
यथा, गारुडे ६ अध्यायः ॥
“धर्म्मपत्न्यः समाख्याताः कश्यपस्य वदाम्यहम् ।
अदितिर्दितिर्दनुः काला अमायुः सिंहिका मुनिः ।
कद्रुः प्राधा इरा क्रोधा विनता सुरभिः खशा” ।
तस्याः सृष्टिर्यथा ।
“इरा वृक्षलता वल्ली तृणजातिश्च सर्व्वशः ।
खशा च यक्षरक्षांसि मुनिरप्सरसस्तथा” ।
(दैत्यविशेषः । यथा, हरिवंशे । ३ । ८२ ।
“मरीचिर्मघवांश्चैव इरा शङ्कुशिरा वृकः” ।)

इराचरं, क्ली, (इरायां चरतीति । इरा + चर् +

ट ।) करका । इति त्रिकाण्डशेषः ॥ वृष्टिर
शील इति भाषा । जलचरे भूचरे च त्रि ॥

इराजः, पुं, (इरया मद्येन जायते इति । इरा + जन्

+ ड ।) कन्दर्पः । इति हलायुधः ॥

इरावती, स्त्री, (इरा विद्यतेऽस्या इति । इरा +

मतुप् ।) वटपत्रीवृक्षः । पाषाणभेदीविशेषः । इति
राजनिर्घण्टः ॥ (नदीभेदः । यथा, महाभारते ।
“विपासा च शतद्रश्च चन्द्रभागा सरस्वती ।
इरावती वितस्ता च सिन्धुर्देवनदी तथा” ॥

इरिणं, क्ली, (ऋच्छतीति । ऋ गतिप्रापणयोः,

किदिच्चेति इनन् ।) शून्यम् । ऊषरभूमिः । इत्य-
जयः ॥ (यथा, मनुः । ३ । १४२ ।)
“यथेरिणे वीजमुप्त्वा न वप्त्वा लभते फलम्” ।)

इरिमेदः, पुं, (इरिणो हस्तिनो मेद इव मेदो यस्य ।)

अरिमेदः । विट्खदिरः । इति शब्दरत्नावली
राजनिर्घण्टश्च ॥
(“इरिमेदौ विट्खदिरः कालस्कन्धोऽरिमेदकः” ।
इति पर्य्यायः । अस्य गुणा यथा भावप्रकाशे
“अरिमेदः कषायोष्णो मुखदन्तगदास्नजित् ।
हन्ति कण्डूविषश्लेष्मकृमिकुष्ठविषव्रणान्” ॥)

इरिवेल्लिका, स्त्री, मस्तकोद्भवव्रणजन्यपीडाविशेषः ।

तस्य लक्षणम् ।
“पिडकामुत्तमाङ्गस्थां वृत्तामुग्ररुजाज्वराम् ।
सर्व्वात्मिकां सर्व्वलिङ्गां जानीयादिरिवेल्लिकाम्” ॥
इति निदानम् ॥ चिकित्सा यथा ।
“पैत्तिकस्य विसर्पस्य या चिकित्सा प्रकीर्त्तिता ।
तयैव भिषगेताञ्च चिकित्सेदिरिवेल्लिकाम्” ॥
इति भावप्रकाशः ॥ (तथा च वाभटः ।
“त्रिलिङ्गा पिटिका वृत्ता जत्रूर्द्ध्वमिरिवेल्लिका” ।
“इरिवेल्लिकां गन्धनामां जयेत्पित्तविसर्पवत्” ।
इति तैद्यकचक्रपाणिसंग्रहे ।)

इरेशः, पुं, (इरायाः ईशः ।) विष्णुः । इति शब्द-

रत्नावली ॥ राजा । वागीशः । वरुणः ॥

इर्व्वारुः, पुं, स्त्री, (उर्व्व + आरु । पृषोदरादित्वात्

साधुः ।) कर्कटी । इत्यमरः ॥ काँकुड इति
भाषा । अस्य गुणाः । स्वादुत्वम् । गुरुत्वं । अजीणं-
कारित्वम् । शीतलत्वञ्च । तत्पक्वफलगुणाः । दाह-
च्छर्दितृष्णाक्लान्तिनाशित्वम् । इति राजवल्लभः ॥
(कर्कटीशब्टेऽस्य विशेषो ज्ञातव्यः ।)

इर्व्वारुशुक्तिका, स्त्री, (इर्व्वारुः शुक्तिकेव स्वयं स्फो-

टनात् ।) इर्व्वारुविशेषः । इति हारावली ॥
फुटी इति भाषा ।

इर्व्वालुः, पुं, (इर्व्व + आरु । रलयोरैक्यात् ।) इर्व्वारुः ।

इत्यमरटीकायां रायमुकुटः ॥

इल, श शये, गतौ । क्षेपे । इति कविकल्पद्रुमः ॥

(तुदां -परं -सकं -शयने, अकं -सेट् ।) श इलति ।
शयः शयनं । इति दुर्गादासः ॥

इल, क क्षेपे । इति कविकल्पद्रुमः ॥ (चुरां -उभं-

सकं -सेट् ।) ह्रस्वादिः । क एलयति । इति दुर्गा-
दासः ॥

इलविला, स्त्री, कुवेरमाता । सा च विश्रवःपत्नी ।

इति पुराणम् ॥

इला, स्त्री, (इलति विष्णुवरात् पुंस्त्वं प्राप्नोति इति ।

इल + क + टाप् ।) वैवस्वतमनुकन्या । सा च
विष्णुवरात् पुंस्त्वं प्राप्य सुद्युम्ननाम्ना ख्याता । पश्चात्
शङ्करशप्तकुमारवनं प्रविश्य पुनः स्त्रीत्वं गता ।
बुधस्तां भार्य्यात्वेन स्वीकृत्य पुरूरवसं जनयामास ।
ततस्तस्याः पुरोहितो वशिष्ठः शङ्करमाराध्य तस्यै
मासं स्त्रीत्वं मासं पुंस्त्वं दत्तवान् इति श्रीभाग-
वतं ॥ कर्द्दमप्रजापतिपुत्त्र इलः कार्त्तिकेयजन्मदेशं
प्रविश्य स्त्री भूत्वा इलानाम्ना ख्यातः ततः पार्ब्बती-
माराध्य मासं स्त्रीत्वं मासं पुंस्त्वञ्च प्राप्तवान् ।
इति रामायणं ॥ पृथिवी । गौः । वाक्यं । इति
मेदिनी ॥

इलावृतं, क्ली, (इरया आवृतं ।) जम्बुद्वीपस्य नव-

वर्षान्तर्गतवर्षविशेषः । इति त्रिकाण्डशेषः ।
तच्च सुमेरुपर्ब्बतं संवेष्ट्यास्ते । तस्य सीमा उत्तरे
नीलपर्ब्बतः । दक्षिणे निषधः । पश्चिमे माल्य-
वान् । पूर्ब्बेगन्धमादनपर्ब्बतः । इति श्रीभागवतम् ॥
अग्नीध्रस्य स्वनामख्यातः पुत्रः स तु पितुः
सकाशात् इलावृतं नाम वर्षमलभत । यदुक्तं
विष्णुपुराणे । २ । १ । १६, १७, १८ ।
“जम्बुद्वीपेश्वरो यस्तु अग्नीध्रो मुनिसत्तम ! ।
तस्य पुत्रा बभूवुस्ते प्रजापतिसमा नव ॥
नाभिः किम्पुरुषश्चैव हरिवर्ष इलावृतः ।
रम्यो हिरण्वान् षष्ठश्च कुरुर्भद्राश्व एव च ॥
केतुमालस्तथैवान्यः साधुचेष्टो नृपोऽभवत्” ॥)

इलिका, स्त्री, (इला एव । इला + स्वार्थे कन् +

टाप् ।) पृथिवी । इति शब्दरत्नावली ॥

इली, स्त्री, (इल गतौ क्षेपणे च इति, कृदिकारा-

दिति वा ङीष् ।) ईली । करपालिका । इत्य-
मरटीकायां रायमुकुटः ॥ हातछुरि इति भाषा ।

इलीशः, पुं, (इलन्ति अप्सु द्रुतं गच्छन्ति इति इला

द्रुतगामिनो मत्स्याः । इल + क । तेषां ईशः ।)
स्वनामख्यातमत्स्यविशेषः । इति शब्दरत्नावली ॥
(“इलीशो जितपीयुषो वाचा वाचामगोचरा ।
रोहितो नो हितः प्रोक्तो मद्गुरो मद्गुरोः प्रियः” ॥
इत्युद्भटः ।
“इलीशो मधुरः स्निग्धः पित्तश्लेष्माग्निमान्द्यनुत्” ।
इति वैद्यकद्रव्यगुणः ॥)
पृष्ठ १/२१४

