पृष्ठ २/०३५

करेणुसुतः, पुं, (करेणुशास्त्रकरणाय उत्पन्नः सुतः ।)

मुनिविशेषः । इति त्रिकाण्डशेषः ॥ (करेणोः सुतः ।
इति व्युत्पत्त्या करभः ॥)

करेणूः, पुं, स्त्री, (कृ + एनूः ।) हस्ती । हस्तिनी ।

इत्यमरटीकायां रायमुकुटः ॥

करेन्दुकः, पुं, (करेण रश्मिना दीप्त्या इति यावत्

इन्दुरिव कायति शोभते । कै + कः ।) भूतृणम् ।
इति राजनिर्घण्टः ॥ (भूतृणशब्देऽस्य गुणादयो
ज्ञेयाः ॥)

करेवरः, पुं, (कीर्य्यते क्षिप्यते पाषाणः कपिभिरिति

यावत् करः तस्मिन् व्रियते उत्पद्यते ।) तुरष्कः ।
इति राजनिर्घण्टः ॥ शिलारस इति भाषा ॥

करोटं, क्ली, (कं वायुं अन्तर्वायुम् । रोटते प्रति-

हन्ति के मस्तके रोटते दीप्यते वा । रुट् + अच् ।)
शिरोऽस्थि । इति भरतो द्विरूपकोषश्च ॥

करोटिः, स्त्री, (केन वायुना अन्तर्वायुना रुठ्यते

प्रतिहन्यते । के शिरसि रोटते दीप्यते शोभते
वा । रुट् + इन् ।) शिरोऽस्थि । इत्यमरः । २ ।
६ । ६९ ॥ मातार खुलि इति भाषा ॥

करोटी, स्त्री, (करोट + गौरादित्वात् ङीष् ।) शि-

रोऽस्थि । इति भरतो द्विरूपकोषश्च ॥

कर्क, हासे । सौत्रधातुरयम् । इति कविकल्पद्रुमः ॥

(म्वां--परं--अकं--सेट् ।) कर्क्कशः । इति दुर्गादासः ॥

कर्कः, पुं, (करोति आदिष्टं पालयति “कृदाधारा-

र्च्चिकलिभ्यः कः” । उणां ३ । ४० । इति कः ।
बहुलवचनान्न ककारस्येत् संज्ञा ।) शुक्लाश्वः ।
इत्यमरः । २ । ८ । ४६ ॥ कुलीरः । दर्पणः ।
(क्रियतेऽसौ) घटः । कर्कटराशिः । (कृणोति
हिनस्ति) अग्निः । इतिहेमचन्द्रः शब्दरत्नावली
च ॥ कर्कटवृक्षः । इति राजनिर्घण्टः ॥

कर्कचिर्भिटी, स्त्री, (कर्कवत् कर्करूपा चिर्भिटी वा ।

कर्कवर्णा वा चिर्भिटी ।) चिर्भिटा । कर्कटीभेदः ।
इति राजनिर्धण्टः ॥

कर्कटः, पुं, (कर्क + अटन् प्रत्ययः ।) वृक्षविशेषः ।

तत्पर्य्यायः । कर्कः २ क्षुद्रधात्री ३ क्षुद्रामलक-
संज्ञः ४ कर्कफलम् ५ ॥ * ॥ जलजन्तुविशेषः ।
काँकडा इति भाषा । तत्पर्य्यायः । कर्कटकः २
कुलीरः ३ कुलीरकः ४ सदंशकः ५ पङ्कवासः ६
तिर्य्यग्गामी ७ । (यथाह आर्य्याशप्तती । ३२२ ।
“अयमुद्गृहीतवडिशः कर्कट इव मर्कटः पुरतः” ॥)
अस्य गुणाः । सृष्टविण्मूत्रत्वम् । भग्नसन्धातृत्वम् ।
वायुपित्तनाशित्वच्च ॥ कृष्णकर्कटगुणाः । बलका-
रित्वम् । ईषदुष्णत्वम् । अनिलापहत्वञ्च । इति
राजनिर्घण्टः ॥ * ॥ पक्षिविशेषः । इति मेदिनी
करकटिया इति भाषा ॥ पद्मकन्दः । तुम्बी ।
इति जटाधरः ॥ * ॥ मेषादिद्वादशराश्यन्तर्गत-
चतुर्थराशिः । स तु पुनर्व्वसुशेष पादेन सह पुष्या-
श्लेषाभ्यां भवति । अस्य देवता कुलीराकृतिः । स
तु पृष्ठोदयः । श्वेतवर्णः । कफप्रकृतिः । स्निग्धः ।
जलचरः । विप्रवर्णः । उत्तरदिक्स्वामी । बहु-
स्त्रीसङ्गः । बहुसन्तानश्च । अत्र जातस्य फलम् ।
कपटमनस्त्वं मृदुभाषित्वं मन्त्रित्वं अप्रवासित्वं
अऋणित्वञ्च । इति ज्योतिषम् ॥ * ॥
जन्मकालीनचन्द्राश्रितैतद्राशिफलम् ।
“श्रुतकलामलनिर्म्मलवृत्तयः
सुकृशगन्धजलाशयकेलयः ।
किल नरास्तु कुलीरगते विधौ
वसुमतः सुमतोऽर्थिलब्धयः” ॥
इति कोष्ठीप्रदीपः ॥ ० ॥ तस्योदये तन्नामकलग्नं
भवति । तस्य गणितप्राप्तपरिमाणं यथा । दश-
व्यङ्गुलाधिकपञ्चाङ्गुलप्रभे कलिकाताख्यदेशे वर्त्त-
मानोनविंशायनांश चत्वारिंशदधिकपञ्चदण्डाः ।
इति ज्योतिषम् ॥ तत्र जातफलम् ।
“कर्किलग्ने समुत्पन्नो भोगी सर्व्वजनप्रियः ॥
मिष्टान्नपानभोगी च जायते स्वजनप्रियः” ॥
इति कोष्ठीप्रदीपः ॥ (नागविशेषः । यथा पुराणम् ।
“अनन्तो वासुकीः पद्मो महापद्मस्तु तक्षकः ।
कुलीरः कर्कटः शङ्खश्चाष्टौ नागाः प्रकीर्त्तिताः” ॥)

कर्कटकः, पुं, (कर्कट एव स्वार्थे कन् ।) कुलीरः ॥

इत्यमरः । १ । १० । २१ ॥ (यथाह सुश्रुतः ।
“कृष्णकर्कटकस्तेषां बल्यः कोष्णोऽनिलापहः ।
शुक्लः सन्धानकृत् सृष्ट-विन्मूत्रोऽनिलपित्तहा” ॥)

कर्कटशृङ्गिका, स्त्री, (कर्कटतुल्यं शृङ्गं अस्याः कर्कट

शृङ्ग्येव स्वार्थे कन् ततष्टापि इत्वम् ।) कर्कट-
शृङ्गीवृक्षः । इति शब्दरत्नावली ॥
(“नीलोत्पलं मृणालञ्च यष्टी कर्कटशृङ्गिका ।
गोक्षीरैश्च द्वितीये च पीत्वा शाम्यति वेदना” ॥
इति इन्द्रजाले गर्भश्रावचिकित्सा ॥)

कर्कटशृङ्गी, स्त्री, (कर्कटस्य शृङ्गमिव दंशकमिवे-

त्यर्थः शृङ्गमग्रभागो यस्याः ।) वृक्षविशेषः । काँक-
डाशिङ्गी इति भाषा । तत्पर्य्यायः । कर्कटाख्या २
महाघोषा ३ शृङ्गी ४ कुलीरशृङ्गी ५ चक्राङ्गी ६
कुलिङ्गी ७ कासनाशिनी ८ । इति रत्नमाला ॥
घोषा ९ वनमूर्द्धजा १० चक्रा ११ शिखरी १२
कर्कटाङ्गा १३ कर्कटी १४ विषाणिका १५ कौलीरा
१६ चन्द्रास्पदा १७ बलाङ्गा १८ । अस्या गुणा ।
तिक्तत्वम् । गुरुत्वम् । उष्णत्वम् । वायुहिक्काति-
सारकासश्वासपित्तास्रनाशित्वञ्च । इति राज-
निर्घण्टः ॥

कर्कटाख्या, स्त्री (कर्कटस्याख्यैव आख्याऽस्याः ।)

कर्कटशृङ्गीवृक्षः । इति रत्नमाला ॥

कर्कटाह्वः, पुं, (कर्कटं आह्वयते स्पर्द्धते कण्टकमय-

त्वात् । आ + ह्वे + कः । कर्कट इति नाम्ना आहूयते
वा ।) विल्ववृक्षः । इति राजनिर्घण्टः ॥

कर्कटाह्वा, स्त्री, (कर्कटाह्व + टाप् ।) कर्कटशृङ्गी-

वृक्षः । इति वैद्यकम् ॥

कर्कटिः स्त्री, (करं कटति प्राप्नोति । कटः + “सर्व्व-

धातुभ्य इन्” । उणां ४ । ११७ । इति इन् । कर्कं परि-
णामे शुक्लतां अटति गच्छति वा कर्क + अट् +
इन् । शकन्ध्वादिवत् अलोपे साधुः ।) कर्कटी ।
इति शब्दरत्नावली । काँकुड इति भाषा ॥

कर्कटिनी, स्त्री, (कर्कटाकारः अस्त्यस्याः । कर्कट +

इन् ततो ङीप् ।) दारुहरिद्रा । इति राज-
निर्घण्टः ॥

कर्कटी, स्त्री, (कर्कं कण्टकं अटति गच्छति । कर्क +

अट् + इन् । शकन्ध्वादित्वात्साधुः ततो ङीष् । करं
कटति वा कटेः इन् ततो ङीष् ।) शाल्मलिफलम् ।
इति मेदिनी ॥ सर्पः । इति शब्दरत्नावली ॥ देव-
दालीलता । कर्कटशृङ्गीवृक्षः । एर्व्वारुः । वडकाँकुड्
इति भाषा । घोटिकावृक्षः । फललताविशेषः ।
काँकुड् इति भाषा ॥ तत्पर्य्यायः । कटुदली २
छर्द्दापनिका ३ पीनसा ४ मूत्रफला ५ त्रपुषा ६
हस्तिपर्णी ७ लोमशकाण्डा ८ मूत्रला ९ बहु-
कन्दा १० । इति राजनिर्घण्टः ॥ कर्कटाक्षः ११
शान्तनुः १२ । इति रत्नमाला ॥ चिर्भटी १३
वालुकी १४ एर्व्वारुः १५ त्रपुषी १६ । इति हेम-
चन्द्रः ॥ अस्या गुणाः । मधुरत्वम् । शीतत्वम् ।
तिक्तायास्तु रक्तपित्तनाशित्वम् । कफदोषकारि-
त्वञ्च । पक्वायास्तु मूत्ररोधार्त्तिनाशित्वम् । इति
राजनिर्घण्टः ॥ (तथा च भावप्रकाशे ।
“कर्कटी शीतला रूक्षा ग्राहिणी मधुरा गुरुः ।
रुच्या पित्तहरा सामा पक्वा तृष्णाग्निपित्तकृत्” ।
अस्याः पाकप्रकारस्तु ।
“त्वग्वीजरहिता प्रौढा गुलिकाकारखण्डिता ।
तलिता सुघृते तप्ते कर्कटो वाऽवलेहिता ॥
विपाण्डुखण्डं घृतदुग्धसार्द्धं
विभावितं बल्लजशर्कराभ्यां ।
कृतैलवासञ्च कदुष्णमेतत्
प्रतिक्षणं रोचनमातनोति ॥)

कर्कटुः, पुं, (कर्क निपातनात् साधुः । कर्कट + मृग-

ष्वादित्वात् कुः वा ।) करेटुपक्षी । इति शब्दरत्ना-
वली ॥ करकटिया इति भाषा ॥

कर्कन्धुः, पुं स्त्री, (कर्कं कण्टकं दधातीति । धा +

निपातनात् कुः नुम् च ।) कोलिवृक्षः । इत्यमर-
टीकायां स्वामी ॥ (वदरीफलम् । अस्य पर्य्याय-
गुणा यथा, भावप्रकाशस्य पूर्ब्बखण्डे १ मभागे ॥
“पुंसि स्त्रियाञ्च कर्कन्धुर्वदरी कोलमित्यपि ।
फेनिलं कुबलं घोटा सौवीरं वदरं महत् ।
अजप्रिया कुहा कोली विषमोभयकण्टका” ॥
तत्र वदरविशेषाणां लक्षणानि गुणाश्च ।
“पच्यमानं सुमधुरं सौवीरं वदरं महत् ।
सौवीरं वदरं शीतं भेदनं गुरुशीतलम् ॥
वृंहणं पित्तदाहास्रक्षयतृष्णानिवारणम् ।
सौवीरं लघु सम्पक्वं मधुरं कोलसुच्यते ॥
कोलन्तु वदरं ग्राहि रुच्यसुष्णञ्च वातलम् ।
कफपित्तकरञ्चापि गुरु सारकमीरितम् ॥
कर्कन्धुः क्षुद्रवदरं कथितं पूर्ब्बसूरिभिः ।
अम्लं स्यात् क्षुद्रवदरं कषायं मधुरं मनाक् ॥
स्निग्धं गुरु च तिक्तञ्च वातपित्तापहं स्मृतम् ।
शुष्कं भेद्यग्निकृत्सर्व्वं लघुतृष्णाक्लमास्रजित्” ॥
क्वचित् क्लीवेऽपि दृश्यते यथा,
“कर्कन्धुकोलवदरमामं पित्तकफावहम् ।
पक्वं पित्तानिलहरं स्निग्धं संमधुरं सरम् ॥
पुरातनं तृट्शमनं श्रमघ्नं दीपनं लघु ।
सौवीरं वदरं स्निग्धं मधुरं वातपित्तजित्” ॥
इति सुश्रुते सूत्रस्थाने । ४६ अध्याये ॥)
पृष्ठ २/०३६

कर्कन्धूः, पुं स्त्री, (कर्कं कण्टकं दधातीति । धा +

“अन्दू दृन्फू जम्बू कम्बूकफलूकर्कन्धूदिधिषु” ।
उणां--१ । ९५ । इति कूः निपातनात् साधुः ।)
वदरीवृक्षः । इत्यमरः । २ । ४ । ३६ ॥
(यथा भागवते । ३ । ३१ । २ ।
“कलनं त्वेकरात्रेण पञ्चरात्रेण बुद्बुदम् ।
दशाहेन तु कर्कन्धूः पेश्यण्डं वा ततः परम्” ॥
कर्कन्धुशब्देऽस्या विवरणं ज्ञेयम् ॥)

कर्करं, त्रि, (कर्क + अरन् ।) कठिनम् । इति

मेदिनी ॥

कर्करं, क्ली, (कर्कं चूर्णजनकत्वेन हास्यवत् शुक्लता-

प्राकाश्यं रातीति । कर्क + रा + कः ।) चूर्णजनक-
क्षुद्रपाषाणखण्डम् । तत्पर्य्यायः । चूर्णखण्डम् २ ।
इति हारावली । काँकर घुटिं इत्यादि भाषा ॥
(“किन्नोवर्करकर्करैः प्रियशतैराक्रम्य विक्रीयते” ॥
इति अमरुशतके ७ ॥)

कर्करः, पुं, (कर्कं हासं प्रतिविम्बप्रकाशं राति ।

रा + कः । कर्क + अरन् वा ।) दर्पणः । इति
मेदिनी ॥ (नागभेदः । इति भारते १ । ३५ । १६ ॥)

कर्कराङ्गः, पुं, (कर्करतुल्यं अङ्गं यस्य ।) कालकण्ठ-

पक्षी । इति शब्दमाला ॥

कर्कराटुः, पुं, (कर्कं हासं रटति प्रकटयतीव । रट

+ कुः । कुञ् वा । णिजन्तात् कुर्वा ।) कटाक्षः ।
इति जटाधरः ॥

कर्कराटुकः, पुं, (कर्कं कठिनं कर्कशमित्यर्थः रटति

रौतीति रट + उकञ् ।) कर्करेटुपक्षी । इति
शब्दरत्नावली । करकटिया इति भाषा ॥

कर्करान्धुकः, पुं, (कर्करः कठोरः अन्धुः । अत्यन्तान्ध-

कारतया दुर्दर्शत्वात् । संज्ञायां कन् ।) अन्धकूपः ।
इति त्रिकाण्डशेषः ॥

कर्करालः, पुं, क्ली, (कर्करः रूक्षतया कठिनोपि

अलति पर्य्याप्नोति । अल + अच् ।) चूर्णकुन्तलः ।
इति हेमचन्द्रः ॥

कर्करी, स्त्री, (कर्कं हासं हास्यप्रकाशवत् निर्म्मल-

मलिलं रातीति । रा + कः + गौरादित्वात् ङीष् ।)
खल्पवारिधानिका । झारी इति भाषा । तत्प-
र्य्यायः । आलुः २ गलन्तिका ३ । इत्यमरः । २ ।
९ । ३१ ॥ अलुः ४ आरुः ५ । इति तट्टीका ॥

कर्करीका, स्त्री, (कर्करी + स्वार्थे कन् ह्रस्वो न ।)

कर्करी । इत्युणादिकोषः ॥

कर्करेटं, क्ली, (कर्कं कर्क इतिशब्दं गलेहस्तमाधाय

दूरीकुरु इत्याकारं रेटते यत्र । रेट् + अधिकरणे
घञ् ।) गलेहस्ताधानम् । गलाटिपि इति
भाषा । तत्पर्य्यायः । अर्द्धचन्द्रम् २ अङ्गुलितो-
रणम् ३ । इति हारावली ॥

कर्करेटुः, पुं, (कर्कं कर्केतिशब्दं वा रेटते भाषते

रौति इत्यर्थः । रेट् भाषणे याचने च + मृगष्वा
दित्वात् साधुः ।) करेटुपक्षी । इत्यमरः । २ । ५ ।
१९ । करकटिया इति भाषा ॥

कर्कशः, पुं, (कर्कशब्दात् मत्वर्थे लोमादित्वात् शः ।)

काम्पिल्यवृक्षः । इत्यमरः । २ । ४ । १४६ । गुँडा
रोचनी इति भाषा ॥ (व्यवहारोऽस्य यथा, चरके
विमाने ८ अध्याये ॥ “कर्कोढकवार्त्ताकुकर्कश-
काकमाचीकारवल्लीत्यादिषु” ॥) कासमर्दः । इक्षुः ।
(कृणोति हिनस्ति शत्रुं कृञ् हिंसायां + अन्येभ्यी-
ऽपीति विच् । कशति कश्शब्दे इति पचाद्यच्-
कर्चासौ कशश्चेति । करे कशति वा ।) खड्गः ॥
इति हेमचन्द्रः ॥

कर्कशः, त्रि, (कर्कात् लोमादित्वात् शः । ततः प्राग्-

वत् कृञादिधातोर्निष्पादितार्थे च ।) साहसिकः ।
कठोरः । (यथा भागवते । ३ । १७ । ११ ।
“खराश्च कर्कशैः क्षत्तः खुरैर्घ्नन्तो धरातलम्” ॥)
अमसृणः । (यथा रघौ । ३ । ४५ ।
“हरेः कुमारोऽपि कुमारविक्रमः
सुरद्विपास्फालनकर्कशाङ्गुलौ” ॥)
दुष्पर्शः । इत्यमरः । ३ । ३ । २१६ ॥ क्रूरः । निर्दयः ।
इति मेदिनी ॥ (यथा रामायणे । ५ । ४९ । ५ ।
“तस्य तद्वचनं श्रुत्वा राक्षसाः कोपकर्कशाः” ॥)
कृपणः । इति विश्वः ॥

कर्कशच्छदः, पुं, (कर्कशः छदः पत्रं यस्य ।) पटोलः ।

इति शब्दमाला ॥ शाकोटवृक्षः । शेओडा इति
भाषा । इति त्रिकाण्डशेषः ॥

कर्कशच्छदा, स्त्री, (कर्कशः अमसृणश्छदो यस्याः ।)

कोशातकी । झिङ्गाः इति भाषा । दग्धावृक्षः ।
इति राजनिर्घण्टः ॥ (झिङ्गाकेऽस्या विवरणं
ज्ञातव्यम् ॥)

कर्कशदलः, पुं, (कर्कशं दलं पत्रं अस्य ।) पटोलः ।

इति रत्नमाला ॥

कर्कशदला, स्त्री, (कर्कशंदलं यस्याः ।) दग्धावृक्षः ।

इति राजनिर्घण्टः ॥ कोशातकी । झिङ्गा इति
भाषा ॥

कर्कशवाक्यं, क्ली, (कर्कशं च तत् वाक्यञ्चेति ।) निष्ठु-

रवचनम् । परुषा वाक् । इति शब्दरत्नावली ॥

कर्कशा, स्त्री, (कर्कब्दात् लोमादित्वात् शः ततः टाप्

च ।) वृश्चिकालीवृक्षः । इति राजनिर्घण्टः ॥

कर्कशिका, स्त्री, (कर्कश + संज्ञायां कन् ततष्टाप्

अत इत्वम् ।) वनकोलिः । इति रत्नमाला ॥

कर्कसारं, क्ली, (कर्कः कर्कशः कठिनो वा सक्तुकादिः

सारो यत्र ।) करम्भकम् । दधिसक्तुः । इति
हारावली ॥

कर्कारुः, पुं, (कर्कं हास्यवत् शौक्ल्यं ऋच्छति प्राप्नो-

तीति । कर्क + ऋ + बाहुलकात् उण् ।) कुष्माण्डः ।
इत्यमरः । २ । ४ । १५५ ॥ (अस्य पर्य्यायो गुणाश्च
यथा, --
“कुष्माण्डी तु भृशं लघ्वी कर्कारुरपि कीर्त्तिता ।
कर्कारुर्ग्राहिणी शीता रक्तपित्तहरा गुरुः ॥
पक्वा तिक्ताग्निजननी सक्षारा कफवातनुत्” ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे १ मे भागे ॥ एर्व्वारु-
योगेनास्य गुणभेदोऽपि दृश्यते । तथाच सुश्रुते
सूत्रस्थाने ४६ अध्याये ।
“एर्व्वारुकं सकर्कारु सम्पक्वं कफवातकृत् ।
सक्षारं मधुरं रुच्यं दीपनं नातिपित्तलम्” ॥)

कर्कारुकः, पुं, (कर्कं हासं भोजने हितकारित्वात्

स्वादुत्वाच्च आनन्दं अर्पयतीति । कर्क + ऋ +
णिच् + उकञ् । कर्कं हासं हितजनकत्वात्
आह्लादकरत्वम् ऋच्छति वा ।) कालिङ्गवृक्षः ।
इति हारावली ॥ (तत्फलगुणा यथा, सुश्रुते
सूत्रस्थाने ४६ अध्याये ।
“त्रपुषैर्व्वारुकर्कारुकशीर्णवृन्तप्रभृतीनि ।
गुरुविष्टम्भिशीतानि स्वादूनि कफकृन्ति च ॥
सृष्टमूत्रपुरीषाणि सक्षारमधुराणि च” ॥)

कर्किः, पुं, (कर्क + इन् ।) कर्कटराशिः । इति ज्यो-

तिषम् ॥

कर्केतनं, क्ली पुं, (कर्के हास्यादो तनोतीति । कर्के +

तन् + अच् । सप्तम्या अलुक् ।) रत्नविशेषः । तदु-
त्पत्त्यादि यथा, गारुडे ७५ अध्यायः ॥
सूत उवाच ।
“वायुर्नखान् दैत्यपतेर्गृहीत्वा
चिक्षेप सम्पद्य वनेषु हृष्टः ।
ततः प्रसूतं पवनोपपन्नं
कर्केतनं पूज्यतमं पृथिव्याम् ॥
वर्णेन तद्रुधिरसोममधुप्रकाश-
माताम्रपीतदहनोज्ज्वलितं विभाति ।
नीलं पुनः खलसितं परुषं विभिन्नं
व्याध्यादिदोषकरणेन न तद्विभाति ॥
स्निग्धा विशुद्धाः समरागिणश्च
आपीतवर्णा गुरवो विचित्राः ।
त्रासव्रणव्याधिविवर्जिताश्च
कर्केतनास्ते परमाः पवित्राः ॥
पत्रेण काञ्चनमयेन तु वेष्टयित्वा
हस्ते गलेऽथ घृतमेतदतिप्रकाशम् ।
रोगप्रणाशनकरं कलिनाशनञ्च
आयुष्करं कुलकरञ्च सुखप्रदञ्च ॥
एवंविधं बहुगुणं मणिमावहन्ति
कर्केतनं शुभमलं कृतये नरा ये ।
ते पूजिता बहुधना बहुबान्धवाश्च
नित्योज्ज्वलाः प्रमुदिता अपि ते भवन्ति ।
एकेऽपनह्य विकृताकुलनीलभासः
प्रम्लानरागलुलिताः कलुषा विरूपाः ।
तेजोऽतिदीप्तिकुलपुष्टिविहीनवर्णाः
कर्केतनस्य सदृशं वपुरुद्वहन्ति ॥
कर्केतनं यदि परीक्षितवर्णरूपं
प्रत्यग्रमास्वरदिवाकरसुप्रकाशम् ।
तस्योत्तमस्य मणिशास्त्रविदा महिम्ना
तुल्यन्तुमूल्यमुदितं तुलितस्य काय्यम्” ॥
हस्ते गलेऽथधृतमेतदतिप्रकाशमित्यत्र वप्तं यदा
हुतवहे भवति प्रकाशमिति पुस्तकान्तरे पाठः ॥

कर्कोटः, पुं, (कर्क + ओटप्रत्ययः ।) नागराजविशेषः ।

इति त्रिकाण्डशेषः ॥

कर्कोटकः पुं, (कर्कं कण्टकमयत्वात् कठोरं अटति

प्राप्नोति तद्रूपतया कायति प्रकाशते । पृषोदरा-
दित्वात् ओकारादेशे साधुः ।) विल्ववृक्षः ।
(कर्कोट + संज्ञायां कन् ।) कद्रुपुत्त्रनागराज-
विशेषः । इति मेदिनी ॥ (यथा, महाभारते ।
१ । आस्तीके । ३५ । ५ ।
“ऐरावतस्तक्षकश्च कर्कोटकधनञ्जयौ” ॥)
पृष्ठ २/०३७
:इक्षुः । इति राजनिर्घण्टः ॥ फललताविशेषः ॥
काँकरोल इति भाषा । तत्पर्य्यायः । किला-
सघ्नः २ तिक्तपत्रः ३ सुगन्धकः ४ । इति हेम-
चन्द्रः ॥ अस्य गुणाः । शुक्रकफपित्तनाशित्वम् ।
रुचिकारित्वञ्च । इति राजवल्लभः ॥ (“तद्वत्
कर्कोटकं प्रोक्तम्” ॥ इति सुश्रुते । शूत्रे । ४६
अध्याये ॥ विशेषश्चास्यैर्व्वारुकशब्दे प्रदर्शितः ॥)

कर्कोटकी, स्त्री, (कर्कोटक + गौरादित्वात् ङीष् ।)

पीतघोषा वृक्षः । इति रत्नमाला ॥ (अस्याः
पर्य्यायमाह चरकः कल्पे ४ अध्याये ।
“कर्कोटकी कटुफला महाजालिनिरेव च ।
धामार्गवस्य पर्य्याया राजकोशातकी यथा” ॥
विशेषविवरणञ्चास्या धामार्गवशब्दे ज्ञातव्यम् ॥
फललताविशेषः । काँकुड इति भाषा ॥ एतद्-
फलगुणपाकादि उक्तं वैद्यके । यथा, --
“कर्कोटकी फलं कुष्ठहृल्लासारुचिनाशनम् ।
श्वासकासज्वरान् हन्ति कटुपाकञ्च दीपनम् ॥
ईषद्विभिन्नमरिचैः परिपूर्णगर्भं
तैलेन रन्धितसुसैन्धवपातयोगम् ।
वाह्लीकयुक्तपयसा विहिताभिषेकं
कर्कोटकी फलमिदं रुचिकृत्तरुण्यम्” ॥)

कर्कोटिका, स्त्री, (कर्कोट + स्वार्थे कन् तत ष्टाप्

अत इत्वञ्च ।) कर्कोटकः । काँकरोल इति भाषा ।
तत्पर्य्यायः । कुष्माण्डी २ कर्कोटी ३ । तत्फलम्
कारवेल्लकतुल्यगुणम् । इति राजनिर्घण्टः ॥

कर्च्चरिका, स्त्री, कं सुखं यथा तथा चर्य्यते उप-

युज्यते यद्वा कं जलं चुर्य्यते शून्यीक्रियतेऽत्र ।
क + चर् + वा चुर् + पृषोदरात् रेफादेशे
कनादिभिः साधुः ।) पिष्टकविशेषः । इति पाक-
राजेश्वरः । कचुरी इति भाषा ॥

कर्च्चूरं, क्ली, (कर्ज्ज + खर्ज्जूरादित्वात् ऊरः । पृषो-

दरादित्वात् जकारस्य चकारे साधुः ।) कर्व्वुरम् ।
स्वर्णम् । कच्चुरमपिपाठः । इत्यमरटीका ॥

कर्च्चूरः, पुं, (कर्ज्ज + ऊरः । पृषोदरादित्वात्

साधुः ।) वृक्षविशेषः । कचूर इति भाषा । तत्प-
र्य्यायः । द्राविडः २ कर्श्यः ३ दुर्लभः ४ गन्धमूलकः
५ वेधमुख्यः ६ गन्धसारः ७ जटालः ८ । अस्य
गुणाः । कटुत्वम् । तिक्तत्वम् । उष्णत्वम् । कफ-
कासगलगण्डादिदोषनाशित्वम् । मुखवैशद्यजनन-
त्वञ्च । इति राजनिर्घण्टः ॥ (यथा चरके सूत्रे
२७ अध्याये ।
“रोचनो दीपनो हृद्यः सुगन्धिस्त्वग्विवर्ज्जितः ।
कर्च्चूरः कफवातघ्नः श्वासहिक्कार्शसां हितः” ॥)

कर्च्चूरकः, पुं, (कर्च्चूरं स्वर्णमिव कायति प्रकाशते ।

कर्च्चूर + कै + कः । कर्च्चूर + स्वार्थे कन् वा ।)
कर्व्वूरकः । इत्यमरटीकायां स्वामी । काँचा
हलुद इति भाषा ॥

