पृष्ठ २/०५५

कर्व्वुरः, पुं, (कृणाति हिनस्ति प्राणिनः । किरति

विक्षिपति जीवानिति वा । कॄ + “कॄगॄशॄवृच-
तिभ्यः ष्वरच्” । उणां । २ । १२३ । इति ष्वरच् ।)
राक्षसः । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥
व्याघ्रः । इति मेदिनी ॥ (यथा, उणादिटीका
“कर्व्वुरो व्याघ्ररक्षसोः” । २ । १२३ ॥)

कर्व्वरी, स्त्री, (कर्व्वर + षित्वात् ङीप् ।) शिवा ।

इति विश्वमेदिन्यौ ॥ हिङ्गुपत्री । इति जटाधरः ॥
(व्याघ्री । राक्षसी । इत्युणादिवृत्तिः । २ । १२३ ॥)

कर्व्वुरः, पुं, (कर्व्वति हिनस्ति सदर्पो भवति वा । कर्व्व

दर्पे हिंसायाञ्च । “मद्गुरादयश्चेति” + उरच् ।)
राक्षसः । इति शब्दार्णवः ॥ चित्रवर्णः । इत्यमरः ।
२ । ९ । ९४ ॥ शटी । इति भरतः ॥

कर्व्वूरः, पुं, (कर्व्व + खर्ज्जूरादित्वात् ऊरः । उणां १ ।

८२ ।) राक्षसः । शटी । इत्यमरः ॥ २ । ९ । ९४ ॥

कर्श्यः, पुं, (कृश् + यत् ।) कर्च्चूरः । इति राज-

निर्घण्टः । कचूर इति हिन्दीभाषा ॥

कर्षः, पुं क्ली, (कृष् विलेखने पचाद्यच् । कर्मणि

करणे वा घञ् ।) षोडशमाषकपरिमाणम् ।
अशीतिरत्तिकाः । तत्पर्य्यायः । अक्षः २ । इत्य-
मरः । २ । ९ । ८६ ॥ वैद्यकमते तोलकद्वयम् ।
तत्पर्य्यायः । सुवर्णम् २ अक्षः ३ विडालपदकम्
४ पिचुः ५ पाणितलम् ६ उडुम्बरम् ७ तिन्दुकम्
८ कबडग्रहः ९ । इति परिभाषा ॥ दशमाषकः ।
इति राजनिर्घण्टः ॥
(“कोलद्वयञ्च कर्षः स्यात् स प्रोक्ता पाणिमानिका ।
अक्षः पिचुः पाणितलं किञ्चिपाणिश्च तिन्दुकम्” ॥
इति शार्ङ्गधरे पूर्ब्बखण्डे । १ अध्याये ॥)

कर्षः, पुं, (कृष् + भावे घञ् ।) कर्षणम् । इति

मेदिनी ॥ विभीतकवृक्षः । इति शब्दरत्नावली ॥

कर्षकः, त्रि, (कर्षति भूमिमिति । कृष् + ण्वुल् ।)

कृषिजीवी । कृषाण् इति भाषा ॥
(“सुखमापतितं सेवेत् दुःखमापतितं सहेत् ।
कालप्राप्तमुपासीत शस्यानामिव कर्षकः” ॥
इति महाभारते । ३ । २५८ । १५ ॥)
तत्पर्य्यायः । क्षेत्राजीवः २ कृषिकः ३ कृषीबलः ४ ।
इत्यमरः । २ । ९६ ॥ कार्षकः ५ । इति तट्टीका ॥
आकर्षणकर्त्ता च ॥

कर्षणं, क्ली, (कृष् + भावे ल्युट् ।) कृषिकर्म्म । लाङ्ग-

लादिना भूम्यादिखननम् । इति हेमचन्द्रः । चास
इति भाषा ॥ आकर्षणम् । टानन् इति भाषा ॥
(शोषणम् । पीडणम् । यथा मनुः ७ । ११२ ।
“शरीकर्षणात् प्राणाः क्षीयन्ते प्राणिनां यथा ।
तथा राज्ञामपि प्राणाः क्षीयन्ते राष्ट्रकर्षणात्” ॥)

कर्षणिः, स्त्री, (कृष् + अनिः ।) असती । इत्युणादि-

कोषः ॥

कर्षणी, स्त्री, (कर्षण + गौरादित्वात् ङीष् ।) क्षी-

रिणीवृक्षः । इति राजनिर्घण्टः ॥

कर्षफलः, पुं, (कर्षः कर्षमात्रं फलं यस्य ।) विभी-

तकवृक्षः । इत्यमरः । २ । ४ । ५८ ॥ (अस्य
पर्य्यायाः यथा, --
“विभीतकस्त्रिलिङ्गः स्याल्लाक्षः कर्षफलस्तु सः ।
कलिद्रुमो भूतवासस्तथा कलियुगालयः” ॥
गुणाश्चास्य विभीतकशब्दे ज्ञेयः । इति भावप्रका-
शस्य पूर्ब्बखण्डे । १ भागे ॥)

कर्षफला, स्त्री, (कर्षफल + टाप् ।) आमलकीवृक्षः ।

इति रत्नमाला ॥ (आमलकीशब्देऽस्या गुणादिकं
ज्ञातव्यम् ॥)

कर्षार्द्धं, क्ली, (कर्षस्य अर्द्धम् ।) तोलकपरिमाणम् ।

इति वैद्यकपरिभाषा ॥ (“कर्षार्द्धवा कणाशुण्ठ्योः” ।
“कर्षः कर्षार्द्ध्वमथो पलं पलद्वयमथाकर्षश्च” ॥
इति वैद्यकचक्रपाणि संग्रहज्वराधिकारकासाधि-
कारयोः ॥)

कर्षिणी, स्त्री, (कर्षति इति । कृष् + णिनिस्ततो

ङीप् ।) क्षीरिणीवृक्षः । अश्वमुखबन्धनरज्जुस्थित-
लौहम् । तत्पर्य्यायः । खलीनः २ कवीयम् ३
कविका ४ । इति जटाधरः ॥ (त्रि । मनोहारी ।
यथा रघुः १९ । ११ ।
“घ्राणकान्तमधुगन्धकर्षिणीः
पानभूमिरचनाः प्रिधासखः” ॥)