इल्ललः, पुं, पक्षिविशेषः । इति शब्दचन्द्रिका ॥

इल्लिशः, पुं, इलीशमत्स्यः । तत्पर्य्यायः । वारि-

कर्पूरः २ गाङ्गेयः ३ शफराधिपः ४ जलतालः ५ ।
इति त्रिकाण्डशेषः ॥ इलीशः ६ राजशफरः ७
इल्लीशः ८ जलतापी ९ । इति शब्दरत्नावली ॥
अस्य गुणाः । पित्तश्लेष्माग्निवृद्धिकारित्वम् । मधु-
रत्वम् । हृद्यत्वञ्च । इति राजवल्लभराजनिर्घण्टौ ॥
“इल्लिशो मधुरः स्निग्धो रोचनो वह्निवर्द्धनः ।
पित्तकृत् कफकृत् किञ्चित् लघुर्वृष्योऽनिलापहः” ॥
इति भावप्रकाशः ॥

इल्वकाः, स्त्री, इल्वलाः । नित्यबहुवचनान्तशब्दो-

ऽयं । इति भरतो द्विरूपकोषश्च ॥

इल्वलः, पुं, (इल् + वलच् । निपातनात् गुणाभावः ।)

दैत्यविशेषः । स च वातापेर्भ्राता । (स च सिंहि-
कासुतः । यथा, हरिवंशे । ३ य अध्याये ।
“सैहिकेया इति ख्यातास्त्रयोदश महाबलाः । ९८ ।
ऐशः बल्यश्च बलिनौ नभश्चैव तथाबलः ।
वातापिर्नमुचिश्चैव इल्वलः खसृमस्तथा” ॥ ९९ ॥
तस्य विवृतिर्यथा महाभरते तीर्थयात्रापर्ब्बणि
अगस्त्योपाख्याने ९६ अध्यायः ।
लोमश उवाच ।
“इल्वलो नाम दैतेय आसीत्कौरवनन्दन ! ।
सणिमत्यां पुरि पुरा वातापिस्तस्य चानुजः । ४ ।
स ब्राह्मणं तपोयुक्तमुवाच दितिनन्दनः ।
पत्त्रं मे भगवानेकमिन्द्रतुल्यं प्रयच्छतु ॥ ५ ॥
तस्मिन् स ब्राह्मणो नादात् पुत्त्रं वासवसम्मितम् ।
चुक्रोध सोऽसुरस्तस्य ब्राह्मणस्य ततो भृशम् ॥ ६ ॥
तदा प्रभृति राजेन्द्र इल्वलो ब्रह्महासुरः ।
मन्युमान् भ्रातरं छागं मायावो ह्यकरोत्ततः ॥ ७ ॥
मेषरूपी च वातापी कामरूप्यभवत् क्षणात् ।
संस्कृत्य च भोजयति ततो विप्रं जिघांसति ॥ ८ ॥
स आह्वयति यं वाचा गतं वैवस्वतक्षयम् ।
स पुनर्दहमास्थाय जीवन् संप्रत्यदृश्यत ॥ ९ ॥
ततो वातापिमसुरं छागं कृत्वा सुसंस्कृतम् ।
तं व्राह्मणं भोजयित्वा पुनरेव समाह्वयत् ॥ १० ॥
तामिल्वलेन महता स्वरेण वाचमीरिताम् ।
श्रुत्वातिमायो बलवान् क्षिप्रं ब्राह्मणकण्टकः ॥ ११ ॥
तस्य पार्श्वं विनिर्भिद्य ब्राह्मणस्य महासुरः ।
वातापिः प्रहसन् राजन् निश्चक्राम विशाम्पते ॥ १२ ॥
एवं स ब्राह्मणान् राजन् भोजयित्वा पुनः पुनः ।
हिंसयामास दैतेय इल्वलो दुष्टचेतनः ॥ १३ ॥
अगस्त्यश्चापि भगवानेतस्मिन् काल एव तु ।
पितॄन् ददर्श गर्त्ते वै लम्बमानानधोमुखान् ॥ १४ ॥
ततः ९९ प्रध्याये इल्वलेन अगस्त्यातिथ्यं कृतम् ॥
यथा, -- लोमश उवाच ।
“इन्त्वलस्तान् विदित्वा तु महर्षसहितान् नृपान् ।
उपस्थितान् सहामात्यो विषयान्ते ह्यपूजयत् । १ ।
तेषां ततोऽसुरश्रेष्ठस्त्वातिथ्यमकरोत् तदा ।
सुसस्कतेत कौरव्य भ्रात्रा वातापिना तदा । २ ।
ततो राजर्षयः सर्व्वे विषण्णा गतचेतसः ।
वातापिं संस्कृतं दृष्ट्वा मेषभूतं महासुरम् । ३ ।
अथाववीदगम्त्यम्तान् राजर्षीनृषीसत्तमः ।
विषादो वो न कर्त्तव्यो ह्यहं भोक्षे महासुरं । ४ ।
धुर्य्यासनमथासाद्य निषषाद महानृषिः ।
तं पर्य्यवेशयद्दैत्येन्द्रः इल्वलः प्रहसन्निव । ५ ।
अगस्त्य एव कृस्नन्तु वातापिं बुभुजे ततः ।
मुक्तवत्यसुराह्वानमकरोत्तस्य चेल्वलः । ६ ।
ततो वायुः प्रादुरभूत् अधस्तस्य महात्मनः ।
शब्देन महता तात गर्ज्जन्निव यथा घनः । ७ ।
वातापे निष्क्रमस्वेति पुनः पुनरुवाच ह । ८ ।
तं प्रहस्याब्रवीत् राजन् अगस्त्यो मुनिसत्तमः ।
कुतो निष्क्रमितुं शक्तो मया जीर्णस्तु सोऽसुरः । ९ ।
इल्वलस्तु विषण्णोऽभूद्दृष्ट्वा जीर्णं महासुरम् ।
प्राञ्जलिश्च सहामात्यैरिदं वचनमब्रवीत् । १० ।)
मत्स्यविशेषः । इति मेदिनी ॥

इल्वलाः, स्त्री, (इल + वलच् ।) मृगशिरोनक्षत्र-

शिरो देशस्थिताः पञ्चताराः । इत्यमरः ॥ (नित्य-
बहुवचनान्तोऽयम् ।)

इव, इ, व्याप्तौ । (इदित् -भ्वादिं -- परं -सकं -सेट् ।)

प्रीणने । इति कविकल्पद्रुमः ॥ ह्रस्वादिः । इ
इन्व्यते । दन्त्यबकारपरत्वान्नानुस्वारः । प्रीणनं
कैश्चिन्न मन्यते । इति दुर्गादासः ॥

इव, व्य, सादृश्यम् । साम्यम् । इत्यमरः ॥ (यथा,

रघौ । १ । १ ।
“वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये ।
जगतः पितरौ वन्दे पार्ब्बतीपरमेश्वरौ” ॥)
(उत्प्रेक्षा । यथा, साहित्यदर्पणे १० परिच्छेदे ।
“मुखमेणीदृशो भाति पूर्णचन्द्र इवापरः” ।)
ईषत् । वाक्यालङ्कारः । (यथा, शाकुन्तले १ अङ्के ।
“किमिव हि मधुराणां मण्डनं नाकृतीनाम्” ।
एवार्थः । यथा, ऋग्वेदे १ । १८४ । ३ । “श्रिये
पुषन्निषुकृतेव देवाः” “इवशब्द एवार्थे” इति
भाष्यम् । अवधारणार्थः । यथा, शतपथब्राह्मणे
प्लक्ष्णेव तु ईश्वरा” “इवशब्दोऽवधारणार्थः इति
भाष्यम् ।)