कर्ज्ज पीडे । इति कविकल्पद्रुमः ॥ (भ्वां--परं--सकं--

सेट् ।) कर्जति । इति दुर्गादासः ॥

कर्णत् क भिदि । इति कविकल्पद्रुमः ॥ (अदन्त-

चूरां--परं--सकं--सेट् ।) कर्णयति कर्णापयति ।
आङ्पूर्ब्बोऽयं श्रवणे । देवाकर्णय येन येन सहसा
यत्यत् समासादितमिति । उपसर्गात्तत्तदर्थानां
द्योतका एव न तु वाचकाः । केवलधातोरनेका-
र्थत्वेऽवश्यवक्तव्ये उपसर्गपूर्ब्बस्याप्यन्यार्थो धातोरेव
कल्प्यते लाघवात् । क्वचिदुपसर्गा धात्वर्थमेवानु-
वर्त्तन्ते । तथा च ।
“धात्वर्थं बाधते कश्चित् कश्चित्तमनुवर्त्तते ।
तमेव विशिनष्ट्यन्य उपसर्गगतिस्त्रिधा” ॥
इति विम्तरवृत्तिः ॥ क्रमेणोदाहरणानि । आदत्ते
गृह्णातीत्यर्थः । प्रसूयतेऽत्र प्रसव एव धात्वर्थः ।
प्रशब्दस्तमेवार्थं द्योतयति । प्रणमति प्रकर्षेण
नमतीत्यर्थः । केचित्तु अनर्थकोऽन्यः प्रयुज्यते । इति
चतुर्थचरणं पठन्ति तच्चिन्त्यम् । इति दुर्गादासः ॥

कर्णः, पुं, (कीर्य्यते क्षिप्यते । शब्दो वायुना यत्र ।

किरति शब्दग्रहणेन मनसि सुखं क्षिपति ददा-
तीत्यर्थः । कॄश विक्षेपे + “कॄवृजॄसीति” नन्
निच्च । उणां ३ । १० । यद्वा कर्ण्यते आकर्ण्यते
अनेन । कर्ण + करणे अप् ।) श्रवणेन्द्रियम् ।
काण् इति भाषा । तत्पर्य्यायः । शब्दग्रहः २
श्रोत्रम् ३ श्रुतिः ४ श्रवणम् ५ श्रवः ६ । इत्य-
मरः । २ । ६ । ९४ ॥ श्रौत्रम् ७ । इति तट्टीका ॥
वचोग्रहः ८ । इति राजनिर्घण्टः ॥
(यथा रघः । १ । ९ ।
“तद्गुणैः कर्णमागत्य चापलाय प्रचोदितः” ॥)
कर्णस्तु श्रवणेन्द्रियस्य गोलकं स्थानम् । तत्र श्रोत्र-
मिन्द्रियम् । तत्तु कर्णशस्कुल्यवच्छिन्ननभोभागः ।
तस्य देवता दिक् । विषयः शब्दः । इति श्री-
भागवतम् ॥ युधिष्ठिराग्रजः । स तु कुन्त्याः
कन्याकाले सूर्य्यौरसजातः । एतेन काणीन इत्या-
ख्ययापि प्रसिद्धः । अस्य जन्मादिविवरणन्तु महा-
भारते । १ । १११ अध्याये द्रष्टव्यं ॥ तत्पर्य्यायः । राधेयः
२ वसुषेणः ३ अर्कनन्दनः ४ घटोत्कचान्तकः ५
चाम्पेशः ६ सूतपुत्त्रकः ७ । इति त्रिकाण्डशेषः ॥
चाम्पाधिपः ८ अड्गराट् ९ राधासुतः १० अर्क-
तनयः ११ । इति हेमचन्द्रः ॥ अङ्गाधिपः १२ ।
इति भूरिप्रयोगः ॥ (यथा महाभारते । १ ।
सम्भवपर्ब्बणि १११ । ३१ ।
“प्राङ्नाम तस्य कथितं वसुषेण इति क्षितौ ।
कर्णो वैकर्त्तणश्चैव कर्म्मणा तेन सोऽभवत्” ॥
अयं हि दातॄणामग्रगण्यः । अस्य किमपि नादेय-
मासीत् । अन्यैरभेद्यं सहजमपि स्वदेहकवचं
शरीरात् समुत्कृत्य ब्राह्मणरूपधारिणे याच-
मानाय इन्द्राय दत्तवान् तथा उपोषितं द्विज-
रूपधारिणं विष्णुं स्वपुत्त्रमांसेन प्रीणयामास ।
एतद्विवरणन्तु जैमिनिभारते सुष्पष्टमस्त्येव । अयं
परशुरामशिष्यी महावीर्य्यः भारतयुद्धे दुर्य्योध-
नपक्षावलम्बी आसीत् । अष्ठादशदिवसव्याप्ते
भारतसंग्रामे भीष्मदेवः सेनापतिपदमधिरुह्य
दशाहं यावत् युद्धमकरोत् । ततः शरशय्यां गते
तस्मिन् द्रोणश्चतुर्द्दिनानि अयुध्यत । एतस्मि-
न्नेव समयेऽयं कर्णोऽपि स्वसेनावलमादाय पाण्डवैः
सह युयुधे । ततो गतजीविते द्रोणे सैनापत्य-
मधिरूढोसौ दिवसद्वयं वियुध्य कृष्णसहायेना-
र्ज्जुनेन निहत आसीत् ॥) सुवर्णालिवृक्षः । इति
मेदिनी ॥ (धृतराष्ट्रशतपुत्त्रेषु एकः पुत्त्रः । यथा
महाभारते १ । ११७ । ३ ।
“दुर्म्मर्षणो दुर्म्मुखश्च दुष्कर्णः कर्ण एव च” ।
नौकायाः क्षेपणीविशेषः । (दाँड इति भाषा ॥
यथा रामायणे ६ । २३ । ३० ।
“हतप्रवीरा विध्वस्ता निरुत्साहा निरुद्यमा ।
सेना भवति संग्रामे हतकर्णेव नौर्जले” ॥
कर्णः अस्त्यस्य प्राशस्त्येन । अर्श आद्यच् । दीर्घ-
कर्णे त्रि, यथा यजुर्व्वेदे । २ । ४ । ४० ।
“खड्गो वैश्वदेवः श्वाकृष्णा कर्णो गर्द्दभः” ॥)

कर्णकण्डुः, पुं, (कर्णस्य कर्णे वा जातो कण्डुः ।) कर्ण-

रोगविशेषः । तस्य निदानम् । “मारुतः कफसं-
युक्तः कर्णकण्डुं करोति च” । इति माधवकरः ॥
(“कफेन कण्डुः प्रचितेन कर्णयो-
र्भृशं भवेत् स्रोतसि कर्णसंज्ञिते” ॥
इति शुश्रुते उत्तरतन्त्रे २० अध्याये ॥
चिकित्सास्य यथा ।
“विधिश्च कफहृत्सर्व्वः कर्णकण्डुमपोहति” ॥
इति तत्रैवोत्तरतन्त्रे २१ अध्याये ॥)

कर्णकीटी, स्त्री, (कर्णेस्थितः कर्णस्य भेदकः क्षुद्रः

कीटी कीटविशेषः । यद्वा कर्णयति भिनत्ति
तादृशी कीटी । कर्ण + अच् । स्वल्पः कीटः कीटी
स्वल्पार्थे ङीष् ततः कर्म्मधारयः ।) कीटविशेषः ।
काणकोटारीकेर्णै इत्यादि भाषा । तत्पर्य्यायः ।
कर्णजलौका २ शतपदी ३ । इतिहेमचन्द्रः ॥
चित्राङ्गी ४ । इति राजनिर्घण्टः ॥ पृथिका ५
कर्णदुन्दुभिः ६ । इति शब्दमाला ॥

कर्णक्ष्वेडः, पुं, (कर्णस्य कर्णे जातः क्षेडो वा ।) कर्ण-

रोगविशेषः । (तस्य लक्षणम् ।
“वायुः पित्तादिभिर्युक्तो वेणुघोषोपमं स्वनम् ।
करोति कर्णयोः क्ष्वेडं कर्णक्ष्वेडः स उच्यते” ॥
इति माधवकरः ॥ कर्णरोगशब्देऽस्यापि विस्तृत-
सनिदानचिकित्सितादिकं ज्ञेयम् ॥)

कर्णगूथं, क्ली, (कर्णस्य कर्णे स्थितं कर्णजातं वा

गूथं मलम् ।) कर्णमलम् । इति हारावली ।
काणेर खलि इति भाषा ॥

कर्णगूथकः, पुं, (कर्णगूथ + संज्ञायां कन् । कर्णगूथ-

मिव कायति वा । कै + कः ।) कर्णरोगविशेषः ।
तस्य निदानम् । यथाह माधवकरः ।
“पित्तोष्मशोषितः श्लेष्मा जायते कर्णगूथकः” ॥
(“विशोषिते श्लेष्मणि पित्ततेजसा
नृणां भवेत् स्रोतसि कर्णगूथकः” ॥
इति सुश्रुते उत्तरतन्त्रे २० अध्याये ॥
चिकित्सास्य वैद्यकचक्रपाणिसंग्रहे ॥ यथा,
“क्लेदयित्वा तु तैलेन स्वेदेन प्रविलाप्य च ।
शोधयेत् कर्णगूथन्तु भिषक् सम्यक् शलाकया” ॥)

कर्णजलूका, स्ती, (कर्णस्य कर्णेवा जलूका इव ।)

कर्णकीटी । इति शब्दरत्नावली ॥

कर्णजलौका, स्त्री, (कर्णे जलौकेव ।) शतपदी ।

इत्यमरः । २ । ५ । १३ ॥

कर्णजलौकाः, [स्] स्त्री, (कर्णे जलौका इव ।) कर्ण-

पृष्ठ २/०३८
:जलौका । इत्यमरटीकायां भरतः ॥

कर्णजाहं, क्ली, (कर्णस्य मूलम् । “तस्य पाकमूले”

५ । २ । २४ इत्यादिना जाहच् ।) कर्णमूलम् ।
इति व्याकरणम् ॥

कर्णजित्, पुं, (कर्णं जितवान् । कर्ण + जि + क्विप् भूते

वर्त्तमाने च इति भूते क्विप् तुगागमश्च ।) अ-
र्ज्जुनः । इति हेमचन्द्रः ॥

कर्णदर्पणः, पुं, (कर्णे दर्पण इव ।) ताडङ्कनामकर्ण-

भूषणम् । इति त्रिकाण्डशेषः । काणतड्का इति
भाषा ॥

कर्णदुन्दुभिः, स्त्री, (कर्णे कर्णाभ्यन्तरे प्रविश्य ध्वनि-

जनकतया दुन्दुभिरिव ।) कर्णकीटी । इति शब्द-
माला ॥

कर्णधारः, पुं, (कर्णं धरति धारयति वा । कर्ण + धृ

+ “कर्म्मण्यण्” ३ । २ । १ । इति अण् ण्यन्तादच्
वा ।) नाविकः । इत्यमरः । १ । १० । १२ ॥ काण्डारि
माजि इत्यादि भाषा ॥ (यथा हितोपदेशे । ३ । ४ ।
“यदि न स्यान्नरपतिः सम्यङ्नेता ततः प्रजा ।
अकर्णधारा जलधौ विप्लवेतेह नौरिव” ॥)

कर्णपाली, स्त्री, (कर्णं पालयति स्वीयौज्ज्वल्येन

अतीव शोभां सम्पादयतीति । कर्ण + पाल +
“कर्म्मण्यण्” । ३ । २ । १ । इति अण् । गौरा-
दित्वात् ङीष् ।) कर्णान्दूः । इति हारावली ।
काण्बाला इति भाषा ॥

कर्णपिशाची, स्त्री, (कर्णं स्वरूपं पिनष्टीति । कर्ण +

पिश् + क्विप् । कर्णपिट् अज्ञानं तदाचयति नाश-
यति स्वरूपदर्शनेन । ततः आ + चि + णिच्
अच् ङीष् च ।) देवीविशेषः । तन्मन्त्रादि यदुक्तं
तन्त्रान्तरे ।
“कर्णास्येक्षणलोहितो वकगतोऽनन्तश्चिकारो वदा-
तीतानागतशब्दयुक्तभुवनेशी वह्निजायान्विता ।
ताराद्यो मनुरेष लक्षजपतो व्यासेन संसेवितः
सार्व्वज्ञंलभतेऽचिरेण नियतंपैशाचिकी भक्तितः” ॥
अस्यार्थः । कर्णः स्वरूपः । आस्ये आदौ ईक्षणं
इकारः । तत्युक्तो लोहितः पकारः । वकः श-
कारः । स अनन्तयुक्त आकारयुक्तः । चि स्वरू-
पम् । वदातीतानागतं स्वरूपम् । ततो ह्रीँ स्वाहा ।
एतेन ॐ कर्णपिशाचि वदातीतानागतं ह्रीँ
स्वाहा ॥ * ॥ मन्त्रान्तरम् ।
“कह युग्मं कालिके च गृह्ण युग्मं तथैव च ।
पिण्डं पिशाचि स्वाहेति नृपार्णः कथितः प्रिये” ॥
कह कह कालिके गृह्ण गृह्ण पिण्डं पिशाचि
स्वाहा ॥ * ॥ ध्यानं यथा ।
“कृष्णां रक्तविलोचनां त्रिनयनां खर्ब्बञ्च लम्बोदरीं
बन्धूकारुणजिह्विकां वरवराभीयुक्करामुन्मुखीम् ।
धूम्रार्च्चिर्जटीलां कपालविलसत्पाणिद्वयां चञ्चलां
सर्व्वज्ञां शवहृत्कृताधिवसतों पैशाचिकों तां नुमः” ॥
अथ पूजा ।
“निशायामर्द्धरात्रौ च हृदि न्यस्य पिशाचिकीम् ।
दग्धमीनं बलिं दत्त्वा रात्रौ संपूज्य संजपेत्” ॥
ओम् कर्णपिशाचि दग्धमीनबलिं गृह्ण गृह्ण मम
सिद्धिं कुरु कुरु स्वाहेति दग्धमीनं बलिं दद्यात् ।
“रक्तचन्दनबन्धूकजवापुष्पादिकञ्च यत् ।
अमृतं कुरु देवेशि स्वाहेति प्रोक्षयेज्जलैः” ॥
पूर्ब्बाह्णे किञ्चिज्जप्त्वा मध्याह्ने एकभक्तं निरा-
मिषं भुक्त्वा रात्रावपि तत् संख्यं जपेत् । अन्यत्
किञ्चिन्न भोक्तव्यं ताम्बूलादिकं विना । जपस्य दशांशं
तर्पणम् । ओम् कर्णपिशाचीं तर्पयामि ह्रीँ
स्वाहा । एवं क्रमेण लक्षमेकं पुरश्चरणं कृत्वा
दशांशं होमयेत् । तदभावे दशांशं तर्पणं कृत्वा
वरं प्रार्त्थयेत् । मूलं रक्तचन्दनेन लिखित्वा यन्त्रो-
परि इष्टदेवतां पूजयेत् ॥ * ॥
अथ सिद्धिलक्षणमुच्यते । गगनेहूँकारादिश्रव-
णदीर्घाग्निशिखारूपसन्दर्शनात् सिद्धिर्भविष्य-
तीति ज्ञात्वा तथाविधमाचरेत् ॥ * ॥
मन्त्रान्तरम् । “प्रणवं माया कर्णपिशाचि मे
कर्णे कथय हूँ फट् स्वाहा” । इति प्रदीपतैलं
पादयोर्दत्त्वा रात्रौ लक्षं जपेत् । ततः सर्व्वज्ञो
भवति । नास्याः पूजा ध्यानम् ॥ * ॥ तथा तारं
कामवीजं जयादेवी स्वाहा । अस्या अपि ऋष्या-
दिन्यासादेरभावः । पूर्ब्बं लक्षं जप्त्वा गृहगोधिकां
निपात्य तदुपरि जयादेवीं यथाशक्ति सम्पूज्य
तावत् जपेत् यावत् सा जीवति । ततः सिध्यति ।
सिद्धिस्तु मानसादिप्रश्ने कृते सा आयाति तत-
स्तस्याः पृष्ठे सर्व्वं भूतभविष्यदादिकं पश्यति ।
इति कृष्णानंन्दकृततन्त्रसारः ॥

कर्णपुष्पः, पुं, (कर्णवत् कर्णाकृति पुष्पं यस्य । यद्वा

कर्णभूषणार्हं पुष्पं यस्य ।) मोरटलता । इति
राजनिर्घण्टः ॥

कर्णपूः, [र्] स्त्री, (कर्णस्य सूर्य्यौरसजातस्य कुन्त्याः

प्रथमपुत्त्रस्य पूः पुरम् ।) कर्णराजपुरम् । तत्प-
र्य्यायः । चम्पा २ मालिनी ३ लोमपादपूः ४ ।
इति हेमचन्द्रः ॥

कर्णपूरः, पुं, (कर्णं पूरयति अलंकरोतीति । कर्ण +

पूर् + उपपदेकर्म्मण्यण् इति अण् ।) शिरीषवृक्षः ।
नीलोत्पलम् । अवतंसः । इति मेदिनी ॥ (यथा,
अमरुशतके १ ।
“ज्याकृष्टिबद्धखटकामुखपाणिपृष्ठ-
प्रेङ्खन्नखांशुचयसम्बलितोऽम्बिकायाः ।
त्वां पातु मञ्जरितपल्लवकर्णपूर-
लोभभ्रमद्भ्रमरविभ्रमभृत्कटाक्षः” ॥)
अशोकवृक्षः । इति राजनिर्घण्टः ॥

कर्णपूरकः, पुं, (कर्णं पूरयति अवतंसयति । कर्ण +

पूर + ण्वुल् । यद्वा कर्णपूर स्वार्थे कन् । शिरीष
वृक्षः । नीलोत्पलम् । अशोकवृक्षः । एतेषां
सर्व्वैरेव कुसुमैः कामिनीनां कर्णाभरणं स्यात्
अतोऽस्य तथात्वम् ।) कदम्बवृक्षः । इति राज-
निर्घण्टः ॥ (कदम्बशब्देऽस्य विवरणं ज्ञातव्यम् ॥)

कर्णप्रतिनाहः, पुं, (कर्णे जातः प्रतिनाहः रोग-

विशेषः ।) कर्णरोगविशेषः । तस्य सम्प्राप्तिरूपे ।
“सकर्णगूथो द्रवतां यदा गतो
विलायितो घ्राणमुखं प्रपद्यते ।
तदा स कर्णप्रतिनाहसंज्ञितो
भवेद् विकारः शिरसोऽर्द्धभेदकृत्” ॥
इति माधवकरः ॥ (अस्य चिकित्सा यथा, --
“अथ कर्णप्रतीनाहे स्नेहस्वेदौ प्रयोजयेत् ।
ततो विरिक्तशिरसः क्रियां प्राप्तां समाचरेत्” ॥
इति वैद्यकचक्रपाणिसंग्रहे कर्णरोगाधिकारः ॥)

कर्णफलः, पुं, (कर्णः फलमिव यस्य ।) मत्स्यविशेषः ।

काणलि माच् इति भाषा ॥ अस्य गुणः । अजीर्ण-
रोगश्लेष्मकारित्वम् । इति राजवल्लभः ॥

कर्णमलं, क्ली, (कर्णस्य मलं गूथम् ।) कर्णजमलम् ।

तत्पर्य्यायः । कर्णगूथम् २ । इति हारावली ॥

कर्णमुकुरः, पुं, (कर्णे मुक्रुरः दर्पण इव ।) ताडङ्कना-

मकर्णभूषणम् । इति भूरिप्रयोगः ॥

कर्णमोटी, स्त्री, (कर्णं कर्णोपलक्षितरोगविशेषं

मीटयति नाशयतीति । यद्वा कर्णं शरीरभेदिरोग-
विशेषं मीटयतीति । कर्ण + मुट् + इन् वा ङीप् ।)
चामुण्डादेवी । इति हेमचन्द्रः ॥

कर्णरोगः, पुं, (कर्णस्य कर्णेगतः कर्णे जातो वा रोगः ।)

