पृष्ठ १/२८३
:

, ऋकारः । सप्तमस्वरवर्णः । अस्योच्चारणस्थानं

मूर्द्धा । (ऋटुरषाणाम्मूर्द्धा” । इत्युक्तेः । तथाच
शिक्षायां “स्युर्मूर्द्धण्या ऋटुरषाः” । तथा च
मुग्धबोधे । “ऋत्रयं टठडढणरषा मूर्द्धण्याः” ।
इति ।) स तु ह्रस्वो दीर्घः प्लुतश्च भवति ॥ (एवं
त्रिधापि उदात्तानुदात्तस्वरितभेदात् नवविधस्ततः
प्रत्येकं अनुनासिकानुनासिकभेदादष्टादशविध
एव ।)
“ऋकारं परमेशानि कुण्डली मूर्त्तिमान् स्वयम् ।
अत्र ब्रह्मा च विष्णुश्च रुद्रश्चैव वरानने ॥
सदाशिवयुतं वर्णं सदा ईश्वरसंयुतम् ।
पञ्चवर्णमयं वर्णं चतुर्ज्ञानमयं तथा ॥
रक्तविद्युल्लताकारं ऋकारं प्रणमाम्यहम्” ॥
इति कामधेनुतन्त्रम् ॥ (वङ्गीयभाषायाम्) तस्य
लेखनप्रकारादि यथा ।
“ऊर्द्ध्वाद्दक्षगता वक्रा त्रिकोणा वामतस्ततः ।
पुनस्त्वधोदक्षगता मात्रा शक्तिः परा स्मृता ॥
मात्रासु ब्रह्मविष्ट्वीशास्तिष्ठन्ति क्रमतः पराः” ।
इति वर्णोद्धारतन्त्रम् ॥ * ॥ तस्य नामानि यथा ।
“ऋः पूर्दीर्घमुखी रुद्रो देवमाता त्रिविक्रमः ।
भावभूतिः क्रिया क्रूरा रेचिका नाशिका धृतः ॥
एकपादशिरो माला मण्डला शान्तिनी जलम् ।
कर्णः कामलता मेधो निवृत्तिर्गणनायकः ॥
रोहिणी शिवदूती च पूर्णगिरिश्च सप्तमी” ।
इति तन्त्रम् ॥ (मातृकान्यासेऽस्य दक्षिणघ्राणेऽव-
स्थितित्वात्तदाख्ययाप्यभिधानम् । यथा, मातृका-
न्यासधृतमन्त्रे “ऋं नमो दक्षिणघ्राणे ॠं नमो
वामघ्राणे” । इति । अनुबन्धविशेषः । यथा,
कविकल्पद्रुमः । “उः क्त्वावेडस्तु वेट्क ऋः ।
चङ्य-ह्रस्वः” । एतेन ढौकृङ् गत्यामित्यस्य लुङि
अडुढौकदिति सिद्धम् ॥)

, प्रापे । गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वादिं-

परं-सकं-अनिट् ।) प्रापः प्राप्तिः । “ऋच्छति धनं
कृती” । इति दुर्गादासः ॥

, इर ल गत्याम् । इति कविकल्पद्रुमः ॥ (अदां-

परं-सकं-अनिट् ॥)

, र लि गत्याम् । (जुहों-परं-सकं-अनिट् ।) र

वैदिकः । लि इयर्त्ति । शपो लुक्वरणादस्य शतृ-
शानयोरेव ऋच्छादेशः । इयृच्छत् समियृच्छानः ।
इति दुर्गादासः ॥

, र न हिंसने । इति कविकल्पद्रुमः ॥ (स्वां-परं-

सकं-अनिट् ।) र वैदिकः । न ऋणोति । रेफादि-
स्तृतीयस्वरान्तोऽयमिति केचित् । इति दुर्गादासः ॥

, व्य गर्हणम् । वाक्यम् । देवमातरि स्त्री । इति

मेदिनी ॥ (सम्बोधनम् ।) परिहासः । वाक्यविकारः ।
इति शब्दरत्नावली ॥ (पुं, स्वर्गः ॥)

ऋक्, [च्] स्त्री, (ऋच्यन्ते स्तूयन्ते देवा अनया ।

ऋच् + क्विप् ।) वेदविशेषः । ऋग्वेदः । इत्यमरः ॥
अस्य एकविंशतिशाखाः । वेदमन्त्रविशेषः । तस्य
लक्षणम् । यत्रार्थवशेन पादव्यवस्थितिः । अस्यार्थः ।
यत्रार्थवशेन एकान्वयित्वेनानुष्टुवादिपादस्थितिः ।
इति जैमिनिः ॥ (ऋग्यजुःसामाथर्व्ववेदाभिहि-
तैरपरैश्चाशीर्विधानैरुपाध्यायां भिषजश्च सन्ध्ययोः
रक्षां कुर्य्युः ॥ इति सुश्रुते सूत्रस्थाने ऊनविंशे-
अध्याये ॥)

ऋक्थं, क्ली, (ऋच् स्तुतौ ऋच् + “पातॄतुदिवचि-

रिचिसिचिभ्यस्थक्” । २ । ७ । इत्युणादिसूत्रेण थक् ।)
धनम् । इत्यमरः ॥ स्वर्णम् । इत्युणादिकोषः ॥
(यदुक्तं शब्दार्णवे । “हिरण्यं द्रविणं द्युम्नं विक्म-
मृक्थं धनं वसु” ॥) पुत्त्रहीनस्य ऋक्थिनः” ।
इति याज्ञवल्क्यः । “ऋक्थमूलं हि कुटुम्बं” ।
इति दायभागे पितृधनविभागकालेऽभिहितम् ॥)

ऋक्ष, न र बधे । इति कविकल्पद्रुमः ॥ (स्वां-परं-

सकं-सेट् ।) र वैदिकः । न ऋक्ष्णोति । इति
दुर्गादासः ॥

ऋक्षं, क्ली, पुं, (ऋष् + स । “स्नुव्रश्चिकृत्यृषिभ्यः

कित्” । ३ । ६६ । इत्युणादिसूत्रेण कित् ।)
नक्षत्रम् । इति मेदिनी ॥ (यथा, मनुः । २ । १९१ ।
“पूर्ब्बां सन्ध्यां जपंस्तिष्ठेत् सावित्रीमार्कदर्शनात् ।
पश्चिमान्तु समासीनः सम्यगृक्षविभावनात्” ॥
तच्च अश्विन्यादिभेदेन सप्तविंशतिः ।) राशिः ।
इति ज्योतिषम् ॥ (राशयश्च मेषवृषादिभेदेन
द्वादश । अस्मिन्नर्थे प्रमाणं यथा रघौ । १२ । २५ ।
“प्रययावातिथेयेषु वसन्नृषिकुलेषु सः ।
दक्षिणां दिशमृक्षेषु वार्षिकेष्विव भास्करः” ॥
“ऋक्षेषु नक्षत्रेषु राशिषु वा भास्कर इव” ।
इति तट्टीकायां मल्लिनाथः ॥)

ऋक्षः, पुं, (ऋक्ष् + अच् ।) पर्ब्बतविशेषः ॥ (अयं हि

कुलाचलानामेकः । यथा, सिद्धान्तशिरोमणौ ॥
“माहेन्द्रशुक्तिमलयर्क्षकपारिपात्राः
सह्यः सविन्ध्य इह सप्त कुलाचलाख्याः” ॥)
भल्लूकः । (यथा मनुः । १२ । ६७ ।
“वृको मृगेभं व्याघ्रोऽश्वं फलमूलन्तु मर्कटः ।
स्त्रीमृक्षस्तोककोवारि यानान्युष्ट्रः पशूनजः” ॥)
शोणाकवृक्षः । इति मेदिनी ॥ श्योनाकप्रभेदः ।
इति राजनिर्घण्टः ॥ (स्वनामख्यातोऽजमीढपुत्त्रः ।
यथा, हरिवंशे पुरुवंशानुकीर्त्तने । ३२ । ८७ ।
“धूमिन्या स तया देव्या त्वजमीढः समेयिवान् ।
ऋक्षं स जनयामास धूमवर्णं सुदर्शनम्” ॥
स्वनामख्यातो विदूरथस्य पुत्त्रः ।
यथा, तत्रैव ३२ । १०४ ।
“विदूरथस्य दायद ऋक्ष एव महारथः” ॥
तथा स्वनामख्यातोऽरिहस्य पुत्त्रः । यथा, महा-
भारते १ । पुरुवंशानुकीर्त्तने । ९५ । २४ ।
“अरिहः खल्वाङ्गेयीमुपयेमे सुदेवां नाम तस्यां
पुत्त्रमजीजनदृक्षम्” ॥ एतेन पुरुवंशे त्रयएव
ऋक्षनामानो राजानः सम्भूताः ॥)

ऋक्षगन्धा, स्त्री, (ऋक्षस्येव गन्धो यस्याः ।) वृक्ष-

विशेषः । वीरताड इति ख्यातः । तत्पर्य्यायः ।
छगलान्त्री २ आवेगी ३ वृद्धदारकः ४ जुङ्गः ५ ।
इत्यमरः ॥ ऋषिजाङ्गल इति ख्यातो वृक्षश्च ।
तत्पर्य्यायः । ऋष्यगन्धा २ ऋषिजाङ्गलिकी ३
इति रत्नमाला । क्षीरविदारीवृक्षः । तत्पर्य्यायः ।
महाश्वेता २ । क्षीरिका ३ । ऋक्षगन्धिका ४ ।
इति शब्दरत्नावली ॥ (वृद्धदारकशब्देऽस्याः
गुणादयो ज्ञेयाः ॥)

ऋक्षगन्धिका, स्त्री, (ऋक्षगन्धा + स्वार्थे कन् । अत

इत्वम् ।) कृष्णभूमिकुष्माण्डः । तत्पर्य्यायः । क्षीर-
विदारी २ महाश्वेता ३ । इत्यमरः ॥

ऋक्षरं, क्ली, (ऋषी गतौ । ऋष् + “तन्यृषिभ्यां क्स्-

रन्” । ३ । ७५ । इत्युणादिसूत्रेण क्स्रन् ।) वारि-
धारा । इति मेदिनी ॥

ऋक्षरः, पुं, (ऋष + “तन्यृषिभ्यां क्स्रन्” । ३ ।

७५ । इत्युणादिसूत्रेण कस्रन् ।) ऋत्विक् ।
इति मेदिनी ॥

ऋक्षराजः, पुं, (ऋक्षाणां भल्लूकानां राजा ।

राजाहःसखिभ्यष्टच् ।) जाम्बवान् । इति रामा-
यणम् ॥ (यथा, हरिवंशे । ३८ । ४१ ।
“लेभे जाम्बवतीं कन्यामृक्षराजस्य सम्मताम्” ॥)

ऋक्षेशः, पुं, (ऋक्षाणां नक्षत्राणामीशः ।) चन्द्रः ।

इति हलायुधः ॥

ऋच, श नुत्याम् । इति कविकल्पद्रुमः ॥ (तुदां-परं-

सकं-सेट् ।) श ऋचति । आनर्च्च । इति दुर्गादासः ॥

ऋचीषं, क्ली, (ऋचतीति । ऋच् + बाहुलकात् की-

षन् ।) पिष्टकभर्जनपात्रम् । इति हेमचन्द्रः ॥

ऋच्छ, श मूर्त्तौ । गमने । मोहे । इति कविकल्पद्रुमः ॥

(तुदां-परं-सकं अकञ्च-सेट् ।) श ऋच्छती ऋ-
च्छन्ती । मूर्त्तिः कठिनीभावः । “मूर्त्तिः काठिन्य-
काययोरित्यमरात् । ऋच्छति घृतं कठिनं स्यादि-
त्यर्थः । ऋच्छति वृद्धो गच्छति मुह्यति वेत्यर्थः ।
मोहस्थाने इन्द्रियप्रलयं पठन्ति प्राञ्चः । ऋच्छति
वृद्धस्येन्द्रियंप्रलीयते इत्यर्थः । इति रमानाथः” ॥
इति दुर्गादासः ॥

ऋच्छरा, स्त्री, (ऋच्छति परपुरुषं प्राप्नोतीति ।

ऋच्छ + “ऋच्छेररः” ३ । १३१ । इत्युणादिसूत्रेण
अरः । अरन् इति प्रमाद इति पारायणीयम् ।)
वेश्या । इत्युणादिकोषः ॥ (यथा, अथर्व्ववेदे १० ।
९२० । “ऋच्छरा ये च ते शफाः” ॥)

ऋज, ङ गत्याम् । स्थैर्य्ये । ऊर्ज्जने । अर्ज्जने । इति

कविकल्पद्रुमः ॥ (भ्वादिं-आत्मं-सकं-अकञ्च-सेट् ।)
ङ अर्ज्जते । ऊर्ज्जनं जीवनं बलवद्भावश्च । इति
दुर्गादासः ॥

ऋज, इ ङ भृजि । इति कविकल्पद्रुमः ॥ (इदित्

भ्वादिं-आत्मं-सकं-सेट् ।) ह्रस्वादिः । भृजि भर्जने ।
इ ऋञ्ज्यते । ङ ऋञ्जते मत्स्यं सूपकारः । इति
दुर्गादासः ॥

ऋजीषं, क्ली, (अर्जते रसोऽस्मादिति । ऋज् + “अर्जे-

रृजश्च” इत्युणादिसूत्रेण ईषन् ।) पिष्टपचनम् ।
पिष्टकभर्जनपात्रम् । इति हेमचन्द्रामरौ ॥ नरक-
विशेषः । अत्र पिष्टपचनप्रक्षेपः ।
(यथा, मनुः ४ । ९० ।
“लोहशङ्कुमृजीषञ्च पन्थानं शाल्मलीं नदीम्” ॥
धनम् । सोमलताया उद्धृतो रसः । यथा, ऋग्वेदे
३ । ४३ । ५ । “कुविद्राजानं मघवन्नृजीषिन्” ।
“ऋजीषिन् सोमवन्” । इति भाष्यम्” ॥)