कर्षूः, पुं, (कृष् + “कृषिचमितनिधनिसर्जिखर्जिभ्य

ऊः” । उणां १ । ८२ । इति ऊः ।) वार्त्ता । करी-
षाग्निः । इत्यमरः । ३ । ३ । २२१ ॥ वार्त्ता अत्र-
कृषिः । इति रमानाथः ॥ जीविका । इति भरतः ॥

कर्षूः, स्त्री, (कृष् विलेखने + “कृषिचमितनीति”

ऊः उणां १ । ८२ ।) कुल्या । अल्पा कृत्रिमा
सरित् । इत्यमरः । ३ । ३ । २२१ ॥ नदीमात्रम् ।
इति रत्नकोषः ॥ इष्टखातः । इति मेदिनी ॥
तद्यथा । चतुरङ्गुलपृथ्वीस्तावदन्त रास्तथाधः खाता
वितस्त्यायतास्तिस्रः कर्षूः कुर्य्यात् कर्षूसभीपे
अग्नित्रयमुपसमाधाय परिस्तीर्य्य तत्रैकैकस्मिन्ना-
हुतित्रयं जुहुयात् । इति श्राद्धविवेक धृतविष्णु-
सूत्रम् ॥

कर्हि, व्य, (किम् + “अनद्यतने हिलन्यतरस्याम्” ।

५ । ३ । २१ इति । हिल् कादेशः ।) कदा । कस्मिन्
काले । इति व्याकरणम् ॥ कखन कवे इति भाषा ॥
(यथा, ऋम्वेदे ६ । ३५ । २ ।
“कर्हिस्वित्तदिन्द्र यन्नॄर्भिन्नॄन्वी-
रैवीरान् नीलयासे जयाजीन्” ॥)

कर्हिचित्, व्य, (कर्हि च चिच्चेति विग्रहः । पाणिनि-

मतानुसारेण भिन्नपदद्वयम् मुग्धबोधमते तु
“किमः क्त्यन्ताच्चिच्चनौ” । इति चित् ।) कस्मिं-
श्चित् काले । कोनकाले इति भाषा । तत्पर्य्यायः ।
जातु २ कदाचित् ३ । इति हेमचन्द्रः ॥ (यथा,
भागवते १० । ८४ । १३ ।
“यस्यात्मबुद्धिः कुणपे त्रिधातुके
स्वधीः कलत्रादिषु भौम इज्यधीः ।
यत्तीर्थबुद्धिः सलिले न कर्हिचित्
जनेष्वभिज्ञेषु स एव गोखरः” ॥)

कल, त् क गतौ । सङ्ख्यायाम् । इति कविकल्पद्रुमः ॥

(अदन्तचुरां--परं--सकं--सेट् ।) अन्त्यस्थतृती-
योपधः । कलयति कालं धीरः । इति दुर्गादासः ॥

कल, ङ सङ्ख्यारुतोः । इति कविकल्पद्रुमः ॥ (भ्वां--

आत्मं--सकं--अकं च--सेट् ।) ङ कलते दिवसं वृद्धः
गणयतीत्यर्थः । रुत् शब्दः । इति दुर्गादासः ॥

कल, क नुदौ । इति कविकल्पद्रुमः ॥ (चुरां--परं--

सक--सेट् ।) क कालयति । नुदिरिति नुद ञौश्
प्रेरणे इत्यस्य औणादिककिप्रत्यये रूपम् । इति
दुर्गादासः ॥

कलं, क्ली, (कडति माद्यति अनेन । कड मदे + “हल-

श्च” । ३ । ३ । १२१ । इति घञ् । संज्ञापूर्ब्बकत्वात्
वृद्ध्यभावः । डलयोरेकत्वम् ।) शुक्रम् । इति
मेदिनी ॥ कोलिवृक्षः । इति शब्दचन्द्रिका ॥

कलः, पुं, (कल + भावे घञ् वृद्ध्यभावः ।) मधुरास्फुट-

ध्वनिः । इत्यमरः । १ । ७ । २ ॥
(“जगौ कलं वामदृशां मनोहरम्” ॥ इति
भागवतम् । १० । २९ । ३ ॥) सालवृक्षः । इति
राजनिर्घण्टः ॥

कलः, त्रि, (कलयति मान्द्यं नयति जाठराग्निम् । कल

+ णिच् + अच् । धातूनामनेकार्थत्वात् विशेषतः
कलिहलिरित्युक्तेश्च तथात्वम् ।) अजीर्णः । इति
मेदिनी ॥ (अव्यक्तमधुरध्वनिः । यथा रघुः । १ । ४१ ।
“सारसैः कलनिर्ह्रादैः क्वचिदुन्नमिताननौ” ॥)

कलकः, पुं, (कलते इति । कल + ण्वुल् । स्वार्थे कन्

वा ।) शकुलमत्स्यः । इति हेमचन्द्रः ॥ (शकुल-
शब्देऽस्य गुणादयोऽवगन्तव्याः ॥)

कलकण्ठः, पुं, (कलप्रधानः कण्टो यस्य ।) कलध्वनिः ।

हंसः । पारावतः । पिकः । इति मेदिनी ॥ (यथा,
राजेन्द्रकर्णपूरे ३ । “युष्माकं रतिकान्तकार्म्मुक-
लताक्त्रेङ्कारकान्ते रुते, सोत्कष्ठं कलकण्ठकण्ठ-
कुहरोद्भूतेऽपि माभून्मनः” ॥)

कलकलः, पुं, (कलादपि कलः । युगपत्सममुत्थित-

बहुलशब्दानामेकीभूततया तुमुलत्वात्तथात्वम् ।
कलशब्दे + घञ् । वृद्ध्यभावः । यद्वा कलः प्रकारः
गुणवचनत्वात् प्रकारे द्वित्वम् ॥)
कोलाहलः । (यथा, गीतगोविन्दे । १ । ३८ ।
“उन्मीलन्मधुगन्धलुब्धमधुपव्याधूतचूताङ्कुर-
क्रीडत्कोकिलकाकलीकलकलैरुद्गीर्णकर्णज्वराः” ॥)
सालनिर्य्यासः । इति मेदिनी ॥

कलघोषः, पुं, (कलो मधुरो घोषो ध्वनिर्यस्य ।)