श्रवणव्याधिः । यथा । अथ कर्णरोगाधिकारः ।
तत्र कर्णरोगाणां नामानि सङ्ख्याञ्चाह ।
“कर्णशूलं प्रणादश्च बाधिर्य्यं क्ष्वेड एव च ।
कर्नस्रावः कर्णकण्डूः कर्णगूथस्तथैव च ॥
प्रतिनाहो जन्तुकर्णो विद्रधिर्विविधस्तथा ।
कर्णपाकः पूतिकर्णस्तथैवार्शश्चतुर्व्विधम् ॥
तथार्व्वुदं सप्तविधं शोफश्चापि चतुर्व्विधः ।
एते कर्णगता रोगा अष्टाविंशतिरीरिताः” ॥ * ॥
तेषु कर्णशूलस्य संप्राप्तिपूर्ब्बकं लक्षणमाह ।
“समीरणः श्रोत्रगतोऽन्यथा चरन्
समन्ततः शूलमतीव कर्णयोः ।
करोति दोषैश्च यथास्वमावृतः
स कर्णशूलः कथितो दुराचरः” ॥
अन्यथाचरन् प्रतिलोमं चरन् । दोषैः पित्तकफ-
रक्तैः । रक्तस्यापि रुजादिकर्त्तृत्वेन दोषसाम्यात्
दोषत्वमेव । यथास्वं यथात्मीयनिदानं कुपितैः
अथवा यथास्वमिति शूलविशेषणम् । दुराचरः
दुरुपचरः मूर्च्छाद्युपद्रवयोगात् ॥ * ॥
कर्णशूलस्यासाध्यतां चाह ।
“मूर्च्छा दाहो ज्वरः काशः क्लमोऽथ वमथुस्तथा ।
उपद्रवाः कर्णशूले भवन्त्येते मरिष्यतः” ॥ * ॥
कर्णनादस्य लक्षणमाह ॥
“कर्णस्रोतःस्थिते वाते शृणोति विविधान् स्वनान् ।
भेरीमृदङ्गशङ्खानां कर्णनादः स उच्यते” ॥ * ॥
बाधिर्य्यलक्षणमाह ।
“यदा शब्दवहो वायुः स्रोतसावृत्य तिष्ठति ।
शुद्धश्लेष्मान्वितो वापि बाधिर्य्यं तेन जायते” ॥ * ॥
असाध्यबाधिर्य्यमाह ।
“बाधिर्य्यं बालवृद्धोत्थं चिरोत्थञ्च विवर्ज्जयेत्” ॥ * ॥
क्ष्वेडमाह ।
“वायुःपित्तादिभिर्युक्तो वेणुघोषसमस्वनम् ।
करोति कर्णयोः क्ष्वेडं कर्णक्ष्वेडः स उच्यते” ॥
क्ष्वेडशब्दार्थं व्यनक्ति । वेणुघोषसमस्वनमिति ।
यत उक्तम् । क्ष्वेडनं वेणुघोषवदिति । ननु कर्ण-
नादकर्णक्ष्वेडयोः को भेदः । उच्यते । कर्णनादः
केवलेन वातेन जन्यते तत्र नानाशब्दांश्च शृणोति ।
पृष्ठ २/०३९
:कर्णक्ष्वेडस्तु पित्तादियुक्तेन वातेन जन्यते तत्र
नियमेन वेणुघोषमिव शृणोतीति भेदः ॥ * ॥
कर्णस्रावमाह ।
“शिरोऽभिघातादथवा निमज्जतो
जलप्रपाकादथवापि विद्रधेः ।
स्रवेद्विपूयं श्रवणोऽनिलादितः
स कर्णसंस्राव इति प्रकीर्त्तितः” ॥
पूयमित्युपलक्षणं जलं रसञ्च स्रावयेत् ॥
श्रवणशब्दः पुंलिङ्गोऽप्यस्ति ॥ * ॥ कर्णकण्डूमाह ।
“मारुतः कफसंयुक्तः कर्णे कण्डूं करोति हि” ॥ * ॥
कर्णगूथमाह ।
“पित्तोष्मशोषितः श्लेष्मा कुरुते कर्णगूथकम्” ॥
कर्णे गूथं यस्मात् स कर्णगूथव्याधिः ॥ * ॥
प्रतिनाहमाह ।
“स कर्णगूथो द्रवतां यदा गतो
विलापितो घ्राणमुखं प्रपद्यते ।
तदा स कर्णप्रतिनाहसंज्ञितो
भवेद्विकारः शिरसोऽर्द्धभेदकृत्” ॥
घ्राणञ्च मुखञ्च एकत्वं द्वन्दे । शिरसोऽर्द्धभेदकृत्
अर्द्धावभेदकाख्यशिरोरोगकृत् ॥ * ॥
कृमिकर्णमाह ।
“यदा तु मूर्च्छत्यथवात्र जन्तवः
सृजत्यपत्यान्यथवापि मक्षिकाः ।
तदञ्जनत्वात् श्रवणो निरुध्यते
भिषग्भिराद्यैः कृमिकर्णको गदः” ॥
तदञ्जणत्वात् कृमिलक्षणत्वात् ॥ श्रवणे कृमि-
कर्णको गदो निरुध्यत इत्यन्वयः ॥ * ॥
पतङ्गादिषु कर्णप्रविष्टेषु लक्षणमाह ।
“पतङ्गाः शतपद्यश्च कर्णश्रोत्रं प्रविश्य हि ।
अरतिं व्याकुलत्वञ्च भृशं कुर्व्वन्ति वेदनाम् ॥
कर्णो निस्तुद्यते तस्य तथा फरफरायते ।
कोटे चरति रुक् तीव्रा निस्यन्दे मन्दवेदना” ॥
निस्यन्दे निश्चले ॥ * ॥ द्विविधकर्णविद्रधिमाह ।
“क्षताभिघातप्रभवस्तु विद्रधि-
र्भवेत्तथा दोषकृतोऽकरः पुनः ।
सरक्तपीतारुणमस्रमास्रवेत्
प्रतोदधूमायनदाहचोषवान्” ॥
क्षतप्रभवोघातप्रभवश्च तयोरथागन्तुजत्वादैक्यम् ॥
अस्रं आस्रावमित्यर्थः ॥ * ॥ कर्णपाकमाह ।
“कर्णपाकस्तु पित्तेन कोथविक्लेदकृद्भवेत्” ।
कोथः पूतिभावः । क्लेद आर्द्रता ॥ * ॥
पूतिकर्णमाह ।
“कर्णविद्रधिपाकाद्वा सकर्णो वारिपूरणात् ।
पूयं स्रवति यत् पूतिं स ज्ञेयः पूतिकर्णकः” ॥ * ॥
कर्णस्रावाद्भेदार्थमाह ।
पूतन्ति नियमेन पूति यथा स्यादेवं स्रवति ॥ * ॥
कर्णगतानां शोथार्व्वुदार्शसां लक्षणान्याह ।
“कर्णशोथार्व्वुदार्शांसि जानीयादुक्तलक्षणैः” ॥
कणशोथाश्च चत्वारो वातपित्तकफरक्तजाः ।
एवमर्शोऽपि चतुर्व्विधम् । अन्येषां शोथानामर्श-
साञ्चात्रासम्भव आधारप्रभावात् ॥ अर्व्वुदं सप्त-
विधम् । वातपित्तकफरक्तमांसमेदःसिराजम् ॥
एते कर्णरोगा अष्टाविंशतिः सुश्रुतोक्ता उक्ताः ॥ * ॥
इदानीं चरकोक्तकर्णरोगचतुष्टयं वातपित्तकफ-
सन्निपातकृतमाह । तत्र वातजमाह ।
“नादोऽतिरुक् कर्णतले तु शोथः
स्रावस्तनुश्चास्रवणञ्च वातात्” ॥ * ॥
पित्तजमाह ।
“शोथः सरागो दरणं विदाहः
सपूतिपीतस्रवणञ्च पित्तात्” ॥ * ॥
कफजमाह ।
“वैस्रुत्य कण्डूस्थिरशोथशुक्ल-
स्निग्धस्त्वतिस्वल्परुजः कफाच्च” ॥
वैस्रुत्यं अन्यथा स्रावणम् ॥ * ॥
त्रिदोषजमाह ।
“सर्व्वाणि रूपाणि च सन्निपातात्
स्रावश्च तत्राधिकदोषवर्णः” ॥ * ॥
कर्णपाल्याः सकर्णावयवत्वात् तद्विकारमप्यत्रैवाह ।
तत्र सनिदानं परिपोटकलक्षणमाह ॥
“सौकुमार्य्यात् चिरोत्सृष्टे सहसैवातिवर्द्धिते ।
कर्णशोथो भवेत् पाल्यां सरुजः परिपोटवान् ॥
कृष्णारुणानिभः स्तब्धः सवातात् परिपोटकः” ॥ * ॥
उत्पातमाह ।
“गुर्व्वाभरणसंयोगात् ताडनात् घर्षणादपि ।
शोथः पाल्यां भवेत् स्रावो दाहपाकरुजान्वितः ॥
रक्ते वा रक्तपित्ताभ्यामुत्पातः स गदः स्मृतः” ॥ * ॥
उन्मन्थकमाह ।
“कर्णं बलाद्वर्द्धयतः पाल्यां वायुः प्रकुप्यति ।
कफं संगृह्य कुरुते शोथस्तब्धमवेदनम् ॥
उन्मन्थकः सकण्डूको विकारः कफवातजः” ।
अवेदनं ईषद्वेदनम् ॥ * ॥ दुःखवर्द्धनमाह ।
“संवर्द्ध्यमाने दुर्व्विद्धे कण्डूदाहरुजान्वितः ।
शोथो भवति पाकश्च त्रिदोषो दुःखवर्द्धनः” ॥
संवर्द्ध्यमाने दुर्व्विद्धे कर्ण इति शेषः ॥ * ॥
परिलेहिनमाह ।
“कफासृक् कृमयः क्रुद्धाः सर्षपाभा विसारिणः ।
कुर्व्वन्ति पिडकां पाल्यां कण्डूदाहसमन्विताम् ॥
कफासृक्कृमिसम्भूतः स विसर्पान्वितस्ततः ।
लिह्यात् सशस्कुलीं पालीं परिलेही स च स्मृतः” ॥
स पीडकात्मकः परिलेहिसंज्ञो गदः । लिह्यात्
निर्मांसीकुर्य्यात् ॥ * ॥
अथ कर्णरोगाणां चिकित्सा ।
“कर्णशूले कर्णनादे बाधिर्य्ये क्ष्वेड एव च ॥
चतुर्ष्वपि च रोगेषु सामान्यं मेषजं स्मृतम् ।
शृड्गवेरञ्च मधु च सैन्धवं तैलमेव च ।
कदुष्णं कर्णयोर्धार्य्यमेतत् स्याद्वेदनापहम्” ॥ १ ॥
“लशुनार्द्रकशिग्रूणां वारुण्या मूलकस्य च ।
कदल्याः स्वरसः श्रेष्ठः कदुष्णः कर्णपूरणे” ॥
वारुणी वरुणः ॥ २ ॥
“अर्काङ्कुरानम्लपिष्टान् सतैलान् लवणान्वितान् ।
सन्निदध्यात् सुधाकाण्डे कोरिते मृतयावृते ॥
पुटपाकक्रमस्विन्नं पीडयेदारसागमात् ।
सुखोष्णं तद्रसं कर्णेप्रक्षिपेच्छूलशान्तये” ॥ ३ ॥
“अर्कस्य पत्रं परिणामपीत-
माज्येन लिप्तं शिखियोगतप्तम् ।
आपीड्य तस्याम्बुसुखोष्णमेव
कर्णे निषिक्तं हरतेऽतिशूलम्” ॥ ४ ॥
“तीव्रशूलातुरे कर्णे सशब्दे क्लेदवाहिनि ।
छागमूत्रं प्रशंसन्ति कोष्णं सैन्धवसंयुतम् ॥ ५ ॥
तैलं श्योणाकमूलेन मन्देऽग्नौ विधिना शृतम् ।
हरेदाशु त्रिदोषोत्थं कर्णशूलं प्रपूरणात् ॥ ६ ॥
हिङ्गुसैन्धवशुण्ठीभिस्तैलं सर्षपसम्भवम् ।
विपक्वं हरतेऽवश्यं कर्णशूलं प्रपूरणात् ॥ ७ ॥
कर्णशूले कर्णनादे बाधिर्य्ये क्ष्वेड एव च ।
पूरणं कटुतैलेन हितं वातघ्नमौषधम् ॥ ८ ॥
शिखरीक्षारजवारा तत्कृतकल्केन साधितं तैलम् ।
अपहरति कर्णनादं बाधिर्य्यञ्चापि पूरणतः” ॥
शिखरी अपामार्गः ॥ ९ ॥
“गवां मूत्रेण विल्वानि पिष्ट्वा तैलं विपाचयेत् ।
सजलञ्च सदुग्धञ्च तद्बाधिर्य्यहरं परम्” ॥
क्षीरमात्रं ग्राह्यम् । विल्वतैलम् ॥ १० ॥
“कर्णस्रावे पूतिकर्णे तथैव कृमिकर्णके ।
सामान्यं कर्म्म कुर्व्वीत योगान् वैशेषिकानपि ॥ ११ ॥
स्वर्जिकाचूर्णसंयुक्तवीजपूररसं क्षिपेत् ।
कर्णस्रावरुजा दाहास्तेन नश्यन्त्यसंशयम् ॥ १२ ॥
आम्रजम्बूप्रबालानां मधुकस्य वटस्य च ।
एमिस्तु साधितं तैलं पूतिकर्णगदं हरेत् ॥ १३ ॥
जातीपत्ररसे तैलं विपक्वं पूतिकर्णजित् ॥ १४ ॥
सृष्टं रसाञ्जनं नार्य्याः क्षीरंक्षौद्रेण संयुतम् ।
प्रशस्यते चिरोत्थे तत् सस्रावे पूतिकर्णके ॥ १५ ॥
कुष्ठहिङ्गुवचादारुशताह्वाविश्वसैन्धवैः ।
पूतिकर्णापहं तैलं वस्तमूत्रेण साधितम्” ॥
कुष्ठादितैलम् ॥ १६ ॥
“शम्बूकस्य तु मांसेन कटुतैलं विपाचयेत् ।
तस्य पूरणमात्रेण कर्णनाडी प्रशाम्यति” ॥
शम्बूकाद्यं तैलम् ॥ १७ ॥
“चूर्णेन गन्धकशिलारजनीभवेन
मुष्ट्यंशकेन कटुतैलपलाष्टके तु ।
धत्तूरपत्ररसतुल्यमिदं विपक्वं
नाडीं जयेच्चिरभवामपि कर्णजाताम्” ॥
मुष्टिः पलम् । निशा तैलम् ॥ १८ ॥
“कृमिकर्णविनाशाय कृमिघ्नीं कारयेत् क्रियाम् ।
वार्त्ताकुधूमश्च हितः सार्षपस्नेह एव च ॥ १९ ॥
पूरणं हरितालेन गव्यमूत्रयुतेन च ।
धूपने कर्णदौर्गन्धे गुग्गुलुः श्रेष्ठ उच्यते ॥ २० ॥
चिकित्सा कर्णशोथानां तथा कर्णार्शसामपि ।
कर्णार्व्वुदानां कुर्व्वीत शोथार्शोऽर्व्वुदवद्भिषक्” ॥ * ॥
अथ कर्णपालीविकाराणां चिकित्सा ।
“पालीसंशोषणे कुर्य्यात् वातकर्णरुजक्रियाम् ।
स्वेदयेत्यत्नतस्ताञ्च स्विन्नां संवर्द्धयेत्तिलैः ॥ १ ॥
शतावरीवाजिगन्धापयस्यैरण्डवीजकैः ।
तैलं विपक्वं सक्षीरं पालीं संवर्द्धयेत् सुखम्” ॥
पयस्यत्र क्षीरकाकोली । शतावरीतैलम् ॥ २ ॥
“जीवनीयस्य कल्केन तैलं दुग्धेन पाचयेत् ।
चिकित्सेत्तेन तैलेन हतास्रं परिपोटकम् ॥ ३ ॥
शीतलेपैर्जलौकाभिरुत्पातं समुपाचरेत् ॥ ४ ॥
पृष्ठ २/०४०
:हलिनीसुरसाभ्याञ्च गोधाकङ्कवसान्वितम् ।
तैलं विपक्वमभ्यङ्गादुन्मन्थं नाशयेद्ध्रुवम् ॥ ५ ॥
दुःखवर्द्धनकं सिक्त्वा जम्व्वाम्रविल्वपत्रजैः ।
क्वाथैस्तैलेन सुस्निग्धं तच्चूर्णैश्चावधूनयेत् ॥
बहुशो गोमयैस्तप्तैः स्वेदितं परिलेपितम् ।
घनसारैः समालिम्पेदजामूत्रेण कल्कितैः” ॥ ६ ॥
इति कर्णरोगाधिकारः । इति भावप्रकाशः ॥ * ॥
(“प्रतिश्यायजलक्रीडाकर्णकण्डूयनैर्मरुत् ।
मिथ्यायोगेन शब्दस्य कुपितोऽन्यैश्च कोपनैः ॥
प्राप्य श्रोत्रशिराः कुर्य्याच्छूलं स्रोतसि वेगवत् ।
अर्द्धावभेदकं स्तम्भं शिशिरानभिनन्दनम् ॥
चिराच्च पाकं पक्वन्तु लसिकामल्पशः स्रवेत् ।
श्रोत्रं शून्यमकस्माच्च स्यात् सञ्चारविचारवत् ॥
शूलं पित्तात् सदाहोषा शीतेच्छाश्वयथुं ज्वरम् ।
आशुपाकं प्रपक्वञ्च स पीतलसिकास्रुतिः ॥
सा लसीकास्पृशेद्यद्यत्तत्तत्पाकमुपैति च ।
कफाच्छिरोहनुग्रीवा गौरवं मन्दतारुजः ॥
कण्डूः श्वयथुरुष्णेच्छा पाकात् श्वेतधनास्रुतिः ।
करोति श्रवणे शूलमभिघातादिदूषितम् ॥
रक्तं पित्तसमानार्त्ति किञ्चिद्वाधिकलक्षणम् ।
शूलं समुदितैर्दोषैः सशोफज्वरतीव्ररुक् ॥
पर्य्यायादुष्णशीतेच्छं जायते श्रुतिजाड्यवत् ।
पक्वं सितासितारक्तघनपूय प्रवाहि च ॥
शब्दवाहिशिरासंस्थे शृणोति पवने मुहुः ।
नादानकस्माद्विविधान् कर्णनादं वदन्ति तम् ॥
श्लेष्मणानुगतो वायुर्नादो वा समुपेक्षेतः ।
उच्चैः कृच्छ्राच्छ्रुतिं कुर्य्याद्वधिरत्वं क्रमेण च ॥
वातेन शोषितः श्लेष्मा स्रोतो लिम्पेत्ततो भवेत् ।
रुम्गौरवं पिधानञ्च सप्रतीनाह संज्ञितः ॥
कण्डूशोफौ कफात् श्रोत्रे स्थिरौ तत्संज्ञया स्मृतौ ।
कफो विदग्धः पित्तेन सरुजं नीरुजन्त्वपि ।
घनपूति बहुक्लेदं कुरुते पूतिकर्णकम् ।
वातादिदूषितं श्रोत्रं मांसासृक्क्लेदजां रुजम् ॥
खादन्तो जन्तवः कुर्य्युस्तीव्रां सक्रिमिकर्णकः ।
श्रोत्रकण्डूयनाज्जाते क्षते स्यात् पूर्ब्बलक्षणः ॥
विद्रधिः पूर्ब्बवच्चान्यः शोफोऽर्शोऽर्व्वुदमीरितम् ।
तेषुरुक् पूतिकर्णत्वं बधिरत्वञ्च बाधते ॥
गर्भेऽनिलात्सङ्कुचिता शस्कुलीकुचिकर्णकः ।
एको नीरुगनेको वा गर्भे मांसाङ्कुरः स्थिरः ॥
पिप्पली पिप्पलीमानः सन्निपाताद्विदारिका ।
सवर्णः सरुजस्तब्धः श्वयथुः स उपेक्षितः ॥
कटुतैलनिभं पक्वः स्रवेत् कृच्छ्रेण रोहति ।
सङ्कोचयति रूढा च सा ध्रुवं कर्णशस्कुली ॥
शिरास्थः कुरुते वायुः पालीशोषं तदाह्वयम् ।
कृशा दृढा च तन्त्रीवत् पालीवातेन तन्त्रिका ॥
सुकुमारे चिरोत्सर्गात् सहसैव प्रवर्द्धिते ।
कर्ण शोफः सरुक्पाल्यामरुणः परिपोटवान् ॥
परिपोटः सपवनादुत्पातः पित्तशोणितात् ।
गुर्व्वाभरणभाराद्यैः श्यावो रुग्दाह पाकवान् ॥
श्वयथुः स्फोटपिटका रागोषाक्लेदसंयुतः ।
पाल्यां शोफोऽनिलकफात् सर्व्वतो निर्व्यथःस्थिरः ॥
स्तब्धः सवर्णः कण्डूमान् उन्मन्थो गल्लिरश्च सः ।
दुर्व्विद्धे वर्द्धिते कर्णेसकण्डूदाहपाकरुक् ॥
श्वयथुः सन्निपातोत्थः स नाम्ना दुःखवर्द्धनः ।
कफासृक् क्रिमिजाः सूक्ष्माः सकण्डूक्लेदवेदनाः ॥
लेह्याख्याः पिटिकास्ताहि लिह्युः पालीमुपेक्षिताः ।
पिप्पली सर्व्वजं शूलं विदारीकुचिकर्णकः ॥
एषामसाध्या याप्यैका तन्त्रिकान्यास्तु साधयेत् ।
पञ्चविंशतिरित्युक्ताः कर्णरोगविभागतः” ॥
इत्युत्तरस्थाने सप्तदशेऽध्याये वाभटेनोक्तम् ॥ * ॥
अस्य चिकित्सा तेनोक्ताष्टादशेऽध्याये, यथा, --
“कर्णशूले पवनजे पिबेद्रात्रौ रसाशितः ।
वातघ्नसाधितं सर्पिः कर्णं स्विन्नञ्च पूरयेत् ॥
पत्राणां पृथगश्वत्थविल्वार्कैरण्डजन्मनाम् ।
तैलसिन्धूत्थदिग्धानां स्विन्नानां पुटपाकतः ॥
रसैः कवोष्णैस्तद्वच्च मूलकस्यारलोरपि ।
गणे वातहरेऽम्लेषु मूत्रेषु च विपाचितः ॥
महास्नेहो द्रुतं हन्ति सुतीव्रामपि वेदनाम् ।
महतः पञ्चमूलस्य काष्ठात् क्षौमेण वेष्टितात् ॥
तैलसिक्तात् प्रदीप्ताग्रात् स्नेहः सद्यो रुजापहः ।
योज्यश्चैवं भद्रकाष्ठात् कुष्ठात् काष्ठाच्च सारलात् ॥
वातब्याधि प्रतिश्याय विहितं हितमत्र च ।
वर्ज्जयेच्छिरसा स्नानं शीताम्भःपानमह्न्यपि ॥
पित्तशूले सितायुक्तं घृतस्निग्धं विरेचयेत् ।
द्राक्षायष्टिशृतं स्तन्यं शस्यते कर्णपूरणम् ॥
यष्ट्यनन्ता हिमोशीरकाकोलीरोध्रजीवकैः ।
मृणालविषमञ्जिष्ठासारिवाभिश्च साधयेत् ॥
यष्टीमधुरसप्रस्थं क्षीरद्विप्रस्थसंयुतम् ।
तैलस्य कुडवं नस्यपूरणाभ्यञ्जनैरिदम् ॥
निहन्ति शूलदाहोषाः केवलं क्षौद्रमेव वा ।
यष्ट्यादिभिश्च सघृतैः कर्णौ दिह्यात् समन्ततः ॥
वामयेत् पिप्पलीसिद्धसर्पिः स्निग्धं कफोद्भवे ।
धूमनावनगण्डूषस्वेदान् कुर्य्यात् कफापहान् ॥
लशुनार्द्रकशिग्रूणां सुरुल्या मूलकस्य च ।
कदल्याः स्वरसः श्रेष्ठः कदुष्णः कर्णपूरणे ॥
अर्काङ्कुरानम्लपिष्टांस्तैलाक्ताँल्लवणान्वितान् ।
सन्निधाय स्नुहीकाण्डे कोरिते तच्छदावृतान् ॥
स्वेदयेत् पुटपाकेन स रसः शूलजित्परम् ।
रसेन वीजपूरस्य कपित्थस्य च पूरयेत् ॥
सूक्तेन पूरयित्वा वा फेनेनान्ववचूर्णयेत् ।
अजाऽविमूत्रवंशत्वक् सिद्धं तैलञ्च पूरणम् ॥
सिद्धं वा सार्षपं तैलं हिङ्गुतुम्बरुनागरैः ।
रक्तजेपित्तवत् कार्य्यं शिराञ्चाशु विमोक्षयेत् ॥
पक्वे पूयवहे कर्णे धूमगण्डूषनावनम् ।
युञ्ज्यान्नाडी विधानञ्च दुष्टव्रणहरञ्च यत् ॥
स्रोतः प्रमृज्य दिग्धन्तु द्वौ कालौ पिचुवर्त्तिभिः ।
पूरयेद्धूपयित्वा तु माक्षिकेण प्रपूरयेत् ॥
सुरसादिगणक्वाथफाणिताक्ताञ्च योजयेत् ।
पिचुवर्त्तिसुसूक्ष्मैश्च तच्चूर्णैरवचूर्णयेत् ॥
शूलक्लेदगुरुत्वानां विधिरेषनिवर्त्तकः ।
प्रियङ्ग मधुकाम्बष्ठा धातक्युत्पलपर्णिभिः ॥
मञ्जिष्ठलोध्रलाक्षाभिः कपित्थस्य रसेन च ।
पचेत्तैलं तदास्रावं निगृह्णात्याशु पूरणात् ॥
नादबाधिर्य्ययोः कुर्य्याद्वातशूलोक्तमौषधम् ।
श्लेष्मानुबन्धे श्लेष्माणं प्राग्जयेद्वमनादिभिः ॥
एरण्डशिग्रुवरुणमूलकात् पत्रजे रसे ।
चतुर्गुणे पचेत्तैलं क्षीरे चाष्टगुणोन्मिते ॥
यष्ट्याह्वाक्षीरकाकोलीकल्कयुक्तं निहन्ति तत् ।
नादबाधिर्य्यशूलानि नावनाभ्यङ्गपूरणैः ॥
पक्वं प्रतिविधाहिङ्गुमिषित्वक् स्वर्ज्जिकोषणैः ।
ससूक्तैः पूरणात्तैलं रुक्स्रावश्रुतिनादनुत् ॥
कर्णनादे हितं तलं सर्षपोत्थञ्च पूरणे ।
शुष्कमूलकखण्डानां क्षारो हिङ्गुमहौषधम् ॥
शतपुष्पावचाकुष्ठदारुशिग्रुरसाञ्जनम् ।
सौवर्च्चलयवक्षारस्वर्ज्जिकौद्भिदसैन्धवम् ॥
भूर्ज्जग्रन्थिविडं मुस्ता मधुसूक्तं चतुर्गुणम् ।
मातुलुङ्गरसस्तद्वत् कदलीस्वरसश्चतैः ॥
पक्वं तैलं जयत्याशु सुकृच्छ्रानपि पूरणात् ।
कण्डूं क्लेदञ्च बाधिर्य्यं पूतिकर्णञ्च रुक्क्रिमीन् ॥
क्षारतैलमिदं श्रेष्ठं मुखदन्तामयेषु च ।
अथ सुप्ताविवस्यातां कर्णौ रक्तं हरेत्ततः ॥
सशोफक्लेदयोर्मन्दस्रुतेर्वमनमाचरेत् ।
बाधिर्य्यं वर्ज्जयेद्बालवृद्धयोश्चिरजञ्च यत् ॥
प्रतिनाहे परिक्लेद्य स्नेहस्वेदैर्विशोधयेत् ।
कर्णशोधनकेनानु कर्णौ तैलस्य पूरयेत् ॥
ससूक्तसैन्धवमधोर्मातुलुङ्गरसस्य वा ।
शोधनाद्रूक्षतोत्पत्तौघृतमण्डस्य पूरणम् ॥
क्रमोऽयं मलपूर्णेऽपि कर्णे कण्ड्वां कफापहम् ।
नस्यादितद्वच्छोफेऽपि कटूष्णैश्चात्र लेपनम् ॥
कर्णस्रावोदितं कुर्य्यात् पूतिकृमिणकर्णयोः ।
पूरणं कटुतैलेन विशेषात् कृमिकर्णके ॥
वमिपूर्ब्बाहिताकर्ण विद्रधौविद्रधिक्रिया ।
पित्तोत्थकर्णशूलोक्तं कर्त्तव्यं क्षतविद्रधौ ॥
अर्शोऽर्ब्बुदेषु नासावदामाकर्णविदारिका ।
कर्णविद्रधिवत्साध्या यथा दोषोदयेन च ॥
पालीशोषेऽनिलश्रोत्रशूलवन्नस्य लेपनम् ।
स्वेदञ्च कुर्य्यात् स्विन्नाञ्च पालीमुद्वर्त्तयेत्तिलैः ॥
प्रियालवीजयष्ट्याह्वहयगन्धा यवान्वितैः ।
ततः पुष्टिकरैः स्नेहैरभ्यङ्गं नित्यमाचरेत् ॥
शतावरी वाजिगन्धा पयस्यैरण्डजीवकैः ।
तैलं विपक्वं सक्षीरं पालीनां पुष्टिकृत्परम् ॥
कल्केन जीवनीयेन तैलं पयसि पाचितम् ।
आनूपमांसक्वाथे च पालीपोषण वर्द्धनम् ॥
पालीं छित्त्वातिसंक्षीणां शेषां सन्धाय पोषयेत् ।
याप्यैवं तन्त्रिकाख्यापि परिपाटेऽप्ययं विधिः ॥
उत्पाते शीतलैर्लेपो जलौको हृतशोणिते ।
जम्व्वाम्रपल्लवबलायष्टीरोध्रतिलोत्पलैः ॥
सधान्याम्लैः समञ्जिष्ठैः सकदम्बैः ससारिवैः ।
सिद्धमभ्यञ्जनं तैलं विसर्पोक्तघृतानि च ॥
उन्मन्थेऽभ्यञ्जनं तैलं गोधाकर्क्कवसान्वितम् ।
तालपत्राश्वगन्धार्कवाकूचीतिलसैन्धवैः ॥
सुरसालाङ्गलीभ्याञ्च सिद्धं तीक्ष्णञ्च नावनम्
दुर्व्विद्धेऽश्मन्तजम्व्वाम्रपत्रक्वाथेन सेचितम् ॥
तैलेन पालीं स्वभ्यक्तां सुश्लक्ष्णैरपि चूर्णयेत् ।
चूर्णैर्मधुकमञ्जिष्ठा प्रपुण्ड्राह्वनिशोद्भवैः ॥
लाक्षाबिडङ्गसिद्धञ्च तैलमभ्यञ्जने हितम् ।
पृष्ठ २/०४१
:स्विन्नां गोमयजैः पिण्डैर्बहुशः परिलेहिकाम् ॥
विडङ्गसारैरालिम्पेदुरभ्रीमूत्रकल्कितैः ।
कौटजेङ्गुदकारञ्जवीजशम्याकवल्कलैः ॥
अथवाम्यञ्जने तैर्वा कटुतैलं विपाचयेत् ।
सनिम्बपत्रमरिचमदनैर्लेहिकाव्रणे ॥
च्छिन्नन्तु कर्णं शुद्धस्य बन्धमालोच्य यौगिकम् ।
शुद्धास्रं लागयेल्लग्ने सद्यश्छिन्ने विशोधनम् ॥
अथ ग्रथित्वा केशान्तं कृत्वा छेदनलेखनम् ।
निवेश्य सन्धिं सुषमं न निम्नं न समुन्नतम् ॥
अभ्यज्य मधुसर्पिर्भ्यां पिचुप्लोतावगुण्ठितम् ।
सूत्रेणागाढशिथिलं बद्ध्वा चूर्णैरवाकिरन् ॥
शोणितस्थापनैर्ब्रण्यमाचारञ्चादिशेत्ततः ।
सप्ताहादामतैलाक्तं शनैरपनयेत् पिचुम् ॥
सुरूढं जातरोमाणं श्लिष्टसन्धिसमस्थिरम् ।
सुवर्ष्माणं सुरागञ्च शनैः कर्णं विवर्द्धयेत् ॥
जलशूकः स्वयं गुप्ता रजन्यौ वृहतीद्वयम् ।
अश्वगन्धा बला हस्तिपिप्पली गौरसर्षपाः ॥
मूलं कोशातकाश्वघ्नरूपिका सप्तपर्णजम् ।
छुच्छुन्दरी कालमृता गृहं मधुकरीकृतम् ॥
जन्तुका जलजन्मा च तथा शावरकन्दकम् ।
एभिः कल्कैः खरं पक्वं सतैलं माहिषं घृतम् ॥
हस्त्यश्वमूत्रेण परभभ्यङ्गात् कर्णवर्द्धनम् ।
अथ कुर्य्याद्वयस्थस्य छिन्नां शुद्धस्य नासिकाम् ॥
छिन्द्यान्नासासमं पत्रं तत्तुल्यञ्च कपोलतः ।
त्वङ्मांसं नासिकासन्ने रक्षंस्तत्तनुतां नयेत् ॥
सीव्येद्गण्डं ततः सूच्या सेविन्या पिचुयुक्तया ।
नासाच्छेदे च लिखिते परिवर्त्त्योपरित्वचम् ॥
कपोलबन्धं सन्दध्यात् सीव्येन्नासाञ्च यत्नतः ।
नाडीभ्यामुत्क्षिपेदन्तः सुखोच्छ्वासप्रवृत्तये ॥
आमतैलेन सिक्त्वा तु पतङ्गमधुकाञ्जनैः ।
शोणितस्थापनैश्चान्यैः सुश्लक्ष्णैरवचूर्णयेत् ॥
ततो मधुघृताभ्यक्तं बद्ध्वाचारिकमादिशेत् ।
ज्ञात्वावस्थान्तरं कुर्य्यात् सद्यो व्रणविधिन्ततः ॥
छिन्द्याद्रूढेऽधिकं मांसं नासोपान्ते च चर्म्मवत् ।
सीव्येत्ततश्च सुश्लक्ष्णं हीनं संवर्द्धयेत् पुनः ॥
निवेशिते यथान्यासं सद्यश्छेदेऽप्ययं विधिः ।
नाडीयोगाद्विनौष्ठस्य नासासन्धानवद्विधिः” ॥
इति वाभटे उत्तरस्थाने १८ अध्यायः ॥ * ॥
“सामान्यं कर्णरोगेषु घृतपानं रसायनम् ।
अव्यायामो ऽशिरःस्नानं ब्रह्मचर्य्यमकत्थनम् ॥
कर्णशूले प्रणादे च बाधिर्य्यक्ष्वेडयोरपि ।
चतुर्णामपि रोगाणां सामान्यं भेषजं विदुः ॥
स्निग्धं वातहरैः स्वेदैर्नरं स्नेहविरेचितम् ।
नार्डीस्वेदैरुपचरेत् पिण्डस्वेदैस्तथैव च ॥
विल्वैरण्डार्कवर्षाभूदधित्थोन्मत्तशिग्रुभिः ।
वस्तगन्धाश्वगन्धाभ्यां तर्कारीयववेणुभिः ॥
आरनालः शृतैरेभिर्नाडीस्वेदः प्रयोजितः ।
कफवातसमुत्थानं कर्णशूलं निरस्यति ॥
मीनकुक्कुटलावानां मांसजैः पयसापि वा ।
पिण्डैः स्वेदञ्च कुर्व्वीत कर्णशूलनिवारणम् ।
अश्वत्थपत्रखल्लं वा विधाय बहुपत्रकम् ।
तलाक्तमस्तसम्पूर्णं निदध्याच्छ्रवणोपरि ॥
यत्तैलं च्यवते तस्मात् खल्लादङ्गारसाधितात् ।
तत्प्राप्तं श्रवणस्नोतः सद्यो गृह्णाति वेदनाम् ॥
क्षौमगुग्गुल्वगुरुभिः सघृतैर्धूपयेच्च तम् ।
भक्तोपरि हितं सर्पिर्वस्तिकर्म्म च पूजितम् ॥
निरन्नो निशि तत्मर्पिः पीत्वोपरि पयः पिबेत् ।
मूर्द्धवस्तिषु नस्ये च मस्तिष्के परिषेचने ॥
शतपाकं बलातैलं प्रशस्तञ्चापि भोजने ।
कण्टकारीमजाक्षीरे पक्त्वा क्षीरेण तेन च ॥
विपचेत् कुक्कुटवसां कर्णयोस्तत्प्रपूरणम् ।
तण्डुलीयकमूलानि फलमङ्गोठजन्तथा ॥
अहिंस्राकेन्द्रकामूलं सरलं देवदारु च ।
लसुनं शृङ्गवेरञ्च तथा वंशावलेखनम् ॥
कल्कैरेषां तथाम्लैश्च पचेत् स्नेहं चतुर्विधम् ।
वेदनायाः प्रशान्त्यर्थं हितं तत्कर्णपूरणम् ॥
लसुनार्द्रकशिग्रूनां मुरुङ्ग्या मूलकस्य च ।
कदल्याः स्वरसः श्रेष्ठः कदुष्णः कर्णपूरणे ॥
शृङ्गवेररसः क्षौद्रं सैन्धवं तैलमेव च ।
कदुष्णं कर्णयोर्द्देयमेतद्वा वेदनापहम् ॥
वंशावलेखसंयुक्ते मूत्रे चाजाविके भिषक् ।
सर्पिः पचेत्तेन कर्णं पूरयेत् कर्णशूलिनः ॥
महतः पञ्चमूलस्य काण्डमष्टादशाङ्गुलम् ।
क्षौमेणावेष्ट्य संसिच्य तैलेनादीपयेत्ततः ॥
यत्तैलं च्यवते तेभ्यो घृतेभ्यो भाजनोपरि ।
ज्ञेयं तद्दीपिकातैलं सद्यो गृह्नाति वेदनाम् ॥
कुर्य्यादेवं भद्रकाष्ठे कुष्ठे काष्ठे च सारले ।
मतिमान्दीपिकातैलं कर्णशूलनिवर्हणम् ॥
अर्काङ्कुरानम्लपिष्टांस्तैलाक्तान् लवणान्वितान् ।
सन्निदध्यात् स्नुहीकाण्डे कोरिते तच्छदावृते ॥
पुटपाकक्रमस्विन्नान् पीडयेदारसागमात् ।
सुखोष्णं तद्रसं कर्णे दापयेच्छूलशान्तये ॥
कपित्थमातुलुङ्गाम्लशृङ्गवेररसैः शुभैः ।
सुखोष्णैः पूरयेत् कर्णं तच्छूलविनिवृत्तये ॥
कर्णं कोष्णेन चुक्रेण पूरयेत् कर्णशूलिनः ।
समुद्रफेनचूर्णेन युक्त्वा वाप्यवचूर्णयेत् ॥
अष्टानामिह मूत्राणां मूत्रेणान्यतमेन वा ।
कोष्णेन पूरयेत् कर्णं कर्णशूलोपशान्तये ॥
मूत्रेष्वम्लेषु वातघ्ने गणे च क्वथिते भिषक् ।
पचेच्चतुर्व्विधं स्नेहं पूरणं तच्चकर्णयोः ॥
एता एव क्रियाः कुर्य्यात् पित्तघ्नैः पित्तसंयुते ।
काकोल्यादौ दशक्षीरं तिक्तञ्चात्र हितं हविः ॥
क्षीरवृक्षप्रबालेषु मधुके चन्दने तथा ।
कल्कक्वाथे परं पक्वं शर्करामधुकैः सरैः ॥
इङ्गुदीसर्षपस्नेहौ सकफे पूरणे हितौ ।
तिक्तौषधानां यूषाश्च स्वेदाश्च कफनाशनाः ॥
सुरसादौ कृतं तैलं पञ्चमूले महत्यपि ।
मातुलूङ्गरसः शुक्तं लसुनार्द्रकयो रसः ॥
एकैकः पूरणे पथ्यस्तैलं तेष्वथवा कृतम् ।
तीक्ष्णा मूर्द्धविरेकाश्च कवलाश्चात्र पूजिताः ॥
कर्णशूलविधिः कृत्स्नः पित्तघ्नः शोणितावृते ।
शूलप्रणादबाधिर्य्यक्ष्वेडानान्तु प्रकीर्त्तितम् ॥
सामान्यतो विशेषेण बाधिर्य्ये पूरणं शृणु ।
गवां मूत्रेण विल्वानि पिष्ट्वा तैलं विपाचयेत् ॥
सजलञ्च सदुग्धञ्च बाधिर्य्ये कर्णपूरणम् ।
सितामधुकविम्वीभिः सिद्धं वाजे पयस्यथ ॥
सिद्धं वा विल्वनिःक्वाथे शीतीभूतं तदुद्धृतम् ।
पुनः पचेद्दशक्षीरं सितामधुकचन्दनैः ॥
विल्वाम्बुगाढं यत्तैलं बाधिर्य्ये कर्णपूरणम् ।
वक्ष्यते यः प्रतिश्याये विधिः सोऽप्यत्र पूजितः ॥
वातव्याधिषु यश्चोक्तो विधिः स च हितो भवेत् ।
कर्णस्रावे पूतिकर्णे तथैव क्रिमिकर्णके ॥
समानं कर्म्म कुर्व्वीत योगान् वैशेषिकानपि ।
शिरोविरेचनञ्चैव धूपनं पूरणन्तथा ॥
प्रमार्जनं धावनञ्च वीक्ष्य वीक्ष्यावचारयेत् ।
राजवृक्षादितो येन सुरसादिगणेन वा ॥
कर्णप्रक्षालनं कार्य्यं चूर्णैरेषाञ्च पूरणम् ।
चूर्णं पञ्चकषायोत्थं कपित्थरसयोजितम् ॥
कर्णस्रावे प्रशंसन्ति पूरणं मधुना सह ।
सर्ज्जत्वक्चूर्णसंयुक्तः कार्पासीफलजो रसः ॥
योजितो मधुना वापि कर्णस्रावे प्रशस्यते ।
लाक्षासर्ज्जरसौ वापि चूर्णितौ कर्णपूरणम् ॥
सशैवलमहावृक्षजम्ब्वम्रप्रसवायुतम् ।
कुलीरक्षौद्रमण्डूकी सिद्धं तैलञ्च पूजितम् ॥
तिन्दुकान्यभयारोध्रं समङ्गामलकं मधु ।
पूरणञ्चात्र पथ्यं स्यात् कपित्थरसयोजितम् ॥
रसमाम्रकपित्थानां मधूकधवशालजम् ।
पूरणार्थं प्रशंसन्ति तैलं वा तैर्विपाचितम् ॥
प्रियङ्गुमधुकाम्बष्ठा धातकी शीतपर्णिभिः ।
मजिष्ठालोध्रलाक्षाभिः कपित्थस्य रसेन वा ।
पचेत्तैलं तदास्रावमवगृह्णाति पूरणात् ।
घृष्टं रसाञ्जनं नार्य्याः क्षीरेण क्षौद्रसंयुतम् ॥
प्रशस्यते चिरोत्थेऽपि सास्रावे पूतिकर्णके ।
निर्गुण्डीस्वरसे तैलं सिन्धुर्धूमरजोगुडः ।
पूरणः पूतिकर्णस्य शमनो मधुसंयुतः ।
कृमिकर्णकनाशार्थं क्रिमिघ्नं योजयेद्विधिम् ॥
वार्त्ताकुधूमश्च हितः सार्षपस्नेह एव च ।
क्रिमिघ्नं हरितालेन गवां मूत्रयुतेन च ॥
गुग्गुलुः कर्णदौर्गन्ध्ये धूपनं श्रेष्ठमुच्यते ॥
छर्द्दनं धूमपानञ्च कवडस्य च धारणम् ।
कर्णक्ष्वेड हितं तैलं सार्षपञ्चैव पूरणम् ॥
विद्रधौ वापि कुर्व्वीत विद्रध्युक्तं चिकित्सितम् ॥
प्रक्लेद्यधीमांस्तैलेन स्वेदेन प्रविलाप्य च ।
शोधयेत् कर्णविट्कन्तु भिषक् सम्यक् शलाकया ॥
नाडीस्वेदोऽथ वमनं धूमो मूर्द्धविरेचनम् ।
विधिश्च कर्णहृत्सर्व्वः कर्णकण्डूमपोहति ॥
अथ कर्णप्रतीनाहे स्रेहस्वेदौ प्रयोजयेत् ।
ततोऽतिरिक्तशिरसः क्रियां प्राप्तां समाचरेत् ॥
कर्णपाकस्य भैषज्यं कुर्य्यात् पित्तविसर्पवत् ।
कर्णच्छिद्रे वर्त्तमानं कीटं क्लेदमलादि वा ॥
शृङ्गेणापहरेद्ध्वीमानथवापि शलाकया ।
शेषाणान्तुविकाराणां प्राक्चिकित्सितमीरितम्” ॥
इति सुश्रुते उत्तरतन्त्रे एकविंशतितमोऽध्यायः ॥ * ॥
चिकित्सितस्थाने ४३ अध्याये सनिदानलक्षण-
चिकित्सितान्युक्तानि हारीतेन यथा, --
“सिक्थेन वा तोयविपूरणेन
पृष्ठ २/०४२
:मलेन वा चाति भवेद्रुजा च ।
उच्छासरोधाद्भवते तथापि
वातादिकैर्वा कुपितैरथापि ॥
संसर्गदोषैरपि सर्व्वदोषैः
क्रिमिव्रणे नापि तथैव चान्या ।
सञ्जायते कर्णरुजा नरस्य
शृणोति तेनापि बहुखनांश्च ॥
निःस्वानमेघघ्वनिदन्तशब्दान्
शूलं सदाहञ्च शिरोव्यथा च ।
वेणुस्वनं वत्स ! शृणोति सर्व्वं
पित्तेन तं विद्धि भिषग्वरिष्ठ ! ॥
तथा च मूर्च्छां प्रतनोति शब्दं
मेघस्वनं वा कफजे शृणोति ॥
क्रिमिदोषे स्रवेत् पूयं सरक्तं वाति सत्तम ! ।
तथा चैवाभिघातेन जायते तीव्रवेदना ॥
क्षतेन पूयं स्रवते बाल्याद्भवति चापरः ।
तञ्चापिलूतिदोषेण जायते कर्णजा रुजा ॥
न कर्णरोगे जलपूरणञ्च
न चूर्णमेतत् कथितं विधिज्ञैः ।
तैलं हितं स्वेदनमेव कर्णे
स वाष्पविन्दुश्च हितो मतश्च ॥
समुद्रफेनं सिन्धूत्थं सूक्ष्मचूर्णञ्च कारयेत् ।
सौवीरकरसेनापि वातिके कर्णपूरणम् ॥
आर्द्रसौवीरकरसं शुण्ठीसैन्धवगुग्गुलुम् ।
माषकुल्माषतोयेन तैलं पक्त्वातिचोष्णकम् ।
तुम्बीरसञ्च धार्य्येत कर्णरोगे प्रशस्यते ॥
यष्टीमधुः कुष्ठमरिष्टपत्रं
निशाविशाला सुमनः प्रबालाः ।
विपाठितं कर्णभवे च शूले
स पैत्तिके वा घृतमेव शस्तम् ॥
ब्राह्मीरसं सैन्धवकं विडङ्गं
सभृङ्गराजस्य घृतेन युक्तम् ।
तथैव सौवीररसञ्च पथ्या
स्रुतञ्च वस्त्रं परिपूर्णमेतत् ॥
हितम्भवेत्तत् श्रुतिपूरणाय
पूयं सरक्तं क्रिमिजं निहन्ति ॥
सर्व्वे प्रोक्ताः शिरोरोगास्तैलानि च घृतानि च ।
जात्याविकान् वा युञ्जीत शिरोरोगविदाम्बरः ।
वातहारीणि पथ्यानि विदाहीनि गुरूणि च” ॥ * ॥)