ऋजु, त्रि, (अर्जयति गुणान् । अर्ज अर्जने । “अर्जि-

दृशीति” । १ । २८ । उणादिसूत्रेण साधुः ।)
अवक्रम् । सोजा इति भाषा । तत्पर्य्यायः । अजि-
ह्मम् २ प्रगुणम् ३ । इत्यमरः ॥ प्राञ्जलः ४ सरलः
५ । इति जटाधरः ॥
(“उमां स पश्यन् ऋजुनैव चक्षुषा” ।
इति कुमारे ५ । ३२ ॥ यथा, मनुः । २ । ४७ ।
“ऋजवस्ते तु सर्व्वे स्युरव्रणाः सौम्यदर्शनाः” ॥
स्त्रियां ङीष्पक्षेयथा, माघे १२ । १८ ।
“ऋज्वीर्दधानैरवतत्य कन्धरा-
श्वलावचूडाः कलघर्घरारवैः ॥
अनुकूलम् । यथा, ऋग्वेदे ५ । ४१ । १५ ।
“ऋजुहस्त ऋजुवनिः” । “ऋजुहस्तस्तदनुकूल-
हस्तः” । इति भाष्यम् ॥ शोभनम् । यथा ऋग्वेदे
५ । ४४ । ५ । “धारवाकेष्वृजुगाथः” । “ऋजु-
गाथः शोभनस्तुतिकः” । इति भाष्यम् ॥ वसुदेव-
पुत्त्रभेदे पुं । यथा भागवते ९ । २४ । ५४ ।
“ऋजुं संमर्द्दनं भद्रं संकर्षणमहीश्वरम्” ॥)

ऋजुकायः, पुं, (ऋजुः सरलः कायो यस्य ।) कश्यप-

मुनिः । इति जटाधरः ॥ अवक्रशरीरे त्रि ॥
(“तस्मिन्स्वस्तिसमासीन ऋजुकायः समभ्यसेत्” ।
इति भागवते ३ । २८ । ८ ॥)

ऋज्रः, पुं, (ऋज् + “ऋज्रेन्द्राग्रवज्रेति” । २ । २८ ॥

उणादिसूत्रेण निपातनात् रन् गुणाभावश्च ।)
नायकः । इत्युणादिकोषः ॥ (सरलगामिनि, त्रि ।
यथा ऋग्वेदे १ । ११७ । १४ । “युवं भुज्यु-
मर्णसो निः समुद्राद्विभिरूहस्यु ऋज्रेमिरश्वैः” ।
पृष्ठ १/२८४
:“ऋज्रेभिः ऋजुगामिभिः” । इति भाष्यम्” ॥)

ऋञ्जासनः, पुं, (ऋजि + “ऋजिवृघिसन्दिसहिभ्यः

कित्” । २ । ८७ । इत्युणादिसूत्रेण असानच् ।
किच्च ।) मेघः । इति सिद्धान्तकौमुदी ॥ उणादि-
कोषश्च ॥)

ऋण, द उ ञ गतौ । इति कविकल्पद्रुमः ॥ (तनां-

उभं-सकं-सेट् ।) द ञ ऋणोति अर्णोति ऋणुते
अर्णुते । उ अर्णित्वा ऋत्वा । इति दुर्गादासः ॥

ऋणं, क्ली, (ऋ + क्त । ऋणमाधमर्ण्ये इति णत्वम् ।)

धारः । देना इति भाषा । तत्पर्य्यायः । पर्य्युदञ्च-
नम् २ उद्धारः ३ । इत्यमरः ॥ पुनर्देयत्वेन स्वी-
कृत्य यत् गृहीतम् । इति जगदीशः ॥ अस्य
विवरणं ऋणादानशब्दे द्रष्टव्यम् ॥ * ॥
कुसीदाख्यं ऋणं यथा ।
“स्थानलाभनिमित्तं यद्दानग्रहणमिष्यते ।
तत्कुसीदमिति ज्ञेयं तेन वृत्तिः कुसीदिनाम्” ॥
इति नारदः ॥ अस्यार्थः । स्थानं मूलधनावस्थानम् ।
लाभो वृद्धिः । दानग्रहणपदे कर्म्मण्यनटा साध्ये
तेन मूलधनावस्थाने सत्येव यो लाभस्तदर्थं यद्दानं
धनिकेन दीयमानं मूलधनं अधमर्णेन च ग्रहणं
तथा स्वीकृत्य गृह्यमाणं यत्तदृणम् । इति रत्ना-
करादयः ॥ कलाशून्ये तु अवश्यापाकरणियत्व-
रूपगुणयोगाद्गौणप्रयोगः । अतएव बाणिज्यार्थ-
प्रयुक्तस्य नर्णत्वं इति मिश्राः ॥ * ॥ अपि च ।
“कुत्सितात् सीदतश्चैव निर्विशङ्कैः प्रगृह्यते ।
चतुर्गुणं वाष्टगुणं कुसीदाख्यमृणं त्वतः” ॥
इति वृहस्पतिः ॥ अस्यार्थः । कुत्सितात् सीदत-
श्चाधमर्णात् सकलं धनं यत् गृह्यते निर्विशङ्कै-
रुत्तमर्णैः । चतुर्गुणं वेति वाकारोऽनास्थायां तेन
द्वैगुण्यादिलाभः ॥ * ॥ ऋणत्रयविशेषो यथा ।
“देवानाञ्च पितॄणाञ्च अषीणाञ्च तथा नरः ।
ऋणवान् जायते यस्मात्तन्मोक्षे प्रयतेत् सदा ॥ * ॥
तत्परिशोधनमाह ।
“देवानामनृणो जन्तुर्यज्ञैर्भवति मानवः ।
अल्पवित्तश्च पूजाभिरुपवासव्रतैस्तथा ॥
श्राद्धेन प्रजया चैव पितॄणामनृणो भवेत् ।
ऋषीणां ब्रह्मचर्य्येण श्रुतेन तपसा तथा” ॥
इति विष्णुधर्म्मोत्तरम् ॥ (जलदुर्गमभूभिः । यथा
मुग्धबोधे १ । २८ सूत्रस्य टीकायां दुर्गादासः ।
“दशार्णो देशः दशार्णा नदी उभयत्र ऋणशब्देन
जलदुर्गमभूमिरुच्यते” ॥ अङ्कशास्त्रोक्तः कुतश्चि-
दपि राश्यन्तरात् वियोज्य संख्यावान् पदार्थः ।
यथा वीजगणिते ।
“धनर्णसङ्कलने करणसूत्रं वृत्तार्द्धम् ।
योगे युतिः स्यात् क्षययोः स्वयोर्व्वा
धनर्णयोरन्तरमेव योगः” ॥
ऋणतीति । ऋण गतौ तस्मात्कः । इति व्युत्पत्त्या
वाच्यलिङ्गः । गन्ता । गमनशीलः । यथा, ऋग्वेदे
६ । १२ । ५ । “सद्यो यः स्यन्द्रो विषितो यवीया-
नृणो न तायुरतिधन्वा राट्” । “ऋणः शीघ्र-
गन्ता” इति भाष्यम् ॥)

ऋणमत्कणः, पुं, (ऋणे मत्कुणैव ।) लग्नकः । इति

शब्दरत्नावली ॥ जामिन इति भाषा ॥

ऋणमार्गणः, पुं, (ऋणं मार्गयति यः सः । ऋण +

मार्ग + ल्यु ।) प्रतिभूः । इति हारावली ॥
जामिन इति भाषा ॥

ऋणमुक्तिः, स्त्री, (ऋणस्य ऋणात् वा मुक्ति-

र्मोचनं भवत्यस्मात् ।) ऋणपरिशोधनम् । तत्-
पर्य्यायः । विगणनम् २ । इति त्रिकाण्डशेषः ॥

ऋणमोक्षः, पुं, (ऋणात् मोक्षः ।) ऋणपरिशो-

धनम् । इति हारावली ॥

ऋणादानं, क्ली, (ऋणस्य आदानम् ग्रहणम् ।) अधम-

र्णात् उत्तमर्णेन सलाभधनग्रहणम् । तत्तु अष्टा-
दशविवादान्तर्गताद्यविवादः । (यदाह मनुः । ८ । ४ ।
“तेषामाद्यमृणादानं निक्षेपोऽस्वामिविक्रयः” ।
इत्यादि ।) तच्च सप्तविधं यथा । ईदृशमृणं देयम् १
ईदृशमदेयम् २ अनेनाधिकारिणा देयम् ३ अस्मिन्
समये देयं ४ अनेन प्रकारेण देयं ५ इत्यधमर्णे
पञ्चविधम् । उत्तमर्णे तु दानविधिः ६ आदान-
विधिश्च ७ इति द्विविधम् । तथाच नारदः ।
“ऋणन्देयमदेयञ्च येन यत्र यथा भवेत् ।
दानग्रहणधर्म्माश्च ऋणादानमिति स्मृतम् ॥
अदेयमिति यदुक्तं तदाह कात्यायनः ।
न स्त्रीभ्यो दासबालेभ्यः प्रदद्यात् किञ्चिदुद्धृतम् ।
दाता न लभते तत्तु तेभ्यो दत्तन्तु यद्वसु” ॥
तत्र विशेषमाह वृहस्पतिः ।
“परिपूर्णं गृहीत्वाधिं बन्धं वा साधुलग्नकम् ।
लेख्यारूढं साक्षिमद्वा ऋणं दद्यात् धनी सदा” ॥
इति विवादार्णवसेतुः ॥ अस्य यदवशिष्टं ऋणोद्-
ग्राहणशब्दे द्रष्टव्यम् ॥

ऋणान्तकः, पुं, (ऋणमन्तयति यः । ऋण + अन्ति

नामधातु + ण्वुल् । मङ्गलग्रहाराधनेन ऋणाप-
नयनात् तथात्वम् ।) मङ्गलग्रहः । इति शब्द-
रत्नावली ॥

ऋणापनोदनं, क्ली, (ऋण + अप + नुद + ल्युट् । ततः

षष्ठीतत्पुरुषः ।) ऋणापनयनम् । धारशोधनम् ॥

ऋणी, [न्] त्रि, (ऋणमस्यास्तीति । ऋण + इनि ।)

ऋणग्रस्तः । धारी ॥
(“जायमानो वै ब्राह्मणः त्रिभिरृणैरृणी भवति” ।
इति श्रुतिः । “ऋणी न स्यात् यथा पिता” ।
इति दायभागे ॥)