कोकिलः । इति शब्दरत्नावली ॥

कलङ्कः, पुं, (कलयति इति । कल + क्विप् । कल्

चासौ अङ्कश्चेति ।) चिह्नम् । अपवादः ।
(“उत्तमस्य विशेषेण कलङ्कोत्पादको जनः” ॥
इति कथासरित्सागरे । २४ । २०४ ॥) लौह-
मलम् । इति मेदिनी ॥

कलङ्कषः, पुं, (करेण कषति हिनस्ति नाशयति वा ।

बाहुलकात् खच् मुम् च रस्य लः कलेन गर्ज्जनेन
कषति वा ।) सिंहः । इति शब्दमाला ॥

कलङ्कषा, स्त्री, (कलङ्कष + टाप् ।) करताली । इति

शब्दरत्नावली ॥

कलङ्की, [न्] त्रि, (कलङ्कोऽस्त्यस्य । इनिः ।) अप-

वादग्रस्तः । यथा, -- तिथ्यादितत्त्वे ।
“कलङ्की जायते विल्वे तिर्य्यग्योनिश्च निम्बके” ।
चिह्नयुक्तः । लौहमलविशिष्टः ॥ चन्द्रः ॥

कलङ्कुरः, पुं, (कं जलं लङ्कयति गमयति भ्रामय-

तीत्यर्थः । लकिगतौ + णिच् + उरच् ।) आवर्त्तः ।
जलम्रमः । इति त्रिकाण्डशेषः ॥
पृष्ठ २/०५६

कलञ्जः, पुं, (कं लञ्जयति । लजि + अण् ।) विषास्त्र-

हतमृगपक्षिणौ । इति त्रिकाण्डशेषः ॥ ताम्र-
कूटः । दोक्ता तामाक् इति भाषा । यथा । विष्णु-
सिद्धान्तसारावल्यां वैद्यके । अथ धुमपर्णीधूम-
पानगुणः ।
“कलञ्जसंवेष्टनधूमपानात्
स्याद्दन्तशुद्धिर्मुखरोगहानिः ।
कफघ्नमामञ्वरहानिकृच्च
गान्धर्व्वविद्याप्रवणैकसेव्यम्” ॥

कलटं, क्ली, (कं जलं लटति आच्छादयति । आवृ-

णोतीति वा । क + लट् + अच् ।) गृहाच्छादनम् ।
इति शब्दरत्नावली । चाल इति भाषा ॥ कुटल-
मिति च पाठः ॥

कलतूलिका, स्त्री, (कं सुखं विषयत्वेन लाति गृह्नां-

तीति कलः । कलं कामं तूलयति निष्कषति
पूरयति वा या । कल + तूल निष्कर्षे पूरणे
वा ण्वुल् । टापि अत इत्वम् ।) इच्छावती । का-
मुका । तत्पर्य्यायः । वाञ्छिनी २ लञ्जिका ३ । इति
त्रिकाण्डशेषः ॥

कलत्रं, क्ली, (गड सेचने + “गडेरादेश्च कः” ।

उणां । ३ । १०६ । अत्रन् गकारस्य ककारश्च ।
डलयो रेकत्वस्मरणात् डस्य लः । यद्वा कलं
त्रायते । त्रै + कः । यद्वा कड्यते शिष्यते इति ।)
कड--शासने बाहुलकात् अत्रन् । श्रोणिः । भार्य्या ।
इत्यमरः । ३ । ३ । १७८ ॥ (यथा मेघदूते । ४० ।
“तां कस्याञ्चिद् भवनवडभौ सुप्तपारावतायां
नीत्वा रात्रिं चिरविलसनात् खिन्नविद्युत्कलत्रः” ॥)
राज्ञां दुर्गस्थानम् । इति हेमचन्द्रः ॥

कलधूतं, क्ली, (कलेन अवयवेन धूतं शुद्धम् ।) रूप्यम् ।

इति राजनिर्घण्टः ॥

कलधौतं, क्ली, (कलेन अवयवेन धौतम् ।) स्वर्णम् ।

(‘कन्येयं कलधौतकोमलरुचिः कीर्त्तिस्तु नातः परा’ ।
इति महानाटकम् ॥
महाभारते च ४ । गोहरणे ४० । ६ ।
“इमे च कस्य नाराचाः सहस्रं लीमवाहिनः ।
समन्तात्कलधौताग्रा उपासङ्गे हिरण्मये” ॥)
रजतम् । इति मेदिनी ॥ कलध्वनिः । इति विश्वः ॥

कलध्वनिः, पुं, (कलः अस्फुटमधुरः ध्वनिर्यस्य ।)

पारावतः । कोकिलः । मयूरः । इति मेदिनी ॥
मधुराव्यक्तशब्दः । इति कलशब्दार्थे अमरः । १ ।
७ । २ ॥ (यथा महानिर्व्वाणतन्त्रे । १ । ३ ।
“अप्सरोगणसङ्गीतकलध्वनिनिनादिते” ॥)

कलनं, क्ली, (कल्यते लक्ष्यते दुष्यते वा । कल +

ल्युट् ।) चिह्नम् । दोषः । इति हलायुधः ॥ (कल्यते
शुक्रशोणिताभ्यामन्योन्यं मिश्य्रते ।) गर्भे मिश्रितं
शुक्रशोणितम् ॥ यथा, भागवते । ३ । ३१ । २ ।
“कलनं त्वेकरात्रेण पञ्चरात्रेण बुद्बुदम् ।
दशाहेन तु कर्क्कन्धूः पेश्यण्डं वा ततः परम्” ॥
क्वचित् कललं इत्यपि पाठो दृश्यते । कलयति
जानात्यनेन । कल गतौ गत्यर्था ज्ञानार्थाश्च ।
कल + करणे ल्युट् । ज्ञानम् ॥)

कलनः, पुं, (कं जलं लाति । तथा सन् नमति ।

क + ला + कः ।) वेतसवृक्षः । इति राजनिर्घण्टः ॥

कलना, स्त्री, (कल + भावे युच् । टाप् च ।) वशी-

भूतत्वम् । वशता । यथा, -- आनन्दलहर्य्याम् । २९ ।
“करारं यत् क्ष्वेडं कवलितवतः कालकलना” ।
जल्पना च ॥

कलन्दरः, पुं, (कलं शास्त्रविहितवाक्यं शिष्टाचारं

वा दृणाति । कल + दॄ + खच् । मुम् च ।) वर्ण-
शङ्करजातिविशेषः । स तु लेटात् तीवरकन्यायां
जातः । इति ब्रह्मवैवर्त्तपुराणम् ॥