कर्णलतिका, स्त्री, (कर्णस्य लतिका लतेव ।) पालिः ।

इति हेमचन्द्रः ॥ काणेर पाता इति भाषा ॥

कर्णवंशः, पुं, (कर्णः कर्णाकृतिः कर्णवत् सज्जो वा

वंशो यत्र ।) मञ्चः । इति हारावली ॥

कर्णवर्ज्जितः, पुं, (कर्णेन श्रवणेन्द्रियेण वर्जितः हीनः ।

अम्य दर्शनेन्द्रियेणैव श्रोत्रकार्य्यकारित्वात् तथा-
त्वम् ।) सर्पः । इति शब्दचन्द्रिका ॥ कर्णहीने त्रि ॥

कर्णवेधः, पुं, (कर्णयोः कर्णस्य वा वेधः वेधनम् ।)

कर्णयोश्छिद्रकरणम् । काण्वधान इति भाषा ।
तस्य विधिर्यथा । मदनरत्ने वशिष्ठश्रीधरौ ॥
“मामे षष्ठे सप्तमे वाष्टमे वा
येध्यौ कर्णौ द्वादशे षोडशेऽह्नि ।
मध्येनाह्नः पूर्व्वभागे न रात्रौ
नक्षत्रे द्वे द्वे तिथी वर्ज्जयित्वा” ॥
अत्र जन्ममासो वर्ज्ज्यः । ज्योतिर्निबन्धे गर्गः ।
“मासे षष्ठे सप्तमे वाप्यष्टमे मासि वत्सरे ।
कर्णवेधं प्रशंसन्ति पुष्ट्यायुःश्रीविवृद्धये” ॥
मदनरत्ने ।
“प्रथमे सप्तमे मासि अष्टमे दशमेऽथवा ।
द्वादशे च तथा कुर्य्यात् कर्णवेधं शुभावहम्” ॥
हेमाद्रौ व्यासः ।
“कार्त्तिके पौषमासे वा चैत्रे वा फाल्गुनेऽपि वा ।
कर्णवेधं प्रशंसन्ति शुक्लपक्षे शुभे दिने” ॥
श्रीधरः ।
“हरिहरकरचित्रासौम्यपौष्णोत्तरार्य्या-
दितिवसुषु घटाली सिंहवर्ज्ज्येषु लग्ने ।
शशिगुरुबुधकाव्यानां दिने पर्ब्बरिक्ता-
रहिततिथिषु शुद्धे नैधने कर्णवेधः” ॥
मदनरत्ने वृहस्पतिः ।
“द्वितीया दशमी षष्ठी सप्तमी च त्रयोदशी ।
द्वादशी पञ्चमी शस्ता तृतीया कर्णवेधने ॥
सौवर्णी राजपुत्त्रस्य राजती विप्रवैश्ययोः ।
शूद्रस्य चायसी सूची मध्यमाष्टाङ्गुलात्मिका” ॥
हेमाद्रौ देवलः ।
“कर्णरन्ध्रं रवेश्छाया न विशेदग्रजन्मनः ।
तं दृष्ट्वा विलयं यान्ति पुण्यौघाश्च पुरातनाः” ॥ शङ्खः ।
“अङ्गुष्ठमात्रशुषिरौ कर्णौ न भवतो यदि ।
तस्मै श्राद्धं न दातव्यं दत्तञ्चेदासुरं भवेत्” ॥
इति निर्णयसिन्धुः । कर्णषट्कदोषनिवारणार्थं
कर्णस्य वेधनम् । सोदरभ्रातॄणां संस्काराणाञ्च
पौर्ब्बापर्य्यक्रमः कर्णवेधस्यासंस्काररूपत्वात् न
तथा नियमः । यथा, --
“यदापत्यद्वयं तिष्ठेत् सम्भवोऽप्यपरस्य च ।
कर्णषट्कं विजानीयाद्गर्हितं तत्त्रयस्य च ॥
इत्याशङ्क्य तयोर्म्मध्ये शुद्धिर्यस्याथ वत्सरे ।
कर्णवेधो हितस्तस्य तस्य ज्येष्ठविचारणा ॥
षट्कर्णोत्पत्तिमाशङ्क्य भानोः शुद्ध्यासमेऽपि च ।
कर्णौ वेध्यौ न दोषः स्यादन्यथा मरणं भवेत्” ॥
इति मलमासतत्त्वे माण्डव्यवचनम् ॥ अस्य काल-
नियमो यथा, -- राजमार्त्तण्डे ।
“न जन्ममासे न च चैत्रपौषे
न वर्षयुग्मे न हरौ प्रसुप्ते ।
रवौ च दुष्ठे न च कृष्णपक्षे
न जन्मभे कर्णविधिः प्रशस्तः” ॥
तथा दीपिकायाम् ।
“नो जन्मेन्दुभमाससूर्य्यरविजक्ष्माजाहसुप्ताच्युते
शम्तेऽर्केलघुविष्णुयुग्ममृदुभस्वात्युत्तरादित्यभैः ।
सौम्यैस्त्र्यायत्रिकोणकण्टकगतैः पापौस्त्रिलाभारिगै
रोजोऽब्दे श्रुतिवेध इज्यसितभे लग्ने तु काले शुभे ॥
अत्रापि तिथ्यङ्गादिविद्धमृक्षं वर्जयेत् ॥
यथाह गर्गः ।
“कर्णवेधव्रते कुर्य्यादुदङ्मार्गस्थिते रवौ ।
दक्षिणाशास्थिते भानौ नैव कुर्य्यात् कथञ्चन” ॥
इनि ज्योतिषतत्त्वम् ॥

कर्णवेधनी, स्त्री, (विध्यतेऽनया । विध + करण ल्युट् ।

ततो ङीप् ।) कर्णवेधनास्त्रम् । इति त्रिकाण्डशेषः ॥

कर्णवेष्टकं, क्ली, (कर्णौ वेष्ठयति । वेष्ट् + ण्वुल् ।)

कुण्डलम् । इति हेमचन्द्रः ॥

कर्णवेष्टनं, क्ली, (कर्णौ वेष्ट्येतेऽनेन । वेष्ट् + करणे

ल्युट् ।) कुण्डलम् । इत्यमरः । २ । ६ । १०३ ॥

कर्णशस्कुली, स्त्री, (कर्णयोः कर्णस्य वा शस्कुलीव ।)

कर्णगोलकम् । तत्पर्य्यायः । वेष्टनम् २ । इति हेम-
चन्द्रः ॥

कर्णशूलः, पुं, (कर्णस्य शूलः शूलवत् यन्त्रणादायकः ।)

कर्णरोगविशेषः । तस्यौषधं यथा, --
“हिङ्गुतुम्बुरुशुण्ठ्या च साध्यं तैलन्तु सार्षपम् ।
एतद्धि पूरणं श्रेष्ठं कर्णशूलापहं परम् ॥ १ ॥
शुष्कमूलकशुण्ठीनां क्षारो हिङ्गुलनागरम् ।
शुक्लं चतुर्गुणं दद्यात्तैलमेतैर्व्विपाचयेत् ॥
बाधिर्य्यं कर्णशूलञ्च पूयस्रावश्च कर्णयोः ।
कृमयश्च विनश्यन्ति तैलस्यास्य प्रपूरणात् ॥ २ ॥
शुष्कमूलकशुष्ठीनां क्षारो हिङ्गुलनागरम् ।
शतपुष्पी वचा कुष्ठं दारु शिग्रु रसाञ्जनम् ॥
सौवर्च्चलं यवक्षारं सामुद्रं सैन्धवं तथा ।
भुजग्रन्थि विडं मुस्तं मधु शुक्रञ्चतुर्गुणम् ॥
मातुलुङ्गरसञ्चैव कदलीरसमेव च ।
तैलमेभिर्व्विपक्तव्यं कर्णशूलापहं परम् ॥
बाधिर्य्यं कर्णनादश्च पूयस्रावश्च दारुणः ।
पूरणादस्य तैलस्य कृमयः कर्णयोः खिलाः ॥
क्षिप्रं विनाशमायान्ति शशाङ्ककृतशेखर ! ।
क्षारतैलमिदं श्रेष्ठं मुखदन्तामयापहम् ॥ ३ ॥
प्रस्थे द्वे गण्डमालानां क्वाथयेत् द्रोणमम्भसाम् ।
चतुर्भागावशेषेण तैलप्रस्थं विपाचयेत् ॥
काञ्जिकस्याढकं दत्त्वा पिष्टान्येतानि दापयेत् ।
पुनर्णवा गोक्षुरकं सैन्धवं त्र्युषणं वचा ॥
सरलं सुरदारुश्च वृहती कण्टकारिका ।
नस्यपानाद्धरत्येव कर्णशूलं हनुग्रहम् ॥
बाधिर्य्यं सर्व्वरोगांश्च अभ्यङ्गाच्च महेश्वर !” ॥ ४ ।
इति गारुडे १९८ अध्यायः ॥ (कर्णरोगशब्देऽस्य
विवरणं ज्ञेयम् ॥)

कर्णसंस्रावः, पुं, (कर्णस्य कंर्णयोर्वा संस्रावः पूय-

शोणितादेः निःस्रावणम् यत्र रोगे ।) कर्ण-
रोगविशेषः । तस्य निदानसम्प्राप्तिरूपाणि ।
“शिरोऽभिघातादथवा निमज्जतो
जले प्रपाकादथवापि विद्रधेः ।
स्रवेद्धि पूयं श्रवणोऽनिलार्द्दितः
सकर्णसंस्राव इति प्रकीर्त्तितः” ॥
इति माधवकरः ॥

कर्णस्फोटा, स्त्री, (कर्णस्य स्फोटेव स्फोटाविदारणं

यस्याः ।) लताविशेषः । काणफाटा इति भाषा ।
तत्पर्य्यायः । श्रुतिस्फोटा २ त्रिपुटा ३ कृष्णत-
ण्डुला ४ चित्रपर्णी ५ कोपलता ६ चन्द्रिका ७
अर्द्धचन्द्रिका ८ । अस्या गुणाः । कटुत्वम् ।
तिक्तत्वम् । हिमत्वम् । सर्व्वविषग्रहभूतादिदोष-
सर्व्वव्याधिनाशित्वञ्च । इति राजनिर्घण्टः ॥

कर्णाटः, पुं, (कर्णेषु अटति प्रभूतयशस्विन एतद्दे-

शस्थराज्ञो गुणादिकीर्त्तनेन सर्व्वेषां कर्णेषु
पृष्ठ २/०४३
:भ्रमतीति । कर्ण + अट् + अच् । शकन्ध्वादिवत्-
साधुः ।) स्वनामख्यातदेशविशेषः । इति शब्द-
रत्नावली ॥ यथा कर्णाटवर्णने राज्ञ्युक्तिः ।
“अर्व्वञ्चो यदि गद्यपद्यनिपुणा श्चेतश्चमत्कुर्व्वते
तेषां मूर्द्ध्निददानि वामचरणं कर्णाटराजप्रिया” ॥
अयं देशः कूर्म्मविभागे दक्षिणस्यां दिशि वर्त्तते ॥)

कर्णाटी, स्त्री, (कर्णाट + स्त्रियां ङीप् । पारिभाषिको

ऽयं शब्दः ।) रागिणीविशेषः । इति हलायुधः ॥
सा तु मालवरागस्य पत्नी । इति सङ्गीतदामोदरः ॥
हंसपदीवृक्षः । इति राजनिर्घण्टः ॥

कर्णानुजः, पुं, (कर्णस्यानुजः कर्णमनुजातवानित्यर्थः ।

अनु + जन् + ड ।) युधिष्ठिरराजः । इति त्रिका-
ण्डशेषः ॥

कर्णान्दुः, स्त्री, (कर्णस्य आन्दुरिव ।) कर्णपाली ।

काणतड्का इति भाषा । उत्क्षिप्तिका । इति
हेमचन्द्रः । काणकडा इति ख्याता ॥

कर्णान्दूः, स्त्री, कर्णान्दुः । कर्णपाली । इति हारा-

वली ॥

कर्णाभरणकः, पुं, (कर्णस्य आभरणमिव पुष्पैः

कायति प्रकाशते । कै + कः ।) आरग्वधवृक्षः ।
इति राजनिर्घण्टः ॥

कर्णारा, स्त्री, (अर्य्यते विध्यतेऽनया । कर्ण + ऋ +

करणे घञ् टाप् च । धातूनामनेकार्थत्वात् ऋधा-
तोरत्र वेधनार्थः ।) कर्णवेधनी । इति त्रिकाण्ड-
शेषः ॥

कर्णारिः पुं, (कर्णस्य अरिः शत्रुः ।) अर्ज्जुनः । इति

पुराणम् ॥ नदीसर्जवृक्षः । इति राजनिर्घण्टः ।
आजन् इति भाषा ॥

कर्णास्फालः, पुं, (कर्णयोरास्फालः आस्फालनम् ।)

झलज्झला । हस्तिकर्णास्फालनम् । इति त्रिका-
ण्डशेषः ॥

कर्णिका, स्त्री, (कर्ण + इकन् + टाप् च । यद्वा कर्ण

+ ण्वुल् । ततष्टाप् अत इत्वम् ।) कर्णाभरण-
विशेषः । काणतड्का इति भाषा । तत्पर्य्यायः ।
तालपत्रम् २ । इत्यमरः । २ । ६ । १०३ ॥
ताडङ्कः ३ दन्तपत्रम् ४ । इति भरतः ॥ करि-
हस्ताङ्गुलिः । करिणः शुण्डाग्रवर्त्त्यङ्गुलाकृतिः ।
पद्मवीजकोषी । इत्यमरः । ३ । ३ । १५ ॥
(यथा भागवर्ते । ३ । ८ । १६ ।
“तस्यां सचाम्भोरुहकर्णिकाया-
मवस्थितो लोकमपश्यमानः” ॥)
करमध्याङ्गुलिः । क्रमुकादिच्छटांशः । इति मे-
दिनी । वोँटा इति भाषा ॥ लेखनी । इति
हारावली ॥ अग्निमन्थवृक्षः । अजशृङ्गीवृक्षः ।
इति राजनिर्घण्टः ॥ (अप्सरोभेदः । यथा, महा-
भारते १ । १२३ । ६१ ।
“मेनका सहजन्या च कर्णिका पुञ्जिकस्थला” ॥
सेवती । गोलावफुल इति भाषा ।
“शतपत्री तरुण्युक्ता कर्णिका चारुकेशरा ।
महाकुमारी गन्धाढ्या लक्षपुष्पातिमञ्जुला” ॥
अस्या गुणा यथा, --
“शतपत्री हिमा हद्या ग्राहिणी शुक्रला लघुः ।
दोषचयास्रजिद्वर्ण्या तिक्ता कठ्वी च पाचनी” ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे १ भागे ॥
योनिरोगविशेषः । यथा,
“अकाले वाहमानाया गर्भेण पिहितोऽनिलः ।
कर्णिकाञ्जनयेद्योनौ श्लेष्मरक्तेन मूर्च्छितः” ॥
इति चरके चिकित्सास्थाने । ३० अध्याये ॥)

कर्णिकाचलः, पुं, (कर्णिकायां स्थितः अचलः ।) सु-

मेरुपर्व्वतः । इति हेमचन्द्रः ॥ (अस्य विवरणं
यथा भागवते । ५ । १६ । ७ । “यस्य नाभ्यामव-
स्थितः सर्व्वतः सौवर्णः कुलगिरिराजो मेरुर्द्वीपा-
यामसमुन्नाहः कर्णिकाभूतः कुबलयकमलस्य” ॥)

कर्णिकारः, पुं, (कर्णिं भेदनं करोतीति । कर्णि +

कृ + कर्म्मण्यण् । उदरमलभेदकतत्वात् अस्य
तथात्वम् ।) वृक्षविशेषः । कणियार इति भाषा ॥
(यथा, महाभारते । १ । सम्भवे । १२५ । २ ।
“कर्णिकारैरशोकैश्च केशरैरतिमुक्तकैः” ॥)
तत्पर्य्यायः । द्रुमोत्पलः २ परिव्यधः ३ । इत्यमरः ।
२ । ४ । ६० ॥ वृक्षोत्पलः ४ । इति रत्नमाला ॥
(यथा, महाभारते ३ । २४ । १७ ।
“तत्शालतालाम्रमधूकनीप-
कदम्बसर्ज्जार्ज्जुनकर्णिकारैः ।
तपात्यये पुष्पधरैरुपेतं
महाबलं राष्ट्रपतिर्ददर्श” ॥
कर्णिकारस्य पुष्पम् । “अवयवे च प्राण्यौषधि
वृक्षेभ्यः” । ४ । ३ । १३५ । इति उत्पन्नस्य तद्धि-
तस्य “पुष्पमूलेषु बहुलम्” । इति लुक् ।
तथा कुमारसम्भवे । ३ । २८ । “वर्णप्रकर्षे सति
कर्णिकारम्” ॥ कर्णिकारस्य कुसुममित्यर्थः ॥)
आरग्वधविशेषः । छोट सोनालु इति भाषा ।
तत्पर्य्यायः । राजतरुः २ प्रग्रहः ३ कृतमालकः ४
सुफलः ५ चक्रः ६ परिव्याधः ७ व्याधिरिपुः ८
पिण्डवीजकः ९ लघ्वारग्वधः १० । अस्य गुणाः ।
सारकत्वम् । तिक्तत्वम् । कटुत्वम् । उष्णत्वम् ।
कफशूलोदरकृमिमेहनाशित्वम् । व्रणगुल्मनिवा
रणत्वञ्च । इति राजनिर्घण्टः ॥

कर्णिकी, [न्] पुं, (कर्णिका हस्तिशुण्डाग्राङ्गुली

अस्त्यस्य इनिः ।) हस्ती । इति जटाधरः ॥

कर्णी, [न्] पुं, (कर्णौ पक्षौ स्तः अस्य । पुरा किल

पर्व्वतानां पक्षाः सन्ति इति पौराणिकी गाथा ।
“तुन्दादिभ्य इलच्च” । ५ । २ । ११७ । इति चकारा-
दिनिः ।) वर्षपर्व्वतसप्तकान्तर्गतपर्व्वतविशेषः । यथा ।
“हिमवान् हेमकूटश्च निषधो मेरुरेव च ।
चैत्रः कर्णी च शृङ्गी च सप्तैते वर्षपर्व्वताः” ॥
इति हारावली ॥ वाणविशेषः । यथा ।
“करोति कर्णिनो यस्तु यस्तु खड्गादिकृन्नरः ।
प्रयान्ति ते विशसने नरके भृशदारुणे” ॥
इति विष्णुपुराणे २ । ६ । १६ ॥ कर्णिनो वाण-
विशेषान् । इति तट्टीका ॥

कर्णीरथः, पुं, (कर्णसाध्या श्रवणक्रिया उपचारात्

कर्णः । कर्णोऽस्यास्ति इनिः । कर्णी चासौ रथ-
श्चेति शब्दमात्रेण रथो न वस्तुतः । यद्वा साभी
प्यात् कर्णशब्देनस्कन्धो लक्ष्यते । सोऽस्त्यस्य वाह-
कत्वेन इनिः । कर्णी चासौ रथश्च । अन्येषामपीति
दीर्घः ।) क्रीडार्थनिर्म्मितस्वल्परथः । पुरुषस्कन्ध-
नीयमानरथः । इति भगीरथः ॥ स्त्रीवहनार्थमु-
परि वस्त्राच्छादितरथविशेषः । इति मञ्जरी ॥
चतुर्दोल इति ख्यात इति पितृचरणाः ॥ इति
सारसुन्दरी ॥ स्त्रीरत्नवहनार्थमुपरिवस्त्राच्छादि-
तमनुष्यवाह्ययानविशेषः । इति भरतः ॥ तत्प-
र्य्यायः । प्रवहनम् २ हयनम् ३ । इत्यमरः । २ ।
८ । ५२ ॥ प्रहरणम् ४ डयनम् ५ । इति तट्टीका ॥

कर्णीसुतः, पुं, (कर्ण्याः सुतः ।) मूलदेवः । इति

त्रिकाण्डशेषः ॥ (यथा हारावली ३२ ।
“कर्णीसुतो मूलदेवो मूलभद्रः कलाङ्कुरः” ॥
तथा च कादम्बरीटीकायाम् ।
“कर्णीसुतः करटकः स्तेयशास्त्रप्रवर्त्तकः ॥)

कर्णेजपः, त्रि, (कर्णे जपति यः । जापादित्वात् स्तम्ब-

कर्णयोरित्यच् हलदन्तादित्यलुक् ।) अप्रकाशे-
नानुचितप्रबोधकः । कर्णेलगित्वा परापकारं वदति
यो जनः । ठक् इति ख्यातः । तत्पर्य्यायः । सूचकः २
पिशुनः ३ दुर्जनः ४ खलः ५ । इत्यमरः । ३ । १ ।
४७ ॥ कर्णेजपादिद्वयं परापकारवादिनि । पिशुना-
दित्रयं परस्परभेदनशीले ॥ कर्णेजपादिपञ्चकं
सूचके इति केचित् ॥ त्रयमिति केचित् । इति
भरतः ॥

कर्णेन्दुः पुं, (कर्णयोः कर्णे वा इन्दुरिव ।) कर्णान्दुः ।

अर्द्धचन्द्राकृतिकर्णभूषणम् । इति शब्दरत्नावली ॥

कर्त्त, त् क शैथिल्ये । इति कविकल्पद्रुमः ॥

(अदन्तचुरां--परं--अकं--सेट् ।) रेफस्याधस्तकारः
कर्त्तयति कर्त्तापयति धूलिर्ज्जलेन । इति दुर्गा-
दासः ॥

कर्त्तः, पुं, (कर्त्त + भावे + अप् ।) भेदः । यथा ।

“सध्य्रङ् नियम्य यतयो यमकर्त्तहेतिं
जह्युः स्वराडिव निपानखनित्रमिन्द्रः” ॥
इति श्रीभागवते २ । ७ । ४८ ॥ “कर्त्तो भेदः तन्नि-
रासो अकर्त्तः तत्र हेतिं साधनं जह्युः” । इति
तट्टीकायां श्रीधरस्वामी ॥ (कर्त्तयति शिथिलीक-
रोति भिनत्ति वा । कर्त्त + अच् । भेदके, त्रि ॥)

कर्त्तनं, क्ली, (कृत् + भावे + ल्युट् ।) छेदनम् । नारीणां

सूत्रनिर्म्मितिः । इति मेदिनी । काट्ना काटा ।
इति भाषा ॥

कर्त्तरी, स्त्री, (कृन्ततीति । कृति छेदने + बाहुलका-

दरप्रत्ययः ततो ङीष् । यद्वा कृत् + घञ् । कर्त्तं
रातीति । “आतोनुपेति” । ३ । २ । ३ । कः ।
गौरादित्वात् ङीष् ।) कृपाणी । इत्यमरः । २ ।
१० । ३४ ॥ पत्रीकृतस्वर्णादेः कर्त्तनास्त्रम् । काति
इति ख्यातः ॥ केशकर्त्तनिका । इति भरतः ।
काँचि इति भाषा । काटारी इति ख्याता च ॥
(योगविशेषः । यथा, ज्योतिषशास्त्रे ।
“क्रूरमध्यगतश्चन्द्रो लग्नं वा क्रूरमध्यगम् ।
कर्त्तरी नाम योगोऽयं कन्या निधनकारकः” ॥)

कर्त्तव्यं, क्ली, (कृ + तव्य ।) करणीयम् । करणयोग्यम् ।

कार्य्यम् । इति व्याकरणम् ॥

कर्त्तव्यः, त्रि, (कर्त्तुं योग्यं कर्त्तुं उचितं वा । यद्वा

पृष्ठ २/०४४
:अवश्यं करणीयं यत् तत् कर्त्तव्यमिति स्मृतम् ।
कृ + योग्याद्यर्थे तव्यः ।) करणेयोग्यः । यथा,
हितोपदेशे ॥
“हीनसेवा न कर्त्तव्या कर्त्तव्यो महदाश्रयः ।
अजा सिंहप्रसादेन वने चरति निर्भयम्” ॥