इशीका, स्त्री, इषीका । गजचक्षुर्गोलकः । इत्य-

मरटीकायां भरतः ॥

इष य सर्पणे । गतौ । इति कविकल्पद्रुमः ॥ (दिवां-

परं-सकं-सेट् ।) ह्रस्वादिः । य इष्यति । सर्पणं
गतिः । इति दुर्गादासः ॥

इष उ श वाञ्छे । इति कविकल्पद्रुमः ॥ (तुदां-

परं-अकं-सेट् । उ एषित्वा इष्ट्वा । वेमसह-
लुभेत्यादिसूत्रेणैवेष्टसिद्धेऽप्यस्योदनुबन्धस्तत्सूत्रे इ
षगाभीक्ष्ये इष्य सर्पणे इत्येतयोरप्राप्तये विशे-
षणार्थः । न च पिबादिग्रहणवत्तत्र इच्छ इति
ग्रहणेनैवेष्टसिद्धिरिति वाच्यं लाघवाभावे प्राचीन-
मतस्यैव न्याय्यत्वात् । श इच्छती इच्छन्ती । अस्यैव
इच्छादेशः । इच्छति धनं लोकः । इति दुर्गादासः ॥

इष ग आमीक्ष्ण्ये । पौनःपुन्येन करणे । इति कवि-

कल्पद्रुमः ॥ (क्र्यादिं-परं-अकं-सेट् ।) ग इष्णाति
पण्डितः । पुण्यं पुनःपुनः करोतीत्येर्थः । इति
दुर्गादासः ॥

इषः, पुं, (इष्यते गम्यतेऽस्मिन् जिगीषुभिरिति ।

इष + क ।) आश्विनमासः । इत्यमरः ॥ (यथा,
शतपथब्राह्मणे । ४ । ३ । “यच्छरद्दूर्गस ओषधयः
पच्यन्ते ते ने हैताविषश्चोर्गश्च” । इषर्जौ शरत्” ।
इति सुश्रुतः ॥)

इषिका, स्त्री, (इष् + कृञादिभ्यो वुन् ।) इषीका ।

गजचक्षुर्गोलकः । तूलिका । इत्यमरटीकायां राय-
मुकुटः ॥

इषिरः, पुं, (इष्यति गच्छतीति । इष + किरच् ।)

अग्निः । इत्युणादिकोषः ॥ (गमनशीले, त्रि, यथा,
ऋग्वेदे । ७ । ३५ । ४ । “शं न इषिरो अभिया-
रातः” । “इषिरः गतिशीलः” इति भाष्यम् ।)

इषीका, स्त्री, (ईष्यते इति । ईषेः कित् ह्रस्व-

श्चेतीकन् ह्रस्वश्च ।) गजाक्षिकूटकः । हस्थिचक्षु-
र्गोलकः । इत्यमरः ॥ तूलिका । इति रायमुकुटः ॥
काशतृणं । इति हेमचन्द्रः ॥
(“पताङ्गानां पुच्छेषु त्वयेषीका प्रवेशिता” ।
“इषीकाञ्च यथा मुञ्जात् कश्चित् निष्कृष्य दर्शयेत् ।
योगी निष्कृष्य चात्मानं तथा पश्यति देहतः” ।
इति च महाभारते ।
“तस्मिन्नास्थदिषीकास्त्रं रामो रामावबोधितः” ।
इति रघुः १२ । २३” । इषीकास्त्रं काशास्त्रं “इषीका
काशमुच्यते” इति हलायुधः । इति तट्टीका ।)

इषुः, पुं, स्त्री, (इष्यति गच्छतीति । इष् + उ ।)

बाणः । इत्यमरः ॥ (“उत्कर्षः स च धन्विनां
यदिषवः सिध्यन्ति लक्ष्ये चले” । इति शाकुन्तले
२ अङ्के ।)

इषुधिः, स्त्री, (इषवो धीयन्तेऽस्मिन् । इषु + धा

कि ।) तूणः । इत्यमरः ॥ (“धनुर्गाण्डीवमादाय
तथाक्षय्ये महेषुधी” । इति महाभारते ३ । ३९ ।)

इषुपुङ्खा, स्त्री, शरपुङ्खावृक्षः । इति राजनिर्घण्टः ॥

इष्टं, क्ली, (इज्यते इष्यते वा यज इष वा + भावे

क्त ।) यज्ञादिकर्म्म । (यथा, हेमचन्द्रः ।
“अग्निहोत्रं तपः सत्यं वेदानां चार्थपालनम् ।
आतिथ्यं वैश्यदेवञ्च इष्टमित्यभिधीयते” ॥)
यथेप्सितं । कामं । इत्यमरः ॥ संस्कारः । इति
मेदिनी ॥

इष्टं, त्रि, (इष्यते इज्यते वा यत् तत् । इष यज वा

+ कर्म्मणि क्त ।) आशंसितम् । वाञ्छित्वम् ।
पूजितम् । प्रियं । इति मेदिनी ॥ (यथा, महा-
भारते ।
“उपपन्नो गुणैरिष्टै रूपवानश्वकोविदः” ।
मनुः । ४ । २२९ ।
“तिलप्रदः प्रजामिष्टां दीपदश्चक्षुरुत्तमम्” ।)

इष्टः, पुं, (इज्यते यः । यज् + क्त ।) यज्ञः । इति

मेदिनी ॥ एरण्डवृक्षः । इति शब्दचन्द्रिका ॥
(शमीशब्देऽस्य गुणादिकं बोद्धव्यम् ॥)

इष्टका, स्त्री, (इष + तकन् + टाप् ।) गृहादि-

निर्म्माणार्थदग्धमृत्तिकाखण्डः । इति
चितिव्यवहारे लीलावती । इट इति भाषा ।
तद्गृहगुणः ।

इष्टिका, स्त्री, (इष + तकन् + टाप् ।) गृहादि-

निर्म्माणार्थदग्धमृत्तिकाखण्डः । इति
चितिव्यवहारे लीलावती । इट इति भाषा ।
तद्गृहगुणः ।
“कूपोदकं वटच्छाया श्यामा स्त्री इष्टकालयम् ।
शीतकाले भवेदुष्णमुष्णकाले च शीतलम्” ॥
इति चाणक्यम् ॥ * ॥ तद्रचितस्थाने पितृकर्म्मनि-
पृष्ठ १/२१५
:षेधो यथा । शङ्खलिखितौ । नेष्टकारचिते पितॄन्
सन्तर्पयेत् । इति श्राद्धतत्त्वम् ॥ * ॥ देवोद्देश्यकेष्ट-
कामयगृहदानफलं यथा । मठादिप्रतिष्ठातत्त्वे ॥
“मृण्मयात् कोटिगुणितं फलं स्यात् दारुभिः कृते ।
कोटिकोटिगणं पुण्यफलं स्यादिष्टकामये ॥
द्विपरार्द्धगुणं पुण्यं शैलजे तु विदुर्ब्बुधाः ।
मृच्छिलयोः समं ज्ञेयं फलमाढ्यदरिद्रयोः” ॥

इष्टकापथं, क्ली, (इष्टं कापथं यस्य अधोवायुकर-

त्वात् ।) वीरणमूलम् । इत्यमरः ॥ (इष्टकाभि-
र्निर्म्मितः पन्थाः ।) इष्टकानिर्म्मितपथे, पुं ॥

इष्टगन्धं, क्ली, (इष्टो गन्धो यस्येति ।) बालुका । इति

मेदिनी ॥

इष्टगन्धः, त्रि, (इष्टो गन्धो यस्य ।) सुगन्धिद्रव्यम् ।

इत्यमरः ॥ (इष्टश्चासौ गन्धश्चेतिवाक्ये । सौरभम् ।)

इष्टा, स्त्री, (इज्यतेऽनया । यज + क्त टाप् ।) शमी-

वृक्षः । इति राजनिर्घण्टः ॥

इष्टापूर्त्तं, क्ली, (इष्टञ्च पूर्त्तञ्च द्वयोः समाहारः ।)