ऋणोद्ग्राहणं, क्ली, (ऋणस्य उद्ग्राहणं ।) अधमर्ण-

गृहीतर्णग्रहणं । यत्र ऋणं प्रार्थनकाले प्रार्थितो-
ऽपि ऋणी न ददाति तत्र धनिकेन यत् कर्त्तव्यं
तदाह मनुः । ८ । ४८ -- ४९ ।
“यैर्यैरुपायैरर्थं स्वं प्राप्नुयादुत्तमर्णिकः ।
तैस्तैरुपायैः संगृह्य साधयेदधमर्णिकम्” ॥
धर्म्मेण व्यवहारेण छलेनाचरितेन च ।
प्रयुक्तं साधयेदर्थं पञ्चमेन बलेन च” ॥
अयमर्थः । पूर्ब्बपूर्ब्बसामर्थ्याभावे उत्तरोत्तरम्
संगृह्य वशीकृत्य । धर्म्मे वृहस्पतिराह ।
“सुहृत्सम्बन्धिसन्दिष्टैः सामोक्तानुगमेन च ।
प्रायेण वा ऋणी दाप्यो धर्म्म एष उदाहृतः” ॥
अस्यार्थः । ऋणिकस्य ये सुहृत्सम्बन्धिनस्तेषु
सन्देशो यो यच्च साभवचनं यच्चानुगमनं प्रायोप-
वेशनं वा धनिकस्य सधर्म्म ऋणोद्ग्राहणोपायः ॥
व्यवहारे कात्यायनः ।
“धार्य्योऽवरुद्ध ऋणिकः प्रकाशं जनसंसदि ।
यावन्न दद्याद्देयञ्च देशाचारस्थितिर्यथा” ॥
अस्यार्थः । यावद्दानं जनसंसदि ऋणिकस्य धनि-
केन धारणं व्यवहारः ॥ छलाचरितबलात्कारेषु
वृहस्पतिः ।
“छद्मना याचयित्वार्थमानीय ऋणिकादृणी ।
अन्नाहितादि वाहृत्यं दाप्यते यत्र सोपधिः” ॥
अस्यार्थः । ऋणिकस्य धनमन्नाहितादि वा छद्मना
आहृत्य वा यत्र दाप्यते तत्र साधनोपायः
सोपधिः सच्छलमुच्यते ॥
“पुत्त्रदारपशून् रुद्ध्वा कृत्वा द्वारोपवेशनम् ।
यत्रर्णी दाप्यतेऽर्थं स्वं तदाचरितमुच्यते ॥
बद्ध्वा स्वगृहमानीय ताडनाद्यैरुपक्रमैः ।
ऋणिको दाप्यते यत्र बलात्कारः स उच्यते” ॥
अनयोरर्थः । पुत्त्रदारपशुरोधो द्वारोपवेशनञ्च
य उद्ग्राहणोपायस्तदाचरितमुच्यते । स्वगृहमा-
नीय ताडनादिलक्षण उद्ग्राहणोपायो बला-
त्कार उच्यते ॥ * ॥ कोऽधमर्णः केनोपायेन
साध्यस्तदाह कात्यायनः ।
“राजानं स्वामिनं विप्रं सान्त्वेनैव प्रसाधयेत् ।
ऋक्थिनं दुर्हृदं वापि च्छलेनैव प्रसाधयेत्” ॥
ऋक्थिनं दायादम् ॥ तथा
“बणिजः कर्षकांश्चैव शिल्पिनश्चाब्रवीद् भृगुः ।
देशाचारेण दाप्याः स्युर्दुष्टान् संपीड्य दापयेत् ॥ * ॥
यत्र धनं न लभ्यते तत्राह वृहस्पतिः ।
“निर्धनं ऋणिकं कर्म्म गृहमानीय कारयेत् ।
शौण्डिकाद्यं ब्राह्मणस्तु दापनीयः शनैः शनैः” ॥
याज्ञवल्क्यः, --
“हीनजातिं परिक्षीणमृणार्थं कर्म्म कारयेत् ।
ब्राह्मणस्तु परिक्षीणः शनैर्दाप्यो यथोदयम् ॥
यथोदयं यथा धनोत्पत्तिरित्यर्थः ॥ * ॥ व्यापार-
द्वारा न ब्राह्मणस्य ऋणशोधनमाह कात्यायनः ।
“कर्म्मणाक्षत्त्रविट्शूद्रान् समहीनांस्तु दापयेत्” ॥ *
ऋणशोधनाय निन्दितं कर्म्म कारयितुरुत्तमर्णस्य
दण्डमाह कात्यायनः ।
“यदि ह्यादावनादिष्टमशुभं कर्म्म कारयेत् ।
प्राप्नुयात् साहसं पूर्ब्बमृणान्मुच्येत चर्णिकः ॥ * ।
यदि परमवृद्धिप्राप्तं धनमृणिको दातुं न शक्नोति
तदा चक्रवृद्ध्या स्वेच्छया धारयेत् । यथा वृहस्पतिः ।
“पूर्णावधौ शान्तलाभमृणमुद्ग्राहयेद्धनी ।
कारयेद्वा धनी लेख्यं चक्रवृद्धिव्यवस्थया” ॥
तथा च वृहस्पतिः ।
“हिरण्ये द्विगुणीभूते मृते नष्टेऽधमर्णिके ।
द्रव्यं तदीयं संगृह्य विक्रीणीत ससाक्षिकम् ॥
रक्षेद्वा कृतमूल्यन्तु दशाहं जनसंसदि ।
ऋणानुरूपं परतो गृह्णीतान्यत्तु वर्जयेत् ॥
स्वधनञ्च स्थिरीकृत्य गणनाकुशलैर्नरैः ।
तद्बन्धुज्ञातिविदितं प्रगृह्णन्नापराध्नुयात्” ॥ * ॥
यथाविषयं धर्म्मादीन् धनसाधनोपायान् प्रयुञ्जानो
पृष्ठ १/२८५
:न राज्ञा निवर्त्तनीय इत्याह मनुः ।
“यः स्वयं साधयेदर्थमुत्तमर्णोऽधमर्णिकात् ।
स राज्ञा नाभियोक्तव्यः स्वकं संसाधयन् धनम्” ॥ * ॥
धनवता ऋणिकेनादत्ते ऋणे राजा स्वयं विंशति-
तमभागं गृहीत्वा उत्तमर्णाय दापयेत् इत्याह
नारदः ॥
“ऋणिकः सधनो यस्तु दौरात्म्यान्न प्रयच्छति ।
राज्ञा दापयितव्यः स्यातगृहीत्वांशन्तु विंशकम्” ॥ * ॥
यदा अधमर्णिकः सकलमृणं दातुमसमर्थः शक्त्यनु-
सारेण दत्त्वा पूर्ब्बकृतस्य लेख्यस्य पृष्ठेऽभिलिखेत्
एतावद्दत्तं उत्तमर्णेन उपगतं प्राप्तमिति धनी
तस्यैव लेख्यस्य पृष्ठे दद्यादभिलिखेत् इत्याह
याज्ञवल्क्यः ।
“लेख्यस्य पृष्ठेऽभिलिखेत् दत्त्वा दत्त्वाधनं ऋणी ।
धनी चोपगतं दद्यात् स्वहस्तपरिचिह्नितम्” ॥
इति विवादार्णवसेतुः ॥

ऋत, गत्याम् । स्पर्द्धने । ऐश्वर्य्ये । घृणायाम् । इति

कविकल्पद्रुमः ॥ (भ्वादिं-परं-ईयङ्पक्षे आत्मं-
गत्यर्थे सकं, अन्यार्थे-अकं-सेट् ।) घृणा दया ।
ऋतीयते जनः स्पर्द्धते ईश्वरो भवति । किञ्चि-
द्दयते गच्छति वेत्यर्थः । अरे तु ईयङोऽप्राप्तिपक्षे
परस्मैपदमेव । आर्त्तीत् आनर्त्त इत्यादि । इति
दुर्गादासः ॥

ऋतं, क्ली, (ऋ + क्त ।) उञ्छशिलम् । (यथा, मनुः ।

४ । ४ -- ५ ॥
“ऋतामृताभ्यां जीवेत्तु मृतेन प्रमृतेन वा ।
सत्यानृताभ्यामपि वा न श्ववृत्त्या कदाचन ॥
ऋतमुञ्छशिलं ज्ञेयममृतं स्यादयाचितम् ।
मृतन्तु याचितं भैक्षं प्रमृतं कर्षणं स्मृतम्” ॥)
जलम् । (यथा, ऋग्वेदे । ७ । १०१ । ६ । “तन्म
ऋतं पातु शतशारदाय” । “ऋतमुदकम्” । इति
भाष्यम् ॥) सत्यं इति मेदिनी ॥ (यथा, मनुः ।
८ । ८२ ।
“साक्ष्येऽनृतं वदन् पाशैर्बध्यते वारुणैर्भृशम् ।
“विवशः शतमाजातीस्तस्मात् साक्ष्यं वदेदृतम्” ॥
कर्म्मफलं । यथा, “ऋतं पिवन्तौ सुकृतस्य लोके” ।
इति श्रुतिः ॥ विष्णुः ॥ यथा, महाभारते । १ ।
१ । २५३ ।
“भगवान् वासुदेवश्च कीर्त्त्यतेऽत्र सनातनः ।
स हि सत्यमृतञ्चैव पतित्रं पुण्यमेव च ।
शाश्वतं ब्रह्म परमं धुवं ज्योतिः सनातनम्” ॥
पुं, सूर्य्यः । यथा, शतपथब्राह्मणे । “ब्रह्म वा
ऋतं ब्रह्म हि मित्रो ब्रह्म ऋतं ब्रह्म एवायुः” ॥
परब्रह्म । यथा, श्रुतिः । “ऋतमेकाक्षरं ब्रह्म” ॥
सत्याचारः । यथा, ऋग्वेदे । १ । १३७ । २ ।
“सुतो मित्राय वरुणाय पीतये चारूरृताय
पीतये” ॥ “ऋताय सत्याचाराय” । इति दया-
नन्दभाष्यम् ॥ रुद्रः । यथा, सामगानां सन्ध्यामन्त्रे
रुद्रोपस्थाने । “ऋतमित्यस्य कालाग्नी रुद्र ऋषि-
रनुष्टुप्छन्दो रुद्रो देवता रुद्रोपस्थाने विनि-
योगः” ॥ देवमेदः । यथा, ऋग्वेदे । ४ । २३ । ८ ।
“ऋतस्य हि सुरुषः सन्ति पूर्ब्बीरृतस्य धीति-
र्वृजिनानि हन्ति” । “ऋतस्य ऋतदेवस्य” । इति
भाष्यम् ॥ यज्ञः । यथा, ऋग्वेदे । १ । १४५ । ५ ।
“ऋतचिद्धि सत्यम्” । “ऋतस्य यज्ञस्य जलस्य
वा चित् ज्ञाता” । इति भाष्यम् ॥ अग्नेरृषि-
भेदः । यथा, यजुषि । १७ । ८२ । “ऋतश्च
सत्यश्च” । इति ॥)

ऋतः, त्रि, (ऋ + क्त ।) दीप्तः । पूजितः । इति

मेदिनी ॥

ऋतजित्, पुं, (ऋतं जयति ऋत + जि + क्विप् ।)

यक्षविशेषः । यथा, --
“त्वष्टा च जमदग्निश्च कम्बलोऽथ तिलोत्तमा ।
ब्रह्मापेतोऽथ ऋतजित् धृतराष्ट्रश्च सप्तमः ॥
माघमासे वसन्त्येते सप्त मैत्रेय भास्करे ।
श्रूयतां चापरे सूर्य्ये फाल्गुने निवसन्ति ये” ॥
इति श्रीविष्णुपुराणे २ । १० । १५ -- १६ । “त्वष्टा
सूर्य्यः । कम्बलः सर्पः । ब्रह्मापेतो राक्षसः । ऋत-
जिद्यक्षः । धृतराष्ट्रो गन्धर्व्वः । इति तट्टीकायां
श्रीधरस्वामी ॥ (त्रि, यज्ञजेता । यथा, यजुषि १७ ।
८३ । “ऋतजिच्च सत्यजिच्च सेनजिच्च सुषेणश्च” ॥)

ऋतधामा, [न्] पुं, (ऋतं सत्यं धाम भवनं यस्य ।)

विष्णुः । इति त्रिकाण्डशेषः ॥ (यथायजुर्व्वेदे ५ । ३२ ।
“हव्यसूदन ऋतधामासि स्वर्ज्योतिः” ॥ इन्द्रभेदः ।
स तु रुद्रसावर्णिके मनौ भविता । यथा, --
भागवते । ८ । १३ । २८ ।
“भविता रुद्रसावर्णी राजन् ! द्वादशमो मनुः ।
ऋतधामा च देवेन्द्रो देवाश्च हरितादयः” ॥
यदुवंशीयो नृपतिभेदः । यथा, भागवते ।
“कङ्कश्च कर्णिकायां वै ऋतधामाजयावपि” ॥
अविनश्वरस्थानवति, त्रि । यथा यजुर्व्वेदे । १८ । ३८ ।
“ऋताषाडृतधामाग्निर्गन्धर्वस्तस्यौषधयः” ॥)

ऋतिः, स्त्री, (ऋ + करणे + क्तिन् ।) कल्याणम् । वर्त्म ।

जुगुप्सा । स्पर्द्धा । इति मेदिनी ॥ (भावे + क्तिन् ।)
गमनम् । अशुभम् । इति धरणी ॥ (पुरुषमेध-
यज्ञीयदेवभेदः । यथा, यजुर्व्वेदे । ३० । १३ ।
“ऋतये स्तेन हृदयम्” । शत्रौ पुं, इति निरुक्तिः ।)