कर्त्ता, [ऋ] त्रि, (करोति क्रिया निष्पादयतीति वा ।

करोति यः कर्म्मेति शेषः । कृ + कर्त्तरि तृच् ।)
कारकः । इति मेदिनी ॥ षट्कारकान्तर्गतकारक-
विशेषः । वोपदेवेनास्य घसंज्ञा कृता । अत्र
उक्तार्थे प्रथमा अनुक्तार्थे तृतीया विभक्तिर्भवति ॥
तस्य लक्षणम् । “क्रियानुकूलकृतिमत्त्वम्” । इति
सारमञ्जरी ॥ “यः करोति सः” । इति सर्व्ववर्म्मा ॥
“कृत्याश्रयः” । इति तार्किकाः ॥ “चेतनान्तरव्या-
पाराव्यवधानेन धात्वर्थनिष्पादकश्चेतनः कर्म्मकर-
णादिकारकचक्रप्रयोक्ता वा” । इति प्रायश्चित्तवि-
वेकः ॥ “क्रियामुख्यप्रयोजकौ कर्त्ता” । इति क्रम-
दीश्वरः ॥ स तु पञ्चविधः । क्रियामुख्यः १ हेतुकर्त्ता
२ प्रयोजकः ३ अनुमन्ता ४ ग्रहीता ५ । तथा च ।
“क्रियामुख्यो भवेत् कर्त्ता हेतुकर्त्ता प्रयोजकः ।
अनुमन्ता ग्रहीता च कर्त्ता पञ्चविधः स्मृतः” ।
इति गोयीचन्द्रटीकाकृद्गोपालचक्रवर्त्ती ॥ स च
त्रिविधः । सात्त्विकः १ राजसः २ तामसः ३ ।
सात्त्विको यथा, --
“मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः ।
सिद्ध्यसिद्ध्योर्निर्विकारः कर्त्ता सात्त्विक उच्यते” ॥
राजसो यथा, --
“रागी कर्म्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः ।
हर्षशोकान्वितः कर्त्ता राजसः परिकीर्त्तितः” ॥
तामसो यथा, --
“अयुक्तः प्राकृतः स्तब्धः शठो नैकृतिकोऽलसः ।
विषादी दीर्घसूत्री च कर्त्ता तामस उच्यते” ॥
इति श्रीभगवद्गीता । १८ । २६-२८ ॥

कर्त्ता, [ऋ] पुं, (करोति सृजति चतुर्द्दशभुवनानि

यः सर्व्वलोकस्रष्टेति यावत् । कृ + तृच् ।) पर-
मेष्ठी । ब्रह्मा । इति मेदिनी ॥ क्रियानुकूलकृति-
मान् । स च त्रिविधः । यथा, --
“त्रिधैव ज्ञायते कर्त्ता विशेषेण प्रतिक्रियाम् ।
योग्यत्वप्रतिषिद्धत्वविशेषणपदान्वयैः” ॥
अस्यार्थः । क्रियां प्रति प्रकारत्रयेण कर्त्ता विज्ञा-
यते तस्य विवरणम् । स्वाध्यायोऽध्येतव्य इत्यत्र
योग्यत्वेन लब्धविद्यस्त्रैवर्णिकः ॥ १ ॥ अहरहर्दद्यात्
दीक्षितो न ददातीत्यत्र प्रतिषिद्धत्वेन दीक्षिते-
तरपरः ॥ २ ॥ स्वर्गकामो यजेतेत्यत्र विशेषण-
पदान्वयेन स्वर्गकामः कर्त्ता ज्ञायते ॥ ३ ॥ * ॥
नित्ये निषेधे च यद्यत् साधनं तदभावस्तदभाव-
साधनं इत्यनुभवसिद्ध्या नित्याकरणं निषिद्धाचर-
णञ्च प्रत्यवायसाधनं शास्त्रावगतं अतस्तदभावो
नित्याचरणं निषिद्वाकरणञ्च प्रत्यवायाभावसाधन-
मिति प्रत्यवायपरिहारार्थी नियोज्योऽन्वेति
तद्वोधकविशेषणपदाध्याहारादिति बोध्यं ततश्चेयं
विधिवाक्यशाब्दधीः । यथा, काम्ये स्वर्गकामो
यजेतेत्यत्र स्वर्गकामस्य कर्त्तुर्य्यागविषयकं कार्य्यम् ।
नित्ये अहरहः सन्ध्यामुपासीत इत्यत्र प्रत्यवाय-
परिहारार्थिनः कर्तुः प्रत्यहं सन्ध्यावन्दनविषयकं ।
कार्य्यम् । न कलञ्जं भक्षयेदित्यत्रापि प्रत्यवायपरि-
हारार्थिनः कर्तुः कलञ्जभक्षणाभावविषयकं कार्य्य-
मित्येवं रूपा । इति धर्म्मदीपिका ॥
(महादेवः । यथा, महाभारते । १३ । १७ । ६४ ।
“संग्रहो निग्रहः कर्त्ता सर्पचीरनिवासनः” ॥
विश्वस्रष्टुर्ब्रह्मणोऽपि कर्तृत्वात् आदिकर्त्ता विष्णुः ॥
यथा महाभारते १३ । १४९ । ४७ ।
“क्रोधहा क्रोधकृत् कर्त्ता विश्वबाहुर्महीधरः” ॥)

कर्तृका, स्त्री, (कृन्तति छिनत्तीति । कृत् + तृच् ।

स्वल्पार्थे कन् टाप् च ।) क्षद्रखड्गः । यथा, --
“हास्ययुक्तां त्रिनेत्राञ्च कपालकर्तृकाकराम्” ॥
इति तन्त्रसारे श्यामाध्यानम् ॥

कर्तृत्वं, क्ली, (कर्तुर्भावः । कर्तृ + भावे त्वम् ।) कर्त्तृ-

धर्म्मः । यथा, श्रीभगवद्गीता । ५ । १३ ॥
“न कर्तृत्वं न कर्म्माणि लोकस्य सृजति प्रभुः” ॥

कर्त्र, त् क शैथिल्ये । इति कविकल्पद्रुमः ॥ (अदन्त-

चुरां--परं--अकं--सेट् ।) रेफद्वययुक्तस्तकारः । कर्त्र-
यति कर्त्रापयति धूलिर्जलेन । इति दुर्गादासः ॥

कर्त्री, स्त्री, (करोति या कर्म्माणीतिशेषः । कृ + तृच्

+ ङीप् च ।) कर्त्तरी । इति शब्दरत्नावली ॥
कारिका । इति मुग्धबोधव्याकरणम् ॥

कर्द्द, कुत्सितरवे । इति कविकल्पद्रुमः । (भां--परं--

अकं--सेट् ।) उदरशब्दे । इति रमानाथः ॥
एकोऽर्थः । कर्द्दति काकः । रमानाथस्तु कौक्षे-
कर्द्दतीति भट्टमल्लदर्शनादुदरसम्बन्धिशब्द एव
अस्य प्रयोग इति मन्वानः कर्द्दति शिशुरिति यदु
दाजहार तद्धेयम् । यत्तन्मते कर्द्दत्युदरमित्येव
स्यात् । इति दुर्गादासः ॥

कर्द्दः, पुं, (कर्द्द + अच् ।) कर्द्दमः । इति शब्दरत्नावली ॥

कादा इति भाषा ॥

कर्द्दटः, पुं, (कर्द्दं कर्द्दमं अटति कारणत्वेन प्राप्नो-

तीति । कर्द्द + अट् + अच् । शकन्ध्वादित्वात्
अलोपे साधुः ।) करहाटः । पङ्कः । पङ्कारः ।
इति मेदिनी ॥

कर्द्दनं, क्ली, (कर्द्दते इति । कर्द्द + भावे ल्युट् ।) उदर-

शब्दः । इति हेमचन्द्रः । पेटेर डाक इति भाषा ॥

कर्द्दमं, क्ली, (कर्द + “कलिकर्द्योरमः” । उणां । ४ ।

८४ इति अमः ।) मांसम् । इति शब्दचन्द्रिका ॥

कर्द्दमः, पुं, (कर्द कुत्सितरवे + “कलिकर्द्योरमः” ।

उणां ४ । ८४ इति अमः ।) कर्द्दः । कादा इति
भाषा । तत्पर्य्यायः । निषद्वरः २ जम्बालः ३ पङ्कः ४
शादः ५ । इत्यमरः । १ । १० । ९ ॥ (तथाहि
याज्ञबल्क्यः । १ । १९७ ।
“रथ्याकर्दमतोयानि स्पृष्ठान्यन्त्यश्ववायसैः ।
मारुतेनैव शुध्यन्ति पक्वेष्टकचितानिच” ॥)
अस्य गुणाः । शीतलत्वम् । रूक्षत्वम् । विष-
रोगवेदनादाहशोथनाशित्वम् । व्रणशोधनरो-
पणत्वञ्च । इति राजवल्लभः ॥
(“कर्द्दमो दाहपित्तार्त्तिशोथघ्नः शीतलः सरः” ।
इति भावप्रकाशस्य पूर्ब्बखण्डे १ भागे ॥) स्वाय-
म्भुवमन्वन्तरे प्रजापतिविशेषः । स तु ब्रह्मण-
श्छायायां जातः । तस्य भार्य्या स्वायम्भुवमनुकन्या
देवहूतिः । पुत्त्रः कपिलदेवः कन्याः कलाद्या नव ।
इति श्रीभागवतम् । ३ । १२ । २७ ॥ पापम् ।
इत्युणादिकोषः । ४ । ८४ ॥ छाया । यथा, --
“वेदेषु कर्दमः शब्दश्चायायां वर्त्तते स्फुटम् ।
बभूव कर्दमाद्बालः कर्दमस्तेन कीर्त्तितः” ॥
इति ब्रह्मवैवर्त्ते ब्रह्मखण्डे २२ अध्यायः ॥ (नाग-
विशेषः । यथा महाभारते १ । ३५ । १६ ।
“कर्द्दमश्च महानागो नागश्च बहुमूलकः” ॥)

कर्द्दमाटकः, पुं, (कर्द्दमो मलादिः अट्यते निक्षि-

प्यते यत्र । कर्द्दम + अट् + अधिकरणे घञ् ।
ततः कप् । यद्वा कर्दमस्य मलादेः आटो निक्षेपो-
ऽत्र । कर्दमे इव आटोगतिरत्रेति केचित् ।
ततः कप् ।) विष्ठादिनिक्षेपस्थानम् । इति शब्द-
रत्नावली ॥

कर्द्रमी, स्त्री, मुद्गरवृक्षः । इति वैद्यकम् ॥

कर्पटः, पुं, (कीर्य्यते क्षिप्यते इति । कॄ + कर्म्मणि

विच् । कर् चासौ पटश्च इति कर्म्मधारयः । यद्वा
करस्थः पटः । शकन्ध्वादित्वात् अलोपे साधुः ।)
मलिनत्वादिदुष्टजीर्णवस्त्रखण्डम् । नेकडा इति
ख्याता । (यथा कथासरित्सागरे ४ । ६१ ।
“चीरखण्डैककर्पटः” ॥) तत्पर्य्यायः । लक्तकः २ ।
इत्यमरः । ३ । ५ । ३३ ॥ नक्तकः ३ । इति भरतः ॥
पर्व्वतविशेषः । यथा, कालिकापुराणे ८१ अध्यायः ॥
“नीलशैलस्य पूर्ब्बस्मिन् स्वरूपं प्रतिपादितम् ।
नाभिमण्डलपूर्ब्बस्यां भस्मकूटस्य दक्षिणे ॥
पूर्ब्बस्यां कर्पटो नाम पर्व्वतो यमरूपधृक् ।
तत्र याम्यशिला कृष्णा नीलाञ्जनसमप्रभा ॥
अधित्यकायां राजेन्द्र व्यामपञ्चसु विस्तृता ।
पूजयेत्तत्र शमनं पाणौ दण्डं सदैव यः ॥
धत्ते तु प्राणिनां नित्यं प्राणदण्डस्य साधनम् ।
कृष्णवर्णन्तु द्विभुजं किरीटमुकुटोज्ज्वलम् ॥
दधतञ्चासिपुत्त्रीञ्च वामपाणौ सदैव हि ।
कृष्णवस्त्रं स्थूलपदं वहिर्निःसृतदन्तकम् ॥
वराभयकरं नित्यं नृणां महिषवाहनम् ।
पूजयेत् परया भक्त्या याम्यवीजेन साधकः ॥
उपान्त्यवर्गस्यादिर्यो वर्णो विन्द्विन्दुसंयुतः ।
यमवीजमिति ख्यातं यमस्य प्रीतिकारकम् ॥
अनेनैव तु मन्त्रेण शमनं यस्तु पूजयेत् ।
कर्पटाख्येऽचलवरे नापमृत्युं समाप्नुयात्” ॥

कर्पटधारी, [न्] त्रि, (कर्पटं धरति धारयति वा ।

कर्पट + धृ + णिनिः ।) मलिनजीर्णवस्त्रखण्ड-
धारी । भिक्षुकः । इति शब्दरत्नावली ॥

कर्पटिकः, त्रि, (कर्पटोऽस्त्यस्य । कर्पट + अस्त्यर्थे

ठन् ।) कर्पटधारी । इति शब्दरत्नावली ॥

कर्पटी, [न्] त्रि, (कर्पटोऽस्त्यस्य । कर्पट + इनिः ।)

भिक्षुकः । कर्पटधारी । इति शब्दरत्नावली ॥

कर्परः, पुं, (कृप् + बाहुलकात् अरन् । लत्वा-

भावश्च ।) कपालः । इत्यमरः । २ । ६ । ६८ ॥ मातार
खुलि इति भाषा । शस्त्रभेदः । कटाहः । इति
मेदिनी ॥ उडम्बरः । इति शब्दचन्द्रिका ॥
पृष्ठ २/०४५

कर्परांशः, पुं, (कर्परस्य अंशः ।) शर्करा । इति

शब्दरत्नावली । खोलाकुचि इति भाषा ॥

कर्परालः, पुं, (कर्पर इवालति पर्य्याप्नोति । कर्पर +

अल् + अच् । कर्परं अलति इति केचित् अल्
+ कर्म्मण्यण् ।) कन्दरालः । पर्व्वतजातपीलुवृक्षः ।
इत्यमरटीकायां रमानाथः । आखरोट् इति
भाषा ॥

कर्परिकातुत्थं, क्ली, (कर्पर्य्येव इति स्वार्थे कन् तत

ष्टाप अत इत्वं कर्परिकैव तुत्थम् ।) तुत्थविशेषः ।
कर्परी । इति हेमचन्द्रः ॥

कर्परी, स्त्री, (कृप् + वाहुलकादरट् । लत्वाभावश्च ।

टित्त्वात् ङीप् । कैश्चित्तु कृपधातोररन् प्रत्ययेन
निष्पादितोऽयं तन्मते गौरादित्वात् ङीष् ।) क्वाथो-
द्भवं तुत्थम् । दारुहरिद्रार क्वाथेर तुतिया इति
भाषा । तत्पर्य्यायः । दार्व्विका २ । इत्यमरः ।
२ । ९ । १०१ ॥ तुत्थाङ्गनम् । इति तट्टीकायां
स्वामी ॥

कर्पासः, पुं क्ली, (“कृञः पासः” । उणां ५ । ४५

इति कृधातोः पासः ।) कार्पासः । इत्यमरटीका ।
कापास् इति भाषा ॥

कर्पासी, स्त्री, (कर्पास इति जातित्वात् गौरा-

दित्वात् वा ङीष् ।) कार्पासी । इति भरतः ॥
कापासगाछ इति भाषा ॥

कर्पूरः, पुं, क्ली, (कृप् + “खर्जूरादित्वात्” उणां ४ । ९० ।

इति ऊरः ।) स्वनामख्यातसुगन्धिद्रव्यम् । काफुर
इति पारस्य भाषा । कपूर् इति हिन्दी भाषा ।
(यथा, -- राजेन्द्रकर्णपूरे ३३ ।
“कर्पूरैरिव पारदैरि सुधास्यन्दैरिवाप्लाविते
जाते हन्त ! दिवापि देव ! ककुभां गर्भे भवत्की-
र्त्तिभिः” ॥) तत्पर्य्यायः । घनसारः २ चन्द्रसंज्ञः ३
सिताभ्रः ४ हिमवालुका ५ । इत्यमरः २ । ६ ।
१३० ॥ सिताभः ६ । इति तट्टीका ॥ घनसारकः ७
सितकरः ८ शीतः ९ शशाङ्कः १० शिला ११
शीतांशुः १२ हिमवालुकः १३ हिमकरः १४
शीतप्रभः १५ शाम्भवः १६ शुभ्रांशुः १७ स्फटि-
काभ्रः १८ कारमिहिका १९ ताराभ्रः २०
चन्द्रार्द्रकः २१ चन्द्रः २२ लोकतुषारः २३ गौरः
२४ कुमुदः २५ हनुः २६ हिमाह्वयः २७ चन्द्र-
भस्म २८ वेधकः २९ रेणुसारकः ३० । इति
शब्दरत्नावली ॥ अस्य गुणाः । शिशिरत्वम् । तिक्त-
त्वम् । कटुत्वम् । श्लेष्मरक्तपित्ततृष्णाविदाह-
कण्ठस्थदोषोष्णरोगनाशित्वञ्च ॥
“कर्पूरो नूतनस्तिक्तः स्निग्धश्चोष्णास्रदाहदः ।
चिरस्थो दाहशोषघ्नः स धौतः शुभकृत्परः” ॥
इति राजनिर्घण्टः ॥
अपि च । पाके शीतलत्वम् । चक्षुर्हितकारित्वम् ।
पक्वकर्पूरादपक्वस्याधिकगुणत्वञ्च । इति राज-
बल्लभः ॥ तद्भेदा यथा । पोतासः १ भीमसेनः २
सितकरः ३ शङ्करावाससंज्ञः ४ पांशुः ५ पिञ्जः ६
अब्दसारः ७ हिमबालुकः ८ जूतिका ९ तुषारः
१० हिमः ११ शीतलः १२ पत्रिकाख्यः १३ ।
इति राजनिर्घण्टः ॥
(तत्रादौ कर्पूरस्य नाम गुणाश्च ।
“कर्पूरः शीतलो वृष्यश्चक्षुष्यो लेखनो लघुः ।
सुरभिर्मधुरस्तिक्तः कफपित्तविषापहः ।
दाहतृष्णास्यवैरस्यमेदो दौर्गन्ध्यनाशनः ॥
कर्पूरोद्विविधः प्रोक्तः पक्वापक्वप्रभेदतः ।
पक्वात् कर्पूरतः प्राहुरपक्वं गुणवत्तरम्” ॥
अथ चीनाककर्पूरः । चीनेकर्पूर इति भाषा ।
“चीनाकसंज्ञः कर्पूरः कफक्षयकरः स्मृतः ।
कुष्ठकण्डूवमिहरस्तथा तिक्तरसश्च सः” ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे १ म भागे ॥
“सतिक्तः सुरभिः शीतः कर्पूरो लघुलेखनः ।
तृष्णायां मुखशोषे च वैरस्ये चापि पूजितः” ॥
इति सुश्रुते सूत्रस्थाने ४६ अध्याये ॥)

कर्पूरकः, पुं, (कर्पूर इव कायति प्रकाशते शोभते

वा । कर्पूर + कै + क ।) कर्ब्बुरकः । कर्च्चूरकः ।
इति शब्दचन्द्रिका ॥

कर्पूरतिलकः, पुं, (कर्पूर इव शुक्लं तिलकं ललाट्

चिह्नं यस्य । स्वनामख्यातो हस्ती । यथा हितो-
पदेशे १ । ३४६ ।
“अस्ति ब्रह्मारण्ये कर्पूरतिलको नाम हस्ती” ॥)
स्त्री, उमासखिभेदः । जया । इति शब्दमाला ॥

कर्पूरतैलं, क्ली, (कर्पूराज्जातं तैलं स्नेहः । कर्पूरस्य

तैलमिव स्नेहो वा ।) कर्पूरस्नेहः । तत्पर्य्यायः ।
हिमतैलम् २ सुधांशुतैलम् ३ शीतांशुतैलम् ४
तुहिनांशुतैलम् ५ सितांशुतैलम् ६ । अस्य गुणाः ।
कटुत्वम् । उष्णत्वम् । कफवातामयनाशित्वम् ।
दन्तदार्ढ्यपित्तकारित्वञ्च । इति राजनिर्घण्टः ॥

कर्पूरनालिका, स्त्री, पक्वान्नविशेषः । कर्पूरनारि इति

नेओयाला इति च ख्याता । यथा भावप्रकाशः ।
“घृताढ्यया समितया कृत्वा लम्बपुटं ततः ।
लवङ्गोषणकर्पूरयुतया सितयान्वितम् ॥
पचेदाज्येन सिद्धैषा ज्ञेया कर्पूरनालिका ।
संयावसदृशी ज्ञेया गुणैः कर्पूरनालिका” ॥

कर्पूरमणिः, पुं, (कर्पूरवर्णो मणिः ।) पाषाणभेदः ।

“कर्पूरमणिनामायं युक्त्या वातादिदोषनुत्” ॥
इति राजनिर्घण्टः ॥

कर्फरः, पुं, (कीर्य्यते क्षिप्यते इति । कॄ + विच् ।

कर् । फल्यते इति फलः प्रतिविम्बः । फल +
कः । लस्य रः । कीर्य्यमाणः फलः प्रतिविम्बः यत्र ।
दर्पणे हि मुखादीनां प्रतिविम्बपतनात् तथा
बोध्यते ।) दर्पणः । इति जटाधरः ॥

कर्ब्ब गतौ । इति कविकल्पद्रुमः ॥ (भ्वां--परं--सकं-

सेट् ।) रेफोपधः । कर्ब्बति । इति दुर्गादासः ॥

कर्ब्बुदारः, पुं, (कर्ब्बुरिव कर्ब्बुः सन् वा श्लेष्मानं

मलं वा दारयतीति । कर्ब्बु + दृ + णिच् +
अच् ।) कोविदारवृक्षः । इति शब्दमाला ॥
श्वेतकाञ्चनः । अस्य गुणौ । ग्राहित्वम् । रक्त-
पित्तरोगे विशेषेण पथ्यत्वञ्च । इति राजवल्लभः ॥
(“शणस्य कोविदारस्य कर्ब्बुदारस्य शाल्मलेः ।
पुष्पं ग्राहि प्रशस्तस्य रक्तपित्ते विशेषतः” ॥
इति चरके सूत्रस्थाने । २७ अध्याये ॥)
नीलझिण्टी । इति शब्दचन्द्रिका ॥

कर्ब्बुदारकः, पुं, (कर्ब्बुदारवत् कायति । कै + कः ।

यद्वा कर्ब्बुः सन् कर्ब्बुरिव वा श्लेष्मानं कफं दार-
यति । दृ + णिच् + ण्वुल् ।) श्लेष्मान्तकवृक्षः ।
इति राजनिर्घण्टः ॥

कर्ब्बुरं, क्ली, (कर्ब्बति गर्ब्बत्यस्मात् यस्मिन् सति वा

गर्ब्बो भवति कर्व्वत्यनेन वा । कर्ब्ब दर्पे इति
“मद्गुरादयश्च” उणां १ । ४२ । इति उरच् ।)
खर्णम् । धुस्तूरवृक्षः । इत्यमरः । २ । ९ । ९४ ॥
जलम् । इति मेदिनी ॥

कर्ब्बुरः, पुं, (कर्ब्बति हिनस्ति जीवम् । कर्ब्ब हिं-

सायां + “मद्गुरादयश्च” । उणां । १ । ४२ ।
इति उरच् ।) राक्षसः । (“कर्ब्बुरः श्वेतरक्षसोः”
उणाम् । १ । ४२ । कर्ब्बति नानावर्णतां गच्छति ।
कर्ब्ब गतौ + उरच् । उणां १ । ४२ ।) नानावर्णः ।
तत्पर्य्यायः । चित्रम् २ किर्म्मीरः ३ कल्माषः ४
शबलः ५ एतः ६ ॥ (यथा कुमारे । ४ । २७ ।
“इति चैनमुवाच दुःखिता
सुहृदः पश्य वसन्त ! किं स्थितम् ।
तदिदं कणशो विकीर्य्यते
पवनैर्भस्म कपोतकर्ब्बुरम्” ॥)
तद्वति त्रि । इत्यमरः । १ । ६ । १७ ॥ शटी ।
इत्यमरटीका ॥ पापम् । इति मेदिनी ॥ नदी-
निष्पावधान्यम् । इति राजनिर्घण्टः ॥

कर्ब्बुरफलः, पुं, (कर्ब्बुरं चित्रवर्णं फलं यस्य ।) साकु-

रुण्डवृक्षः । इति राजनिर्घण्टः ॥

कर्ब्बुरा, स्त्री, (कर्ब्बुर + टाप् ।) कृष्णवृन्तावृक्षः ।

इति मेदिनी ॥ पारुज इति भाषा ॥ वर्व्वरा ।
इति जटाधरः ॥ वावुइ तुलसी इति भाषा ॥
(जलौकोजातिविशेषः ।
“वर्म्मिमत्स्यवदायता छिन्नोन्नतकुक्षिः कर्ब्बुरा” ॥
इति सुश्रुते । १३ अध्याये ॥)

कर्ब्बुरी, स्त्री, (कर्ब्बुर + गौरादित्वात् ङीष् ।) दुर्गा ।

इति त्रिकाण्डशेषः ॥

कर्ब्बूरं, क्ली, (कर्ब्बति गर्ब्बं प्राप्नाति यस्मात् कर्ब्ब

दर्पे गतौ वा खर्ज्जूरादित्वात् ऊरः । उणां ४ ।
९० । पृषोदरात् दीर्घो वा ।) स्वर्णम् । इति मे-
दिनी ॥ हरितालम् । इति त्रिकाण्डशेषः ॥

कर्ब्बूरः, पुं, (कर्ब्बति गर्ब्बति हिनस्ति वा । कर्ब्ब +

ऊरः ।) शटी । इत्यमरः । २ । ९ । ९४ ॥ रा-
क्षसः । इत्युणादिकोषः ॥ द्राविडकः । इति शब्द-
रत्नावली । काँचहल्दि इति भाषा ॥

कर्ब्बूरकः, पुं, (कर्ब्बूर + स्वार्थे कन् ।) हरिद्राभवृक्षः ।

काँचहल्दि इति ख्यातः । इति भरतः ॥ काल-
हरिद्रा । इति सारसुन्दरी ॥ कर्पूरहरिद्रा । इति
सारमञ्जरी ॥ काकवसन्तः । इति भगीरथः ॥
काङ्क्षिता हरिद्रेति ख्याता । इति टीकासर्व्वस्वम् ॥
हरिद्राभकचोरा इति ख्याता । इति मधुमाधवी ॥
तत्पर्य्यायः । द्राविडकः २ काल्पकः ३ वेधमु-
ख्यकः ४ । इत्यमरः । २ । ४ । १३५ ॥ काल्यकः ५
इति टीका सर्व्वस्वम् ॥

कर्म्म, [न्] क्ली, (यत्क्रियते तत् । कृ + मनिन् ।

कर्त्तुः क्रियया यद्व्याप्यते तद्वा कियाव्याप्यं कर्म्मेति
पृष्ठ २/०४६
:केचित् । तत्तु मतभेदन त्रिधा चतुर्धेति विभक्त-
मुच्यते ।) षट्कारकान्तर्गतकारकविशेषः । वोप-
देवेनास्य ढ इति संज्ञा कृता । अत्र द्वितीया
विभक्तिर्भवति । तस्मिन् उक्ते प्रथमा । तस्य लक्ष-
णम् । “परसमवेतधात्वर्थजन्यफलशालित्वं कर्म्म-
त्वम्” । इति सारमञ्जरी ॥ “यत्क्रियते तत्” । इति
प्रसिद्धम् । करोतेर्निखिलक्रियावाचकत्वात् कर्त्तु-
र्व्यापारैर्य्यत् साध्यते तदित्यर्थः । अतएव “क्रिया-
व्याप्यं कर्म्म” । इति क्रमदीश्वरः । तच्चतुर्व्विधम्
निर्व्वर्त्यम् १ यथा घटं करोति पुत्त्रंप्रसूते ॥
विकार्य्यम् २ तच्च द्विविधम् । प्रकृतेरुच्छेदकं
प्रकृतेर्गुणान्तराधायकञ्च । आद्यं यथा काष्ठं भस्म
करोति । अन्त्यं यथा सुवर्णं कुण्डलं करोति ।
यथा चोक्तं भर्त्तृहरिणा ।
“यदसज्जायते पूर्ब्बं जन्मना यत् प्रकाशते ।
तन्निर्वर्त्यं विकार्य्यञ्च कर्म्म द्वेधा व्यवस्थितम् ॥
प्रकृत्युच्छेदमम्भूतं विकार्य्यं काष्ठभस्मवत् ।
अन्यद्गुणान्तरोत्पत्त्या सुवर्णादिविकारचत्” ॥
प्राप्यम् ३ यथा ग्रामं गच्छति चन्द्रं पश्यतीत्यादि ॥
अनीप्सितञ्च ४ यथा पापं त्यजति इत्यादि ।
इति कारके २ मुग्धबोधसूत्रस्य टीकायां दुर्गा-
दासः ॥ * ॥
सप्तपदार्थान्तर्गततृतीयपदार्थः । तत्तु पञ्चविधम् ।
यथा, -- भाषापरिच्छेदे ६, ७ ।
“उत्क्षेपणं ततोऽवक्षेपणमाकुञ्चनं तथा ।
प्रसारणञ्च गमनं कर्म्माण्येतानि पञ्च च ॥
भ्रमणं रेचनं स्यन्दनोर्द्ध्वज्वलनमेव च ।
तिर्य्यग्गमनमप्यत्र गमनादेव लभ्यते” ॥
कुसुमाञ्जलिमते यागहिंसादि ॥ तत्तु त्रिवि-
धम् । सात्त्विकम् १ राजसम् २ तामसम् ३ ।
सात्त्विकं यथा,
“नियतं सङ्गरहितमरागद्वेषतः कृतम् ।
अफलप्रेप्मुना कर्म्म यत्तत् सात्त्विकमुच्यते” ॥
राजसं यथा, --
“यत्तुकामेप्सुना कर्म्म साहंङ्कारेण वा पुनः ।
क्रियते बहुलायासं तद्राजसमुदाहृतम्” ॥
तामसं यथा, --
“अनुबन्धंक्षयं हिंसामनपेक्ष्य च पौरुषम् ।
मोहादारभ्यते कर्म्म यत्तत्तामसमुच्यते” ॥
इति श्रीभगवद्गीता । १८ । २३-२५ ॥
लग्नात् दशमलग्नम् । इति ज्योतिषम् ॥ क्रिया ।
इत्यमरः ॥ तच्च पञ्चविधम् । नित्यनैमित्त्यकाम्य-
प्रायश्चित्तनिषिद्धभेदात् । तत्र आद्यानि चत्वारि
धर्म्म्याणि । अन्त्यं अधर्म्म्यम् । तच्च जन्मभेदात्
चतुर्व्विधम् सञ्चितं प्रारब्धं क्रियमाणं भावि च ।
इति वेदान्तमतम् ॥ * ॥
ब्राह्मणादीनां स्वाभाविककर्म्माणि यथा ।
“शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च ।
ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म्म स्वभावजम् ॥
शौर्य्यं तेजो धृतिर्दाक्ष्यं यद्धे चाप्यपलायनम् ।
दानमीश्वरभावश्च क्षत्त्रकर्म्म स्वभावजम् ॥
कृषिगोरक्ष्यवाणिज्यं वैश्यकर्म्म स्वभावजम् ।
परिचर्य्यात्मकं कर्म्म शूद्रस्यापि स्वभावजम्” ॥ * ॥
स्वकर्म्माभिरतस्य फलं यथा ।
“स्वे स्वे कर्म्मण्यभिरतः संसिद्धिं लभते नरः ।
स्वकर्म्मनिरतः सिद्धिं यथा विन्दति तच्छृणु ॥
यतः प्रवृत्तिर्भूतानां येन सर्व्वमिदं ततम् ।
स्वकर्म्मणा तमभ्यर्च्च्य सिद्धिं विन्दति मानवः ॥
श्रेयान् स्वधर्म्मो विगुणः परधर्म्मात् स्वनुष्ठितात् ।
स्वभावनियतं कर्म्म कुर्व्वन्नाप्नोति किल्विषम् ॥
सहजं कर्म्म कौन्तेय सदोषमपि न त्यजेत् ।
सर्व्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः ॥
असक्तबुद्धिः सर्व्वत्र जितात्मा विगतस्पृहः ।
नैष्कर्म्म्यसिद्धिं परमां सन्न्यासेनाधिगच्छति” ॥
इयि श्रीभगवद्गीतायाम् । १८ । ४२-४९ ॥