यज्ञखातादिकर्म्म । इति हेमचन्द्रः ॥ यथा ।
“अग्निहोत्रं तपः सत्यं वेदानाञ्चानुपालनम् ।
आतिथ्यं वैश्वदेवञ्च इष्टमित्यभिधीयते ॥
वापीकूपतडागादिदेवतायतनानि च ।
अन्नप्रदानमारामाः पूर्त्तमित्यभिधीयते” ॥
इति मलमासतत्त्वधृतजातूकर्णः ॥ (यथा, मार्क-
ण्डेयपुराणे १८ । ६ ।
“इष्टापूर्त्तविनाशाय तद्राज्ञश्चौरधर्म्मिणः” ॥
तथा च महाभारते । ३ । ३२ । ३० ।
“इष्टापूर्त्तफलं न स्यात् न शिष्यो न गुरुर्भवेत्” ।)

इष्ठार्थोद्युक्तः, त्रि, (इष्टोऽर्थस्तस्मिन् उद्युक्तः ।)

उत्सुकः । उत्साहयुक्तः । इत्यमरः ॥

इष्टिः, स्त्री, (इष्, यज् वा + क्तिन् ।) अभिलाषः ।

(इति भाष्यकारेष्ट्या गतार्थत्वात् । इति
पाणिनिः ।) यागः । इत्यमरः ॥ (यथा, रघुः । १० । ४ ।
“आरेभिरे जितात्मामः पुत्त्रियामिष्टिमृत्विजः” ।
“प्राजापत्यं निरूप्येष्टिं सर्व्वदेवसदक्षिणां” ।
इति मनुः । ६ । ३८ ।) श्लोकसंग्रहः । इति मेदिनी ॥

इष्टिकापथिकं, क्ली, लामज्जकतृणम् । इति राज-

निंर्घण्टः ॥

इष्टिपचः, पुं, (इष्टिं यज्ञं पचतीति । यद्वा, इष्टये

स्वेच्छार्थं पचति यः । इष्टि + पच + अच् ।)
दनुजः । असुरः । इति शब्दरत्नावली ॥

इष्टिमुट्, [ष्] पुं, (इष्टिं यागं मुष्णाति । इष्टि +

मुष् + क्विप् ।) दैत्यः । इति त्रिकाण्डशेषः ॥

इष्टुः, स्त्री, (इष + तु ।) इच्छा । इत्युणादिकोषः ॥

इष्मः, पुं, (इच्छतीति इषियुधीति मक् ।) कामदेवः ।

वसन्तकालः । इति सिद्धान्तकौमुद्यामुणादि-
वृत्तिः ॥ [कालः । इति हेमचन्द्रः ॥

इष्यः, पुं, (इष्यतेऽनेन इति । इष् + क्यप् ।) वसन्त-

इष्वः, पुं, (इष्यतेऽसौ । इष् + वन् । निपातनात्

गुणाभावः ।) उपदेष्टा । इत्युणादिकोषः ॥

इष्वासं, त्रि, (इषून् बाणान् अस्यतीति । इषु + अस्

+ घञ् ।) इषुक्षेपकम् । इति मेदिनी ॥ तिरन्दाज
इति ख्यातम् ।

इष्वासः, पुं, (इषवो बाणा अस्यन्ते क्षिप्यन्तेऽनेन ।

इषु + अस् + करणे घञ् ।) धनुः । इत्यमरः ॥
(“महोरस्को महेष्वासो गूढजत्रुररिन्दमः” ।
इति रामायणे । १ । १ । १० । गीतायां १ । ४ ।
“अत्र शूरा महेष्वासा भीमार्ज्जुनसमा युधि” ।)

इह, व्य, (अस्मिन् काले, लोके, विषये, देशे, दिशि

वा इत्याद्यर्थे निपातनात् सिद्धम् ।) अस्मिन् ।
एइ देशे एइ काले इत्यादि भाषा । इति व्या-
करणम् ॥ (यथा, मनुः । ३ । १ । ८१ ।
“यत्तु वाणिजके दत्तं नेह नामुत्र तद्भवेत्” ।
“षड् दोषाः पुरुषेणेह हातव्या भूतिमिच्छता” ।
इति हितीपदेशे ।)

इहामुत्रफलभोगविरागः, पुं, (इह अस्मिन् लोके

स्रक्चन्दनादिजनितोऽमुत्रामुस्मिन् लोके अमृता-
दिविषयोत्पन्नो योऽनित्यः फलभोगस्तस्मात् वि-
रागो नितरां विरतिः ।) ऐहिकपारत्रिकविषय-
भीगेभ्यो नितरां विरतिः इति वेदान्तसारे ॥

दीर्घ ईकारः । चतुर्थस्वरवर्णः । अस्योच्चारणस्थानं

तालु । (स च दीर्घः द्विमात्रत्वात् त्रिमात्राश्रय-
त्वात् प्लुतश्च भवति ।) (विस्तृतिस्त ह्रस्वैकारे
द्रष्टव्या ।)
“ईकारं परमेशानि स्वयं परमकुण्डली ।
ब्रह्मविष्णुमयं वर्णं तथा रुद्रमयं सदा ॥
पञ्चदेवमयं वर्णं पीतविद्युल्लताकृतिम् ।
चतुर्ज्ञानमयं वर्णं पञ्चप्राणमयं सदा” ॥
इति कामधेनुतन्त्रम् । (वङ्गीयभाषायां ।) तस्य
लेखनप्रकारो यथा ।
“ऊर्द्ध्वाधः कुञ्चिता मध्ये त्रिकोणाधोगता पुनः ।
अधोगता कोणशीर्षा कुञ्चिता दक्षतः शुभा ॥
शीर्षाद्दक्षे कोणयुता कुञ्चितोर्द्ध्वगता पुनः ।
चन्द्रसूर्य्याग्निरूपा सा मात्राशक्तिः प्रकीर्त्तिता” ॥
इति वर्णेद्धारतन्त्रम ॥ * ॥ अस्य नामानि यथा, --
“ई स्त्रीमूत्तिर्म्महामाया लोलाक्षी वामलोचनम् ।
गोविन्दः शेखरः पुष्टिः सुभद्रा रत्नसंज्ञकः ॥
विष्णुर्लक्ष्मीः प्रहासश्च वाग्विशुद्धः परापरः ।
कालोत्तरीयो भेरुण्डा रतिश्च पौण्ड्रवर्द्धनः ॥
शिवोत्तमः शिवा तुष्टिश्चतुर्थी विन्दुमालिनी ।
वैष्णवी वैन्दवी जिह्वा कामकला सनादका ॥
पावकः कोटरः कीर्त्तिर्मोहनी कालकारिका ॥
कुचद्वन्द्वं तर्ज्जनी च शान्तिस्त्रिपुरसुन्दरी” ॥
इति तन्त्रोक्तवर्णाभिधानम् ॥ (मातृकान्यासेऽस्य
वामचक्षुषि स्थानम् । यथा, मातृकान्यासधृत-
मन्त्रे । “इं नमो दक्षिणचक्षुषि ईं नमो वाम-
चक्षुषि ।)

, ल, कान्तौ । गतौ । व्याप्तौ । क्षेपे । प्रजने ।

खादने । इति कविकल्पद्रुमः ॥ (अदां-परं-सकं-
अकं च-अनिट् ।) कान्तिरिच्छा । प्रजनो गर्भ
ग्रहणं इत्यर्थः । ल एति गौः गर्भं गृह्णाति इत्यर्थः ।
“न हि तरणिरुदीते दिक् पराधीनवृत्तिः” ।
इति गणकृता नित्यत्वादात्मनेपद । धातुरयं कै-
श्चिन्न मन्यते । इति दुर्गादासः ॥

, ङ य, गतौ । इति कविकल्पद्रुमः ॥ (दिवां-आत्मं-

सकं -अनिट् ।) ङ य ईयते । इति दुर्गादासः ॥

, व्य विषादः । अनुकम्पा । इति मेदिनी ॥ क्रोधः ।

दुःखभावनं । प्रत्यक्षं । सन्निधिः । इति हेम-
चन्द्रः ॥ (सम्बोधनम् ।)

ईः, पुं, कन्दर्पः । इति त्रिकाण्डशेषः ॥

ईः, स्त्री, (अस्य विष्णोः पत्नी । ङीप् ।) लक्ष्मीः ।

इति विश्वमेदिन्यौ ॥

ईख, इ गतौ । इति कविकल्पद्रुमः ॥ (इदित्-भ्वादिं-

परं-सकं-सेट् ।) दीर्घादिः । इ ईङ्खते । इति
दुर्गादासः ॥ (ईख गतौ । ईखति इति केचित् ।)