ऋतीया, स्त्री, (ऋत + ईयङ् + टाप् ।) घृणार्थकः ।

जुमुप्सा । तत्पर्य्यायः । अर्त्तनम् २ ह्रिणीया ३ ।
इत्यमरः ॥

ऋतुः, पुं, (ऋ + “अर्त्तेश्च तुः” । इति उणादिसूत्रेण

१ । ७२ । तुः चकारात् कित् च ।) कालविशेषः ।
स तु षड्विधः यथा । मार्गपौषौ हिमः १ माघ-
फाल्गुनौ शिशिरः २ चैत्रवैशाखौ वसन्तः ३
ज्यैष्ठाषाढौ ग्रीष्मः ४ श्रावणभाद्रौ वर्षाः ५ आ-
श्विनकार्त्तिकौ शरत् ६ । इत्यमरः ॥ स त्रिविधो-
ऽपि । कार्त्तिकाग्रहायणपौषमाघाः शीतः १
फाल्गुनचैत्रवैशाखज्यैष्ठाः ग्रीष्मः २ आषाढश्रावण-
भाद्राश्विनाः वर्षाः ३ । द्विविधोऽपि । कार्त्तिका-
दिषण्मासाः शीतः १ वैशाखादिषण्मासाः ग्रीष्मः
२ ॥ इति स्मृतिः ॥ * ॥
(यदुक्तम् ।
“मासद्वयात्मकः कालः ऋतुः प्रोक्तो विचक्षणैः” ।
यत्र तु “द्वादश मासाः पञ्चर्त्तवः” इति श्रुतं तत्र
हेमन्तशिशिरयोरेकत्रीकरणं विवक्षितम् ॥
“चयकोपसमा यस्मिन् दोषाणां सम्भवन्ति हि ।
ऋतुषट्कं तदाख्यातं रवेः राशिषु संक्रमात् ॥
ग्रीष्मो मेषवृषौ प्रोक्तः प्रावृड्मिथुनकर्कटौ ।
सिंहकन्ये स्मृता वर्षा तुलावृश्चिकयोः शरत् ॥
धनुर्ग्राहौ च हेमन्तौ वसन्तः कुम्भमीनयोः” ।
मेषवृषौ रविणा संक्रान्तौ । एवं मिथुनकर्कटा-
वित्यादि । अन्ये तु ।
“शिशिरः पुष्पसमयो ग्रीष्मो वर्षाशरद्धिमाः ।
माघादिमासयुग्मैः स्युरृतवः षट् क्रमादमी” ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमभागे ।
“वर्षाः शरच्च हेमन्तः शिशिरश्च वसन्तकः ।
ग्रीष्मश्चेति क्रमादेते ऋतवः षट् प्रकीर्त्तिताः ॥
पृथक् पृथक प्रवक्ष्यामि रवेर्गतिविशेषतः” ।
इति प्रथमस्थाने चतुर्थेऽध्याये हारीतेनोक्तम् ॥
“मासैर्द्विसङ्ख्यैर्माघाद्यैः क्रमात् षडृतवः स्मृताः ।
शिशिरोऽथ वसन्तश्च ग्रीष्मवर्षा शरद्धिमाः” ॥
इति सूत्रस्थ ने तृतीयेऽध्याये वाभटेनोक्तम् ॥
“इह खलु संवत्सरं षडङ्गमृतुविभागेन विद्यात्” ।
इति सूत्रस्थाने षष्ठोऽध्यायः ।
“तत्र खलुतावत् षोढा प्रविभज्य कार्य्यमुपदेक्ष्यते ।
हेमन्तो ग्रीष्मो वर्षाश्चेति शीतोष्णवर्षलक्षणास्त्रयः
ऋतवो भवन्ति । तेषामन्तरेष्वितरे साधारण-
लक्षणास्त्रय ऋतवः प्रावृट्शरद्वसन्ता इति ।
प्रावृडिति प्रथमः प्रवृष्टेः कालस्तस्यानुबन्धो वर्षाः ।
एवमेते संशोधनमधिकृत्य षड् विभज्यन्ते
ऋतवः” ।
इति च विमानस्थानेऽष्टमेऽध्याये चरकेणोक्तम् ।
“तत्र माघादयो द्वादशमासा द्विमासिकमृतुं
कृत्वा षडृतवो भवन्ति । ते शिशिर-वसन्त-ग्रीष्म-
वर्षा-शरद्धेमन्ताः । तेषां तपस्तपस्यौ शिशिरः ।
मधुमाधवौ वसन्तः । शुचिशुक्रौ ग्रीष्मः । नभो-
नभस्यौ वर्षाः । इषर्जौ शरत् । सह सहस्यौ
हेमन्त इति ॥ तत्र ते शीतोष्णवर्ष्लक्षणाश्च-
न्द्रादित्ययोः कालविभागकरत्वादयने द्वे भवतो-
दक्षिणमुत्तरञ्च” ।
“इह तु वर्षा-शरद्धेमन्त-वसन्त-ग्रीष्म-प्रावृषः षडृ-
तवो भवन्ति दोषोपचय-प्रकोयोपशम-निमित्तम् ।
ते तु भाद्रपदाद्येन द्विमासिकेन व्याख्याताः । तद्-
यथा । भाद्रपदाश्वयुजौ वर्षाः । कार्त्तिकमार्गशीर्षौ
शरत् । पौषमाघौ हेमन्तः । फाल्गुन-चैत्रौ
वसन्तः । वैशाख-ज्यैष्ठौ ग्रीष्मः । आषाढ-श्रावणौ
प्रावृडिति” । इति सूत्रस्थाने ६ अध्याये सुश्रुते-
नोक्तम् ॥)
स्त्रीकुसुमम् । इति विश्वमेदिन्यौ ॥ तत्पर्य्यायः ।
रजः १ पुष्पम् २ आर्त्तव्यम् ३ । इत्यमरः ॥
यथाह मनुः । ३ । ४५-४९ ।
“ऋतुकालाभिगामी स्यात् स्वदारनिरतः सदा ।
पर्ब्बवर्ज्जं व्रजेच्चैनां तद्व्रतो रतिकाम्यया ॥
ऋतुः स्वाभाविकः स्त्रीणां रात्रयः षोडश स्मृताः ।
चतुर्भिरितरैः सार्द्धमहोमिः सद्विगर्हितैः ॥
तासामाद्याश्चतस्रस्तु निन्दितकादशी च या ।
पृष्ठ १/२८६
:त्रयोदशी च शेषास्तु प्रशस्ता दशरात्रयः ॥
युम्मासु पुत्त्रा जायन्ते स्त्रियोऽयुम्मासु रात्रिषु ।
तस्मात् युग्मासु पत्त्रार्थी संविशेदार्त्तवे स्त्रियम् ॥
पुमान् पुंसोऽधिके शुक्रे स्त्री भवत्यधिके स्त्रियाः ।
समेऽपुमान्पुंस्त्रियौ वा क्षीणेऽल्पे च विपर्य्ययः” ॥
“रजः सप्तदिनं यावत् ऋतुश्च भिषजां बर” ! ।
इति शारीरस्थाने प्रथमेऽध्याये हारीतेनोक्तम् ॥
“ऋतुस्तु द्वादशरात्रं भवति दृष्टार्त्तवम् ॥”
“नियतं दिवसेऽतीते सङ्कुचत्यम्बुजं यथा ।
ऋतौ व्यतीते नार्य्यास्तु योनिः संव्रियते तथा ॥
मासेनोपचितं काले धमनीभ्यान्तदार्त्तवम् ।
ईषत् कृष्णं विगन्धञ्च वायुर्योनिमुखं नयेत् ॥
तद्वर्षाद्द्वादशात्काले वर्त्तमानमसृक् पुनः ।
जरापक्वशरीराणां याति पञ्चाशतः क्षयम्” ॥
इति शारीरस्थाने तृतीयेऽध्याये सुश्रुतेनोक्तम् ॥
“द्वादशाद्वत्सरादूर्द्ध्व मापञ्चाशत् समाः स्त्रियः ।
मासि मासि भगद्वारा प्रकृत्यैवार्त्तवं स्रवेत् ॥
आर्त्तवस्रावदिवसात् ऋतुः षोडशरात्रयः ।
गर्भग्रहणयोग्यस्तु स एव समयः स्मृतः” ॥
“सर्व्वासामेव चतुर्वर्णस्त्रीणां सर्व्ववादिसम्मतः ।
पूर्ब्बोक्तसमयः ग्रन्थान्तरेषु विषयः । तद्यथा ।
स्रानदिवसादूर्द्ध्वं द्वादशरात्रावधि ब्राह्मण्याः । दश-
रात्रावधि क्षत्त्रियायाः । अष्टरात्रावधि तैश्यायाः ।
षड्रात्रावधि शूद्रायाः गर्भधारणे शक्तिः” ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥
“पद्मं सङ्कोचमायाति दिनेऽतीते यथा तथा ।
ऋतावतीते योनिः सा शुक्रं नातः प्रतीच्छति ॥
मासेनोपचितं रक्तं धमनीभ्यामृतौ पुनः ।
ईषत्कृष्णं विगन्धञ्च वायुर्योनिमु खन्नुदेत्” ॥
“ऋतुस्तु द्वादशनिशाः पूर्ब्बास्तिस्रश्च निन्दिताः” ॥
इति शारीरस्थाने प्रथमेऽध्याये वाभटेनोक्तम् ॥
शिवः । यथा महाभारते १३ । महादेवसहस्र-
नामकथने १७ । १३९ ।
“ऋतुः संवत्सरो मासः पक्षः संख्यासमापनः” ॥
विष्णुः । यथा, महाभारते १३ । विष्णुसहस्रनाम-
कथने १४९ । ५८ ।
“ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः” ॥)
दीप्तिः । इति मेदिनी । मासः । सुवीरः । इति विश्वः ॥

ऋतुप्राप्तः, त्रि, (ऋतुः प्राप्तोऽनेन ।) फलेग्रहिः ।

अबन्ध्यवृक्षादिः । इति शब्दचन्द्रिका ॥

ऋतुमती, स्त्री, (ऋतुरस्या अस्तीति । ऋतु + मतुप्

+ ङीप् ।) ऋतुयुक्ता स्त्री । तत्पर्य्यायः । ग्ज-
स्वला २ स्त्रीधर्म्मिणी ३ अवी ४ आत्रेया ५
मलिनी ६ पुष्पवती ७ उदक्या ८ । इत्यमरः ।
(यथा, महाभारते । १ । ३ । ८७ । “उपाध्यायानी
ते ऋतुमती उपाध्यायश्च प्रोषितोऽस्या यथाय-
मृतुर्बन्ध्यो न भवति तथा क्रियताम्” ॥
ऋतुमतीकृत्यमाह ।
“आर्त्तवस्रावदिवसात् त्र्यहं सा ब्रह्मचारिणी ।
शयीत दर्भशय्यायां पश्यदपि पतिं न च ॥
करे शरावे पर्णेंवा हविष्यं त्र्यहमाचरेत् ।
अश्रुपातं नखच्छेदमभ्यङ्गमनुलेपनम् ॥
नेत्रयोरञ्जनं स्नानं दितास्वप्नं प्रधावनम् ।
अत्युच्चशब्दश्रवणं हसनं बहुभाषणम् ॥
आयासं भूमिखननं प्रवातञ्च विवर्जयेत् ।
ततश्चतुर्थे दिवसे स्नाता सद्वसनादिभिः ।
भूषिताः सुमनाः पश्येत् भर्त्तारं समलङ्कृतम् ॥
पूर्ब्बं पश्येत् ऋतुस्नाता यादृशं नरमङ्गना ।
तादृशं जनयेत् पुत्त्रं ततः पश्येत् पतिं प्रियम्” ॥
एतदकरणे प्रत्यवायमाह ।
“अज्ञानात् वा प्रमोदाद्वा लौल्याद्वा दैवतश्च वा ।
सा चेत् कुर्य्यात् निषिद्धानिगर्भदोषां स्तदाप्नुयात् ॥
एतस्या रोदनात् गर्भो भवेद्विकृतलोचनः ।
नखच्छेदेन कुनखी कुष्ठी त्वभ्यङ्गतो भवेत् ॥
अनुलेपात् तथा स्नानात् दुःखशीलोऽञ्जनाददृक् ।
स्वापशीलो दिवास्वापात् चञ्चलः स्यात् प्रधावनात् ॥
अत्युच्चशब्दश्रवणात् वधीरः खलु जायते ।
तालुदन्तौष्ठजिह्वासु श्यावो हननतो भवेत् ॥
प्रलापी भूरिकथनात् उन्मत्तस्तु परिश्रमात् ।
खलतिर्भूमिखननात् उन्मत्तो वातसेवनात्” ॥
इति ।
“क्षामप्रसन्नवदनां स्फुरच्छ्रोणिपयोधराम् ।
स्रस्ताक्षिकुक्षिं पुंस्कामां विद्यादृतुमतीं स्त्रियम्” ॥
इति शरीरस्थाने प्रथमेऽध्याये वाभटेनोक्तम् ॥
“गते पुराणे रजसि नवे चावस्थिते पुनः शुद्ध-
स्नातां स्त्रियमव्यापन्नयोनिशोणितगर्भाशयामृतु-
मतीमाचक्ष्महे” ।
इति शारीरस्थाने चतुर्थेऽध्याये चरकेणोक्तम् ॥
“पीनप्रसन्नवदनां प्रक्लिन्नात्ममुखद्विजाम् ।
नरकामां प्रियकथां स्रस्तकुक्ष्यक्षिमूर्द्धजाम् ॥
स्फुरद्भुजकुचश्रोणिनाभ्यूरुजघनस्फिचम् ।
हर्षौत्सुक्यपराञ्चापि विद्यादृतुमतीमिति” ॥
इति शारीरस्थाने तृतीयेऽध्याये, --
“ततः शुद्धस्नातां चतुर्थेऽहन्यहतवासःसमलङ्कृतां
कृतमङ्गलस्वस्तिवाचनां भर्त्तारं दर्शयेत् । तत्-
कस्य हेतोः ।
पूर्ब्बं पश्येदृतुस्नाता यादृशं नरमङ्गना ।
तादृशं जनयेत् पुत्त्रं भर्त्तारं दर्शयेदतः ॥
ततो विधानं पुत्त्रीयमुपाध्यायः समाचरेत् ।
कर्म्मान्ते च क्रमं ह्येनमारभेत विचक्षणः” ॥
“तत्र प्रथमे दिवसे ऋतुमत्यां मैथुनगमनमना-
युष्यं पुंसां भवति । यश्च तत्राधीयते गर्भः स
प्रसवमानो विमुच्यते । द्वितीयेऽप्येवं सूतिकागृहे
वा । तृतीयेऽप्येवमसम्पूर्णाङ्गोऽल्पायुर्व्वा भवति ।
चतुर्थे तु सम्पूर्णाङ्गो दीर्घायुश्च भवति । नच
प्रवर्त्तमाने रक्ते वीजं प्रविष्टं गुणकरं भवति यथा
नद्यां प्रतिस्रोतः प्लावि द्रव्यं प्रक्षिप्तं प्रतिनिव-
र्त्तते नोर्द्ध्वं गच्छति तद्वदेव द्रष्टव्यम् । तस्मान्नि-
यमवतीं त्रिरात्रं परिहरेत् । अतः परं मासा-
दुपेयात्” । इति च शारीरस्थाने द्वितीयेऽध्याये
सुश्रुतेनोक्तम् ॥)

ऋतुराजः, पुं, (ऋतूनां राजा । “राजाहःसखिभ्य-

ष्टच्” । ५ । ४ । ९१ । इति टच् ।) वसन्तकालः ।
इति राजनिर्घण्टः ॥

ऋतुवृत्तिः, पुं, (ऋतुषु वृत्तिर्वर्त्तनं यस्य ।) वत्सरः ।

इति त्रिकाण्डशेषः ॥

ऋतुसन्धिः, पुं, (ऋत्वोः सन्धिर्मेलनम् ।) ऋतुद्वयसन्धि-

कालः । स च ऋत्वोरन्त्यादिसप्ताहौ । तथाच
वाभटः ।
“ऋत्वोरन्त्यादिसप्ताहावृतुसन्धिरिति स्मृतः ।
तत्र पूर्ब्बो विधिस्त्याज्यः सेवनीयः परो विधिः” ॥