कर्म्मकरः, त्रि, (कर्म्म करोति मूल्येन । डु

कृञ् करणे + “कर्म्मणि भृतौ” । ३ । २ ।
२२ । इति टः ।) मूल्यं गृहीत्वा कर्म्म-
कारकः । मजुर ठिकाचाकर इत्यादि भाषा ।
तत्पर्य्यायः । भृतकः २ भृतिभुक् ३ वैतनिकः ४ ॥
वेतनोपजीवी । तत्पर्य्यायः ॥ भरण्यभुक् २ । इत्य-
मरः । ३ । १ । १९ ॥ कर्म्मण्यभुक् ३ । इति तट्टीका ॥
कर्म्मकर्त्तृमात्रञ्च ॥ (यथा, मिताक्षरायां नारदः ।
“शिष्यान्तेवासिभृतकाश्चतुर्थस्त्वधिकर्म्मकृत् । एते
कर्म्मकरा ज्ञेयाः” ॥)

कर्म्मकरः, पुं, (कृञ् हिंसायां + मन् । कर्म्म हिंसां

करोतीति । कृ + हेत्वादौ टः । यद्वा, जीवकृत-
कर्म्माधिकृत्य करोति सुखदुःखयोर्व्यवस्थां निष्पा
दयति नरकस्वर्गादिव्यवस्थां करोति वा । धर्म्मा-
धर्म्मात्मकं कर्म्म समीक्ष्य सर्व्वान् शास्तीत्यर्थः ।
कर्म्मफलानुसारेण पापात्मनां दण्डप्रदानरूपहिं-
सायामधिकारित्वात् अस्य तथात्वम् ।) यमः । इति
मेदिनी ॥

कर्म्मकरी, स्त्री, (कर्म्म + कृ + टः । टित्त्वात् + ङीप् ।)

मूर्व्वा लता । विम्बिका लता । इति मेदिनी ॥
दासी । इति शब्दरत्नावली ॥
(यथा भागवते ३ । २३ । २७ ।
“वयं कर्म्मकरीस्तुभ्यं शाधि नः करवाम किम्” ॥)

कर्म्मकारः, पुं, (कर्म्म वेतनं गृहीत्वा लोहादिभिः

खड्गकर्त्तरिकादिकं करोति निर्म्मातीति । कर्म्म +
कृ + उपपदे “कर्म्मण्यण्” । ३ । २ । १ । इति
अण् ।) वर्णसङ्करविशेषः । लौहकारः । कामार इति
भाषा । स तु शूद्रायां विश्वकर्म्मणो जातः । इति
ब्रह्मवैवर्त्तपुराणम् ॥ वृषः । इति शब्दचन्द्रिका ॥

कर्म्मकारः, त्रि, (कर्म्म करोति मृतिमृते । कर्म्म + कृ

+ अण् ।) वेतनं विना भारवहनादिकर्म्मकारकः ।
वेगार इति भाषा ॥ तत्पर्य्यायः । कर्म्मक्रियः २ ।
इत्यमरः । ३ । १ । १९ ॥

कर्म्मकीलकः, पुं, (कर्म्मणा कीलक इव वस्त्रक्षालन-

रञ्जनादिना गृहस्थानां मानरक्षाकपाटकीलक-
स्वरूपः ।) रजकः । इति त्रिकाण्डशेषः ॥

कर्म्मजः, पुं, (कर्म्मणो जातः । विषयभोगवासनाव-

शात् क्रमशः मलिनायमानो वृत्तिभिर्जात इत्यर्थः ।
जन + ड ।) कलियुगः । इति शब्दरत्नावली ॥
वटवृक्षः । इति जटाधरः ॥ क्रियाजन्ये त्रि ।
(यथा, मनुः । १२ । १०१ ।
“तथा दहति वेदज्ञः कर्म्मजं दोषमात्मनः” ॥
कारणभेदेन रोगभेदो यथा ।
“बहुभिरुपचारैस्तु येन यान्ति समन्ततः ।
ते कर्म्मजाः समुद्दिष्टा व्याधयो दारुणाः पुनः” ॥
इति हारीते चिकित्सितस्थाने २ अध्यायः ॥)

कर्म्मजगुणः, पुं, (कर्म्मणो जायते यो गुणः क्रियाहेतोः

जातो गुण इत्यर्थः ।) क्रियाजन्यगुणः । तद्यथा ।
“संयोगश्च विभागश्च वेगश्चैते तु कर्म्मजा” ॥
इति भाषापरिच्छेदे ॥ ९७ ॥

कर्म्मठः, त्रि, (कर्म्मणि घटते इति । “कर्म्मणि घटो-

ऽठच्” । ५ । २ । ३५ । इति अठच् ।) कर्म्मकुशलः ।
यथा । भट्टिः । १ । ११ ।
“ज्ञाताशयस्तस्य ततो व्यतानीत्
स कर्म्मठः कर्म्मसुतानुबन्धम्” ॥
प्रयत्नेन प्रारब्धं कर्म्म समापयति यः । तत्पर्य्यायः
कर्म्मशूरः २ । इत्यमरः । ३ । १ । १८ ॥

कर्म्मण्यः, त्रि, (कर्म्मणि साधुः तत्र साधुरिति यत् ।

यद्वा कर्म्मणा सम्पादि ।) कर्म्मयोग्यः । क्रियार्हः ।
केजुया इति भाषा । कर्म्मणा भ्राजते इत्यर्थे य-
प्रत्ययः । इति संक्षिप्तसारव्याकरणम् ॥ (यथा,
ऋग्वेदे १ । ९१ । २० । “सोमोवीरं कर्म्मण्यं
ददाति” ॥)

कर्म्मण्यभुक्, त्रि, (कर्म्मण्यं वेतनं भुङ्क्ते । भुज् + क्विप् ।)

भरण्यभुक् । वेतनीपजीवी । इत्यमरटीकायां
स्वामी ॥

कर्म्मण्या, स्त्री, (कर्म्मणा सम्पद्यते तत्र साधुरिति

यत् । टाप् च ।) वेतनम् । मूल्यम् । इत्यमरः । २ ।
१० । ३८ ॥

कर्म्मन्दी, [न्] पुं, (कर्म्मन्देन भिक्षुसूत्रकारकेण

स्वनामख्यातऋषिविशेषेण प्रोक्तं भिक्षुसूत्रभधीते
यः । कर्म्मन्द + इनिः ।) भिक्षुः । सन्न्यासी । इत्य-
मरः । २ । ७ । ४२ ॥

कर्म्मफलं, क्ली, (कर्म्मणः जीवकृतशुभाशुभस्य शास्त्र-

विहितस्य निषिद्धस्य वा सुखदुःखादिरूपं फलं
परिणाम इत्यर्थः ।) कर्म्मविपाकः । (यथा,
विष्णुपुराणे १ । १९ । ७१ ।
“समस्तकर्म्मभोक्ता च कर्म्मोपकरणानि च ।
त्वमेव विष्णो ! सर्व्वाणि सर्व्वकर्म्मफलञ्च यत्” ॥
तथा च मनुः । ११ । २३१ ।
“एवं सञ्चित्य मनसा प्रेत्य कर्म्मफलोदयम्” ॥)
कर्म्मरङ्गफलम् । इति मेदिनी ॥ कामराङ्गा
इति भाषा ॥

कर्म्मभूः, स्त्री, (कर्म्मणः कृषिकार्य्यस्य कर्म्मणि वा

उचिता उपयोगिनी वा या भूः ।) कृष्टभूमिः ।
तत्पर्य्यायः । कर्म्मान्तः २ । इति हेमचन्द्रः ॥ (आर्य्या-
वर्त्तदेशः । यथा, विष्णुपुराणम् ।
“तत्रापि भारतं श्रेष्ठं जम्बुद्वीपे महामुने ! ।
यतो हि कर्म्मभूरेषा अतोऽन्या भोगभूमयः” ॥)

कर्म्मभूमिः, स्त्री, (कर्म्मणः पुण्यात्मसम्पाद्ययज्ञादि-

रूपक्रियायाः भूमिः ।) आर्य्यावर्त्तदेशः । इति
पृष्ठ २/०४७
:हेमचन्द्रः ॥ (भारवर्षं यथा, विष्णुपुराणे २ । ३ । १-२ ।
“उत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम् ।
वर्षं तद् भारतं नाम भारती यत्र सन्ततिः ॥
नवयोजनसाहस्रो विस्तारोऽस्य महामुने ! ।
कर्म्मभूमिरियं स्वर्गमपवर्गञ्च गच्छताम्” ॥
तथा च रामायणे २ । १०९ । २८ । हेमा ।
“कर्म्मभूमिमिमां प्राप्य कर्त्तव्यं कर्म्म यत् शुभम्” ॥)

कर्म्ममूलं, क्ली, (कर्म्म यज्ञादिक्रियाजन्यं सत्कर्म्म-

हेतुकं वा मूलं यस्य । कर्म्मणो मूल मिव मूलं
यस्य वा ।) कुशतृणम् । इति शब्दचन्द्रिका ॥

कर्म्मयुगं, क्ली, (क्रिणाति हिनस्ति अन्योन्यं यत्र युगे-

तत् कर्म्म । कृ हिंसायां + मनिन्प्रत्ययः । कर्म्म
हिंसाप्रधानं युगं इति कर्म्मधारयः । कलेः हिंसा-
प्रधानत्वात् तथात्वम् ।) कलियुगम् । इति त्रिकाण्ड-
शेषः ॥

कर्म्मयोगः, पुं, (कर्म्मसु योगस्तत्कौशलम् ।) चित्त-

शुद्धिजनकवैदिककर्म्म । यथा । निष्कामकर्म्म-
णात्मज्ञानमित्युक्तं यथा ।
“अयमेव क्रियायोगो ज्ञानयोगस्य साधकः ।
कर्म्मयोगं विना ज्ञानं कस्यचिन्नैव दृश्यते ॥
सोऽपि दुरितक्षयद्वारा न साक्षात्” । इति मल-
मासतत्त्वम् ॥ * ॥ तदनुष्ठानस्यावश्यकत्वं यथा ।
श्रीभगवानुवाच ॥
“लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयाऽनघ ! ।
ज्ञानयोगेन सांख्यानां कर्म्मयोगेण योगिनाम् ॥
न कर्म्मणामनारम्भान्नैकर्म्म्यं पुरुषोऽश्नुते ।
न च सन्न्यसनादेव सिद्धिं समधिगच्छति ॥
न हि कश्चित् क्षणमपि जातु तिष्ठत्यकर्म्मकृत् ।
कार्य्यते ह्यवशः कर्म्म सर्व्वः प्रकृतिजैर्गुणैः ॥
कर्म्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् ।
इन्द्रियार्थान् विमूढात्मा मिथ्याचारः स उच्यते ॥
यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्ज्जुन ! ।
कर्म्मेन्द्रियैः कर्म्मयोगमसक्तः स विशिष्यते ॥
नियतं कुरु कर्म्म त्वं कर्म्म ज्यायो ह्यकर्म्मणः ।
शरीरयात्रापि च ते न प्रसिद्ध्येदकर्म्मणः ॥
यज्ञार्थात् कर्म्मणोऽन्यत्र लोकोऽयं कर्म्मबन्धनः ।
तदर्थं कर्म्म कौन्तेय ! मुक्तसङ्गः समाचर ॥
सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः ।
अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ॥
देवान् भावयतानेन ते देवा भावयन्तु वः ।
परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥
इष्टान् भोगान् हि वो देवा दास्यन्ते यज्ञभाविताः ।
तैर्दत्तानप्रदायैभ्यो यो भुङ्व्क्ते स्तेन एव सः ॥
यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्व्वकिल्विषैः ।
भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ॥
अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः ।
यज्ञाद्भवति पर्जन्यो यज्ञः कर्म्मसमुद्भवः ॥
कर्म्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् ।
तस्मात् सर्व्वगतं व्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥
एवं प्रवर्त्तितं चक्रं नानुवर्त्तयतीह यः ।
अघायुरिन्द्रियारामो मोघं पार्थ ! स जीवति ॥
यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः ।
आत्मन्येव च सन्तुष्टस्तस्य कार्य्यं न विद्यते ॥
नैव तस्य कृते नार्थो नाकृतेनेह कश्चन ।
न चास्य सर्व्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥
तस्मादसक्तः सततं कार्य्यं कर्म्म समाचर ।
असक्तो ह्याचरन् कर्म्मपरमाप्नोति पूरुषः ॥
कर्म्मणैव हि संसिद्धिमास्थिता जनकादयः ।
लोकसंग्रहमेवापि संपश्यन् कर्त्तुमर्हसि ॥
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ।
स यत् प्रमाणं कुरुते लोकस्तदनुवर्त्तते ॥
न मे पार्थास्ति कर्त्तव्यं त्रिषु लोकेष किञ्चन ।
नानवाप्तमवाप्तव्यं वर्त्त एव च कर्म्मणि ॥
यदि ह्यहं न वर्त्तेयं जातु कर्म्मण्यतन्द्रितः ।
मम वर्त्तानुवर्त्तन्ते मनुष्याः पार्थ ! सर्व्वशः ॥
उत्सीदेयुरिमे लोका न कुर्य्यां कर्म्म चेदहम् ।
सङ्करस्य च कर्त्ता स्यामुपहन्यामिमाः प्रजाः ॥
सक्ताः कर्म्मण्यविद्वांसो यथा कुर्व्वन्ति भारत ।
कुर्य्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसंग्रहम् ॥
न बुद्धिभेदं जनयेदज्ञानां कर्म्मसङ्गिनाम् ।
योजयेत् सर्व्वकर्म्माणि विद्वान् युक्तः समाचरन् ॥
प्रकृतेः क्रियमाणानि गुणैः कर्म्माणि सर्व्वशः ।
अहङ्कारविमूढात्मा कर्त्ताहमिति मन्यते ॥
तत्त्ववित्तु महाबाहो गुणकर्म्मविभागयोः ।
गुणा गुणेषु वर्त्तन्त इति मत्वा न सज्जते ॥
प्रकृतेर्गुणसंमूढाः सज्जन्ते गुणकर्म्मसु ।
तानकृत्स्नविदो मन्दान् कृत्स्नविन्न विचालयेत् ॥
मयि सर्व्वाणि कर्म्माणि संन्यस्याध्यात्मचेतसा ।
निराशीर्निर्म्ममो भूत्वा युध्यस्व विगतज्वरः ॥
ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः ।
श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्म्मभिः ॥
ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् ।
सर्व्वज्ञानविमूढांस्तान् विद्धि नष्टानचेतसः ॥
सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि ।
प्रकृतिं यान्ति भूतानि निग्रह्रः किं करिष्यति ॥
इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ ।
तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ॥
श्रेयान् स्वधर्म्मो विगुणः परधर्म्मात् स्वनुष्ठितात् ।
स्वधर्म्मे निधनं श्रेयः परधर्म्मो भयावहः” ॥
इति श्रीभगवद्गीतायां कर्म्मयोगो नाम ३ अ-
ध्यायः ॥ * ॥ अन्यत् भगवन्मन्दिरादिकरणं वह्नि-
पुराणे यमानुशासननामाध्याये द्रष्टव्यम् ॥

कर्म्मरङ्गः, पुं, क्ली, (कर्म्मणे हिंसाक्रियायै तत्फल-

भक्षणकारिणां रोगादिजननक्रियायै इत्यर्थः
रज्यते पर्य्याप्यते । कृ हिंसायां इति धातो-
मनिन् प्रत्ययेन निष्पण्णत्वात् ततो कर्म्मन् + रन्ज
+ घञ् ।) फलवृक्षविशेषः । कामराङ्गा इति
भाषा ॥ (यथा, रामायणे । ३ । १७ । ८ । गों ।
“सोमवृक्षान् कर्म्मरङ्गान् पियालांश्चक्वचित्क्वचित्” ॥)
तत्पर्य्यायः । शिरालः २ वृहदम्लः ३ रुजाकरः ४ ।
इति शब्दचन्द्रिका ॥ कर्म्मारः ५ कर्म्मरकः ६
पीतफलः ७ कर्म्मरः ८ मुद्गरकः ९ मुद्गरः १०
धराफलः ११ कर्म्मारकः १२ । अस्य गुणाः ।
अम्लत्वम् । उष्णत्वम् । वातहारित्वम् । पित्तकारि-
त्वञ्च । इति राजनिर्घण्टः ॥ तीक्ष्णत्वम् । कटुपाकि-
त्वम् । अम्लपित्तकारित्वञ्च । इति राजबल्लभः ॥
तत्पक्वफलगुणः । मधुराम्लत्वम् । बलपुष्टिरुचिप्रद-
त्वञ्च । इति राजनिर्घण्टः ॥
(“कर्म्मरङ्गं हिमंग्राहि स्वाद्वम्लं कफवातहृत्” ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे १ म भागे ॥)

कर्म्मरी, स्त्री, (कर्म्म भैषज्योपयोगक्रियां राति

ददाति । रा + कः । ततो गौरादित्वात् ङीष् ।)
वंशरोचना । इति राजनिर्घण्टः । (वंशरोचना-
शब्देऽस्या विस्तृतिर्ज्ञातव्या ॥)

कर्म्मवज्रः, पुं, (कर्म्म श्रौतस्मार्त्ताद्यनुष्ठानं तत्त-

च्छास्त्रादेरध्ययनमाचरणादिकं वा वज्रं वज्र
तुल्यदृढं यस्य । द्विजेतरजातेः श्रौतादिकर्म्मा-
श्रुतिगोचराज्ञेयतादिहेतुकत्वात् वज्रवत् कठिनं
प्रतिभातीति भावः ।) शूद्रः । इति महाभारतम् ॥

कर्म्मवाटी, स्त्री, (कर्म्मणां शास्त्रोक्ततिथिनिमित्ती-

भूतक्रियाणां चन्द्रकलाक्रियाणां वा वाटीव । पुष्प-
वाटीका यथा पुष्पादेराधारस्तद्वदित्यर्थः । ति-
थीनां हि कर्म्मनिमित्ततया तथात्वम् ।) तिथिः ।
इति हेमचन्द्रः ॥