कलन्दिका, स्त्री, (कं सुखं लाति विषयत्वेन इति ।

कलं कामं सर्व्वाभीष्टं ददाति । कल + दा + कः ।
संज्ञायां कन् । ततष्टाप् अत इत्वं पृषोदरा
दित्वात् मुम् च ।) सर्व्वविद्या । इति हेमचन्द्रः ॥

कलन्धुः, स्त्री, (कलायाः मात्रायाः अन्धुरिव । शक-

न्ध्वादित्वात् अलोपे साधुः ।) घोलीशाकः । इति
राजनिर्घण्टः ॥

कलभः, पुं, (कलेन करेण शुण्डेनेति यावत् भाति ।

कल + भा + कः । यद्वा + कल् गतौ “कृशॄशलि-
कलिगर्द्दिभ्योऽभच् । उणां । ३ । १२२ । इति ।
अभच् ।) करभः । हातिर छा इति भाषा । स तु
पञ्चवर्षपर्य्यन्तम् । इति सुभूतिः ॥ तत्पर्य्यायः ।
करिशावकः २ । इत्यमरः । २ । ८ । ३५ ॥ दुर्द्दान्तः
३ व्यालः ४ । (यथा रघौ । ३ । ३२ ।
“महोक्षतां वत्सतरः स्पृशन्निव
द्विपेन्द्रभावं कलभः श्रयन्निव” ॥)
धत्तूरवृक्षः । इति राजनिर्घण्टः ॥

कलभवल्लभः, पुं, (कलभस्य हस्तिशावकस्य वल्लभः

प्रियः ।) पीलुवृक्षः । इति राजनिर्घण्टः ॥

कलभी, स्त्री, (कं जलं आश्रयतया लभते । लभ +

अच् । गौरादित्वात् ङीष् ।) चञ्चुवृक्षः । इति
राजनिर्घण्टः ॥

कलमः, पुं, (कलते कलयति वा अक्षरं प्रकाशयति

जनयति वा । कल + “कलिकर्द्दोरमः” । उणां । ४ ।
८४ इति अमः ।) स्वनामख्यातलिपिसाधनवस्तु ।
तत्पर्य्यायः । लेखनी २ वर्णतूली ३ अक्षरतूलिका
४ । इति जटाधरः ॥ स्वनामख्यातशालिधान्य-
विशेषः । (यथा, रघुः । ४ । ३७ ।
“आपादपद्मप्रणताः कलमा इव ते रघुम् ।
फलैः संवर्द्धयामासुरुत्खातप्रतिरोपिताः” ॥)
अस्य गुणाः । रक्तदोषत्रिदीषनाशित्वम् । चक्षु-
र्हितकारित्वम् । कषायत्वञ्च । इति राजवल्लभः ॥
“रक्तशालिर्महाशालिः कलमः षष्टिकोऽपरः” ।
इति हारीते प्रथमस्थाने १० अध्याये ॥
(“शूकजेषु वरस्तत्र रक्ततृष्णात्रिदोषहा ॥
महांस्तस्यानुकलमस्तञ्चाप्यनु ततः परे” ॥
इति वाभटे सूत्रस्थाने ६ अध्याये ॥) चौरः । इति
मेदिनी ॥

कलमोत्तमः, पुं, (कलमेभ्यः कलमेषु वा उत्तमः ।)

गन्धशालिः । इति राजनिर्घण्टः ॥

कलम्बः, पुं, (कल्यते क्षिप्यते शत्रुं प्रति । कलक्षेपे

+ अम्बच् ।) शरः । शाकनाडिका । इत्यमरः ॥
२ । ८ । ८७ । कदम्बः । इति विश्वः ॥
(“कलम्बनालिका मार्षकुटिज्जरकुतुम्बकम्” ॥
इत्यादीनां समष्टिगुणा यथा, --
“शाकं गुरु च रूक्षञ्च प्रायो विष्टभ्य जीर्य्यति ।
मधुरं शीतवीर्य्यञ्च पुरीषस्य च भेदनम्” ॥
इति चरके सूत्रस्थाने २७ अध्याये ॥)

कलम्बकः, पुं, (कलम्ब + संज्ञायां कन् ।) धारा-

कदम्बः । इति राजनिर्घण्टः ॥

कलम्बिका, स्त्री, (कलम्बी एव स्वार्थे कन् टाप् च

अत इत्वम् ।) कलम्बीशाकः । इति शब्दरत्ना-
वली ॥ (यथा चक्रपाणिकृतद्रव्यगुणे शाकवर्गे ।
“कलम्बिका गुरुर्वृष्या कषायास्तन्यवृद्धिदा” ॥
कलम्बीव कायते प्रकाशते निधीयते वा । क-
लम्बी + कै + कः । टाप् इत्वञ्च । संज्ञा हेतुत्वात्
पृषोदरादित्वात् । ह्रस्वः ।) ग्रीवापश्चान्नाडी ।
तत्पर्य्यायः । मन्या २ । इति हेमचन्द्रः ॥

कलम्बी, स्त्री, (के जले लम्बते । लवि स्रंसने + अच्

ङीष् ।) जलजलताशाकविशेषः । कल्मी इति
भाषा । तत्पर्य्यायः । कडम्बी २ कलम्बूः ३ कल-
म्बिका ४ । इति शब्दरत्नावली ॥ अस्या गुणाः ।
स्तन्यदुग्धशुक्रश्लेष्मकारित्वम् । मधुरत्वम् । कषा-
यत्वम् । गुरुतरत्वञ्च । इति राजबल्लभः ॥

कलम्बुटं, क्ली, (के जले लम्बते भासते । क + लम्ब +

बाहुलकात् उटन् ।) हैयङ्गवीनम् । नवनीतम् ।
इति हारावली ॥

कलम्बूः, स्त्री, (के जले लम्बते । लम्ब + बाहुलकात्

ऊङ् ।) कलम्बीशाकः । इति शब्दरत्नावली ॥

कलरवः, पुं, (कलः मधुरास्फुटो रवः ध्वनिर्यस्य ।)