ऋतुस्नानं, क्ली, (ऋतौ स्नानम् ।) रजस्वलास्त्रियाः

चतुर्थाहकर्त्तव्यस्नानम् । इति स्मृतिः ॥ तत्स्ना-
नानन्तरं भर्तृवदनं द्रष्टव्यं नान्यस्य भर्त्रसन्निधाने
भर्त्तारं मनसि ध्यात्वा सूर्य्यं विलोकयेत् । इति
काशीखण्डम् ॥
(“ततः पुष्पेक्षणादेव कल्याणध्यायिनी त्र्यहम् ।
मृजालङ्काररहिता दर्भसंस्तरशायिनी ॥
क्षैरेयं यावकं स्तोकं कोष्ठशोधनकर्षणम् ।
पर्णे शरावे हस्ते वा भुञ्जीत ब्रह्मचारिणी ॥
चतुर्थेऽह्नि ततः स्नात्वा शुक्लमाल्याम्बरा शुचिः ।
इच्छन्ती भर्तृसदृशं पुत्त्रं पश्येत् पुरः पतिम्” ॥
इति शरीरस्थाने प्रथमेऽध्याये वाभटेनोक्वम् ॥)

ऋते, व्य, (ऋत + के ।) विना । वर्ज्जनम् । इत्यमरः ॥

(“अवेहि मां प्रीतमृते तुरङ्गमात्” ।
इति रघुवंशे । ३ । ६३ ॥ तथा, कुमारे २ । ५७ ।
“अंशादृते निषिक्तस्य नीललोहितरेतसः” ॥)

ऋत्विक्, [ज्] पुं, (ऋतौ यजतीति । ऋतु + यज् +

ऋत्विगादिना क्विन्नन्तो निपातितः ।) पुरोहितः ।
यथा, --
“अग्न्याधेयं पाकयज्ञानग्निष्टोमादिकान्मखान् ।
यः करोति वृतो यस्य स तस्यर्त्विगिहोच्यते” ॥
इति मानवे २ । १४३ ॥ तत्पर्य्यायः । याजकः २ ।
इत्यमरः ॥ भरताः ३ कुरवः ४ वाग्यतः ५ वृक्त-
वर्हिषः ६ यतश्रुचः ७ मरुतः ८ सबाधः ९ देव-
यवः १० । इत्यष्टावृत्विङ्नामानि । इति वेदनि-
र्घण्टौ ३ अध्यायः ॥
अयं हि नायकस्य धर्म्मसहायः । यदुक्तं साहि-
त्यदर्पणे । ३ । ५१ । “ऋत्विक्पुरोधसः स्युर्ब्रह्म-
विदस्तापसास्तथा धर्म्मे” ॥)

ऋद्धं, क्ली, (ऋध् + क्त ।) सम्पन्नधान्यम् । इति मे-

दिनी ॥ परिपक्वमर्द्दितधान्यम् । इत्यमरटीकायां
भरतः ॥ बहुलितधान्यम् । इति सुभूतिः ॥ तत्प-
र्य्यायः । आवसितम् २ । इत्यमरः ॥ अवसितम् ३ ।
इति तट्टीका ॥ सिद्धान्तः । इति हेमचन्द्रः ॥
(पुं, विष्णुः । यथा, महाभारते विष्णुसहस्रनाम-
कीर्त्तने १३ । १४९ । ४३ ।
“ऋद्धः स्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः” ॥)

ऋद्धः, त्रि, (ऋध् + क्त ।) समृद्धः । सम्पन्नः । इति

मेदिनीकरहेमचन्द्रौ ॥ (यथा, गीतायाम् । २ । ८ ।
“अवाप्य भूमावसपत्नमृद्धं
राज्यं सुराणामपि चाधिपत्यम्” ॥)

ऋद्धिः, स्त्री, (ऋध् + क्तिन् ।) अष्टवर्गान्तर्गतौषध-

विशेषः तत्पर्य्यायः । योग्यम् २ सिद्धिः ३ लक्ष्मीः
४ । इत्यमरः ॥ प्राणप्रदा ५ वृष्या ६ । इति रत्न-
माला ॥ प्राणदा ७ जीवदात्री ८ सिद्धा ९ योग्या
पृष्ठ १/२८७
:१० चेतनीया ११ रथाङ्गी १२ मङ्गल्या १३ लोक-
कान्ता १४ जीवश्रेष्ठा १५ यशस्या १६ । अस्याः
गुणाः । मधुरत्वम् । सुस्निग्धत्वम् । अतितिक्तत्वम् ।
शीतलत्वम् । रुचिमेधाकारित्वम् । श्लेष्मकुष्ठकृमि-
नाशित्वञ्च । इति राजनिर्घण्टः ॥ अस्या रूपं यथा, --
“ऋद्धिर्वृद्धिश्च कन्दौ द्वौ भवतः कोशयामले ।
श्वेतलोमान्वितः कन्दो लताजालः सरन्ध्रकः ॥
स एव ऋद्धिर्वृद्धिश्च भेदमप्येतयोर्ववे ।
तूलग्रन्थिसमा ऋद्धिर्वामावर्त्तफला च सा ॥
वृद्धिस्तु दक्षिणावर्त्तफला प्रोक्ता महर्षिभिः” ।
औषधकरणे ऋद्धिवृद्धिस्थाने वाराहीकन्दः अ-
थावा बला देया । इति परिभाषा ॥ * ॥ समृद्धिः ।
इति मेदिनी ॥ (यथा, कुमारे २ । ५८ ॥
“परिच्छिन्नप्रभावर्द्धिर्न मया न च विष्णुना” ।)
पार्ब्बती । इति शब्दरत्नावली ॥ (लक्ष्मीः ॥)

ऋध, उ य न इर वृद्धौ । इति कविकल्पद्रुमः ॥

(दिवां, स्वां-परं-सकं-सेट् ।) य ऋद्ध्यति । उ
अर्द्धित्वा ऋद्धा । न ऋध्नोति । इर आर्धत् आ-
र्धोत् । क्वचित्तृप्तौ चायम् । सोऽहं प्राग्भवतैव
भूतजननीमृध्नोमीति भवभूतिः ॥ अन्तर्भूतञ्यर्थ-
त्वादिदं सिद्धमिति केचित् । इति दुर्गादासः ॥

ऋफ, श दाने । श्लाघायाम् । हिंसायाम् । निन्दा-

याम् । यद्धे । इति कविकल्पद्रुमः ॥ (तुदां-परं-
सकं, अकं च-सेट् ।) श ऋफति जनो ददाति
श्लाघते हिनस्ति निन्दति युद्ध्यते वेत्यर्थः । आनर्फ ।
हिंसायामप्ययमित्यन्ये । इति दुर्गादासः ॥

ऋभुः, पुं, (ऋ स्वर्गे देवमातुरदितेर्व्वा भवति यः ।

ऋ + भू + डु ।) देवता । इत्यमरः ॥ (यथा, ऋग्-
वेदे । ९ । २१ । ६ ।
“ऋभुर्न रथ्यं नवं दधतो केतुमादिशे” ॥
देवानामपि देवः । यथा, महाभारते वनपर्ब्बणि ।
“ऋभवो नाम तत्रान्ये देवानामपि देवताः ।
तेषां लोकाः परतरे यान्यजन्तीह देवताः” ॥)
चाक्षुषमन्वन्तरे देवगणभेदः । यथा, --
“आद्याः प्रभूता ऋभवः पृथुकाश्च दिवौकसः” ।
इति हरिवंशे । ७ । ३२ ॥)

ऋभुक्षः, पुं, (ऋभवो देवाः क्षियन्ति वसन्ति यत्र ।

ऋभु + क्षि + ड ।) स्वर्गः । वज्रम् । इन्द्रः । इति ।
रायमुकुटः ॥ (देवमात्रे । यथा ऋग्वेदे । ४ ।
३७ । १ । “उपनो राजा अध्वरमृभुक्षाः” ।
“ऋभुक्षाः ऋभवः” । इति भाष्यम् ॥)

ऋभुक्षाः, [न्] पुं, (ऋभुक्षः स्वर्गः वज्रं वा अस्या-

स्तीति इनिः । “पथिमथ्यृभुक्षामात्” । ७ । १ । ८५ ।
“इतोत्सर्व्वनामस्थाने” । ७ । १ । ८६ । इत्यादिना
सिद्धम् । यद्वा ऋच्छति इति अर्त्तेर्भुक्षिनक्
प्रत्ययः ।) इन्द्रः । इत्यमरः ॥ (यथा, ऋग्वेदे ।
७ । ४७ । ३ । “इन्द्रो विभ्वां ऋभुक्षा वाजो
अर्य्यः” । इति ॥)

ऋम्फ, प श बधे । (मुचादि-तुदां-परं-सकं-सेट् ।)

इति रिम्फधातोष्टीकायां दुर्गादासः ॥

ऋश, गतिस्मृत्योः । सौत्रधातुरयम् । (परं-सकं-

सेट् ।) ऋश्यः । इति दुर्गादासः ॥

ऋश्यः, पुं, स्त्री, (ऋश् + क्यप् ।) मृगविशेषः । इति

शब्दरत्नावली ॥ (यथा, ऋग्वेदे । ८ । ४ । १० ।
“ऋश्यो न तृष्यन्नवपानमागहि” ॥)

ऋष, ई श गतौ । इति कविकल्पद्रुमः ॥ (तुदां-

परं-सकं-सेट् ।) ह्रस्वादिः । ई ऋष्टः । श ऋषति ।
इति दुर्गादासः ॥

ऋषभः, पुं, (ऋष् + “ऋषिवृषिभ्यां कित्” । इति

उणादिसूत्रेण ३ । १२३ । अभच् । किच्च ।) वृषः ।
(यथा, ऋग्वेदे ६ । २८ । ८ । “उप ऋषभस्य
रेतस्युपेन्द्र तव वीर्य्ये” ॥) कर्णरन्ध्रम् । कुम्भीर-
पुच्छः । उत्तरपदे श्रेष्ठः । इति मेदिनी ॥
(“स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जराः ।
सिंहशार्दूलनागाद्याः पुंसि श्रेष्ठार्थवाचकाः” ॥
इत्यमरवाक्यात् । यथा पुरुषर्षभः पुरुषश्रेष्ठः
इत्यर्थः । असमस्तेऽप्ययं श्रेष्ठार्थवाचकः । यथा,
भागवते २ । ४ । २२ ॥
“स्वलक्षणा प्रादुरभूत् किलास्यतः
स मे ऋषीणामृषभः प्रसीदताम्” ॥
“ऋषीणां ज्ञानप्रदानां ऋषभः श्रेष्ठः” । इति
तट्टीका ॥ गणविशेषः । आकृतिगणोऽयम् । यथा
पाणिनिः तत्पुरुषसमासप्रकरणे २ । १ । ५६ ॥
“उपमितं व्याघ्रादिभिः सामान्याप्रयोगे” ॥ व्या-
घ्रादिराकृतिगणः । “व्याध्र-सिंह-ऋक्ष-ऋषभ-
चन्दन-वृक-वृष-वराह-हस्तिन्-तरु-कुञ्जर-रुरु-पृ-
षत्-पुण्डरीक-पलाश-कितवाः” । इत्येते व्याघ्रा-
दयः ॥) पर्ब्बतविशेषः । इति धरणी ॥ वराहपुच्छः ।
आदिजिनः । इति हेमचन्द्रः ॥ भगवदवतारवि-
शेषः । (यथा, भागवते ५ । ६ । ७ । “तस्य ह वा एवं
मुक्तलिङ्गस्य भगवत ऋषभस्य योगमायावासनया
देह इमां जगतीमभिमानाभासेन चंक्रममाणः” ।)
स तु सत्ययुगे अग्नीध्रसुतनाभिराजपुत्त्रत्वेन जातः ।
तस्य पुत्त्रः जडमरतः । इति श्रीभागवतं ।
(तथा, मार्कण्डेये ५३ । ३८ ।
“अग्नीध्रसूनोर्नाभेस्तु ऋषभोऽभूत् सुतो द्विज ! ।
ऋषभाद्भरतो जज्ञे वीरः पुत्त्रशताद्वरः” ॥
स्वारोचिषे मन्वन्तरे ऋषिभेदः । यथा, मार्कण्डेये
६७ । ४ ।
“उर्जस्तम्बस्तथा प्राणो दत्तोलिरृषभस्तथा” ॥
ऋषभसहस्रदक्षिण एकाहनिष्पाद्यो यागभेदः ।
यथाह गर्गः “पूर्ब्ब ऋषभसंज्ञो राज्ञः” ॥ स्वनाम-
ख्यातः यज्ञतुरपुत्त्रो नृपभेदः । यथा, शतपथ-
ब्राह्मणे १३ । ५ । ४ । १५ । “एकविंशस्तोमेन
ऋषभो याज्ञतुर ईजे शिक्नानां राजांतदेतद्गाथ-
याऽभिगीतम्” ॥) अष्टवर्गान्तर्गतौषधविशेषः ।
तत्पर्य्यायः । वृषः १ ऋषभकः २ वीरः ३ । इति
रत्नमाला ॥ गोपतिः ४ धीरः ५ विषाणी ६ दुर्द्धरः
७ ककुद्मान् ८ पुङ्गवः ९ वोढा १० शृङ्गी ११ धूर्य्यः
१२ भूपतिः १३ कामी १४ रूक्षप्रियः १५ उक्षा
१६ लाङ्गूली १७ गौः १८ बन्धुरः १९ गोरक्षः २०
वनवासी २१ । अस्य गुणाः । मधुरत्वम् । शीतत्वम् ।
रक्तपित्तविरेकनाशित्वम् । शुक्रश्लेष्मकारित्वम् ।
दाहक्षयज्वरहरत्वञ्च । इति राजनिर्घण्टः ॥ * ॥
(“जीवकर्षभकौ ज्ञेयौ हिमाद्रिशिखरोद्भवौ ।
रसोनकन्दवत्कन्दौ निःसारौ सूक्ष्मपत्रकौ” ॥
“ऋषभो वृषशृङ्गवत्” ॥
“ऋषभो वृषभो धीरो विषाणी द्राक्षैत्यपि” ॥
अनयोर्गुणा यथा ॥
“जीवकर्षभकौ बल्यौ शीतौ शुककफप्रदौ ।
मधुरौ पित्तदाहास्रकार्श्यवातक्षयापहौ” ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) सप्त-
स्वरान्तर्गतद्वितीयस्वरः । (अयं स्वरः त्रिश्रुतिः ।
अस्यः तिस्रः श्रुतयो यथा, (१) दयावती, (२)
रञ्जनी, (३) रतिका । तिस्रश्च श्रुतिजातयो यथा,
(१) करुणा, (२) मध्या, (३) मृदुः । अयञ्च ऋषि-
वंशीयः, क्षत्त्रियजातिः, पिञ्जरवर्णश्च । अस्यो
त्पत्तिः शाकद्वीपे । अस्य ऋषिः देवता च ब्रह्मा;
छन्दो गायत्री । यथा सङ्गीतरत्नाकारे, --
“ऋषभस्त्रिश्रुतिस्ततः ... ... ... ।
दयावती रञ्जनी च रतिका चर्षभे स्थिता ॥
दीप्तायता मृदुर्मध्या षड्जे स्यात् ऋषभे पुनः ।
संस्थिता करुणा मध्या मृदुः ... ... ॥
पञ्चमः पितृवंशस्थो रि-धावृषिकुलोद्भवौ ।
ऋधौ तु क्षत्रियौ ज्ञेयौ वैश्यजाती निगौ मतौ” ॥
रि धौ ऋषभधैवतौ इत्यर्थः । इत्यादि ।)
स तु गोस्वरतुल्यस्वरः । चातकस्वरतुल्यस्वर इति
केचित् । नारदमते गावः ऋषभस्वरं वदन्ति
यथा, --
“षड्जं रौति मयूरो हि गावो नर्द्दन्ति चर्षभम्” ।
इति नारदसंहितायाम् । दपणरत्नाकरादिमते
तु चातकः ऋषभं वदति । यथा सङ्गोतदर्पणे, --
“स्वरमृषभं चातको ब्रूते” ।) अस्योत्पत्तिः ।
“नाभिमूलाद्यदा वर्ण उत्थितः कुरुते ध्वनिम् ।
वृषभस्येव निर्याति हेलया ऋषभः स्मृतः” ॥
इति सङ्गीतदामोदरः ॥
(“नाभेः समुदितो वायुः कण्ठशीर्षसमाहतः ।
ऋषभस्येव नादं यत् तस्मादृषभईरितः” ॥
इति च सङ्गीतसमयसारे । अस्योत्पत्तिः ऋग्वे-
दात् । यथा रत्नावल्यां, --
“ऋग्वेदात् षड्ज-ऋषभौ यजुषो मध्यधैवतौ ।
सामवेदात् समूद्भूतौ तथा गान्धारपञ्चमौ” ॥
इति ॥)