कर्म्मविपाकः, पुं, (कर्म्मणः अधर्म्ममूलकस्य अशुभ-

फलजनकस्येति यावत् विपाकः परिणामः । इह
रोगादिभोगजनकदुःखमयपरिणामः । अमुत्र नर-
कभोगादिजनकदुःखमयपरिणामश्च ।) अशुभकर्म्म
जन्यफलस्य विपाकः । रोगादिरूपजन्मान्तरीया-
शुभकर्म्मफलभोग इति यावत् । तद्विवरणं यथा, --
“नरकात् प्रतिमुक्तस्तु पापयोनिषु जायते ।
पतितात् प्रतिगृह्याथावरयोनिं व्रजेद्बुधः ॥
नरकात् प्रतिमुक्तस्तु कृमिर्भवति पातकः ।
उपाध्यायव्यलीकन्तु कृत्वा श्वा मवति द्विजः ॥
तज्जायां मनसा वाञ्छंस्तद्द्रव्यं वाप्यसंशयम् ।
गर्दभो जायते जन्तुर्म्मित्रस्यैवापमानकृत् ॥
मात्रादीतरमाक्रम्य शारिका संप्रजायते ।
पितरौ पीडयित्वा तु कच्छपत्वञ्च गच्छति ॥
भर्त्तुः पिण्डमुपाश्वस्तो हित्वान्यानि निषेवयेत् ।
सोऽपि मोहसमापन्नो जायते वानरो मृतः ॥
न्यासापहर्त्ता नरकात् विमुक्तो जायते कृमिः ।
असूयकश्च नरकान्मुक्तो भवति राक्षसः ॥
विश्वासहर्त्ता च नरो मीनयोनौ प्रजायते ।
यवधान्यानि हृत्वा तु जायते मूशिको मृतः ॥
परदाराभिमर्षात्तु वृको घोरोऽभिजायते ।
भ्रातृभार्य्याप्रसङ्गत्वे कोकिलो जायते नरः ॥
गुर्व्वादिभार्य्यागमनात् शूकरो जायते नरः ।
यज्ञदानविवाहानां विघ्नकर्त्ता भवेत् कृमिः ॥
देवतापितृविप्राणामदत्त्वा योऽन्नमश्नुते ।
प्रमुक्तो नरकाद्वापि वायसः स प्रजायते ॥
ज्येष्ठभ्रात्रवमानाच्च क्रौञ्चयोनौ प्रजायते ।
शूद्रश्च ब्राह्मणीं गत्वा कृमियोनौ प्रजायते ॥
तस्यामपत्यमुत्पाद्य काष्ठान्तःकीटको भवेत् ।
कृतघ्नः कृमिकः कीटः पतङ्गो वृश्चिकस्तथा ॥
अशस्त्रं पुरुषं हत्वा नरः संजायते खरः ।
कृमिः स्त्रीवधकर्त्ता च बालहन्ता च जायते ॥
पृष्ठ २/०४८
:भोजनं चोरयित्वा तु मक्षिका जायते नरः ।
हृत्वान्नञ्चैव मार्ज्जारस्तिलहृच्चैव मूषिकः ॥
घृतं हृत्वा च नकुलः काको मद्गुरमामिषम् ।
मधु हृत्वा नरो दंशः पूपं हृत्वा पिपीलकः ॥
अपो हृत्वा तु पापात्मा वायसः सम्प्रजायते ।
हृते कांस्ये च हारीतः कपोतो वा प्रजायते ॥
हृत्वा तु काञ्चनं भाण्डं कृमियोनौ प्रजायते ।
कार्पासिके हृते क्रौञ्चो वह्निहर्त्ता वकस्तथा ॥
मयूरो वर्णकं हृत्वा शाकं पत्रञ्च जायते ।
जीवञ्जीवकतां याति रक्तवस्त्रापहृन्नरः ॥
छुछुन्दरिः शुभान् गन्धान् वंशं हृत्वा शशो भवेत् ।
षण्डः कलापहरणे काष्ठहृत् काष्ठकीटकः ॥
पुष्पापहृद्दरिद्रस्तु पङ्गुर्यावापहृन्नरः ।
शाकहर्त्ता च हारीतस्तोयहर्त्ता च चातकः ॥
गृहहृन्नरकान् गत्वा रौरवादीन् सुदारुणान् ।
तृणगुल्मलतावल्लीत्वक्सारतरुतां व्रजेत् ॥
एष एव क्रमो दृष्टो गोसुवर्णादिहारिणां ।
विद्यापहारी मूकश्च गत्वा च नरकान् बहून् ॥
असमिद्धेऽग्नौ हुते च मन्दाग्निः सम्प्रजायते ।
परनिन्दा कृतघ्नत्वं परमर्म्मावघातनम् ॥
नैष्ठुर्य्यं निर्घृणत्वञ्च परदारोपसेवनम् ।
परस्वहरणाशौचं देवतानाञ्च कुत्सनम् ॥
निकृत्य वञ्चणं नॄणां कार्पण्यञ्च नृणां बुधः ।
उपलक्षणादि जानीयात् मुक्तानां नरकादनु ॥
दयाभूतेषु सम्वादः परलोकं प्रतिक्रिया ।
सत्यं हितार्थता चोक्तिर्वेदप्रामाण्यदर्शनम् ॥
गुरुदेवर्षिपूजा च केवलं साधुसङ्गमः ।
सत्क्रियाभ्यसनं मैत्री स्वर्गिणां लक्षणं विदुः ।
अष्टाङ्गयोगविज्ञानात् प्राप्नोत्यात्यन्तिकं फलम्” ॥
इति गारुडे कर्म्मविपाकः २२९ अध्यायः ॥
शातातपभृगुभरतोक्तः पापरोगप्रायश्चित्तानां
विवरणग्रन्थः । प्रायश्चित्तविहीनपापिनां नरकान्ते
प्रतिजन्म तत्पापसूचितरोगयुक्तं शरीरं भवति ।
नृणां दुष्कर्म्मजा रोगा जपदेवार्च्चनहोमदाना-
दिभिः शमं यान्ति ॥ * ॥ महापातकजा रोगाः सप्त-
जन्मसु जायन्ते । तद्यथा--कुष्ठम् । राजयक्ष्मा ।
प्रमेहः । ग्रहणी । मूत्रकृच्छ्रम् । अस्मरी । कासः ।
अतीसारः । भगन्दरः । दुष्टव्रणः । गण्डमाला ।
पक्षाघातः । अक्षिनाशनम् । इत्यादयः । अत्र
सम्पूर्णं प्रायश्चित्तम् ॥ * ॥ उपपापोद्भवा रोगाः
पञ्चजन्मसु जायन्ते । तद्यथाः--जोलदरम् ।
यकृत् । प्लीहा । शूलम् । व्रणः । श्वासः । जीर्णज्वरः ।
छर्द्दिः । भ्रमः । मोहः । गलग्रहः । रक्तार्व्वुदम् ।
विसर्पः । इत्यादयः । अत्र अर्द्धं प्रायश्चित्तम् ॥ * ॥
पापसमुद्भवा रोगाः त्रिषु जन्मसु जायन्ते ।
तद्यथाः--दण्डापतानकः । चित्रवपुः । कम्पः ।
विचर्च्चिका । वल्मीकः । पुण्डरीकम् । इत्यादयः ।
अत्र षष्ठांशं प्रायश्चित्तम् ॥ * ॥ अतिपापात्
अर्श आद्याः रोगा भवन्ति अन्ये बहुधा रोग-
सङ्कराश्च ॥ * ॥ अथ दानादिषु साधारणविधिः ।
गोदाने सुशीला सवत्सा पयस्विनी गौः । वृषदाने
शुक्लवस्त्रकाञ्चनसहितः शुभोऽनड्वान् । भूदाने
दशनिवर्त्तनपरिमिता भूः । सुवणदाने शतनिष्कं
खर्णं तदर्द्धार्द्धं वा । अश्वदाने उपस्करसहित-
सुशीलाश्वः । महिषदाने स्वर्णायुधयुक्तमहिषी ।
गजमहादाने सुवर्णफलसहितगजः । देवार्च्चने
लक्षोच्चावचपुष्पदानम् । ब्राह्मणभोजने सहस्र-
द्विजेभ्यो मिष्टान्नदानम् । रुद्रजपे लक्षसङ्ख्यक-
पुष्पकरणकत्र्यम्बकपूजनानन्तरं एकादशरुद्रजपः
तद्दशांशसघृतगुग्गुलहोमःवरुणमन्त्रैरभिषेचनञ्च ।
धान्यदाने षष्ठिसङ्ण्यकखारी परिमितधान्यम् ।
वस्त्रदाने कर्पूरमिश्रितपट्टवस्त्रद्वयम् ॥ * ॥
अथ प्रायश्चित्तग्रहणानुष्ठानादि । दश पञ्चाष्ट-
चतुरो वा ब्राह्मणानुपवेश्य तेषामनुज्ञया प्राय-
श्चित्तमुपक्रम्य विष्णुं सम्पूज्य निजकाम्यया सङ्कल्प्य
द्विजेभ्यो धेनुंशक्तितोदक्षिणाञ्च दत्त्वा तान् वस्त्रा-
लङ्ककणैरलङ्कृत्य दण्डप्रमाणेन प्रायश्चित्तं याचेत ।
तेषामनुज्ञया प्रायश्चित्तंयथाविधि कृत्वा परिपूर्णा-
र्थान् तान् यथाविधि अर्च्चयित्वा तेभ्योऽनुज्ञामा-
शिषश्च प्रतिगृह्य ब्राह्मणान् भोजयित्वा वन्धुभिः
सह भोक्तव्यम् । इति शातातपीयकर्म्मविपाक-
प्रथमाध्यायविवरणम् ॥ * ॥ जन्मान्तरीयमहापातक-
शेषचिह्नकुनखादिरोगाणां प्रायश्चित्तं पराकव्रतं
महापातकादतिपातकस्य गुरुत्वात्तच्छेषजन्यगलत्
कुष्टरोगस्य प्रायश्चित्तं द्विगुणम् । इति स्मार्त्ताः ॥ * ॥
पृष्ठ २/०४८
अथ शातातपोक्तहिंसास्तेयाऽगम्यागमनाऽगतिप्रायश्चित्तानि क्रमेण लिख्यन्ते ॥
पापी
१ अजाघाती ... ... ...
२ अश्वहन्ता ... ... ...
३ उरभ्रघाती ... ... ...
४ उष्ट्रहन्ता ... ... ...
५ काकघाती ... ... ...
६ कारुहन्ता ... ... ...
७ खरहन्ता ... ... ...
८ गजघाती ... ... ...
९ गोत्रहा ... ... ...
१० गोवधी ... ... ...
११ तरक्षुहन्ता ... ... ...
रोगी
१ अधिकाङ्गः ... ... ...
२ वक्रतुण्डः ... ... ...
३ पाण्डुरोगी ... ... ...
४ विकृतस्वरः ... ...
५ कर्णहीनः ... ... ...
६ रूक्षः ... ... ... ...
७ खररोमा ... ... ...
८ सर्व्वकार्य्येष्वसिद्धार्थः ...
९ कुष्ठी निर्व्वंशश्च ... ...
१० कुष्ठी ... ... ...
११ केकरेक्षणः ... ... ...
प्रायश्चित्तम्
१ विचित्रवस्त्रयुक्तां अजां दद्यात् ॥
२ शतपलानि चन्दनानि दद्यात् ॥
३ व्राह्मणाय पलपरिमितकस्तूरिकां दद्यात् ॥
४ कर्पूरकं फलं दद्यात् ॥
५ कृष्णां गां दद्यात् ॥
६ शुक्लवर्णवृषभं दद्यात् ॥
७ कृष्णगुल्मिवत् प्रायश्चित्तं कुर्य्यात् ॥
८ प्रासादं कारयित्वा गणेशप्रतिमां स्थापयेत् अथवा कुलत्थशाकैः पूपैश्च गण-
शान्तिपूर्ब्बकं लक्षसंख्यकगणेशमन्त्रं जपेत् ॥
९ शतप्राजापत्यव्रतञ्चरित्वा ब्राह्मणाय भूमिं दक्षिणां दत्त्वा भारतं शृणुयात् ॥
१० पञ्चपल्लवसंयुक्तपञ्चवर्णसमन्वितरक्तचन्दनलिप्ताङ्गरक्तपुष्पाम्बरान्वितैकरक्तकुम्भं द-
क्षिणस्यां दिशि संस्थाप्य तत्र तिलचूर्णपूरितताम्रपात्रं विन्यस्य तदुपरि निष्कमितसुवर्ण-
निर्म्मितयमदेवं पुरुषसूक्तमन्त्रेण संपूज्य पापं मे शाम्यतामिति प्रार्थयेत् । ततः सामविद्
ब्राह्मणस्तत्र कलसे सामपारायणं कुर्य्यात् । ततो दशांशं सर्षपं दत्त्वा पात्रमाल्यामि-
षेचनं कुर्य्यात् । ततो “यमोऽपि महिषारूढो दण्डपाणिर्भयानकः । दक्षिणाशापतिर्देवो
मम पापं व्यपोहतु” ॥ इति मन्त्रेण यजमानो यमं विसृज्य तं आचार्य्याय निवेद्य सद्भक्ति-
माचरेत् ॥
११ गुल्ममयों धेनुं दद्यात् ॥
पृष्ठ २/०४९
पापी
१२ पितृहा ... ... ...
१३ बालघाती ... ... ...
१४ ब्रह्महा ... ... ...
१५ भ्रातृहा ... ... ...
१६ महिषीघाती ... ...
१७ मातृहा ... ... ...
१८ मार्जारहा ... ... ...
१९ राजहा ... ... ...
२० वकघाती ... ... ...
२१ वैश्यहन्ता ... ... ...
२२ शुकशारिकाघाती ... ...
२३ शूकरहन्ता ... ... ...
२४ शूद्रहन्ता ... ... ...
२५ शृगालहा ... ... ...
२६ स्त्रीहन्ता ... ... ...
२७ हरिणघाती ... ... ...
रोगी
१२ चेतनाहीनः ... ...
१३ मृतवत्सः ... ... ...
१४ पाण्डुकुष्ठी ... ... ...
१५ मूकः ... ... ...
१६ कृष्णगुल्मी ... ... ...
१७ अन्धः ... ... ...
१८ पीतपाणिः ... ... ...
१९ क्षयरोगी ... ... ...
२० दीर्घनसः ... ... ...
२१ रक्तार्ब्बुदी ... ... ...
२२ स्खलितवाक् ... ...
२३ दन्तुरः ... ... ...
२४ दण्डापतानकः ... ...
२५ विपादकः ... ... ...
२६ अतिसारी ... ... ...
२७ खञ्जः ... ... ...
प्रायश्चित्तम्
१२ त्रिंशत् प्राजापत्यानि कृत्वा पलपरिमितां सुवर्णनावं कारयित्वा ताम्रपात्रे रूप्यमयं
उम्भं स्थापयित्वा निष्कपरिमितस्वर्णनिर्म्मितं विष्णुं पट्टवस्त्रेण सबेष्ठ्य विधानतः पूजयेत् ।
तत् सर्व्वं ब्राह्मणाय दत्त्वा ब्राह्मणं विसर्जयेत् । अन्येभ्योऽपि विप्रेभ्यो भूयसीं दक्षिणां
दद्यात् ॥
१३ ब्राह्मणोद्वाहनं यधाविधि हरिवंशश्रवणञ्च कुर्य्यात् । महारुद्रजपान् कारयेत् ।
तद्दशांशेन अयुतसंख्यकदूर्व्वया च हुत्वा दक्षिणासहितनिष्कपरिमितैकादशस्वर्णानि
द्विजानुसारतः एकादशपलानि च दद्यात् । अन्यब्राह्मणेभ्यो यथाशक्ति दक्षिणां दद्यात् ।
तत आचार्य्यो वरुणदैवतमन्त्रैर्दम्पतीः स्नापयेत् । यजमान आचार्य्याय वस्त्रालङ्करणानि
दद्यात् ॥
१४ यजमानश्चतुर्दिक्षु पञ्चपल्लवपञ्चवर्णसंयुक्तचतुरः कलसान् संस्थाप्य तन्मध्ये कुम्भोपरि
रौप्यमष्टदलपद्मं विन्यस्य तदुपरि पलार्द्धार्द्धपरिमितसुवर्णनिर्म्मितदशहस्तं चतुर्म्मुखदेवं
संन्यस्य प्रत्यहं त्रिकालं पुरुषसूक्तेन पूजयेत् । ततः पूर्ब्बादिकुम्भेषु ब्रह्मचारिणो ब्राह्मणाः
ऋग्वेदप्रभृतीन् स्वस्ववेदान् शनैः पठेयुः । ततो मध्यकुम्भे तिलाक्तघृतहेमभिर्ग्रहशान्ति-
पुरःसरं दशांशेन होमं कुर्य्यात् । ततो ब्राह्मणो द्वादशाहेनेदं कर्म्म समाप्य तत्र पीठे
यथाविधि यजमानमभिषिञ्चेत् । ततो यजमानो ब्राह्मणेभ्यो यथाशक्ति गोभूहेमतिलोद-
कानि दत्त्वा कुम्भादीन् आचार्य्याय निवेदयेत् ॥
१५ चान्द्रायणव्रतं चरित्वा “सरस्वति जगन्मातः शब्दब्रह्मादिदेवते । दुष्कर्म्मकरणात्
पापात् पाहि मां परमेश्वरि” ॥ इमं मन्त्रमुच्चार्य्य पलपरिमितसुवर्णसहितपुस्तकं ब्राह्म-
णाय दत्त्वा तं ब्राह्मणं विसर्ज्जयेत् ॥
१६ निष्कत्रयपरिमितस्वर्णमयीं प्रकृतिं दद्यात् ॥
१७ पितृहवत् प्रायश्चित्तं कुर्य्यात् ॥
१८ निष्कमितस्वर्णनिर्म्मितं पारावतं दद्यात् ॥
१९ गोभूहिरण्यमिष्टान्नजलवस्त्राणि घृतधेनुं तिलधेनुञ्च दद्यात् ॥
२० शुक्लां गां दद्यात् ॥
२१ चत्वारि प्राजापत्यव्रतानि चरित्वा सप्तधान्यानि उत्सृजेत् ॥
२२ ब्राह्मणाय सदक्षिणं सच्छास्त्रपुस्तकं दद्यात् ॥
२३ सदक्षिणं घृतकुम्भं दद्यात् ॥
२४ एकं प्राजापत्यव्रतञ्चरित्वा सदक्षिणैकधेनुं दद्यात् ॥
२५ खञ्जवत् प्रायश्चित्तं कुर्य्यात् ॥
२६ दशाश्वत्थवृक्षान् रोपयेत् शर्कराधेनुं दद्यात् शतं व्राह्मणांश्च भोजयेत् ॥
२७ पलपरिमितसुवर्णाश्वं दद्यात् ॥ * ॥ “हिंसायां निष्कृतिरियं ब्राह्मणे समुदाहृता ।
तदर्द्धार्द्धप्रमाणेन क्षत्रियादिष्वनुक्रमात्” ॥ इति शातातपोक्तकर्म्मविपाकद्वितीयाध्याय-
हिंसाप्रायश्चित्तविवरणम् ॥ * ॥
पृष्ठ २/०४९
::१ अभक्ष्यभोक्ता ... ...
२ अस्पृश्यस्पृष्टान्नभोक्ता ...
३ गर्भपातकर्त्ता ... ...
४ दावाग्निदः ... ... ...
५ दुष्टवाग्मी ... ... ...
६ द्रव्ये सति कदन्नदः ... ...
७ धूर्त्तः ... ... ... ...
८ परनिन्दावान् ... ...
९ परान्नविघ्नकर्त्ता ... ...
१० परोपतापी ... ... ...
११ परोपहासकृत् ... ...
१२ पिशुनः ... ... ...
१ कृमिकोदरः ... ...
२ कृमिलोदरः ... ...
३ यकृत्प्लीहजलोदररोगी ...
४ रक्तातिसारी ... ...
५ खण्डितः ... ... ...
६ मन्दोदराग्निः ... ...
७ अपस्मारी ... ... ...
८ खल्लीटः ... ... ...
९ अजीर्णी ... ... ...
१० शूली ... ... ...
११ काणः ... ... ...
१२ श्वासकासी ... ...
१ भीमपञ्चकोपवासं कुर्य्यात् ॥
२ त्रिरात्रमुपवसेत् ॥
३ पलत्रयपरिमितसुवर्णरूप्यताम्रान्दितजलधेनुदानं कुर्य्यात् ॥
४ उदपानं वटवृक्षरोपणञ्च कुर्य्यात् ॥
५ दुग्धसमन्वितघटद्वयं पलद्वयपरिमितरूप्यञ्च द्विजातये दद्यात् ॥
६ प्राजापत्यत्रयं कृत्वा शतं द्विजान् भोजयेत् ॥
७ ब्रह्मकूर्च्चमयींधेनुं दत्त्वा सदक्षिणां गां दद्यात् ॥
८ काञ्चनसहित धेनुं दद्यात् ॥
९ यथाविधि लक्षहोमं कुर्य्यात् ॥
१० अन्नदानं रुद्रजपञ्च प्रकुर्व्वीत ॥
११ सकाञ्चनां गां दद्यात् ॥
१२ सहस्रपलसम्मितं घृतं दद्यात् ॥
पृष्ठ २/०५०
पापी
१३ प्रतिमाभङ्गकारी ... ...
१४ मद्यपः ... ... ...
१५ मार्गहा ... ... ...
१६ रजस्वलादृष्टान्नभोक्ता ...
१७ विषदः ... ... ...
१८ सभायां प्रक्षपाती ... ...
१९ सुरापः ... ... ...
२० सुरालये जले वा ...
शकृन्मूत्रकारी ...
रोगी
१३ अप्रतिष्ठः ... ... ...
१४ रक्तपित्ती ... ... ...
१५ पादरोगी ... ... ...
१६ कृमिलोदरः ... ...
१७ छर्द्दिरोगी ... ... ...
१८ पक्षघातवान् ... ...
१९ श्यावदन्तः ... ... ...
२० गुदरोगी ... ... ...
प्रायश्चित्तम्
१३ वत्सरत्रयपर्य्यन्तं प्रतिदिनं अश्वत्थसेचनानन्तरं गृह्योक्तविधिना समां गम्यामुद्वाह-
येत् सुपूजितं विघ्नराजञ्च संस्थापयेत् ॥
१४ सर्पिषो घटं सहिरण्यं मधुनोऽर्द्धघटञ्च दद्यात् ॥
१५ अश्वं दद्यात् ॥
१६ त्रिरात्रं गोमूत्रयावकं भुञ्जीत ॥
१७ दश पयस्विनीर्गा दद्यात् ॥
१८ सत्यवर्त्तिने निष्कत्रयपरिमितं हेम दद्यात् ॥
१९ प्राजापत्यव्रतञ्चरित्वा सप्ततुलापरिमितशर्करां दत्त्वा महारुद्रं जप्त्वा तद्दशांशं तिलै-
र्हुत्वा वरुणदैवतमन्त्रैरभिषेकं कुर्य्यात् ॥
२० मासं व्याप्य सुरार्च्चनं गोद्वयदानं प्राजापत्यमेकञ्च कुर्य्यात् ॥ * ॥
इति शातातपोक्तकर्म्मविपाकतृतीयाध्यायप्रकीर्णप्रायश्चित्तविवरणम् ॥ * ॥
पृष्ठ २/०५०
::१ अगम्याभिगामी ... ...
२ अश्वयोनिगामी ... ...
३ आमान्नहारी ... ...
४ इक्षोर्विकारहारी ... ...
५ ऊर्णाहारी ... ... ...
६ औषधापहर्त्ता ... ...
७ कन्दमूलहारी ... ...
८ कांस्यहारी ... ... ...
९ गुरुजायाभिगामी ... ...
१० चाण्डालीगामी ... ...
११ तपस्विनीप्रसङ्गी ... ...
१२ तपस्विनीसङ्गमी ... ...
१३ ताम्बूलहारी ... ... ...
१४ ताम्रचौरः ... ... ...
१५ तेलचौरः ... ... ...
१६ त्रपुहारी ... ... ...
१७ दधिचौरः ... ... ...
१८ दारुहारी ... ... ...
१९ दीक्षितस्त्रीप्रसङ्गी ... ...
२० दुग्धहारी ... ... ...
२१ देवहारी ... ... ...
२२ नानाविधद्रव्यचौरः ...
२३ पक्वान्नहारी ... ... ...
२४ पट्टमूत्रहर्त्ता ... ...
२५ पशुयोनिगामी ... ...
२६ पितृष्वसृगन्ता ... ...
२७ पुत्त्रजायाभिगामी ... ...
१ ध्रुवमण्डली ... ...
२ गुदस्तम्भी ... ... ...
३ हीनदीप्तिः ... ... ...
४ उदरगुल्मवान् ... ...
५ लोमशः ... ... ...
६ सूर्य्यावर्त्तरोगी ... ...
७ ह्रस्वपाणिः ... ... ...
८ पुण्डरीकसमन्वितः ...
९ मूत्रकृच्छ्री ... ... ...
१० हीनमुष्कः ... ... ...
११ प्रमेहगदी ... ... ...
१२ अश्मरीगदी ... ...
१३ श्वेतौष्ठः ... ... ...
१४ औडुम्बरी ... ... ...
१५ कण्ड्वादिपीडितः ... ...
१६ नेत्ररोगवान् ... ...
१७ मदवान् ... ... ...
१८ स्विन्नपाणिः ... ...
१९ दुष्टरक्तदृक्रोगी ... ...
२० बहुमूत्रकः ... ... ...
२१ विविधज्वरी ... ...
२२ ग्रहणीयुक्तः ... ...
२३ जिह्वारोगी ... ...
२४ विलोमा ... ... ...
२५ मूत्राघाती ... ... ...
२६ दक्षिणांशव्रणी ... ...
२७ कृष्णकुष्ठी ... ... ...
१ कार्पासभारकांस्यदोहसंयुक्तसवत्सकतिलषष्टिमितहेमधेनुं “सुरभी वैष्णवी माता मम
पापं व्यपोहतु” इमं मन्त्रमुच्चार्य्य दद्यात् ॥
२ मासं व्याप्य प्रतिदिनं सहस्रसङ्ख्यकमलकरणकशिरःस्नानं कुर्य्यात् । स्त्रीणामपि
तत्तत्पुरुषसंसर्गात्तत्तत्प्रायश्चित्तम् ॥
३ निष्कद्वयस्वर्णनिर्म्मिताश्विनीकुमारौ दद्यात् ॥
४ गुडधेनुं प्रदद्यात् ॥
५ कम्बलान्वितनिष्कमितस्वर्णनिर्म्मितवह्निमूर्त्तिं अर्च्चयित्वा ब्राह्मणाय दद्यात् ॥
६ मासं व्याप्य सूर्य्यार्ध्यं काञ्चनञ्च दद्यात् ॥
७ यथाशक्ति देवगृहं उद्यानञ्च कुर्य्यात् ॥
८ ब्राह्मणमलङ्कृत्य तस्मै शतपलं कांस्यं दद्यात् ॥
९ नीलमाल्यादिभूषितनीलवस्त्राच्छन्नघटं पश्चिमस्यां दिशि संस्थाप्य तदुपरि ताम्रपात्रे
षड्णिष्कस्वर्णनिर्म्मितवरुणं पुरुषसूक्तेन यजेत । सामवेदी ब्राह्मणस्तत्र सामवेदमाचरेत्
विंशतिनिष्कमितसुवर्णपुत्तलिकां निष्पापोऽहमित्युच्चार्य्य ब्राह्मणाय दद्यात् । “यादसा-
मधिपो देवो विश्वेषामधिपो वरः । संसारनौकर्णधारो वरुणः पावनोऽस्तु मे” ॥ इति
मन्त्रेण आचार्य्याय स्वर्णवरुणं दद्यात् ॥
१० मातृगामिवत प्रायश्चित्तं कुर्य्यात् ॥
११ मासं व्याप्य रुद्रं जपेत् यथाशक्ति काञ्चनञ्च दद्यात् ॥
१२ मधुधेणुं हिरण्यसहितशतद्रोणपरिमिततिलञ्च दद्यात्
१३ सदक्षिणोत्तमविद्रुमद्वयं दद्यात् ॥
१४ प्राजापत्यव्रतं शतपलपरिमितताम्रदानञ्च कुर्य्यात् ॥
१५ उपोष्य विप्राय तैलघटद्वयं दद्यात् ॥
१६ उपोष्य विधिवद्घृतधेनुं दद्यात् ॥
१७ विप्राय दधिधेनुं दद्यात् ॥
१८ विदुषे पलद्वयपरिमितकुङ्कुमं दद्यात् ॥
१९ प्राजापत्यद्वयं कुर्य्यात् ॥
२० ब्राह्मणाय यथाविधि दुग्धधेनुं दद्यान् ॥
२१ तत्र ज्वरे कर्णे रुद्रं जपेत् महाज्वरे महारुद्रं रोद्रज्वरे अतिरौद्रं वैष्णवज्वरे महा-
रुद्रातिरौद्रौ च जपेत् ॥
२२ शक्त्यनुसारेणान्नोदकवस्त्राणि हेम च दद्यात् ॥
२३ लक्षसंख्यकगायत्रीं जपेत् तिलकरणकं तद्दशांशहोमञ्च कुर्य्यात् ॥
२४ धेनुं दद्यात् ॥
२५ तिलपात्रद्वयं दद्यात् ॥
२६ शक्तितः अजां दद्यात् ॥
२७ स्वमुतागमनप्रायश्चित्तस्यार्द्धं घृताक्ततिलकरणकदशांशहोमञ्च कुर्य्यात् ॥
पृष्ठ २/०५१
:पापी
२८ फलहारी ... ... ...
२९ भ्रातृजायामिगामी ...
३० मधुचौरः ... ... ...
३१ मातुलानीगन्ता ... ...
३२ मातृगामी ... ... ...
३३ मातृष्वसृगन्ता ... ...
३४ मृतभार्य्याभिगामी ... ...
३५ रक्तवस्त्रप्रबालहारी ...
३६ लौहहारी ... ... ...
३७ वस्त्रहारी ... ... ...
३८ विद्यापुस्तकहारी ... ...
३९ विप्ररत्नापहारी ... ...
४० विप्रहेमहृत् ... ...
४१ शाकहारी ... ... ...
४२ शुक्तिहारी ... ... ...
४३ सौगन्धिकहारी ... ...
४४ स्वगोत्रस्त्रीप्रसङ्गी ... ...
४५ स्वजातिस्त्रीगामी ... ...
४६ स्वसुतागामी ... ...
रोगी
२८ व्रणिताङ्गुलिः ... ...
२९ गुल्मकुष्ठी ... ... ...
३० नेत्ररोगवान् ... ...
३१ पृष्ठकुब्जः ... ... ...
३२ लिङ्गहीनः ... ... ...
३३ नानाङ्गे व्रणवान् ... ...
३४ मृतभार्य्यः ... ... ...
३५ रक्तवातवान् ... ...
३६ कर्व्वूराङ्गः ... ... ...
३७ कुष्ठी ... ... ... ...
३८ मूकः ... ... ...
३९ अनपत्यः ... ... ...
४० कुलघ्नः ... ... ...
४१ नीललोचनः ... ...
४२ पाण्डुमूर्द्धजः ... ...
४३ दुर्गन्धाङ्गः ... ... ...
४४ भगन्दररोगी ... ...
४५ हृदयव्रणी ... ... ...
४६ रक्तकुष्ठी ... ... ...
प्रायश्चित्तम्
२८ द्विजातये अयुतसंख्यकनानाफलं दद्यात् ॥
२९ स्वसुतागमनप्रायश्चित्तस्यार्द्धं घृताक्ततिलकरणकदशांशहोमञ्च कुर्य्यात् ॥
३० उपवासं कृत्वा मधुधेनुं दद्यात् ॥
३१ कृष्णाजिनं प्रदद्यात् ॥
३२ उत्तरतः कृष्णमाल्यादिभूषितकृष्णवस्त्रसमाच्छन्नकुम्भं विन्यस्य तदुपरि कांस्यपात्रे
निष्कषट्कमितसुवर्णनिर्म्मितनरवाहनकुवेरं पुरुषसूक्तेन यजेत् । अथर्व्ववेदविद्ब्राह्मण-
स्तत्र अथर्व्वोक्तकर्म्म कुर्य्यात् । व्राह्मणाय विंशतिनिष्कपरिमितसुवर्णनिर्म्मितपुत्रिकां
निष्पापोऽहमिति ब्रुवन् दद्यात् । “निधीनामधिपो देवः शङ्करस्य प्रियः सखा । सौम्या-
शाधिपतिः श्रीमान् मम पापं व्यपोहतु” ॥ इति मन्त्रेण तं कुवेरं आचार्य्याय दद्यात् ॥
३३ दासदानं अगम्यागमनप्रायश्चित्तञ्च कुर्य्यात् ॥
३४ एकब्राह्मणं विवाहयेत् ॥
३५ मणिरागसमन्वितां सवस्त्रां महिषीं दद्यात् ॥
३६ एकदिनमुपोष्य शतपललौहं दद्यात् ॥
३७ निष्कमितहेमनिर्म्मितप्रजापतिं वस्त्रयुग्मञ्च दद्यात् ॥
३८ ब्राह्मणाय सदक्षिणं न्यायेतिहासं दद्यात् ॥
३९ महारुद्रजपादिकं कुर्य्यात् तद्दशांशपलाशसमिद्भिर्यधाविधि जुहुयात् मृतवत्सोक्त-
सर्व्वकर्म्म च कुर्य्यात् ॥
४० चान्द्रायणत्रयानन्तरं सुवर्णशतं दद्यात् ॥
४१ ब्राह्मणाय महानीलमणिद्वयं दद्यात् ॥
४२ उपवासानन्तरं पलशतशुक्तिं दद्यात् ॥
४३ अग्नौ लक्षसंख्यकपद्मैर्होमं कुर्य्यात् ॥
४४ महिषीं दद्यात् ॥
४५ प्राजापत्यद्वयं कुर्य्यात् ॥
४६ पूर्ब्बतः पीतमाल्यादिभूषितपीतवस्त्रसमाच्छन्नकलसं संस्थाप्य तस्योपरि स्वर्णपात्रं
निष्कषट्कमितसुवर्णनिर्म्मितवासवं पुरुषसूक्तेन यजेत् । तत्र ऋग्यजुःसामानि समा-
चरेत् ब्राह्मणं सम्पूज्य निष्पापोऽहमिति ब्रुवन् तस्मै शतसुवर्णनिर्म्मितपुत्त्रिकां दद्यात् ।
“देवानामधिपो देवो वज्री विष्णुनिकेतनः । शतयज्ञः सहस्राक्षः पापं मम निकृन्ततु” ॥
इति मन्त्रं पठेत् ॥ * ॥
इति शातातपीयकर्म्मविपाके चतुर्थाध्यायोक्तस्तेयप्रायश्चित्तस्य तथा पञ्चमाध्या-
योक्तागम्यागमनप्रायश्चित्तस्य च विवरणम् ॥ * ॥
पृष्ठ २/०५१
पापयुक्तः--
१ अनध्यायेऽध्ययनकर्त्ता ...
२ अस्पृशी ... ... ...
३ करवृत्तिः ... ... ...
४ कुमतिप्रदः ... ... ...
५ कुमारीगन्ता ... ...
६ कृत्तवासाः निकृन्तनश्च ...
७ क्रतुनिन्दकः श्रुति-
निन्दकोऽपि पाठः ...
८ गुरुघाती ... ... ...
९ दक्षिणाचौरः ... ...
१० द्रोही ... ... ...
११ द्विजनिन्दाकर्त्ता ... ...
१२ द्विजवस्त्रहृत् ... ...
मरणविशेषविशिष्टः--
१ विद्युदाहतः ... ...
२ अस्पर्शसङ्गी मृतः ... ...
३ वृकहतः वृषहतः ...
४ विषहतः ... ... ...
५ व्याघ्रादिहतः ... ...
६ कृमिहतः ... ... ...
७ शस्त्रहतः ... ... ...
८ शय्यामृतः ... ... ...
९ दवहतः दारुहतः ...
१० संस्कारहीनमृतः ... ...
११ प्रस्तरहतः ... ... ...
१२ अनपत्यमृतः ... ...
और्द्ध्वदेहिकपूर्ब्बकालीनतत्पुत्त्रादिकर्त्तव्यप्रायश्चित्तम् ।
१ विद्यादानं कुर्य्यात् ॥
२ वेदपारायणं कुर्य्यात् ॥
३ यथाशक्ति काञ्चणं दद्यात् ॥
४ क्षेत्रसंयुतां मेदिनीं दद्यात् ॥
५ परकन्यां विवाहयेत् ॥
६ द्विजाय गोधूमान्नं दद्यात् ॥
७ सदक्षिणां महिषीं दद्यात् ॥
८ निष्कमितसुवर्णनिर्म्मितपात्रस्थितविष्ण्वधिष्ठिततूलीसमन्वितशय्य दद्यात् ॥
९ सदने सभां कुर्य्यात् ॥
१० कुमारं विवाहयेत् ॥
११ सवत्सां पयस्विनीं गां दद्यात् ॥
१२ नवतिं कृच्छ्राणि चरेत् ॥
पृष्ठ २/०५२
पापयुक्तः--
१३ निक्षेपहारकः ... ...
१४ नृपनाशकः ... ... ...
१५ पशुहिंसकः ... ...
१६ पाशिकः ... ... ...
१७ मत्सरी ... ... ...
१८ मद्यविक्रेता ... ... ...
१९ मित्रभेदी ... ... ...
२० मेदिनीचौरः ... ...
२१ यज्ञहानिकर्त्ता ... ...
२२ राजकुमारघ्नः ... ...
२३ राजदन्तिहृत् ... ...
२४ लौहहृत् ... ... ...
२५ विषदः ... ... ...
२६ शङ्करद्रोही ... ... ...
२७ शास्त्रहृत् ... ... ...
२८ सूचकः ... ... ...
२९ सेतुभेदी ... ... ...
३० स्वदर्पकार्य्यकारकः ... ...
३१ हिंस्रः ... ... ...
मरणविशेषविशिष्टः--
१३ कुक्कुरहतः ... ... ...
१४ गजहतः ... ... ...
१५ चौरहतः ... ... ...
१६ अरण्ये शूकरहतः ...
१७ शौचहीनमृतः ... ...
१८ पतितमृतः ... ... ...
१९ वैरिहतः ... ... ...
२० भृगुपातहतः ... ...
२१ वह्निहतः ... ... ...
२२ राजहतः ... ... ...
२३ वृक्षहतः ... ... ...
२४ अतीसारमृतः ... ...
२५ सर्पदष्टः ... ... ...
२६ शृङ्गिहतः ... ... ...
२७ वान्तमाश्रित्य मृतः-
अस्पश्यस्पर्शनमृतश्च ...
२८ शकटहतः ... ... ...
२९ जलहतः ... ... ...
३० साकिन्यादिहतः ... ...
३१ उद्बन्धनमृतः ... ...
३२ हयाहतः ... ... ...
३३ कपिहतः ... ... ...
३४ विसूचिकामृतः ... ...
३५ कण्ठकबलमृतः ... ...
३६ केशरोगमृतः ... ...
और्द्ध्वदेहिकपूर्ब्बकालीनपुत्त्रादिकर्त्तव्यप्रायश्चित्तम् ।
१३ अत्र प्रायश्चित्तस्यानुक्तत्वात् व्याघ्रादिहत इत्यत्रादिपददर्शनाच्च तत्रोक्तप्रायश्चित्तं
युक्तम् ॥
१४ चतुर्निष्कमितहेमगजं दद्यात् ॥
१५ धेनुं दद्यात् ॥
१६ कुक्कुरहतवत् ॥
१७ द्विनिष्कस्वर्णजहरिं दद्यात् ॥
१८ षोडशप्राजापत्यानि कुर्य्यात् ॥
१९ वृषं दद्यात् ॥
२० धान्यपर्व्वतं दद्यात् ॥
२१ स्वशक्तित उपानहं दद्यात् ॥
२२ हिरण्मयपुरुषं दद्यात् ॥
२३ स्वर्णसंयुतं सौवर्णवृक्षं दद्यात् ॥
२४ संयतो लक्षसङ्ख्यकगायत्रीं जपेत् ॥
२५ नागबलिदानं काञ्चनदानञ्च कुर्य्यात् ॥
२६ वस्त्रसंयुक्तवृषभं दद्यात् ॥
२७ सच्छास्त्रपुस्तकं दद्यात् ॥
२८ उपस्करान्वितं अश्वं दद्यात् ॥
२९ निष्कत्रयमितस्वर्णवरुणं दद्यात् ॥
३० यथोचितं रुद्रं जपेत् ॥
३१ पयस्विनीं गां दद्यात् ॥
३२ निष्कत्रयमितं स्वर्णं दद्यात् ॥
३३ कनकनिर्म्मितकपिं दद्यात् ॥
३४ शतं द्विजान् भोजयेत् ॥
३५ तिलधेनुं दद्यात् ॥
३६ अष्टौ कृच्छ्रान् समाचरेत् ॥ * ॥
इति शातातपीयकर्म्मविपाके अगतीनां विशेषप्रायश्चित्तम् ॥ * ॥
पृष्ठ २/०५२
:अगतीनां साधारणप्रायश्चित्तम् ।
सफलसप्तधान्योपरि पञ्चपल्लवसर्व्वौषधिसंयुक्तं
कृष्णवस्त्रसमाच्छन्नमकालमूलं कलसं संस्थाप्य तत्र
महिषासनसंस्थितं चतुर्भुजं दण्डहस्तं स्वर्णकुण्डल-
संयुतं निष्कपरिमितं प्रेतरूपिणं पुरुषं संस्थाप्य
पूजयेत् । प्रत्यहं पुरुषसूक्तेन दुग्धेन तर्पयेत् तत्र
कलसे षडङ्गरुद्रं जपेत् । यमसूक्तेन यमपूजादिकं
आत्मविशुद्ध्यर्थं गायत्रीजपं ग्रहशान्तिपूर्ब्बकदशां-
शतिलहोमञ्च कुर्य्यात् । अज्ञातगोत्रविप्राय सति-
लमुदकं दद्यात् ।
“इमं तिलमयं पिण्डं मधुसर्पिःसमन्वितम् ।
ददामि तस्मै प्रेताय यः पीडां कुरुते मम” ॥
इति मन्त्रेण मधुशर्करायुक्तप्रस्थमितकृष्णतिल-
पिष्टपिण्डं प्रेतरूपाय दद्यात् । यजमानः प्रेत-
मुद्दिश्य तिलपात्रसंयुतान् द्वादशकृष्णकलसान्
विष्णुमुद्दिश्यैकं कलमञ्च दद्यात् । वरायुधधरः
शुचिराधार्य्यः वरुणदैवतमन्त्रैः कलसोदकैर्दम्पती
अमिषिञ्चेत् । ततो यजमान आचार्य्याय दक्षिणां
दद्यात नारायणबलिञ्च कुर्य्यात् ॥ * ॥
“एवं कृते विधानेन प्रकुर्य्यादौर्द्ध्वदेहिकम् ।
ततः प्रेतत्वनिर्म्मुक्ताः पावितास्तर्पितास्तथा ॥
दद्युः पुत्त्रांश्च पौत्त्रांश्च आयुरारोग्यसम्पदः” ॥
इति शातातपीयकर्म्मविपाकषष्ठाध्यायोक्ता-
गतिप्रायश्चित्तविवरणम् ॥ * ॥
(मार्कण्डेयोक्ताः कर्मविपाकाश्च । यथा, तत्रैव
१५ अध्याये उक्ताः ।
“पतितात् प्रतिगृह्यार्थं खरयोनिं व्रजेद्द्विजः ।
नरकात् प्रतिमुक्तस्तु कृमिः पतितयाजकः ॥
उपाध्यायव्यलीकन्तु कृत्वा श्वा भवति द्विजः ।
तज्जायां मनसा वाञ्छन् तद्द्रव्य चाप्यसंशयम् ॥
गर्द्दभो जायते जन्तुः पित्रोश्चाप्यवमानकः ।
मातापितरावाक्रुश्य शारिका सम्प्रजायते ॥
भ्रातुः पत्न्यवमन्ता च कपोतत्वं प्रपद्यते ।
तामेव पीडयित्वा तु कञ्छपत्वं प्रपद्यते ॥
भर्तृपिण्डमुपाश्नन् यस्तदिष्टं न निषेवते ।
सोऽपि मोहसमापन्नो जायते वानरो मृतः ॥
न्यासापहर्त्ता नरकात् विमुक्तो जायते कृमिः ।
असूयकश्च नरकात् मुक्तो भवति राक्षसः ॥
विश्वासहन्ता च नरो मीनयोनौ प्रजायते ।
धान्यं यवांस्तिलान्माषान् कुलत्थान् सर्षपांश्चणान् ॥
कलायान् कलमान् मुद्गान् गोधूमानतसीस्तथा ।
शस्यान्यन्यानि वा हृत्वा मोउहाज्जन्तु रचेतनः ॥
सञ्जायते महावक्त्रो मूषिको बभ्रुसन्निभः ।
परदाराभिमर्षात्तु वृको घोरोऽभिजायते ॥
श्वा शृगालो वको गृध्रो त्याडः कङ्कस्तथा क्रमात् ।
भ्रातृभार्य्याञ्च दुर्ब्बुद्धिर्योधर्षयति पापकृत् ॥
पुंस्कोकिलत्वमाप्नोति स चापि नरकाच्च्युतः ॥
सखिभार्य्यां गुरोर्भार्य्यां राजभार्य्याञ्च पापकृत् ।
प्रधर्षैव हि कामात्मा शूकरो जायते नरः ॥
यज्ञदानविवाहानां विघ्नकर्त्ता भवेत् कृमिः ॥
पुनर्द्दाता च कन्याया कृमिरेवोपजायते ॥
देवता पितृविप्राणामदत्त्वा योऽन्नमश्नुते ।
प्रमुक्तो नरकात् सोऽपि वायसः सम्प्रजायते ॥
ज्येष्ठं पितृसमं वापि भ्रातरं योऽवमन्यते ।
नरकात् सोऽपि विभ्रष्टः क्रौञ्चयोनौ प्रजायते ॥
शूद्रश्च ब्राह्मणीं गत्वा कृमियोनौ प्रजायते ।
तस्यामपत्यमुत्पाद्य काष्ठान्तःकीटको भवेत् ।
पृष्ठ २/०५३
:शूकरः कृमिको मद्गुश्चण्डालश्च प्रजायते ॥
अकृतज्ञोऽधमः पुंसां विमुक्तो नरकान्नरः ।
कृतघ्नः कृमिकः कीटः पतङ्गो वृश्चिकस्तथा ।
मत्स्यस्तु वायसः कूर्म्मः पुक्कशो जायते ततः ॥
अशस्त्रं पुरुषं हत्वा नरः सञ्जायते खरः ॥
कृमिः स्त्रीवधकर्त्ता च बालहन्ता च जायते ॥
भोजनं चोरयित्वा तु मक्षिका जायते नरः ॥
तत्राप्यस्ति विशेषो वै भोजनस्य शृणुष्व तत् ।
हृत्वान्नन्तु स मार्जारो जायते नरकाच्च्युतः ॥
तिलपिण्याकसंमिश्रमन्नं हृत्वा तु मूषिकः ॥
घृतं हृत्वा तु नकुलः काको मद्गुरजामिषम् ॥
मत्स्यमांसापहृत् काकः श्येनो मार्गामिषापहृत् ।
वीचीकाकस्त्वपहृते लवणे दधनि कृमिः ॥
चोरयित्वा पयश्चापि बलाका सम्प्रजायते ॥
यस्तु चोरयते तैलं तैलपायी स जायते ॥
मधु हृत्वा नरो दंशः पूपं हृत्वा पिपीलिकः ।
चोरयित्वा तु निष्पावान् जायते गृहगोलदः ॥
आसवञ्चोरयित्वा तु तित्तिरित्वमवाप्नुयात् ॥
अयो हृत्वा तु पापात्मा वायसः सम्प्रजायते ।
हृते कांस्ये च हारीतः कपोतो रूप्यभाजने ।
हृत्वा तु काञ्चनं भाण्डं कृमियोनौ प्रजायते ॥
पत्रोर्णं चोरयित्वा तु क्रकरत्वञ्च गच्छति ।
कोषकारश्च कौषेये हृते वस्त्रेऽभिजायते ॥
दुकूले शार्ङ्गिके पापो हृते चैवांशुके शुकः ।
तथैवाजाविकं हृत्वा वस्त्रं क्षौमञ्च जायते ॥
कार्पासिके हृते क्रौञ्चो वाल्कहर्त्ता वकस्तथा ।
मयूरो वर्णकान् हृत्वा शाकपत्रञ्च जायते ॥
जीवञ्जीवकतां याति रक्तवस्त्रापहृन्नरः ।
छुछुन्दरिः शुभान् गन्धान् वासो हृत्वा शशो भवेत् ॥
शण्डः फलापहरणात् काष्ठस्य घुणकीटकः ।
पुष्पापहृद्दरिद्रश्च पङ्गुर्यानापहृन्नरः ॥
शाकहर्त्ता च हारीतस्तोयहर्त्ता च चातकः ।
भूहर्त्ता नरकान् गत्वा रौरवादीन् सुदारुणान्
तृणगुल्मलताबल्लित्वक्सारतरुतां क्रमात् ।
प्राप्य क्षीणाल्पपाप्रस्तु नरो भवति वै ततः ॥
कृमिः कीटः पतङ्गोऽथ पक्षी तोयचरो मृगः ।
गोत्वं प्राप्य च चण्डालपुक्कशादि जूगुप्सितम् ।
पङ्ग्वन्धो बधिरः कुष्ठी यक्ष्मणा च प्रपीडितः
मुखरोगाक्षिरोगैश्च गुदरोगैश्च च बाध्यते ॥
अपस्मारी च भवति शूद्रत्वं च स गच्छति ॥
एष एव क्रमो दृष्टो गोसुवर्णापहारिणाम् ।
विद्यापहारिणश्चोग्रा निष्क्रयभ्रंशिनो गुरोः ॥
जायामन्यस्य पुरुषः पारक्यां प्रतिपादयन् ।
प्राप्नोति शण्डतां मूढो यातनाभ्यः परिच्युतः ॥
यः करोति नरो हीममसमिद्धे विभावसौ ।
सोऽजीर्णव्याधिदुःखार्त्तो मन्दाग्निः संप्रजायते” ॥ * ॥
नानापुराणोक्तकर्म्मविपाकसंक्षेपमाह ।
१ । अकिञ्चनता । यः किल प्रभूतधनवानपि
धर्म्मनिन्दको देवाग्निब्राह्मणदरिद्रेभ्यः किञ्चिदपि
धनं न दत्तवान् । स तु आयुषोऽवसाने मृतो यम-
दूतैः प्रपीडितो लोलाख्यनरके, सर्व्ववस्तूनि पश्य-
न्नपि निराशः परमं दुःखमाप्नोति । ततो जन्मा-
न्तरं परिगृह्याकिञ्चनत्वमासाद्य जीर्णवस्त्रधरः
बहुना क्लेशेनापि स्वजीविकां निष्पादयेत् ॥
२ । अपुत्त्रता बहुपुत्त्रता च । यस्तु गवीमुखात्
भोजनीयद्रव्यं आहृत्य दूरतो विसर्जयेत् । स
मन्वन्तरत्रयं निर्जने घोरे मरुप्रभृतिस्थले उषित्वा
पुनर्जन्मान्तरं प्राप्य पुत्त्रविहीनो बहुपुत्त्रो वा
भवेदिति ॥
३ । अर्शोरोगः । यः खलु पतिव्रतां धर्म्मनियतां
ऋतुस्नातां पत्नीं नोपगच्छेत् । यश्च आत्महा
भ्रूणहा गोहन्ता च स्यात् । स मृतः गाढान्ध-
तमसावृतं तामिस्राख्यं नरकं गत्वा कर्म्मक्षयम्
प्राप्य जन्मान्तरेण पुनर्मानुषयोनिमभिगम्य अर्शो-
रोगेणाक्रान्तो भवेदिति ॥
४ । अल्पायुःसन्तानता । यो हि तृषार्त्तां
वारिपानरतां गां निवारयति । अनेनैव पापेन
तस्य अल्पायुषः सन्ताना भवेयुः ॥
५ । अस्मरीरोगः । यस्तु ऋतुस्नातां स्त्रियं
क्रोधादप्रीत्या वा नोपगच्छति । स मृतः पूय-
शोणितसंमिश्रे नरके प्रपीडितः पुनर्मानुषत्वं
प्राप्य अस्मरीरोगाक्रान्तो जायते इति ॥
६ । उन्मादरोगः । यस्तु ब्राह्मणं वैष्णवं पितरौ
द्विजादिकं मानार्हं नार्चयेत् परं निन्देत् स
मृतः पुरीषाख्ये नरके अधःशिरा नाना दुःखभाक्
भवेत् । ततः कर्म्मक्षये मानुषीं तनुमुपलभ्य
उन्मादरोगवान् जायते । तथा येन च ब्राह्मणेषु
गुरौ च दम्भाचारः कृतः तेभ्यः स्मृतिभ्रम-
कराणि द्रव्याणि च दत्तानि सोऽपि जन्मान्तरे
उन्मादरोगवान् भवेदिति ॥
७ । कासः । कासस्तु पञ्चविधः । येन कर्म्मणा
यद्रूपो भवेत्तदुच्यते । अतिकठोरैर्मिथ्यावाक्यैर्यस्तु
लोकं पीडयेत् स पित्तप्रबलकेन कासेन पी
डितो भवेत् । यो हि ब्राह्मणस्थानविनष्टकारी
स वातकासेन पीडितो भवेत् । यस्तु जलाशय-
ध्वंसकारी स श्लेष्मकासेन पीडितः स्यात् । यो हि
ब्रह्म विष्णुं शिवञ्च भेदबुद्ध्या पश्यति स सन्नि-
पातोत्थकासपीडितः स्यात् । यज्ञं विना पशुं हत्वा
तन्मांसभक्षणकारी सर्ब्बदोषोत्थकासेन गृह्यते ।
यदुक्तं तन्त्रे पुराणे च, --
“अयज्ञेन पशुं हत्वा भुङ्क्ते मांसन्तु यो नरः ।
सर्व्वदोषोत्थकासेन गृह्यते शृणु भूपते !” ॥
८ । कुव्जत्वम् । यदुक्तं पुराणेषु ।
“देवताप्रतिमां दृष्ट्वा यस्तां नैवाभिवादयेत् ।
ब्राह्मणञ्च गुरुं श्रेष्ठं ब्रह्मचारितपस्विनम् ॥
श्मशाने जायते वृक्षः काकगृध्रोपसेवितः ॥
भुक्त्वा कालमशेषञ्च मानुषत्वमवाप्य सः ।
कुब्जत्वमश्नुते तस्मात् कर्म्मणो मानुषं ध्रुवम्” ॥
९ । गर्भस्रावः । या काचित् नारी हिंसापर-
तन्त्रा सतो सपत्न्यादीनामन्यासां स्त्रीणां दुष्टौ-
षधादिभिर्दुर्म्मन्त्रैर्वा गर्भं अपत्यानि च नाशयति
सा नरकान्निर्मुक्ता पुनर्मानुषीं योनिमासाद्य
पुण्यान्तरेण ऐश्वर्य्यवत्यपि गर्भस्रावदुखैः प्रपीडिता
भवेत् ।
१० । गलगण्डः । यः खलु मोहाद् गुरुस्त्री-
कण्ठदर्शनं कृतवान् । स मृतो यमकिङ्करैः नि-
र्जले प्रान्तरे देशे दिव्यवर्षायुतत्रयं पात्यते ।
पुनर्जन्म समासाद्य च गलगण्डरोगाक्रान्तः
सीदेत् ॥
११ । ग्रहणी । ये च धनलुब्धकाः प्रभूत-
धनसंग्रहं कृत्वा न यच्छन्ति न चाश्नन्ति न
किमपि धर्म्मकार्य्यं कुर्व्वन्ति । तथा ये च परस्या-
पहारिणः तथा अदुष्टामपतितां भार्य्यां ये च
यौवने परित्यजन्ति ते मृताः पूरीषाख्ये नरके
कल्पकोटिशतं दग्द्धाः कर्म्मान्ते मानुषीं योनिमा-
साद्य ग्रहणीरोगाक्रान्ता अवसीदेयुः ॥
१२ । छिन्ननासिकता । श्रुतिस्मृतिकथाविघ्न-
कारी देवनिन्दको हि मृत्युं प्राप्य नैरृते
पश्चिमे भागे स्थितायां पिङ्गलेति नगर्य्यां पिशाचैः
सह बहुकालमुषित्वा महाघोरं दुःस्वञ्च भुक्त्वा
कर्म्मान्ते मानुषयोनिमासाद्य छिन्ननासिको जा-
यते ॥
१३ । छिन्नहस्तता, छिन्नपादता च । यस्तु
पितरौ गुरुं विनापराधतो वृद्धं वा ताडयेत् स
मृतो यमलोके बहूनि कष्टान्यनुभूय छिन्नहस्त-
श्छिन्नपादो वा इह जायते ॥
१४ । जलोदरः । यदुक्तं पुराणेषु ।
“ब्रह्मविष्णुमहेशेषु भिन्नभावं करोति यः ।
गृह्यते स तु दुष्टात्मा जलोदररुजा ततः” ॥
१५ । दौर्भाग्यम् । येन च सर्व्वासु तृतीयासु
वेलासु तैलस्पर्शः क्रियते स दुर्भगत्वमाप्नोतीति ॥
१६ । नेत्ररोगः । दीपहरणकर्त्ता परस्त्री-
प्रेक्षकः कामतः पररतिदर्शनकारी च नेत्ररोगे-
नाक्रान्तो भवेत् ॥
१७ । पक्षरोगः । यो हि सशस्त्रः सन् शस्त्र-
रहितं पुरुषं हन्ति । स मूढः आयुःशेषे कृक-
राख्ये निरये उषित्वा महादुःखेन पच्यते । ततो
रासभयोनौ ततः क्रमशो मृगव्याघ्रयोनौ सम्भूय
शस्त्रेण हन्यते । ततः सारमेयो भूत्वा मत्स्य-
योनौ जायते । ततो मानुषीं योनिमासाद्य
अनेनैवरोगेण पीड्यते ॥
१८ । पाण्डुरोगः । यः खलु परभार्य्यारतः
परस्त्रीरमणप्रियः स मृतो यमकिङ्करै र्बहुधा-
दुःखं प्रापितः पुनः कर्म्मपाकेन मानुषीं योनि-
मासाद्य पाण्डुरोगेण लिप्यते ॥
१९ । प्रदरम् । या योषित् बुभुक्षितं पतिं
त्यक्त्वा पत्यनुमतिं विना पूर्ब्बं भुङ्क्ते सा मृता नरकं
भुक्त्वा दशवर्षाणि वायसी ततः शुकी ततो
मानुषी भूत्वा श्वेतप्रदरयुक्ता भवेत् ॥
२० । नन्ध्यता । येन जलपिपासुर्वत्सः प्रति-
निषिद्धः । यस्तु अदक्षिणं वतं करोति यो हि
मिष्टफलादिकं प्राप्य देवायानिवेद्य भुङ्क्ते यः
खलु मैथुनीभावमवलोक्य विघ्नं कुरुते ते सर्व्वे
बन्ध्यत्वमाप्नुवन्तीति ॥
२१ । भगन्दररोगः । आचार्य्यभार्य्यागन्तारो-
नराधमाः स्त्रीबालवृद्धधनापहारिणश्च मृत्युमधि
पृष्ठ २/०५४
:गम्य विण्मलाख्ये नरके बहुदुःखं प्राप्प जन्मान्तरे
भगन्दररोगेणाक्रान्ता भवन्ति ॥
२२ । मूत्रकृच्छ्रम् । येन मूढेन विधवागमनं
मद्यपानं वा कृतम् । स मृतो नरकं प्राप्य कर्म्मान्ते
शरीरनाशकारिणा अनेन रोगेणाक्रान्तो भवेत् ।
२३ । मृतभार्यता । यस्तु ज्येष्ठं भ्रातरमति-
क्रम्य उद्वहेत् स मृतभार्य्यो जायेत । यस्तु सप्तम्यां
तैलं स्पृशति तस्य ज्येष्ठा भार्य्या विनश्यति ॥
२४ । मेहः । यदुक्तं पुराणेषु
“मेहाश्च विंशतिः ख्याताः पृथक्कर्म्मप्रभावजाः ।
तेषां नामान्यहं वक्ष्ये क्रमादुत्पद्यते यतः ॥
मधुमेहः सान्द्रमेहः सुराशुक्रोदकस्तथा ।
इक्षुः सिकतसीधुश्च सितमेहस्तथैव च ॥
फेनः क्षीरश्च नीलश्च हारिद्रः कालसंज्ञकः ।
वशारक्तश्च माञ्जिष्ठो मज्जाक्षारस्तथा गजः ॥
सद्वैद्यस्योपदेशेन ज्ञात्वा मेहान् पृथक् पृथक् ।
नामानुसारतः पूर्ब्बं कर्म्म ज्ञात्वा विधिञ्चरन् ।
पूर्ब्बं मैथुनकृद्यस्तु शौकरीयोनिमाव्रजेत् ॥
तस्यान्ते मानुषीं प्राप्प जलभेहार्द्दितो भवेत् ॥
मातृगामी बलान्मोहात् मधुमेही भवेन्नरः ।
रजकीगमनाच्चैव क्षारमेही प्रजायते ॥
सतीविपर्य्ययं कृत्वा सान्द्रमेहान्वितो भवेत् ।
रोगिणीगमनान्मर्त्त्यो भवेन्माञ्जिष्ठमेहवान् ॥
मित्रस्त्री धर्षिता येन स भवेच्छुक्रमेहवान् ॥
चतुष्पदाभिगमने भवेत् सिकतमेहवान् ॥
स्वर्णहर्त्ता क्षीरमेही सितमेही सुरारतः ।
कालमेही भवेत्सोऽपि पुष्पवत्याश्च धर्षणात् ॥
रजस्वलायां रतिकृद्रक्तमेहार्द्दितो भवेत् ।
मज्जमेहयुतः सोऽपि योऽन्त्यजागमनञ्चरन् ॥
इक्षुमेह्यतिदुर्वृत्तो विधवागतिदोषतः ।
व्राह्मणीगमनाद्देही हस्तिमेहेन मेहति ॥
अक्षतागमनासक्तो हरिद्राभञ्च मेहति ॥
मातरं येऽभिगच्छन्ति भगिनीञ्चात्मनः मुताम् ॥
श्वश्रूञ्चैवाक्षतारक्तां भ्रातृभार्य्याञ्च मातुलीम् ।
गुरुस्त्रीं राजपत्नीञ्च मित्रस्त्रीं वा कुटुम्बिनीम् ।
मृता वैवस्वतपुरीं यान्ति भूतैः प्रपीडिताः ॥
ताड्यन्ते तत्र दुर्वृत्ता मत्तः शृणु वदामि ते ॥
अङ्गारराशौ प्रक्षिप्य तान् दहन्ति यमाज्ञया ।
दूतास्तु महतीं घोरां ज्वलन्तीमायसीं शिलाम् ।
खादयन्ति च तान् पश्चात् नरके च क्षिपन्ति वै ॥
नरकान्ते पुनस्तेऽपि मृताः स्युः शूकरा भृशम् ॥
शूकराः पञ्चवर्षाणि दशवर्षाणि कुक्कुराः ।
पिपीलिकास्त्रयो मासा वृश्चिकाश्चाब्दमात्रकम् ।
भूत्वा प्रयान्ति गोयोनौ सरुजा विफलेन्द्रियाः ॥
तत्राधर्म्मक्षयं कृत्वा ततो मानुषयोनिषु ।
प्रमेहगदवन्तः स्युः प्राप्नुवन्ति मनोव्यथाम्” ॥
२५ । यक्ष्मरोगः । विप्रहन्ता न्यासापहर्त्ता
वृत्तिच्छेदकारी प्रजापीडको गुरुविद्रोही मूढो
यक्ष्मकासाक्रान्तो भवेत् ॥
२६ । रक्तपित्तम् । अतिदुराचारी परद्रव्या-
भिलाषी पितृव्यबधूगन्ता अनेनैव रोगेण पीडितो
मवेत् ॥
२७ । व्येश्यात्वम् । या नारी मृते भर्त्तरि
परपत्यभिलाषिणी सा मृता यमलोके तप्तं आय-
सं पुरुषमालिङ्गन्ती अतिघोरं नरकदुःखमनुभूय
जन्मान्तरे वेश्या भूत्वा अशेषपुरुषैः रममाणा
अशेषक्लेशमधिगच्छेत् ॥
२८ । वैधव्यम् । या खलु यौवनेनातिगर्व्विता
रमणी विरूपन्त्वात्मवशगं पतिं दिवा निन्दति
रात्रौ शय्यां न भजते आज्ञप्ता च रुष्टा भवति
सा जन्मान्तरं प्राप्य वैधव्ययन्त्रणया पीडिता
भवेत् ॥
२९ । श्वासकासः । श्वासकासस्तु महोर्द्ध्वच्छिन्न-
तमकक्षुद्रभेदात् पञ्चधा । १ । यस्तु यज्ञमनासाद्य
श्वासं निरुध्य पशुं हन्ति मोहात् तन्मांसादिकं
भक्षयति स महाश्वासेन पीड्यते । २ । पुराण-
कथासमये यस्तु अन्यवाक्यं वदेत् स ऊर्द्ध्वश्वासेन
निगृह्यते । ३ । निषिद्धदानग्रहणात् छिन्नश्वास-
युतो भवेत् । ४ । यो हि शास्त्रार्थं मृषा दूषयति
स तमकश्वासैः पीड्यते । ५ । पाकविघ्नतो हि
जीवः क्षुद्रश्वासैर्गृह्यते ॥
३० । हृद्रोगः । यस्तु लोभात् द्वेषाद्वा परपीडा-
प्रदायको भवेत् यस्तु प्रजानां मर्म्मव्यथां जनयेत्
स मृतो दुर्वहं नरकमधिगम्य कर्म्मान्ते अति-
दारुणैर्हृद्रोगैः पीडितो भवेदिति ॥ * ॥)