कपोतः । पायरा इति भाषा । इत्यमरः । २ ।
५ । १४ ॥ (यथा आर्य्यासप्तशती ५९७ ।
“शीर्णप्रासादोपरि जिगीषुरिव कलरवः क्वणति” ॥)
कोकिलः । इति राजनिर्घण्टः ॥ (यथा, ब्रह्म-
पुराणे ५२ । ३४ । “कोलिलैः कलरवैश्च” ॥)
मधुराव्यक्तध्वनिः । इति कलशब्दार्थे अमरः ॥
(कलएव रवः । कर्म्मधारयः ॥ यथा कलाबि-
लासे १ । ६ ।
“नवविसकिसलयकबलन-
कषायकलहंसकलरवो यत्र” ॥)

कललः, पुं क्ली, (कल्यते वेष्ट्यतेऽनेन । कल + वृषा-

दिभ्यः कलच् ।) जरायुः । गर्भवेष्टनचर्म्म । इत्य-
मरः । २ । ६ । ३८ ॥
(“ऋतुस्राता तु या नारी स्वप्ने मैथुनमावहेत् ।
आर्तवं वायुरादाय कुक्षौ गर्भं करोति हि ॥
मासि मासि विवर्द्धेत गर्भिण्या गर्भलक्षणम् ।
कललं जायते तस्या वर्ज्जितं पैतृकैर्गुणैः” ॥
इति सुश्रुते शारीरस्थाने २ अध्याये ॥)

कललजः, पुं, (कललमिव जायते । जन + डः ।)

रालः । इति राजनिर्घण्टः ॥ धुना इति भाषा ॥

कललजोद्भवः, पुं, (डद्भवत्यस्मात् उद्भवः । कलल-

जस्य उद्भवः ।) सालवृक्षः । इति राजनिर्घण्टः ॥

कलविङ्कः, पुं, (कलं मधुरास्फुटं वङ्कते रौति । वकि

वा गतौ + अच् पृषोदरादित्वात् अत इत्वे
साधुः ।) चटकः । इत्यमरः । २ । ५ । १८ ॥
पृष्ठ २/०५७
:(यथा, मनुः । ५ । १२ ।
“कलविङ्कं प्लवं हंसं चक्राङ्गं ग्रामकुक्कुटम्” ॥)
कलिङ्गकवृक्षः । इति मेदिनी ॥ कलङ्कः । श्वेत-
चामरः । इति सारस्वतः ॥ (त्वष्टृपुत्त्रविश्वरूपस्य
शिरोभेदः । पुरा किल कदाचित् ऐश्वर्य्यमत्तेन
सुरेश्वरेण यदा सभागतः सुराचार्य्यो गीष्पति-
रसम्मानितोऽन्तरधीयत । तदा ब्रह्मोपदिष्टैर्-
सुरप्रपीडितैरमरैस्त्वाष्ट्रं विश्वरूपं पौरिहित्ये
वरयित्वा भूयः सन्नद्धैरसुरा बबाधिरे । विश्वरूपस्तु
मातामहकुलस्यापेक्षया परोक्षमसुरेभ्योऽपि
यज्ञभागं प्रददौ तदभिज्ञाय सुरपतिर्भीतः क्रुद्धश्च
विश्वरूपस्य शिरांस्यछिनत् । तस्य खलु त्वाष्ट्रस्य
कपिञ्जलः कलविङ्कस्तित्तिरिरिति त्रीणि शिरां-
स्यासन् तेषु सुरापायि शिर एव कलविङ्क इति
बोध्यम् । एतद्विवरणन्तु श्रीमद्भागवते ६ । ९ अ-
ध्याये सविस्तरं दर्शनीयम् ॥)

कलशः, त्रि, (कलं मधुराव्यक्तशब्दं शवति जलपूरण-

समये प्राप्नोति । कल + शुगतौ + डः ।) जलाधार-
विशेषः । कलशी इति ख्यातः । (यथा आर्य्या-
सप्तशती ६९० ।
“प्रबलो विदरयिष्यति जलकलशं नीरलेखेव” ॥)
तत्पर्य्यायः । घटः २ कुटः ३ निपः ४ । इत्यमरः ।
२ । ९ । ३२ ॥ कलसः ५ कलसिः ६ कलसी ७
कलसम् ८ कलशिः ९ कलशीः १० कलशम् ११ ।
इति तट्टीका ॥ कुम्भः १२ करीरः १३ । इति
हेमचन्द्रः । कलावतीदीक्षाप्रकरणोक्तं तस्य परि-
माणं । यथा, तन्त्रसारे ।
“पञ्चाशदङ्गुलव्याम उत्सेधः षोडशाङ्गुलः ।
कलशानां प्रमाणन्तु मुखमष्टाङ्गुलं स्मृतम् ॥
षट् त्रिंशदङ्गुलं कुम्भं विस्तारोन्नतिशालिनम् ।
षोडशं द्वादशं वापि ततो न्यूनं न कारयेत्” ॥

कलशिः, स्त्री, (कलं शरीरमालिन्यं श्यति नाशयति ।

कल + शो + बाहुलकात् इन् । कं जलं लाति
आदत्तेतथा सती शीर्य्यते । कल + शॄ + डिः ।)
पृश्निपर्णी । चाकुलिया इति भाषा । इत्यमरः ।
२ । ४ । ९३ ॥ (पृश्निपर्णीशब्देऽस्या गुणावलो ज्ञा-
तव्या ॥) घटः । इत्यमरटीकायां रायमुकुटः ॥
यथा, माघे ११ । ८ ।
“कलशिमुदधिगुर्व्वीं वल्लवा लोडयन्ति” ॥)

कलशी, स्त्री, (कलशि कृदिकारान्तत्वात् वा ङीप् ।)

स्वनामख्यातजलपात्रम् । पृश्निपर्णी । इत्यमरटी-
कायां रायमुकुटः ॥

कलसः, त्रि, (केन जलेन लसति शोभते । क +

लस् + अच् ।) कलशः । घटः । इति हेमचन्द्रः ॥
द्रोणपरिमाणे, पुं, । इति वैद्यकपरिभाषा ॥
(“चतुर्भिराढकैर्द्रोणः कलसो नल्वणोर्म्मणः” ॥
इति शार्ङ्गधरे पूर्ब्बखण्डे १ अध्याये ॥
“स एव कलसः ख्यातो घटस्तून्मानमेव च” ॥
इति चरके कल्पस्थाने १२ अध्याये ॥)