ऋषभध्वजः, पुं, (ऋषभः ध्वजश्चिह्वमस्य ध्वजेऽस्य वा ।)

शिवः । अर्हद्विशेषः । इति मेदिनी ॥

ऋषभी, स्त्री, (ऋषभ + जातौ ङीष् ।) नराकारस्त्री ।

शूकशिम्बी । शिराला । विधवा । इति मेदिनी ॥
(शूकशिम्ब्यर्थे व्यवहारो यथा ॥
“ऐन्द्यृषभ्यतिरसेत्यादिषु” ।
इति चरके सूत्रे चतुर्थेऽध्याये ॥ अत्र हि ऋषभी
शूकशिम्बी इत्यस्य शिवदासीयटीका ॥ * ॥)

ऋषिः, पुं, (ऋषति प्राप्नोति सर्व्वान् मन्त्रान् ज्ञानेन

पश्यति संसारपारं वा इति । ऋष् + “इगुप-
धात् कित्” ४ । ११९ । इति उणादिसूत्रेण इन् ।
किच्च ।) ज्ञानसंसारयोः पारगन्ता । शास्त्रकृदा-
चार्य्यः । (यथा, ऋग्वेदे १ । १ । २ । “अग्नि
पृष्ठ १/२८८
:पूर्ब्बेभिऋषिभिरीड्यो नूतनैरुत स देवा एह
वक्ष्यति” ॥) रिषिर्हसादिश्च । “विद्याविदग्धमतयो
रिषयः प्रसिद्धाः” । इति प्रयोगात् । इति भरतः ॥
तत्पर्य्यायः । सत्यवचाः २ शापास्त्रः ३ । स तु
सप्तविधः यथा । व्यासाद्या महर्षयः १ भेलाद्याः
परमर्षयः २ कण्वादयो देवर्षयः ३ वशिष्टाद्या
ब्रह्मर्षयः ४ सुश्रुताद्याः श्रुतर्षयः ५ ऋतपर्णादयो
राजर्षयः ६ जैमिन्याद्याः काण्डर्षयः । इति त्रि-
काण्डशेषः ॥ तथा च रत्नकोषे ।
“सप्त ब्रह्मर्षि-देवर्षि-महर्षि-परमर्षयः ।
काण्डर्षिश्च श्रुतर्षिश्च राजर्षिश्च क्रमावराः ॥ * ॥
मन्वन्तरभेदे सप्तर्षिनामानि यथा ।
१ स्वायम्भुवमन्वन्तरे मरीचिः । अत्रिः । अ-
ङ्गिराः । पुलस्त्यः । पुलहः । क्रतुः । वशिष्ठः ।
(यथा हरिवंशे । ७ । ८ ।
“मरीचिरत्रिर्भगवानङ्गिराः पलहः क्रतुः ।
पुलस्त्यश्च वशिष्ठश्च सप्तैते ब्रह्मणः सुताः” ॥)
२ । स्वारोचिषे उर्जस्तम्भादयः ।
(यथा, मार्कण्डेये ६७ । ४ ।
“उर्जस्तम्भस्तथा प्राणो दत्तोलिरृषभस्तथा ।
निश्चरश्चार्ववीराश्च तत्र सप्तर्षयोऽभवन्” ॥)
३ । उत्तमे वशिष्ठसुताः प्रमदादयः ।
(यथा, मार्कण्डेये ७३ । १३ ।
“स्वतेजसा हि तपसो वशिष्ठस्य महात्मनः ।
तनयश्चान्तरे तस्मिन् सप्त सप्तर्षयोऽभवन्” ॥)
४ । तामसे ज्योतिर्धामादयः ।
(यथा मार्कण्डेये ७४ । ५९ ।
“ज्योतिर्धामा पृथुः काव्यश्चैत्रोऽग्निर्बलकस्तथा ।
पीवरश्च तथा ब्रह्मन् सप्त सप्तर्षयोऽभवन्” ॥)
५ । रैवते हिरण्यरोमा वेदशिरा ऊर्द्ध्वबाहु-
रित्यादयः । (यथा मार्कण्डेये ७५ । ७३-७४ ।
“हिरण्यरोमा वेदश्रीरूर्द्ध्वबाहुस्तथापरः ।
वेदबाहुः सुधामा च पर्जन्यश्च महामुनिः ॥
वशिष्ठश्च महाभागो वेदवेदान्तपारगः ।
एते सप्तर्षयश्चासन् रैवतस्यान्तरे मनोः” ॥)
६ । चाक्षषे हर्य्यश्मद्वीरकादयः ।
(मार्कण्डेयमतानुयायिन उच्यन्ते तत्रैव । ७६ । ५४ ।
“सुमेधा विरजाश्चैव हविष्मानुन्नतो मधुः ।
अतिनामा सहिष्णुश्च सप्तासन्निति चर्षयः” ॥)
७ । वैवस्वताख्यवर्त्तमानमन्वन्तरे कश्यपः ।
अत्रिः । वशिष्ठः । विश्वामित्रः । गौतमः । जम-
दग्निः । भरद्वाजः ॥ (यथा मार्कण्डेये ७९ । ९-१० ।
“अत्रिश्चैव वशिष्ठश्च काश्यपश्च महानृषिः ।
गौतमश्च भरद्वालो विश्वामित्रोऽथ कौशिकः ॥
तथैव पत्त्रो भगवानृचीकस्य महात्मनः ।
जमदग्निस्तु सप्तैते मुनयोऽत्र तथान्तरे” ॥)
८ । सावर्णिके गालवः । दीप्तिमान् । परशु-
रामः । अश्वत्थामा । कृपः । ऋष्यशृङ्गः । व्यासः ।
यथा, मार्कण्डये ८० । ४ ।
“रामो व्यासो गालवश्च दीप्तिमान् कृपएव च ।
ऋष्यशृग्ङ्गस्तथा द्रोणिस्तत्र सप्तर्षयोऽभवन्” ॥
रामः परशुरामः । द्रोणिरश्वत्थामा ॥)
९ । दक्षसावर्णिके द्युतिमदाद्याः ।
(यथा मार्कण्डेये ९४ । ८ ।
“मेधातिथिर्व्वसुः सत्यो ज्योतिष्मान् द्युतिमांस्तथा ।
सप्तर्षयोऽन्यः सबलस्तथान्यो हव्यवाहनः” ॥)
१० । ब्रह्मसावर्णिके हविष्मत्सुकृतसत्यजयमू-
र्त्त्याद्याः । (यथा मार्कण्डेये ९४ । १०, १३, १४ ।
“मनोस्तु दशमस्यान्यच्छृणु मन्वन्तरं द्विज ! ॥
सप्तर्षींस्तान् निबोध त्वं ये भविष्यन्ति वै तदा ।
आपो भूतिर्हविष्मांश्च सुकृती सत्यएव च ।
नाभागोऽप्रतिमश्चैव वाशिष्ठश्चैव सप्तमः” ॥)
११ । धर्म्मसावर्णिके अरुणादयः ।
(यथा मार्कण्डेये ९४ । १९-२० ।
“हविष्मांश्च वरिष्ठश्च ऋष्टिरन्यस्तथारुणिः ।
निश्चरश्चानघश्चैव विष्टिश्चान्यो महामुनिः ॥
सप्तर्षयोऽन्तरे तस्मिन्नग्निदेवश्च सप्तमः” ॥)
१२ । रुद्रसावर्णिके तपोमूर्त्त्यादयः ।
(यथा मार्कण्डेये ९४ । २५ ।
“द्युतिस्तपस्वी सुतपास्तपोमूर्त्तिस्तपोनिधिः ।
तपोरतिस्तथैवान्यः सप्तमस्तु तपोधृतिः” ॥)
१३ । देवसावर्णिके निर्म्मोहतत्त्वदर्श्याद्याः । (मार्क-
ण्डेयपुराणमते अयं त्रयोदशमनुः रौच्याख्ययाभि-
हितः । यथा, तत्रैव ९४ । २७-३० ।
“त्रयोदशस्य पर्य्याये रौच्याख्यस्य मनोः सुतान् ।
सप्तर्षीं श्च नृपांश्चैव गदतो मे निशामय ॥
सुधर्म्माणः सुरास्तत्र सुकर्म्माणस्तथापरे ।
सुशर्म्माणः सुरा ह्येते समस्ता मुनिसत्तम ! ॥
महाबलो महावीर्य्यस्तेषामिन्द्रो दिवस्पतिः ।
भविष्यानथ सप्तर्षीन् गदतो मे निशामय ॥
धृतिमानव्ययश्चैव तत्त्वदर्शी निरुत्मुकः ।
निर्म्मोहः सुतपाश्चान्यो निष्प्रकम्पश्च सप्तमः” ॥)
१४ । इन्द्रसावर्णिके अग्निबाहुशुचिशुद्धमागधाद्याः
सप्तर्षयः । (मार्कण्डेयपुराणमतेऽयं भौत्याख्यया-
भिहितः । यथा तत्रैव ९९ । १ ।
“ततः परन्तु भौत्यस्य समुत्पत्तिं निशामय ।
देवानृषींस्तथा पुत्त्रांस्तथैव वसुधाधिपान्” ॥
ततः परं त्रयोदशमन्वन्तरानन्तरम् ॥ अस्मिन्
मन्वन्तरे सप्तर्षिनामान्याह तत्रैव १०० । ३१ ।
“अग्नीध्रश्चाग्निबाहुश्च शुचिर्मुक्तोऽथ माधवः ।
शुक्रोऽजितश्च सप्तैते तदा सप्तर्षयः स्मृताः” ॥
पुराणान्तरे मतभेदात् मन्वन्तरसप्तर्षीणां नाम-
भेदोऽपि दृश्यते । हरिवंशे ७ अध्याये तथा
विष्णुपुराणे ३ अंशे अस्य विवरणादिकं द्रष्टव्यम् ॥)
॥ * ॥ ज्यीतिःशास्त्रमते वशिष्ठपत्न्यरुन्धतीसहित-
वत्तैमानमन्वन्तरीयसप्तर्षीणां मघानक्ष्रत्रे स्थितिः
तस्योदये तेषाञ्चोदयो भवति । काशोखण्डमते
शनिलोकादूर्द्धं ध्रूवलोकात् अधः तेषां स्थितिः
॥ * ॥ वेदः । किरणः । इति मेदिनी ॥ भृग्वादि-
महर्षिसन्तानः । यथा ।
“भृगुर्म्मरीचिरत्रिश्च अङ्गिराः पुलहः क्रतुः ।
मनुर्दक्षो वशिष्ठश्च पुलस्त्यश्चेति ते दश ॥
ब्रह्मणो मानसा ह्येते उत्पन्नाः स्वयमीश्वराः ।
परत्वेनर्पयस्तस्माद्भूतास्तस्मान्महर्षयः ॥
ईश्वराणां सुतास्तेषामृषयस्तान् निबोधत ।
काव्यो वृहस्पतिश्चैव कश्यपश्च्यवनस्तथा ।
उतथ्यो वामदेवश्च अगस्त्यश्चौषिजस्तथा” ॥
औषिजस्थाने कौशिक इति वा पाठः ।
“कर्द्दमो बालिखिल्याश्च विश्रवाः शक्तिवर्च्चसः ।
इत्येते ऋषयः प्रोक्तास्तपसा ऋषिताङ्गताः” ॥
इति । तस्य व्युत्पत्तिर्यथा ।
“ऋषि हिंसागतौ धातुर्व्विद्यासत्यतपःश्रुतिः ।
एष सन्निचयो यस्मात् ब्राह्मणश्च ततः त्वृषिः ॥
विवृत्तिसमकालन्तु बुद्ध्या व्यक्तिमृषिस्त्वयम् ।
ऋषन्ते परमां यस्मात् परमर्षिस्ततः स्मृतः ॥
गत्यर्थादृषतेर्धातोर्नामनिर्वृतिकारणम् ।
यस्मादेष स्वयम्भूतस्तस्माच्च ऋषिता मता” ॥
इति मत्स्यपुराणे १२० अध्यायः ॥