कर्म्मशीलः, त्रि, (कर्म्म शीलं कर्म्मकरणरूपस्वभावो

यस्य । कर्म्म शीलयतीति वा ।) यः फलनिरपेक्षः
स्वभावतः कर्म्म करोति सः । तत्पर्य्यायः । कार्म्मः
२ । इत्यमरः । ३ । १ । १८ ॥

कर्म्मशूरः, त्रि, (कर्म्मणि शूरः दक्षः ।) कर्म्मठः ।

फलपर्य्यन्तकर्म्मसमापकः । इत्यमरः । ३ । १ । १८ ॥

कर्म्मसचिवः, पुं, (कर्म्मणि कर्म्मसु वा सचिवः सहा-

यः ।) कर्म्मोपयुक्तसचिवः । अक्षपटलाध्यक्षादिः ।
इत्यमरः । २ । ८ । ४ ॥

कर्म्मसन्न्यासिकः, पुं, (कर्म्मणां सन्न्यासः स अस्त्यस्य

इति ठन् ।) यतिः । सन्न्यासी । इति हला-
युधः । २ । २३९ ॥

कर्म्मसाक्षी, [न्] पुं, (कर्म्मणां साक्षी । यद्वा कर्म्म

साक्षात् पश्यति प्रतक्षं करोतिति ।) सूर्य्यः ।
इति हेमचन्द्रः ॥ (उक्तञ्च वैदिकक्रियापद्धतौ यथा,
“सूर्य्यः सोमो यमः कालो महाभूतानि पञ्च च ।
एते शुभाशुभस्येह कर्म्मणो नव साक्षिणः” ॥
क्रियासाक्षात्कारिणि, त्रि । यथा, -- महाभा-
रते । १ । ४७ । २९ ।
“हृदि स्थितः कर्म्मसाक्षी क्षेत्रज्ञो यस्य तुष्यति” ॥)

कर्म्मक्षमः, त्रि, (कर्म्मणि कर्म्मसु वा क्षमः समर्थः ।

कर्म्मकरणसमर्थः । तत्पर्य्यायः । अलंकर्म्मीणः २ ।
इत्यमरः । ३ । १ । १८ ॥

कर्म्मान्तः, पुं, (कर्म्मणः जीवकृतसुकृतदुष्कृतक्रि-

यायाः अन्तो यत्र । कर्म्मणः कृषिकार्य्यस्य तत्फलस्य
धान्यादिसंग्रहरूपक्रियायाः अन्तो यत्र वा ।)
कर्म्मभूः । कृष्टभूमिः । इति हेमचन्द्रः ॥
(“अहन्यहन्यवेक्षेत कर्म्मान्तान् बाहनानि च” ॥
इति मनुः । ८ । ४१९ ॥)

कर्म्मारः, पुं, (कर्म्म लोहनिर्म्माणादिकार्य्यं ऋच्छति

गच्छति प्राप्नोति वा । कर्म्म + ऋ + अण् ।)
कर्म्मकारः । कामार इतिभाषा ॥ (यथा, अथर्व्व-
वेदे । ३ । ५ । ६ ।
“ये धीवानो रथकाराः कर्म्मारा ये मनीषिणः” ॥
तथा, मनुः । ४ । २१५ ।
“कर्म्मारस्य निषादस्य रङ्गावतारकस्य च” ॥)
वंशः । वाँश इति ख्यातः । कर्म्मरङ्गः । इति राज-
निर्घण्टः । कामराङ्गा इति भाषा ॥

कर्म्मार्हः, पुं, (कर्म्म अर्हतीति । अर्ह + अण् ।) पुरुषः ।

इति राजनिर्घण्टः । क्रियायोग्ये त्रि ॥

कर्म्मिष्ठः, त्रि, (अतिशयेन कर्म्म कर्तुं समर्थः कर्म्मी

वा । कम्म + इष्ठन् । इनेर्लुक् ।) क्रियावान् । अति-
शयकर्म्मविशिष्टः । इति व्याकरणम् ॥

कर्म्मी, [न्] त्रि, (कर्म्मास्त्यस्य “व्रीह्यादिभ्यश्च” ।

५ । २ । ११६ इति इनिः ।) कर्म्मविशिष्टः ।
(“यत्कर्म्मिणो न प्रवेदयन्ति रागात्तेनातुराः क्षी-
णलोकाश्च्यवन्ते” ॥ इति मुण्डकोपनिषदि । १ ।
२ । ९ । यथा च, भागवते १ । ३ । ८ ।
“तृतीयमृषिसर्गञ्च देवर्षित्वमुपेत्य सः ।
तन्त्रं सात्वतमाचष्टे नैय्कर्म्म्यं कर्म्मिणां यतः” ॥)

कर्म्मोरः, पुं, (कर्म्म + ईरन् ।) किर्म्मीरवर्णः । इत्य-

मरटीका ॥

कर्म्मेन्द्रियं, क्ली, (कर्म्मणां गमनादिपञ्चविधक्रियाणां

सम्पादनाय इन्द्रियं कर्म्मनिमित्तं इन्द्रियं वा ।)
कर्म्मनिष्पादकविषयिपञ्चकम् । यथा । वाक् १
पाणिः २ पादः ३ पायुः ४ उपस्थः ५ । इति
वेदान्तः ॥ (यथा च, मनुः । २ । ९१ ।
“बुद्धीन्द्रियाणि पञ्चैषां श्रोत्रादीन्यनुपूर्ब्बकाः ।
कर्म्मेन्द्रियाणि पञ्चैषां पाष्वादीनि प्रचक्षते” ॥)

कर्व्व दर्पे । इति कविकल्पद्रुमः ॥ (भ्वां--पं--अकं--सेट् ।)

कर्व्वः, पुं, (किरति विक्षिपति चित्तं विषयेषु । कॄ +

“कॄगॄ-शॄदॄभ्यो वः” । उणां । १ । १५५ इति वः ।)
कामः । (कृणाति हिनस्तीति । कॄ + वः ।) उन्दुरुः ।
इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥

कर्व्वटं, क्ली, (कर्व्वं सुन्दरत्वात् सर्व्वं अटति प्राप्नो-

तीति । शकन्धादित्वात् अलोपे साधुः ।) पुरम् ।
नगरम् । इति जटाधरः ॥

कर्व्वटः, पुं क्ली, (कर्व्व + अटन्प्रत्ययः ।) द्विशतग्राम-

मध्ये मनोरमस्थानम् । ग्रामशतस्थजनाः क्रयवि-
क्रयादिना सेवादिना वा येन ग्रामेण जीवन्ति
सः । इति केचित् ॥ चतुःसमग्रामः । इत्येके ॥ चतुः-
समं गृहस्थानम् । इत्यपरे ॥ इत्यमरटीकायां
भरतः ॥ चतुःशतग्रामसंग्रहस्थानम् । इति सार-
सुन्दरी ॥ (तथा हि याज्ञवल्क्यः । २ । १६७ ।
“धनुः शतं परीणाहो ग्रामक्षेत्रान्तरं भवेत् ।
द्वे शते कर्व्वटस्य स्यात् नगरस्य चतुःशतम्” ॥
देशभेदः । यथा, महाभारते । २ । ३० । २२ ।
“ताम्रलिप्तं च राजानं कर्व्वटाधिपतिं तथा ।
सुह्मानामधिपञ्चैव ये च सागरवासिनः” ॥)