कलसः, पुं, (केन जलेन लसतौति । लस् + अच् ।)

कुम्भः । अस्योत्पत्त्यादिर्यथा, --
“सागरे मथ्यमाने तु पीयूषार्थं सुरासुरैः ।
पीयूषधारणार्थाय निर्म्मिता विश्वकर्म्मणा ॥
कलाः कलास्तु देवानामसितास्ताः पृथक् पृथक् ।
यतः कृतास्तु कलसास्ततस्ते परिकीर्त्तिताः ॥
नवैव कलसाः प्रोक्ता नामतस्तान्निबोधत ।
गोह्योपगोह्यो मरुतो मयूखश्च तथापरः ॥
मनोहा कृषिभद्रश्च विजयस्तनुशोधकः ।
इन्द्रियघ्नोऽथ विजयो नवमः परिकीर्त्तितः ॥
तेषामेव क्रमाद्भूप नव नामानि यानि तु ।
शृणु तान्यपराण्येव शान्तिदानि सदैव हि ॥
क्षितीन्द्रः प्रथमः प्रोक्तो द्वितोयो जलसम्भवः ।
पवनाग्नी ततो द्वौ तु यजमानस्ततः परः ।
कोषसम्भवनामा तु षष्ठः स परिकीर्त्तितः ॥
सोमस्तु सप्तमः प्रोक्तश्चादित्यस्तु तथाष्टमः ।
विजयो नाम कलसो योऽसौ नवम उच्यते ॥
स तु पञ्चमुखः प्रोक्तो महादेवस्वरूपधृक् ।
घटस्य पञ्चवक्त्रेषु पञ्चवक्त्रः स्वयं तथा ॥
यथा काष्ठास्थितः सम्यक् वामदेवादिनामतः ।
मण्डलस्य च पद्मान्तः पञ्चवक्त्रघटं न्यसेत् ॥
क्षितीन्द्रं पूर्ब्बतो न्यस्य पश्चिमे जलसम्भवम् ।
वायव्ये वायवं न्यस्य आग्नेये ह्यग्निसम्भवम् ॥
नैरृत्ये यजमानन्तु ऐश्यान्यां कोषसम्भवम् ।
सोममुत्तरतो न्यस्य सौरं दक्षिणतो न्यसेत् ॥
न्यस्यैवं कलसांश्चैव तेषु चैतान् विचिन्तयेत् ।
कलसानां मुखे ब्रह्मा ग्रीवायां शङ्करः स्थितः ।
मूले तु संस्थितो विष्णुर्म्मध्ये मातृगणाः स्थिताः ॥
दिक्पाला देवताः सर्व्वे वेष्टयन्ति दिशो दश ।
कुक्षौ तु सागराः सप्त सप्तद्वीपाश्च संस्थिताः ॥
नक्षत्राणि ग्रहाः सर्व्वे तथैव कुलपर्व्वताः ।
गङ्गाद्याः सरितः सर्व्वा वेदाश्चत्वार एव च ।
कलसे संस्थिताः सर्व्वे तेषु तानि विचिन्तयेत् ॥
रत्नानि सर्व्ववीजानि पुष्पाणि च फलानि च ॥
वज्रमौक्तिकवैदूर्य्यमहापद्मेन्द्रस्फाटिकैः ।
सर्व्वधाममयं विल्वं नागरोडुम्बरं तथा ॥
वीजपूरकजम्बीरकाम्राम्रातकदाडिमान् ।
यवं शालिञ्च नीवारं गोधूमं सितसर्षपम् ॥
कुङ्कुमागुरुकर्पूरमदनं रोचनं तथा ।
चदनञ्च तथा मांसीमेलां कुष्ठं तथैव च ॥
कर्पूरपत्रचण्डञ्च जलं निर्यासकाम्बुदम् ।
शैलेयं वदरं जातीपत्रपुष्पे तथैव च ॥
कालशाकं तथा पृक्कां देवीं पर्णकमेव च ।
वचां धात्रीं समञ्जिष्ठां तुरुष्कं मङ्गलाष्टकम् ॥
दूर्व्वां मोहनिकां भद्रां शतमूलीं शतावरीम् ।
पर्णानां शवलां क्षुद्रां सहदेवां गजाङ्कुशाम् ॥
पूर्णकोषां सितां पाठां गुञ्जां सुरसिकालसौ ।
व्यामकं गजदन्तञ्च शतपुष्पां पुनर्णवाम् ॥
ब्राह्मीं देवीं शिवां रुद्रां सर्व्वसन्धानिकां तथा ।
समाहृत्य शुभानेतान् कलसेषु निधापयेत् ॥
कलसस्य यथा देवान् विधिं शम्भुं गदाधरम् ।
यथाक्रमं पूजयित्वा शम्भुं मुख्यतया यजेत् ॥
प्रासादेन तु मन्त्रेण शम्भुतन्त्रेण शङ्करम् ।
प्रथमं पूजयेन्मध्ये नानानैवेद्यवेदनैः ॥
दिक्पालानां धटेष्वेव दिक्पालानपि पूजयेत् ।
पूब्बं वहिःस्थापितेषु ग्रहाणां कलसेषु च ॥
नवग्रहान् पूजयेत्तु मातॄर्मातृघटेषु च ।
सर्व्वे देवा घटे पूज्या घटस्तेषां पृथक् पृथक् ॥
नवैव तत्र पूर्ब्बोक्ताः स्मृता मुख्यतमा नृप ।
भक्ष्यैर्भोज्यैश्च पेयैश्च पुष्पैर्नानाविधैः फलैः ॥
यावकैः पायसैश्चापि यथासम्भवयोजितैः ।
पुष्यस्नानाय नृपतिः पूजयेत् सकलान् सुरान्” ॥
इति कालिकापुराणे पुष्याभिषेकः ८७ अ-
ध्यायः ॥ * ॥ अन्यत् धारकशब्दे द्रष्ठव्यम् ॥

कलसिः, पुं, (केन जलेन लसतीति । क + लस् +

इन् ।) पृश्निपर्णो । इत्यमरटीका शब्दरत्नावली
च ॥ गर्गरी । इत्यमरटीका हारावली च ॥

कलसी, स्त्री, (कलस + स्त्रियां ङीप् ।) पृश्निपर्णी ।

इति शब्दरत्नावली ॥ (कलसी वृहतीद्राक्षेत्यादि-
ष्वस्या व्यवहारः ॥ इत्युत्तरतन्त्रे । ३९ अध्याये
सुश्रुतेनोक्तम् ॥) कलसः । इत्यमरटीका ॥ (खार्थे
कन्प्रत्ययेनोक्तं यथा, नैषधे । २ । ८ ।
“अलम्बितकर्णशस्कुलीकलसीकं रचयन्नवोचत” ॥)