ऋषिकः, पुं, (ऋषेः पुत्त्रः । ऋषि + कन् ।) काव्या-

दि-ऋषिपुत्त्रः । यथा ।

ऋषीकः, पुं, (ऋषेः पुत्त्रः । ऋषि + कन् ।) काव्या-

दि-ऋषिपुत्त्रः । यथा ।
“ऋषिपुत्त्रा ऋषीकास्तु मैथुनाद्गर्भसम्भवात् ।
परत्वेनर्षयस्ते वै भूतादिऋषिकास्ततः ॥
ऋषीकाणां सुता ये वै विज्ञेया ऋषिपुत्त्रकाः
इत्येते ऋषयः प्रोक्तास्तपसा ऋषिताङ्गताः ॥
तेषां पुत्त्रानृषीकांस्तु गर्भोत्पन्नान्निबोधत ।
वत्सरो नहुषश्चैव भारद्वाजश्च वीर्य्यवान् ।
ऋषिर्द्दीर्घतपाश्चैव वृहद्दुःस्थः शरत्वतः ॥
वाजिश्रवाः सुचित्तश्च श्यावोऽश्वश्च पराशरः ।
शृङ्गी च कश्यपश्चैव राजा वैश्रवणस्तदा ॥
इत्येते ऋषिकाः सर्व्वे सत्येन ऋषिताङ्गताः” ।
इति मात्स्ये १२० अध्यायः ॥

ऋषिकुल्या, स्त्री, (ऋषीणां कुल्या कृत्रिमाल्पा सरित्

इव ।) नदी । इति हेमचन्द्रः ॥
(“ऋषिकुल्यां समासाद्य नरः स्नात्वा विकल्मषः ।
देवान्ं पितॄन् चार्च्चयित्वा ऋषिलोकं प्रपद्यते” ॥
इति भहाभारते । तीर्थयात्रापर्ब्बणि ३ । ८४ । ४६ ॥
ऋषिकुलाय हितम् । ऋषिकुल + यत् । ऋषि-
कुलहिते, त्रि । यथा, मागवते ३ । १६ । १३ ।
“अथ तस्योशतीं देवीमृषिकुल्यां सरस्वतीम् ।
नास्वाद्य मन्युदष्टानां तेषामात्माप्यतृप्यत” ॥)

ऋषिजाङ्गलिकी, स्त्री, (ऋषिप्रिया जाङ्गलिकी ।)

ऋक्षगन्धावृक्षः । इति रत्नमाला ॥ ऋषिजाङ्गल-
इति ख्यातः । (वृद्धदारकशब्देऽस्या विशेषो ज्ञेयः ॥)

ऋषिप्रोक्ता, स्त्री, (ऋषिणा प्रोक्ता औषधार्थम् ।)

माषपर्णीवृक्षः । इति रत्नमाला ॥ (माषपर्णी-
शब्देऽस्या गुणादिकं ज्ञेयम् ॥)

ऋष्टिः, स्त्री, (ऋष् हिंसायां + क्तिन् ।) खङ्गः । इत्य-

मरः ॥ (यथा, ऋग्वेदे । ५ । ५७ । २ ।
“वाशीमन्त ऋष्टिमन्तो मनीषिणः ।
सुधन्वान इषुमन्तो निषङ्गिणः” ॥
आयुधमात्रम् । यथा ऋग्वेदे १ । १६६ । ४ ।
“मयन्ते विश्वाभुवनानि हर्म्म्या ।
चित्रो वो यामः प्रयतास्वृष्टिषु” ॥
“ऋष्टिषु युद्धस्थहेतिषु” । इति भाष्यम् ।
तथा तत्रैव । ५ । ५२ । ६ ।
“आ रुक्मैरायधा नर ऋष्वा ऋष्टीरसृक्षत” ।
पृष्ठ १/२८९
:“ऋष्टीरायुधविशेषान्” । इति भाष्यम् ।
तथा मनुः ३ । १३३ ।
“यावतो ग्रसते ग्रासान् हव्यकव्येष्वमन्त्रवित् ।
तावतो ग्रसते प्रेत्य दीप्तशूलर्ष्टयोगुडान्” ॥
“ज्वलितशूलर्ष्टाख्यायुधलोहपिण्डान्” । इति त-
ट्टीका ॥ दीप्तिः । यथा, ऋग्वेदे ३ । ५४ । १३ ।
“विद्युद्रथा मरुत ऋष्टिमन्तो
दिवो मर्या ऋतजाता अयासः” ।
“ऋष्टिमन्तो दीप्तिमन्तः” । इति भाष्यम् ॥ गमना-
गमनशीलः । यथा, ऋग्वेदे १ । ६४ । ४ ॥ “अंसे-
ष्वेषां निप्निमृक्षुरृष्टयः साकं यज्ञिरे स्वधया
दिवो नरः” । “ऋष्टयः गमनागमनशीलाः” ।
इति दयानन्दभाष्यम् ॥ पुं, धर्म्मसावर्णिके मन्व-
न्तरे ऋषिभेदः । यथा, मार्कण्डेये । ९४ । १९ ।
“हविष्मांश्च वरिष्ठश्च ऋष्टिरन्यस्तथारुणिः” ॥)

ऋष्यः, पुं, स्त्री, (ऋष् + यत् । निपातनात् सिद्धम् ।)

मृगविशेषः । इत्यमरः ॥ (यथा महाभारते ऋष्य-
शृङ्गोपाख्याने । ३ । ११० । २७ ।
“ऋष्यशृङ्गः कथं मृग्यामुत्पन्नः काश्यपात्मजः” ।
ऋष्यस्य मृगविशेषस्य शृङ्गमिव शृङ्गं यस्य स
ऋष्यशृङ्गः ।
“ऋष्यो नीलाङ्गको लोके सरोह्य इति कीर्त्तितः” ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥)
स्वनामख्यातः कुरुवंशीयो देवातिथिपुत्त्रः । यथा,
भागवते । ९ । २२ । ११ ।
“ततश्च क्रोधनस्तस्माद् देवातिथिरमुष्य च ।
ऋष्यस्तस्य दिलीपोऽभूत् प्रतीपस्तस्य चात्मजः” ॥

ऋष्यकेतुः, पुं, (ऋष्यः केतौ यस्य ।) अनिरुद्धः ।

इति त्रिकाण्डशेषः ॥ अस्य रूपान्तराणि । ऋश्य-
केतुः । ऋष्यकेतनः । रिष्यकेतुः । विश्वकेतुः ॥

ऋष्यगता, स्त्री, (ऋष्येण ऋषिसमूहेन गता ज्ञाता ।)

ऋष्यप्रोक्तावृक्षः । इति शब्दरत्नावली ॥

ऋष्यगन्धा, स्त्री, (ऋष्यस्य मृगविशेषस्य गन्ध इव

गन्धो यस्याः ।) वृक्षविशेषः । ऋषिजाङ्गल इति
ख्यातः । तत्पर्य्यायः । ऋक्षगन्धा २ ऋषिजाङ्गलिकी
३ । इति रत्नमाला ॥
(“महासहा-ऋद्धि-ऋष्यगन्धाश्वगन्धेत्यादिषु” ॥
इतिं चरके विमानस्थाने अवृमेऽध्याये ॥)

ऋष्यप्रोक्ता, स्त्री, (ऋष्येण ऋषिसमूहेन प्रोक्ता ।)

शतमूली । शूकशिम्बी । अतिबला । इति मेदिनी ॥
(अस्याः पर्य्यायो यथा ॥
“अतिबला महाशतावरी कपिकच्छुश्च” ।
इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥
व्यवहारो यथा ॥
“ऐन्द्यृषभ्यतिरसर्ष्यप्रोक्तापयस्येत्यादिषु” ।
इति चरके सूत्रंस्थाने चतुर्थेऽध्याये ॥ अत्र तु
ऋष्यप्रोक्ता माषपर्णी इति शिवदासीयटीका ॥ * ॥
“कुक्कुटी सर्पगन्धा च तथा काणविषाणिके ।
ऋष्यप्रोक्ता वयस्था च शृङ्गी मोहनवल्लिका” ॥
इति उत्तरतन्त्रे षष्टितमेऽध्याये सुश्रुतेनोक्तम् ॥)

ऋष्यमूकः, पुं, (ऋष्यो मृगो मूको यत्र ।) पर्ब्बत-

विशेषः । इति जट धरः ॥ स तु दक्षिणदेशे
पम्पासरोवरकूले स्थितः । यत्र बालिभयात् सुग्री-
वादयः पञ्च वानराः स्थिताः ॥ इति रामायणम् ॥
(“तावृष्यमूकस्य समीपचारी
चरन् ददर्शाद्भुतदर्शनोयौ” ।
इति रामायणे । ४ । १ । १२८ ॥)

ऋष्यशृङ्गः, पुं, (ऋष्यस्य मृगस्य शृङ्गमिव शृङ्ग-

मस्य ।) मुनिविशेषः । स तु विभाण्डकसुतः ।
तस्य भार्य्या लोमपादराजकन्या शान्ता । इति
रामायणम् ॥ (“मान्यो मुनिः स्वां पुरमृष्यशृङ्गः” ।
इति भट्टिः । १ । १० ॥ अस्य जन्मनः प्रभृति
विवरणमुच्यते ।
आसीत्पुरा महातेजास्तपस्विसत्तमः काश्यपो
विभाण्डको नाम ऋषिः । स च महाह्रदं समा-
साद्य दीर्घकालं तपसि स्थितः । एकदाप्सरस-
मुर्व्वशीं दृष्ट्वा चलितचित्तस्यास्य रेतः अप्सु प्रच-
स्कन्द । ततः काचित् मृगी तृषिता तोयेन सह
तत्पीत्वा गर्भिणी अभवत् । इत्यं हि मृगी पुरा
काचित् देवकन्यासीत् शापवशात् मृगरूप-
धारिणी वने विचरन्ती स्थिता । अथामोघत्वात्
ब्रह्मरेतसस्तस्यां मृग्यामेकः पुत्त्रः समभवत् । मृ-
गीगर्भजातत्वादस्य शिरसि शृङ्गमजायत तेनास्य
ऋष्यशृङ्ग इति नाम समभवत् । अनेन हि
पितुरन्यः कोऽपि मानुषो न दृष्टपूर्ब्बस्तस्माद-
नन्यविषयं अस्य मनः सदा ब्रह्मचर्य्ये एवाभवत् ।
एतस्मिन्नेव काले दशरथस्य बन्धुर्लोमपाद इति
ख्यातोऽङ्गानामीश्वरः समभवत् । तेन कामात्
ब्राह्मणस्य मिथ्याकृतम् । अस्मात् सर्व्वे ब्राह्मणास्तं
परितत्यजुः । प्रणष्टयज्ञस्यास्य राज्ये न ववर्ष शत-
क्रतुः । अतः क्लिष्टचित्तः स राजा ब्राह्मणान्
सन्तोषयित्वा कञ्चिदुपायं पर्य्यपृच्छत् । तेन पृष्टास्ते
ब्राह्मणा यज्ञार्थं ऋष्यशृङ्गमानेतुं उपदिदिशुः ।
अथ स राजा दुष्करत्वादस्य कार्य्यस्य ऋष्य-
शृङ्गमानेतुं शापाद्यभीताभिर्वाराङ्गनाभिर्यत्नमक-
रोत् । अथ रूपयौवनसम्पन्नाः काश्चित् वारा-
ङ्गना बहूनि उपायनद्रव्याणि गृहीत्वा जलपथेन
तं तपोधनम् लोभयित्वानेतुं प्रतस्थिरे । अथ ताः
काश्यपस्याश्रमं समासाद्य व्याजकृताश्रमां नावम-
दूरे निबध्य तत्रोत्तस्थुः । अथ कदाचित् तासां
काचित् कुशला ऋषेः सुतं तं दृष्ट्वा वाग्भङ्ग्या
मोहयित्वा विचित्राणि माल्यानि वासांसि च
दत्त्वा पेयानि च पाययित्वा तेन सह चिक्रीड
प्रजहास च । एतादृशेन विविधोपायेन तं प्राप-
यित्वा कामवशतां अग्निहोत्रस्योपदेशं कृत्वा च
स्वस्थानमाजगाम । गतायाञ्च तस्यां मदनेन मत्तो
विचेतनश्चाभवदृष्यशृङ्गः । अथ विभाण्डकस्तपसः
प्रतिनिवृत्य स्वसुतं तथाविधं दृष्ट्वा प्रबोधयामास ।
प्रबोध्य तपस्यार्थं प्रस्थिते च तस्मिन् पुनः सा
ऋषिरूपधारिणी वेश्या तं विभाण्डकसुतं प्रलोभ्य
नाव्याश्रममानीय द्रुततरं लोमपादराज्यमायता ।
अथ स राजा ते प्राप्य विभाण्डकसुतं प्रहृष्ट-
मना अन्तःपुरे निवेशयामास । प्रविष्टे च तस्मिन्
तपोधने समस्तराज्यं प्रवृष्टं जलेनापूर्य्यमाणमभ-
वत् । एवं स लोमपादः परिपूर्णकामः तपोधनाग्र-
गण्यात् विभाण्डकात् शापमुक्तिमिच्छन् स्वमित्रस्य
दशरथस्य सुतां शान्तां ऋष्यशृङ्गाय प्रददौ ।
अथ विभाण्डको मुनिः तपसः प्रतिनिवृत्तः सुत-
मनवलोक्य ध्यानधिया सर्व्वमवगम्य क्रुधा ज्वल-
न्निव लोमपादराज्यं आजगाम । आगते च
तस्मिन् विभीतैः सर्व्वैः ऋष्यशृङ्गस्य राज्यमिद-
मिति आचख्ये । पूजितश्च तेन राजषिणा दिवि
इन्द्रमिव पुत्त्रं शचीमिव शान्तां स्नुषाञ्चावलोक्य
ग्रामांश्च घोषांश्च सुतस्य इत्यवगम्य शान्तकोपः
स्वाश्रमं प्रति प्रययौ । अथ स ऋष्यशृङ्गः शान्तया
सह तस्मिन् राज्ये सुखमतिचिरमवसत् ॥
अथ गच्छति काले सूर्य्यवंशावतंसो राजा
दशरथः अनपत्यतया क्लिश्यमानहृदयो निजगुरुं
वशिष्ठदेवं पुत्त्रलाभोपायं प्रप्रच्छ । एवमुक्तस्तेन
ऋषिप्रवरो वशिष्ठः लोमपादराज्यात् ऋष्यशृङ्गं
तपोधनं समानीय पुत्त्रेष्टिं कर्तुं समादिशत् ।
अथासौ राजा एवमभिहितः स्वजामातरममुं
ऋष्यशृङ्गमानेतुं यत्नमकरोत् । तत आगतेन
तेन क्रियमाणे यज्ञे दैवश्चरुर्वह्निमध्यादुदतिष्ठत् ।
एतच्चरुभक्षणात् नारायणावतारस्वरूपा रामा-
दयश्चत्वारो दशरथस्य तनया जाताः । अयं
विभाण्डकसुतस्तु महाप्रतापवान् यज्ञनिष्ठश्चेति
प्रसिद्धः । एतत्कथा च महाभारते । ३ । ११०
अध्यायन्तथा रामायणे । १ । ९ अध्यायञ्चारभ्य
द्रष्टव्या ॥ * ॥ सावर्णिके मन्वन्तरे ऋषिभेदः ।
यथा, मार्कण्डेये ८० । ४ ।
“रामो व्यासो गालवश्च दीप्तिमान् कृपएव च ।
ऋष्यशृङ्गस्तथा द्रोणिस्तत्र सप्तर्षयोऽभवन्” ॥)