ईक्ष ङ दर्शने । इति कविकल्पद्रुमः ॥ (भ्वादिं-आत्मं-

सकं-सेट् ।) दर्शनमिह चाक्षुषज्ञानं प्रणिधानञ्च ।
ङ ईक्षते चन्द्रं लोकः । “न कामवृत्तिर्व्वचनीय-
मीक्षते” । इति कालिदासः ॥ “निरीक्षिष्यामि
यान्मुनीन् इति गणकृतानित्यत्वात्” इति रमानाथः ॥
“वस्तुतस्तु निरीक्ष्यते निरीक्षः पचादित्वादन् ततो
निरीक्ष इवाचरतीतिक्वौ साध्यं” इति दुर्गादासः ॥

ईक्षणं, क्ली, (ईक्ष + भावे, ल्युट् ।) दर्शनम् ।

(“कृतान्धा धनलोभान्धाः नोपकारेक्षणक्षमाः” ।
इति कथासरित्सागरे ॥) (ईक्ष्यतेऽनेनति करणे
ल्युट् ।) चक्षुः । इत्यमरः ॥ (“अभिमुखे मयि
संवृतमीक्षणम्” । इति शाकुन्तले । २ अङ्के ।
“श्वासक्षामेक्षणा दीना सुनीतिर्वाक्यमब्रवीत्” ।
इति विष्णुपुराणे । १ । ११ । १५ । निरूपणम् । पर्य्य-
वेक्षणम् । यथा, मनुः ७ । १४१ ।
“स्थापयेदासने तस्मिन् खिन्नःकार्य्येक्षणे नृणाम्” ।)

ईक्षणिका, स्त्री, (ईक्षणेन हस्तरेखाद्यवलोकनेन

शुभाशुभं जानाति या । ईक्षण + ठन् + टाप् ।)
दैवज्ञा । लक्षणादिना शुभाशुभनिरूपिणी । इत्य-
मरः ॥ (पुं, दैवज्ञः । यथा, मनुः । ९ । २५८ ।
“मङ्गलादेशवृत्ताश्च भद्राश्चेक्षणिकैः सह” ।)

ईज, इ, कुत्से । गतौ । इति कविकल्पद्रुमः ॥

(भ्वादिं -आत्मं -सकं -सेट् -इदित् ।) इ ईञ्जते ।
कुत्सः कैश्चिन्न मन्यते । इति दुर्गादासः ॥

ईज, ङ, कुत्से । गतौ । इति कविकल्पद्रुमः ॥

(न्वादिं -आत्मं -सकं -सेट् ।) दीर्घादिः । ङ
ईञ्जते इजते । कुत्सः कैश्चिन्न मन्यते । इति
दुर्गादासः ॥

ईड, क, स्तुतौ । इति कविकल्पद्रुमः ॥ (चूरां-परं-

सकं-सेट् ।) क ईडयति । इति दुर्गादासः ॥

ईड, ङ ल, स्तुतौ । इति कविकल्पद्रुमः ॥ (अदां-

आत्मं -सकं -सेट् ।) ल ङ ईट्टे । इति दुर्गादासः ॥
(यथा, रामायणे । ३ य काण्डे ।
“गन्धर्ब्बाः सुरसंघाश्च बहवश्च महर्षयः ।
अन्तरीक्षगतं देवं गीर्भिरग्र्याभिरीडिरे” ॥)

ईडा, स्त्री, (ईड + क + टाप् ।) स्तुतिः । इति हला-

युधः ॥ (प्रशंसा ।)

ईडितः, त्रि, (ईड्यते स्म । ईड् + क्त ।) स्तुतः । कृत-

स्तवः । इत्यमरः ॥ (प्रशंसितः ।)
पृष्ठ १/२१६

ईत, इ बन्धे । इ ईन्त्यते । इति दुर्गादासः ॥ (भ्वादिं-

परं -सकं -सेट् । तेन इन्ततीति केचित् ।)

ईतिः, स्त्री, (ईयते ऽनया । ई + क्तिन् ।) डिम्वः ।

प्रवासः । इत्यमरो मेदिनी च ॥ कृषेः षट्प्रका-
रोपद्रवविशेषः । यथा, --
“अतिवृष्टिरनावृष्टिः शलभा मूषिकाः खगाः ।
प्रत्यासन्नाश्च राजानः षडेता ईतयः स्मृताः” ॥
इति स्मृतिः ॥ (कलहभेदः । नृपतिरहितयुद्धम् ।
“ईतयो व्याधयस्तन्द्रा दोषा क्रोधादयस्तथा ।
उपद्रवाश्च वर्त्तन्ते आधयः क्षुद्भयं तथा” ॥
इति महाभारते हनूमद्भीमसंवादे । ३ । १४९ । ३४ ।)

ईदृक्, [श्] त्रि, (इदम् + दृश् + क्विप् ।) अयमिव

दृश्यते । इति व्याकरणम् ॥ इहार न्याय एइ-
प्रकार इत्यादि भाषा ।
(“रत्नानीदृंशि भूयांसि न भवन्त्येव भूतले” ।
इति कथासरित्सागरे । २५ । १७६ ॥ तथा च
किराते । २ । २८ ॥
“इदमीदृगनीदृगाशयः प्रसभं वक्तुमुपक्रमेत कः” ।

ईदृक्षः, त्रि, (अयमिव दृश्यतेऽसावित्याद्यर्थे । इदम्

+ दृश् + क्स दृक्षे चेति ईश् ।) ईदृशः । इति
ब्याकरणभ् ॥
(“ईदृक्षराजकर्म्माणि भवेयुस्तदिदं वयम्” ।
इति कथासरित्सागरे ।)

ईदृशः, त्रि, (अयमिव दृश्यतेऽसौ इदम् + दृश् +

कञ् ।) ईदृक् । एतत्सदृशः । इति व्याकरणम् ॥
(“ईदृशानां विपाकोऽपि जायते परमाद्भुतः” ।
इति उत्तररामचरिते ।)

ईर, कि गतौ । प्रेरणे । इति कविकल्पद्रुमः । (वा,

चुरां-परं -सकं -सेट् ।) नुदि । कि ईरयति ईरति ।
नुदि प्रेरणे । इति दुर्गादासः ॥

ईर, ङ ल, कम्पे । गतौ । इति कविकल्पद्रुमः ॥

(अदां-आत्मं -सकं कम्पार्थे, अकं -सेट् ।) दीर्घादिः ।
ङ ल ईर्त्ते लता वायुना । इति दुर्गादासः ॥

ईरिका, स्त्री, वृक्षविशेषः । यथा । ईरिकावणम् ।

इति णत्वप्रकरणे दुर्गादासः ॥

ईरिणं, त्रि, (ऋ + इरन् ।) शून्यं । ऊषरभूमिः ।

इति मेदिनी ॥ (यथा, मनुः । ३ । १४२ ॥
“यथेरिणे वीजमुप्त्वा न वप्ता लभते फलम् ॥
तथानृते हविर्दत्वा न दाता लभते फलम्” ॥
“ततस्तदीरिणं जातं समुद्रश्चावसर्पितः” ।
इति महाभारते अमुशासनपर्ब्बणि । चलनं ।)

ईरितं, त्रि, (ईर + क्त ।) क्षिप्तम् । इत्यमरः ॥ प्रेरि-

तम् । कम्पितम् । गतम् । कथितम् ॥ (“इतीरिते
वचसि वचस्विनामुना” । इति माघे । १७ । १ ।
“तस्य वर्म्म विभिद्याशु स बाणो मत्सुतेरितः” ।
इति, महाभारते ।)

ईर्क्ष्यं, ईर्षे । (भ्बादिं-परं-अकं -सेट् ।) पराभ्युदयासहि-

ष्णुतायामिति यावत् । इति कविकल्पद्रुमः ॥
दीर्घादिः । रेफयुक्तः । ईर्षा परादोषासहि-
ष्णुत्वमिति केचित् । ईर्क्ष्यति खलः साधवे ।
षद्वयान्त इत्येके । इति दुर्गादासः ॥

ईर्म्म, क्ती, (इर + वाहुलकात् मक् ।) व्रणः । इत्य-

मरः ॥ (यथा, भट्टिकाव्ये । ४ । ४४ ।
“मृगयुमिव मृगोऽथ दक्षिणेर्म्भा” ।)