कलसीसुतः, पुं, (कलस्यां जातः सुतः ।) अगस्त्य-

मुनिः । इत्यमरटीकायां वाचस्पतिः ॥

कलसोदधिः, पुं, कलस इव उदधि । मन्थनाधार-

त्वात् । समुद्रः । इति महाभारतम् ॥

कलहः, पुं क्ली, (कलं कासं हन्त्यत्र । हन् + अधि-

करणे डः ।) विवादः । लडाइ झगडा इति
भाषा ॥ (यथा मनुः ४ । १२१ ।
“न विवादे न कलहे न सेनायां न सङ्गरे” ॥)
तथा विष्णुपुराणे १ मांशे ९ । १४५ ।
“अलक्ष्मीः कलहाधारा न तेष्वास्ते कदाचन” ॥)
तत्पर्य्यायः । युद्धम् २ आयोधनम् ३ जन्यम् ४
प्रधनम् ५ प्रविदारणम् ६ मृधम् ७ आस्कन्द-
नम् ८ संख्यम् ९ समीकम् १० साम्परायिकम्
११ समरः १२ अनीकः १३ रणः १४ विग्रहः १५
सम्प्रहारः १६ अभिसम्पातः १७ कलिः १८ सं-
स्फोटः १९ संयुगः २० अभ्यामर्द्दः २१ समा-
घातः २२ संग्रामः २३ अभ्यागमः २४ आहवः २५
समुदायः २६ सयत् २७ समितिः २८ आजिः २९
समित् ३० युध् ३१ । इत्यमरः । २ । ८ । १०४ ॥
शमीकम् ३२ साम्परायकम् ३३ संस्फेटः ३४
युत् ३५ । इति तट्टीका ॥

कलहः, पुं, (कल + हन् + “अन्येभ्योऽपीति” ३ ।

२ । १०१ । डः ।) वाटः । खड्गकोषः । भण्डनम् ।
इति मेदिनी ॥

कलहंसः, पुं, (कलेन मधुरास्फुटध्वनिना विशिष्टो

हंसः । शाकपार्थिवादित्वात् मध्यपदलोपि समासः ।)
हंसविशेषः । बालिहाँस इति भाषा । तत्पर्य्यायः ।
कादम्बः २ । इत्यमरः । २ । ५ । २३ ॥ कलनादः
३ मरालकः ४ । इति राजनिर्घण्टः ॥ राजहंसः ।
(यथा भट्टिः । २ । १८ ।
“कुन्दावदाताः कलहंसमालाः
प्रतीयिरे श्रोत्रसुखैर्निनादैः” ॥)
नृपोत्तमः । इति विश्वमेदिन्यौ ॥ परात्मा । ब्रह्म ।
इति शब्दरत्नावली ॥ (अतिजगती वृत्तिः । सा
पृष्ठ २/०५८
:च त्रयोदशाक्षरा । लक्षणमुक्तं यथा, छन्दोमञ्ज-
र्य्याम् ७ ।
“सजसाः सगौ च कथितः कलहंसः” ।
अस्योदाहरणमुक्तं तत्रैव । यथा,
“यमुनाविहारकुतुके कलहंसो
व्रजकामिनी कमलिनीकृतकेलिः ।
जनचित्तहारिकलकण्ठनिनादः
प्रमदं तनोतु तव नन्दतनूजः” ॥
सिंहनादः क्वापि ॥)

कलहनाशनः, पुं, (कलहं नाशयतीति । कलह +

नश + णिच् + ल्युः । अस्य कलहनाशकता का-
र्मणविद्यायां प्रसिद्धा ।) पूतिकरञ्जः । इति
शब्दमाला ॥

कलहप्रियः, पुं, (कलहः प्रियो यस्य ।) नारदः ।

इति महाभारतम् ॥ (कलहप्रिये त्रि ।) यथा
गोः रामायणे ५ । १७ । २७ ।
“दुर्म्मखीः कपिलाः कृष्णाः क्रोधनाः कलहप्रियाः” ॥)

कलहप्रिया, स्त्री, (कलहस्य कलहे वा प्रिया ।)

शारिकापक्षी । इति राजनिर्घण्टः ॥

कलहान्तरिता, स्त्री, (कलहादन्तरिता पश्चात्

परितापमाप्ता ।) नायिकाभेदः । अस्या लक्ष-
णम् । पतिमवमन्य पश्चात् परितप्ता । अस्याः
क्रिया । भ्रान्तिः । सन्तापः । सम्मोहः । निश्वासः ।
ज्वरः । प्रलापादिः । इति रसमञ्जरी ॥ (तथा च
साहित्यदर्पणे ३ । ८६ ।
“चाटुकारमपि प्राणनाथं रोषादपास्य या ।
पश्चात्तापमवाप्नोति कलहान्तरिता तु सा” ॥
उदाहरणमाह तत्रैव । “नो चाटुश्रवणं कृतं न
च दृशा हारोऽन्तिके वीक्षितः, कान्तस्य प्रिय-
हेतवे निजसखीवाचोऽपि दूरीकृताः । पादान्ते
विनिपत्य तत्क्षणमसौ गच्छन्मया मूढया, पाणि-
भ्यामवरुध्य हन्त ! सहसा कण्ठे कथं नार्पितः” ॥)