दीर्घॠकारः । स तु अष्टमस्वरवर्णः । अस्यो-

च्चारणस्थानं मूर्द्धा । (यथा, सिद्धान्तकौमुद्यां
“ऋटुरषाणाम्मूर्द्धा” । पाणिनीयशिक्षायामपि ।
“स्युर्मूर्द्धण्या ऋटुरषा दन्त्या ऌतुलसाः स्मृताः” ।)
स प्लुतश्च भवति ॥ इति व्याकरणम् ॥
(स च उदात्तानुदात्तस्वरितभेदात् त्रिधापि पुनः
प्रत्येकमनुनासिकाननुनासिकभेदेन द्विधेति षड्-
विधः ।)
ॠकारं परमेशानि स्वयं परमकुण्डलम् ।
पीतविद्युल्लताकारं पञ्चदेवमयं सदा ॥
चतुर्ज्ञानमयं वर्णं पञ्चप्राणयुतं सदा ।
त्रिशक्तिसहितं वर्णं प्रणमामि सदा प्रिये” ।
इति कामधेनुतन्त्रम् ॥
(वङ्गीयभाषायाम् ।) तस्य लेखनप्रकारो यथा, --
“तद्रूपाधोगता दक्षा वामतः कुञ्चिता त्वधः ।
पुनर्द्दक्षगता रेखा तासु ब्रह्मेशविष्णवः ॥
मात्रा शक्तिः परा ज्ञेया ध्यानमस्य प्रवक्ष्यते” ।
इति वर्णोद्धारतन्त्रम् ॥ * ॥ तस्य नामानि यथा ।
“ॠःक्रोधोऽतिथिशो वाणी वामनो गोऽथ श्रीर्धृतिः ।
ऊर्द्ध्वमुखी निशानाथः पद्ममाला विनष्टधीः ॥
शशिनी मोचिका श्रेष्ठा दैत्यमाता प्रतिष्ठिता ।
पृष्ठ १/२९०
:एकदन्ताह्वयो माता हरिता मिथुनोदया ॥
कोमलः श्यामला मेधी प्रतिष्ठा पतिरष्टमी ।
ब्रह्मण्यमिव कीलाले पावको गन्धकर्षिणी” ॥
इति तन्त्रशास्त्रम् ॥ वामनासिका । इति वीज-
वर्णाभिधानम् ॥ (मातृकन्यासेऽस्य वामनासिकया
न्यस्यतया तथात्वम् । यदुक्तं मातृकान्यासमन्त्रे ।
“ॠं नमो दक्षिणघ्राणे ॠं नमो वामघ्राणे” ।
इति ॥ अनुबन्धविशेषस्तेन च्यङ्यह्रस्वो वा स्यात् ।
यदुक्तं कविकल्पद्रुमे । “च्यङ्यह्रस्वोऽथ ॠर्वा ऌ-
रङ्वानिर्वाथ एः सिचि” ॥ (एतेन कणॄ आर्त्तस्वरे
लुङि कृते ज्रचीकणत् अचकणत् इति स्यात् ॥)

गि गत्यां । इति कविकल्पद्रुमः । (घादि-क्र्यादिं-

परं-सकं-सेट् ।) गि ॠणाति । ईर्ण्णः ईर्ण्णिः ।
इति दुर्गादासः ॥

, व्य, (ॠ + क्विप् ।) वाक्यारम्भः । रक्षा । इति

मेदिनी ॥ निन्दा । भयम् । इति शब्दरत्नावली ॥

, क्ली, (ॠणातीति । ॠ + क्विप् ।) वक्षः । इति

मेदिनी ॥

ॠः, स्त्री, देवमाता । दानवमाता । (ॠ + भावे

क्विप् ।) स्मृतिः । गतिः । इति मेदिनी ॥

ॠः, पुं, (ॠणाति प्राप्नोति विश्वमिति । ॠ + क्विप् ।)

भैरवः । (यथा, “ॠनन्ददात्रि ! प्रमथेशसङ्गेः ! ।”
इत्युद्भटः ॥) दनुजः । इति मेदिनी ॥

ऌकारः । स तु नवमस्वरवर्णः । अस्योच्चारण-

स्थानं दन्तः । (यदुक्तम् सिद्धान्तकौमुद्याम् “ऌतु-
लसानान्दन्ताः” । शिक्षायामपि यथा, --
“स्युर्मूर्द्धन्या ऋटुरसा दन्त्या ऌतुलसाः स्मृताः” ।)
स ह्रस्वो दीर्घः प्लुतश्च भवति । इति व्याकरणम् ॥
(अयन्तु उदात्तानुदात्तस्वरितभेदात् त्रिविधोऽपि
प्रत्येकं पुनरनुनासिकाननुनासिकभेदन द्विधेति
षड्विधएव ॥)
“ऌकारं चञ्चलापाङ्गि कुण्डली परदेवता ।
अत्र ब्रह्मादयः सर्व्वे तिष्ठन्ति सततं प्रिये ॥
पञ्चदेवमयं वर्णं चतुर्ज्ञानमयं सदा ।
पञ्चप्राणयुतं वर्णं तथा गुणत्रयात्मकम् ॥
विन्दुत्रयात्मकं वर्णं पीतविद्युल्लता तथा” ।
इति कामधेनुतन्त्रम् ॥ (वङ्गीयभाषायां) अस्य
लेखनप्रकारो यथा, --
“रेखाधःकुण्डली वक्रा दक्षतो वामतो गता ।
वह्नीशवायवस्तासु नित्यं सन्ति च नित्यशः” ॥
इति वर्णोद्धारतन्त्रम् ॥ * ॥ अस्य नामानि यथा, --
“ऌः स्थाणुः श्रीधरः शुद्धो मेधाधूम्रावको वियत् ।
देवयोनिर्द्दक्षगण्डो महेशः कौन्तरुद्रकौ ॥
विश्वेश्वरो दीर्घजिह्वा महेन्द्रो लाङ्गलिः परा ।
चन्द्रिका पार्थिवो धूम्रा द्विदन्तः कामवर्द्धनः ॥
शुचिस्मिता च नवमी कान्तिरायातकेश्वरः ।
चित्ताकर्षिणी काशश्च तृतीयकुलसुन्दरी” ॥
इति तन्त्रशास्त्रम् ॥ (मातृकान्यासे दक्षिणगण्डे
न्यस्यतया दक्षिणगण्डेनाप्यभिधानम् । यथा मातृ-
कान्यासमन्त्रे । “ऌं नमो दक्षिणगण्डे ऌं नमो
वामगण्डे” । अनुबन्धविशेषः । एतेन लुङि अङ्
स्यात् । यदुक्तम् कविकल्पद्रुमे ।
“चङ्यह्रस्वोऽथॠर्वा ऌरङ्वानिर्वाथ एः सिचि” ।
एतेन गम् ऌ औ गतौ इत्यस्य लुङि अगम-
दिति स्यात् ॥)

, व्य, देवमाता । इति मेदिनी एकाक्षरकोषश्च ॥

भूमिः । कुध्रः पर्ब्बतः । इति मेदिनी ॥

दीर्घ ॡकारः । स तु दशमस्वरवर्णः । अस्यो-

च्चारणस्थानं दन्तः । (यथा मुग्धबोधे । “ऌत्रयं
तथदधनलसाः वो दन्त्याः” ।) स प्लुतश्च भवति ।
इति व्याकरणम् ॥ (उदात्तानुदात्तस्वरितभेदात्
त्रिविधोऽपि प्रत्येकं पुनरनुनासिकानुनासिकभे-
दात् षड्विधएव ।)
“ॡकारं परमेशानि पूर्णचन्द्रसमप्रभम् ।
पञ्चदेवात्मकं वर्णं पञ्चप्राणात्मकं सदा ॥
गुणत्रयात्मकं वर्णं तथा विन्दुत्रयात्मकम् ।
चतुर्व्वर्गप्रदं देवि स्वयं परमकुण्डली” ॥
इति कामधेनुतन्त्रम् ॥ (वङ्गीयभाषायां) अस्य
लेखनप्रकारो यथा, --
“तत्क्रोडतुल्यरूपा च रेखा सा वैष्णवी स्मृता ।
तासु वन्द्याः सुरेशानि दुर्गा वाणी सरस्वता” ॥
इति वर्णोद्धारतन्त्रम् ॥ * ॥ तन्नामानि यथा, --
“ॡकारः कमला हर्षा हृषीकेशो मधुव्रतः ।
सूक्ष्मा कान्तिर्व्वामगण्डो रुद्रः कामोदरी सुरा ॥
शान्तिकृत् स्वस्तिका शक्रो मायावी लोलुपो वियत् ।
कुशमी सुस्थिरो माता नीलपीतो गजाननः ॥
कामिनी विश्वषा कालो नित्या शुद्धः शुचिः कृती ।
सूर्य्यो धैर्य्योत्कर्षिणी च एकाकी दनुजप्रसूः” ॥
इति तन्त्रशास्त्रम् ॥ (मातृकान्यासे वामगण्डे
न्यस्यतया तन्नाम्नाप्यभिधानम् । मातृकान्यास-
मन्त्रो यथा ॥ “ऌं नमो दक्षिणगण्डे ॡं नमो
वामगण्डे” ॥ मुग्धबोधमते तन्त्रमते च ऌकारस्य
दीर्घत्वमस्ति पाणिनिमते तु नास्ति । अत्रेदं ज्ञा-
तव्यं ऌकारस्य दीर्घत्वाभावेऽपि “ऌति ॡवा”
इति वार्त्तिकोक्तेः ॡकार एव तत्र विधेयः । तेन
होतॣकार इत्यादौ ॡकारस्य व्यवहारः । मुग्ध-
बोधेऽपि एतदनुसारेण एकमात्रद्विमात्रत्रिमा-
त्रापेक्षा “ऌत्रयम्” इत्युक्तन्तेन न विरोधः ॥)

, व्य, देवनारी । नार्य्यात्मा । माता । इति मेदिनी ॥

ॡः, स्त्री, दैत्यस्त्री । इत्येकाक्षरकोषः ॥ दनुजमाता ।

कामधेनुमाता । इति कश्चिदेकाक्षरकोषः ॥

ॡः, पुं, सर्व्वः । महादेवः । इति कश्चिदेकाक्षरकोषः ॥

"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/ऋ&oldid=195241" इत्यस्माद् प्रतिप्राप्तम्