ईर्य्या, स्त्री, (ईर + ण्यत् ।) भिक्षुव्रतम् । इति जटा-

धरः ॥

ईर्व्वारुः, पुं, स्त्री, (ईरं वृणोतीति । ईर् + वृ -बाहु

लकात् उण् ।) स्फुटिः । इति शब्दरत्नावली ॥
फुटी इति भाषा ।

ईर्षा, स्त्री, (ईर्ष्यणं । ईर्ष्य + घञ् । हसाल्लोप इति

यकारलोपः ।) अक्षमा । इति शब्दमाला ॥
(“कथमीर्षां न कुरुषे सुग्रीवस्य समीपतः” ।)
इति रामायणे ॥ ४ । २४ । ३७ ।)

ईर्षालुः, त्रि, (ईर्षा + आलुच् ।) ईर्षाविशिष्टः ।

इति हलायुधः ॥

ईर्ष्य, ईर्षे । इति कविकल्पद्रुमः ॥ (भ्वादिं-परं-अकं-

सेट् ।) दीर्घादिः । रेफयुक्तः । ईर्ष इति ईर्ष्यस्य
घञि हसाल्लोप इति यलोपे सिद्धम् । ईर्षा परा-
भ्युदयासहिष्णुत्वम् । परदोषासहिष्णुत्वमिति के-
चित् । ईर्ष्यति खलः साधवे । यद्वयान्तः इत्येके ।
इति दुर्गादासः ॥

ईर्ष्या, स्त्री, (ईर्ष्यणं । ईर्ष्य + अच् + टाप् ।) परोत्-

कर्षासहिष्णुता । रीष इति भाषा । तत्पर्य्यायः ॥
अक्षान्तिः २ । इत्यमरः ॥ (यथा, मनुः । ७ । ४८ ॥
(“पैशुन्यं साहसं द्रोह ईर्ष्यासूयार्थदूषणम् ।
वाग्दण्डजञ्च पारुष्यं क्रोधजोऽपि गुणाष्टकः” ।
स्त्रियः पत्युरन्यप्रियासङ्ग दर्शनादिजनितो मान-
भेदः । यथा, श्टङ्गारशतके ॥
“वचोभिरीर्ष्याकलहेन लीलया
समस्तभातैः खलु बन्धनं स्त्रियः” ।)

ईर्ष्यालुः, त्रि, (ईर्ष्यां लाति । ईर्ष्या + ला + डु ।)

ईर्षाविशिष्टः । अक्षान्तियुक्तः । तत्पर्य्यायः ।
कुहनः २ इति हेमचन्द्रः ॥ (यथा, राजतरङ्गिणी ।
“दिवसे सन्निधानेन पेशुनप्रेरणा यदि ।
ईर्ष्यालुना स्वैरिणीव रक्षितुं यदि पार्य्यते” ॥)

ईलिः, स्त्री, (ईर्य्यते इति । ईर + इन् रस्य लः ।)

ह्रस्वगदाकारहस्तदण्डः । इति भरतः ॥ सोँटा
इति ख्याता । करच्छुरीति ख्याते एकधारा इति
ख्याते यवनास्त्रे वा । इति सारसुन्दरी ॥

ईलिका, स्त्री, (ईलिरेव । ईलि + स्वार्थे कन् टाप् ।)

ह्रस्वगदाकारहस्तदण्डः । इति भरतः ॥ सोँटा
इति ख्याता । एकधारेलीति स्वामी । तत्पर्य्यायः ।
ईलिः २ ईली ३ करपाली ४ गुप्तिका ५ कर-
पालिका ६ । इति शब्दरत्नावली ॥

ईलितः, त्रि, (ईड + क्त । डस्य लः ।) स्तुतः । इत्य-

मरः ॥

ईली, स्त्री, (ईर + क । कृदिकारादिति पाक्षिको

ङीष् ।) ह्रस्वगदाकारहस्तदण्डः । तत्पर्य्यायः ।
करपालिका २ । इत्यमरः ॥

ईश, ङ, ल, ऐश्वर्य्ये । इति कविकल्पद्रुमः ॥ (अदां-

आत्मं अकं-सेट् ।) दीर्घादिः । ऐश्वर्य्यमीश्वरीभावो-
ऽधीनीकरणञ्च । ङ ल ईष्टे धनी । मायानामी-
शिषेण च । अत्र कर्म्मणिषष्ठी । इति दुर्गादासः ॥

ईशं, त्रि, (ईष्टे इति । ईश् + क ।) ईश्वरं । (यथा

कुमारे २ । ९ “जगदीशो निरीश्वरः” ।) प्रभुः ।
इति मेदिनीकरहेमचन्द्रौ ॥ (यथा, कुमारे ।
३ । ३४ “कथञ्चिदीशा मनसां बभूवुः” ।)

ईशः, पुं, (ईष्टे इति । ईश + क ।) महादेवः ।

(“शनैः कृतप्राणविमुक्तिरीशः
पर्य्यङ्कबन्धं निविडं बिभेद” ।
इति कुमारे ३ । ५९ ।) ईशानकोणाधिपतिः ।
इत्यमरः ॥

ईशसखः, पुं, (ईशस्य सखा बन्धुः राजाहःसखिभ्यः

टच् ।) कुवेरः । इति हेमचन्द्रः ॥

ईशा, स्त्री, (ईश + अ + टाप् ।) लाङ्गलदण्डः । इत्य-

मरटीका शब्दरत्नावली च ॥ (यथा महाभारते
वनपर्ब्बणि घोषयात्रापर्ब्बणि २४० । ३० ।
“ईशामन्ये हयानन्ये सूतमन्ये न्यपातयन्” ।)
(ईशस्य महादेवस्य पत्नी । दुर्गा ॥ ईशस्य प्रभोः
पत्नी इति व्युत्पत्त्या स्वामिपत्नी । प्रभुस्त्री यथा,
अथर्व्ववेदे ११ । ८ । १७ “ईशा वशस्य या जाया” ।)

ईशादण्डः, पुं, (ईशायाः लाङ्गलस्य दण्डः ।) अक्ष-

युगयोः सन्धारणार्थो दण्डः । यथा, --
“योजनानां सहस्राणि भास्करस्य रथो नव ।
ईषादण्डस्तथैवास्य द्विगुणो मुनिसत्तम” ॥
इति विष्णुपुराणे २ अंशे ८ । २ ॥

ईशादन्तः, पुं, (ईशेव दन्तो यस्य ।) वृहद्दन्तहस्ती ।

तत्पर्य्यायः । महादन्तः २ । इति त्रिकाण्डशेषः ॥
हस्तिदन्तः । इति शब्दरत्नावली ॥

ईशानं, क्ली, (ईश + आनश् ।) ज्योतिः । इतिमेदिनी ॥

(तद्विशिष्टे, त्रि । यथा, ऋग्वेदे । १ । १७५ । ४ ।
“मुषाय सूर्य्य कवे चक्रमोशान ओजसा” ।)

ईशानः, पुं, (ईष्टे । ईश् + ताच्छिल्यवयोवचनशक्तिषु

चानश् ।) महादेवः । इत्यमरः ॥
(“तस्मिन् मुहूर्त्ते पुरसुन्दरीणा-
मीशानसंदर्शनलालसानाम्” ॥
इति कुमारे ७ । ५६ ।
“तत्रेशानं समभ्यर्च्च्य त्रिरात्रोपोषितो नरः” ।
इति भारते ।) एकादशरुद्रान्तर्गतरुद्रविशेषः ।
इति पुराणं ॥ (यथा, आश्वलायंनगृह्यसूत्रे । ४ । ९ ।
“हराय मृडाय शर्व्वाय शिवाय भवाय महादेवाय
उग्राय भीमाय पशुपतये रुद्राय शङ्करायेशानाय
स्वाहा” इति । दूतमूर्त्तिधरः शिवः । स च धूम्र-
जटिलः । यथा, मार्कण्डेये । ८८ । २३ ॥
“सा चाह धूम्रजटिलमीशानमपराजिता ।
दूतत्वं गच्छ भगवन् पार्श्वं शुम्भनिशुम्भयोः” ।)
शिवाष्टमूर्त्त्यन्तर्गतसूर्य्यमूर्त्तिः । इति स्मृतिराग-
मश्च ॥ (परमेश्वरः । यथा, कृष्णयजुर्व्वेदे ।
“सर्व्वेन्द्रियगुणावासं सर्व्वेन्द्रियविवर्जितम् ।
सर्व्वस्य प्रभुमीशानं सर्व्वस्य शरणं वृहत्” ।
तथा च महाभारते १ । १ । २२ ।
“आद्यं पुरुषमीशानं पुरुहूतं पुरुष्टुतम् ।
ऋतमेकाक्षरं ब्रह्म व्यक्ताव्यक्तं सनातनम्” ॥
साध्यापुत्रो देवताभेदः । यथा, --
“धर्म्माल्लक्ष्म्युद्भवः कामः साध्या साध्यान् व्यजायत ।
प्रसवं व्यवनञ्चैवं ईशानं सुरभिं तथा” ॥
पृष्ठ १/२१७
:इति भारते ।) शमीवृक्षः । इति राजनिर्घण्टः ॥

ईशानी, स्त्री, (ईशस्य पत्नी ।) दुर्गा । इति तन्त्रं ॥

शमीवृक्षः । इति राजनिर्घण्टः ॥

ईशिता, स्त्री, (ईशिनो भावः । ईशिन् + तल् ।) ईशित्वं ।

अणिमाद्यष्टैश्वर्य्यान्तर्गतैश्वर्य्यविशेषः । इति शब्द-
रत्नावली ॥

ईशिता, [ऋ] त्रि, (ईष्टे इति । ईश् + तृच् ।)

ईश्वरः । प्रभुः । अधिपतिः । इत्यमरः ॥ (यथा
माघे । २ । ९५ ।
“तदीशितारं चेदीनां भवांस्तमवमंस्त मा” ।)

ईशित्वं, क्ली, (ईशिनो भावः । ईशिन् + त्वा ।) ईशिता ।

देवानामष्टैश्वर्य्यान्तर्गतैश्वर्य्यविशेषः । इति हेम-
चन्द्रः ॥ (यदुक्तं ।
“अणिमा लघिमा व्याप्तिः प्राकाम्यं गरिमा तथा ।
ईशित्वञ्च वशित्वञ्च तथा कामावशायिता” ॥)
प्रभुत्वम् । येन स्थावरादिसर्व्वभूतानि आज्ञा-
कारीणि भवन्ति । इत्यमरटीकासारसुन्दरी ॥

ईश्वरं, त्रि, (ईश् + वरच् ।) आढ्यं ।

(“दरिद्रान् भर कौन्तेय मा प्रयच्छेश्वरे धनम्” ।
इति हितोपदेशे । १ । ७६ ।) स्वामि । इति वि-
श्वमेदिन्यौ ॥ (यथा महाभारते ।
“अहं चैव हि यच्चान्यन्ममास्ति वसु किञ्चन ।
तत्सर्व्वं तव विस्रब्धं कुरु प्रणयमीश्वर” ॥
नियन्ता । प्रभुः ।
“ईश्वरः सर्व्वभूतानां धर्म्मकोषस्य गुप्तये” ।
इति मनुः । १ । ९९ ॥)

ईश्वरः, पुं, (ईष्टे इति । ईश् + वरच् । यद्वा, अश्नुते

व्याप्नोतीति अशधातोर्वरट् उपधाया ईत्वं च ।)
शिवः । (यथा, कुमारे । ७ । ३१ ।
“तद्गौरवान्मङ्गलमण्डनश्रीः
सा पस्पृशे केवलमीश्वरेण” ।
“अथेश्वरं देवगणः सह सप्तर्षिभिर्विभुम्” ॥
“वाग्भिः स्थितः स्तुवन् यावच्छिवे भावे शिवः स्थितः ।
शिवं शिवाय भूतानां स्थितं ज्ञात्वा कृताञ्जलिः ॥
क्रोधाग्निरुक्तवान् देवमहं किं करवाणि ते” ।
“तमुवाचेश्वरः क्रोधं ज्वरो लोके भविष्यसि” ॥
इति चरके चिकित्सास्थाने तृतीयाध्यायः ॥
“ततः सृष्ट्वा प्रजाः शेषं तदा तं क्रोधमीश्वरः ।
विन्यस्तवान् स भूतेषु स्थावरेषु चरेषु च” ॥
इति सुश्रुते कल्पस्थाने तृतीयाध्यायः ॥)
कन्दर्पः । इति मेदिनी ॥
“विशुद्धसत्त्वप्रधानाज्ञानोपहितचैतन्यम्” ।
इति वेदान्तः ॥ न्यायमते ईश्वरगुणाः । संख्यादि-
पञ्च बुद्धिः इच्छा यत्नश्च । ईश्वरस्वरूपं ब्रह्मशब्दे
द्रष्टव्यम् ॥ ऐश्वर्य्यशाली । तत्पर्य्यायः । राष्ट्री १
अर्य्यः २ नियुत्वान् ३ इनैनः ४ । इति वेदनि-
र्घण्टौ २ अध्यायः ॥ श्रीहरिः । यथा ।
रुद्रौवाच ।
“हरे कथय देवेश देवदेवक ईश्वर ।
को ध्येयः कश्च वै पूज्यः कैर्व्रतैस्तुष्यते परः” ॥
इत्यादि । श्रीहरिरुवाच ।
“शृणु रुद्र प्रवक्ष्यामि ब्रह्मणा च सुरैः सह ।
अहं हि देवो देवानां सर्व्वलोकेश्वरेश्वरः ॥
अहं ध्येयश्च पूज्यश्च स्तुतोऽहं स्तुतिभिः सुरैः ।
अहं प्रपूजितो रुद्र ददामि परमां गतिम्” ॥
इत्यादि च गारुडे २ अध्यायः ॥
(स्वनामख्यातो नृपतिभेदः । यथा, महाभारते ।
“मतिमांश्च मनुष्येन्द्रः ईश्वरश्चेति विश्रुतः” ।)

ईश्वरा, स्त्री, (ईश्वर + टाप् । पुंयोगविवक्षामावात्

न ङीष् ।) दुर्गा ।
(“विन्यस्तमङ्गलमहौषधिरीश्वरायाः
स्रस्तोरगप्रतिसरेण करेण पाणिः” ।
इति किराते । “ईश्वराया गौर्य्याः, स्थेषभासे-
त्यादिना वरच् । पुंयोगविवक्षाभावात् न ङीष्”
इति तट्टीका ॥) लक्ष्मीः । सरस्वत्यादिशक्तिः ।
इति शव्दरत्नावली ॥

ईश्वरी, स्त्री, (ईष्टे इति + ईश् + वनिप् । वनोर-

चेति ङीव्रौ ।) ईश्वरा । इति शब्दरत्नावली ॥
(“त्वमीश्वरी देवि ! चराचराणाम्” । इति मार्क-
ण्डेयपुराणं ॥ ९१ । २ ।) लिङ्गिनीवृक्षः । वन्ध्या-
कर्कोटकीवृक्षः । रुद्रजटालता । नाकुलीकन्दः ।
इति राजनिर्घण्टः ॥

ईष उ उञ्छे । इति कविकल्पद्रुमः ॥ (तुदां -परं -सकं-

सेट् ।) उञ्छ उद्धृतशस्यशेषापहरणं । ईषति
धान्यं दीनः । इति दुर्गादासः ॥

ईष ङ दाने । (भ्वादिं -आत्मं -सकं -सेट् ।) ईक्ष ।

हिंसने । सर्पणे । इति कविकल्पद्रुमः ॥ दीर्घादिः ।
ङ ईषते । ईक्षो दर्शनं । इति दुर्गादासः ॥

ईषः, पुं, (ईष् + क ।) इषः । आश्विनमासः । इत्य-

मरटीकायां मथुरानाथः ॥ (स्वनामख्यातः उत्तम-
मनोर्दशपुत्रमध्ये एकः पुत्त्रः । यथा, --
‘औत्तमेयान् महाराज ! दशपुत्त्रान् मनोरमान्’ । १८
“ईष ऊर्द्ध्वस्तनूर्ज्जश्च मधुमाधव एवच ।
शुचिः शुक्रः सहश्चैव नभस्यो नभ एव च” ॥ १९
इति हरिवंशे ७ अध्यायः ॥)

ईषत् व्य, (ईषणमिति । ईष् + अत् ।) अल्पम् ।

किञ्चित् । मनाक् । इत्यमरः ॥
(“तं दृष्ट्वा कुपितं पुत्रमीषत्प्रस्फुरिताधरं” ।
इति विष्णुपुराणे ॥ १ । ११ । १२ ।
“ईषत् सहासममलं परिपूर्णचन्द्र-
विम्बानुकारि कनकोत्तमकान्तिकान्तं” ।
इति मार्कण्डेयपुराणे, शक्रादिमाहात्म्यम् ॥
“हृदि तिष्ठति यच्छुद्धं रक्तमीषत् सपीतकम्” ।
इति चरके सूत्रस्थाने सप्तदशाध्यायः ॥)

ईषत्करः, पुं, (ईषत् + कृ + खल् ।) अत्यल्पः । तत्प-

र्य्यायः । लेशः २ उपपदं ३ गन्धः ४ अनुबन्धः ५ ।
इति त्रिकाण्डशषः । ईषत्क्रियमाणं वस्तु । इति
व्याकरणं ॥

ईषत्पाण्डुः, पुं, (ईषत् पाण्डुः ।) धूसरवर्णः । इत्यमरः ॥

ईषदुष्णं, त्रि, (ईषच्च तदुष्णञ्चेति ।) अल्पतप्तं । तत्प-

र्य्यायः । कोष्णं २ कवोष्णं ३ कदुष्णं ४ मन्दोष्णं ५ ।
इति हेमचन्द्रः ॥

ईषद्रक्तः, पुं, (ईषत् रक्तः ।) अल्पलोहितवर्णः ।

तत्पर्य्यायः । अव्यक्तरागः २ अरुणः ३ । इत्यमरः ॥

ईषा, स्त्री, (ईष + क + टाप् ।) लाङ्गलदण्डः । इत्य-

मरः ॥ लाङ्गलेर ईष् इति भाषा ॥ (ऋग्वेदे ।
“हिरण्मयी वां रभिरीषा अक्षो” ।
रथस्यावयवभेदः । यथा, ऋग्वेदे । १० । १३५ ।
३ । “रथः एकैषः” ।
“ईषामन्ये हयानन्ये सूतमन्ये न्यपातयन्” ।
इति महाभारते । वनपर्ब्बनि २४० । ३० । ईशेति
क्वचित् पाठः ॥)

ईषादन्तः, पुं, (ईषेव दन्तो यस्य ।) दीर्घदन्तहस्ती ।

तत्पर्य्यायः । उदग्रदन्तः २ । इति हेमचन्द्रः ॥
(“ईषादन्तान् हेमकक्षान् पद्मवर्णान् कुथावृतान्”
ईषादन्ता महाकायाः सर्व्वे चाष्टकरेणवः” ॥
इति च भारते ॥)

ईषिका, स्त्री, (ईष + किकन् ।) हस्तिचक्षुर्गोलकः ।

इत्यमरटीकायां रायमुकुटः ॥ तूलिका । इत्य-
मरः ॥ अस्त्रविशेषः । यथा, --
“सोऽभिमन्त्र्य शरेषीकामीषिकास्त्रेण वीर्य्यवान् ।
काकं तमभिसन्धाय ससर्ज पुरुषर्षम” ! ॥
इति रामायणं ॥

ईषिरः, पुं, (ईष + किरच् ।) अग्निः । इति त्रिकाण्ड-

शेषः ॥

ईषीका, स्त्री, (ईष + ईकन् । औणादिकप्रत्ययो-

ऽयम् । पर्फरीकादित्वात् साधुः ।) तूलिका ।
वीरणादिशलाका इत्यन्ये । आवर्त्तितमनावर्त्तितं वा
सुवर्णं ज्ञातुं यन्निःक्षिप्यते तत्रेत्यन्ये । आवर्त्तित-
सुवर्णं द्रवाकारं यत्र निःक्षिप्यते तत्रेति केचित् ।
इत्यमरटीकायां भरतः ॥

ईष्मः, पुं, (ईष + मक् ।) कामदेवः । वसन्तकालः ।

इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥

ईह ङ चेष्टे । इति कविकल्पद्रुमः ॥ (भ्वादिं-आत्मं-

अकं-सेट् ।) दीर्घादिरकर्म्मकः । ङ ।
“ऐहिष्ट तं कारयितुं कृतात्मा
क्रतुं नृपः पुत्त्रफलं मुनीन्द्रम्” ।
इति भट्टिः । १ । ११ ॥
सकर्म्मकोऽपि । “भ्रामं भ्रमादपि नेहते” । इति
जयदेवः ॥ “सर्व्वः स्वार्थं समीहते” इति माघः ।
२ । ६५ ॥ इति दुर्गादासः ॥

ईहा, स्त्री, (ईह + अ + टाप् ।) चेष्टा । उद्यमः ।

(“इच्छया जायते काम ईहयार्थो विवर्द्धते ।
श्रद्धया वर्द्धते धर्म्मस्तेषां फलमिदं त्रिधा” ॥
इति रामायणे ॥ ३ काण्डे । तथा च मनुः २ । ३७ ।
“राज्ञो बलार्थिनः षष्ठे वैश्यस्येहार्थिनोऽष्टमे” ।
“वैश्यस्य बहुकृष्यादिचेष्टार्थिनः” इति तट्टीकायां
कुल्लुकभट्टः ।) वाञ्छा । इच्छा । इति त्रिकाण्डशेषः ॥
(“धर्म्मार्थं यस्य वित्तेहा वरं तस्य निरीहता ।
प्रक्षालनाद्धि पङ्कस्य श्रेयो न स्पर्शनं नृणाम्” ॥
इति महाभारते । १ । २ । ४८ ॥)

ईहामृगः, पुं, (ईहाप्रधानो मृगो वृकः ।) कुक्कुर-

प्रमाणहरिणघ्नकपिलवर्णजन्तुविशेषः । इति
भरतः ॥ घो¤घ इति ख्यातः । तत्पर्य्यायः । कोकः २
ष्टकः ३ । इत्यमरः ॥
(“पुलहस्य सुता राजन् शलभाश्च प्रकीर्त्तिताः ।
सिंहाः किम्पुरुषा व्याघ्रा यक्षा इहामृगास्तथा” ॥
इति महाभारते । आदिपर्ब्बणि ॥) (नायको मृग-
वदलभ्यामपि नायिकामीहते वाञ्छत्यत्र इति ।)
नाटकरूपकभेदः । इति मेदिनीकरहेमचन्द्रौ ॥
(तल्लक्षणं यथा, साहित्यदर्पणे षष्ठपरिच्छदे ।
“ईहामृगो मिश्रवृत्तश्चतुरङ्कः प्रकीर्त्तितः ।
मुखप्रतिमुखे सन्धी तत्र निर्व्वहनं तथा ॥
नरदिव्यावनियमौ नायकप्रतिनायकौ ।
ख्यातौ धीरोद्धतावन्यो गूढभावादयुक्तकृत् ॥
दिव्यस्त्रियमनिच्छन्तीमपहारादिनेच्छतः ।
शृङ्गाराभासमप्यस्य किञ्चित् किञ्चित् प्रदर्शयेत् ॥
पताका नायका दिव्या मर्त्त्या अपि दशोद्धताः ।
युद्धमानीय संरब्धं परं व्याजान्निवर्त्तयेत् ॥
महात्मानो बधप्राप्ता अपि बध्याः स्युरत्र नो ।
एकाङ्को देव एवात्र नेतेत्याहुः परे पुनः ॥
दिव्यस्त्रीहेतुकं युद्धं नायकाः षडितीतरे” ॥
“मिश्रं ख्याताख्यातम् । अन्यः प्रतिनायकः ।
पताकानायकास्तु नायकप्रतिनायकयोर्मिलिता
दश । नायको मृगवदलभ्यां नायिकामत्र ईहते
वाञ्छतीति ईहामृगः । यथा--कसुमशेखर-
विजयादि” ॥)

ईहावृकः, पुं, (ईहाप्रधानो वृकः ।) ईहामृगः ।

इति शब्दरत्नावली ॥
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/इ&oldid=43910" इत्यस्माद् प्रतिप्राप्तम्