कला, स्त्री, (कलयति वृद्धितो धनं संगृह्णाति सञ्चि-

नोतीत्यर्थः । कल + अच् + टाप् ।) मूलधनवृद्धिः ।
सुद् इति भाषा । शिल्पादि । (यथा रामायणे
१ । ९ । ८ ।
“गीतवादित्रकुशला नृत्येषु कुशलास्तथा ।
उपायज्ञाः कलाज्ञाश्च वैशिके परिनिष्ठिताः” ॥)
अंशमात्रम् । चन्द्रस्य षोडशांशः । (यथा, वक्रोक्ति-
पञ्चाशिकायाम् । “सालङ्कारतया त्वया मम
कथं नेन्दोः कला दृश्यते, पश्यामीन्दुकलां स्फुटं
पुनरिदं लङ्कारता नास्मि यत्” ॥) कालमानः ।
स तु त्रिंशत्काष्ठात्मकः । इति मेदिनी ॥ (“त्रिं-
शत् काष्ठाः कलाः” । इति सुश्रुते सूत्रे ६ अः ॥
शरीरस्यांशविशेषो यथा, --
“मांसासृङ्मेदसां तिस्रो यकृत्प्लीह्नोश्चतुर्थिका ।
पञ्चमी च तथान्नानां षष्ठीचाग्निधरा मता ।
रेतोधरा सप्तमी म्यादिति सप्तकलाः स्मृताः” ॥
इति पूर्ब्बखण्डे पञ्चमेऽध्याये शार्ङ्गधरेणोक्तम् ॥)
स्त्रोरजः । नौका । कपटः । इति विश्वः ।
राशेष्त्रं शद्भागोऽशस्तस्य षष्टिभागः । यथा, --
“षिकलानां कला षष्ट्या तत्षष्ट्या भाग उच्यते ।
तत्त्रिंशता भवेद्राशिर्भगणो द्वादशैव ते” ॥
इति सूर्य्यसिद्धान्तः ॥ अथ शैवतन्त्रोक्ताश्चतुः-
षष्टिकला लिख्यन्ते । गीतम् १ वाद्यम् २ नृत्यम्
३ नाठ्यम् ४ आलेख्यम् ५ विशेषकच्छेद्यम् ६
तण्डुलकुसुमबलिविकाराः ७ पुष्पास्तरणम् ८ द-
शनवसनाङ्गरागाः ९ मणिभूमिकाकर्म्म १० शयन-
रचनम् ११ उदकवाद्यम् १२ उदकघातः १३
चित्रायोगाः १४ माल्यग्रथनविकल्पाः १५ शेख-
रापीडयोजनम् १६ नेपथ्ययोगाः १७ कर्णपत्र-
भङ्गाः १८ गन्धयुक्तिः १९ भूषणयोजनम् २०
ऐन्द्रजालम् २१ कौचुमारयोगाः २२ हस्तलाघ-
वम् २३ चित्रशाकपूपभक्ष्यविकारक्रिया २४ पान-
करसरागासवयोजनम् २५ सूचीवापकर्म्माणि २६
सूत्रक्रीडा २७ प्रहेलिका २८ प्रतिमाला २९
दुव्वचकयोगाः ३० पुस्तकवाचनम् ३१ नाटिका-
ख्यायिकादर्शनम् ३२ काव्यसमस्यापूरणम् ३३
पट्टिकावेत्रवाणविकल्पाः ३४ तर्कुकर्म्माणि ३५
तक्षणम् ३६ वास्तुविद्या ३७ रूप्यरत्नपरीक्षा ३८
धातुवादः ३९ मणिरागज्ञानम् ४० आकरज्ञा-
नम् ४१ वृक्षायुर्व्वेदयोगाः ४२ मेषकुक्कुटलावक-
युद्धविधिः ४३ शुकशारिकाप्रलापनम् ४४ उत्सा-
दनम् ४५ केशमार्जनकौशलम् ४६ अक्षरमुष्टिका-
कथनम् ४७ म्लेच्छितकविकल्पाः ४८ देशभाषाज्ञा-
नम् ४९ पुष्पशकटिकानिमित्तज्ञानम् ५० यन्त्र-
मातृका ५१ धारणमातृका ५२ सम्पाट्यम् ५३ मान-
सीकाव्यक्रिया ५४ क्रियाविकल्पाः ५५ छलितक-
योगाः ५६ अभिधानकोषच्छन्दोज्ञानम् ५७ वस्त्रगो-
पनानि ५८ द्यूतविशेषः ५९ आकर्षक्रीडा ६० बा-
लकक्रीडनकानि ६१ वैनायिकीनां विद्यानां ज्ञानम्
६२ वैजयिकीनां विद्यानां ज्ञानम् ६३ वैतालिकीनां
विद्यानां ज्ञानम् ६४ । इति श्रीभागवतटीकायां
श्रीधरस्वामी ॥ क्वचित् पुस्तके सूचीवापकर्म्मसूत्र-
क्रीडा इत्येकं पदं तदुत्तरं वीणाडमरुकवाद्यानि-
वैतालिकीनामित्यत्र वैयासिकीनामिति च पाठः ॥
(जिह्वा । यथा हठयोगप्रदीपिकायाम् ३ । ३७ ।
“कलां पराङ्मुखीं कृत्वा त्रिपथे परियोजयेत्” ॥
“कलां जिह्वां पराङ्मखमास्यं यस्याः सा तथा तां
प्रत्यङ्मुखीं कृत्वा तिसृणां नाडीनां पन्थाः तस्मिन्
कपालकुहरे संयोजयेत्” । इति तट्टीका ॥ शिवः ।
यथा महाभारते १३ । १७ । १४० ।
‘कलाःकाष्ठा लवा मात्रा मुहूर्त्ताहः क्षपाःक्षणाः’ ॥)

कलाकूलं, क्ली, (कलया मात्रयापि आकूलयति व्याकू

लयतीति । आकूलि इति नामधातोः + अच् ।)
विषम् । इति राजनिर्घण्टः ॥

कलाकेलिः, पुं, (कलाभिः केलिः विलासो यस्य ।

कलासु केलिर्यस्य वा ।) कामदेवः । इति त्रिकाण्ड-
शेषः ॥

कलाङ्कुरः, पुं, (कलानां अड्कुरो यत्र ।) सारसपक्षी ।

(स्तेयशास्त्रप्रवर्त्तककर्णोसुतः ।) कंसासुरः । इति
त्रिकाण्डशेषः ॥

कलाचिका, स्त्री, (कलामचति गच्छति प्राप्नोति वा ।

कला + अच् + उपपदे कर्म्मण्यण् । ततः स्वार्थे कन्
ततष्टाप् अत इत्वञ्च ।) प्रकोष्ठः । स तु कफो-
णेरधो मणिबन्धपर्य्यन्तः । इति हेमचन्द्रः ॥

कलाची, स्त्री, (कलां अचति । कला + अच् + अण् ।

गौरादित्वात् ङीष् ।) कलाचिका । इति हारा-
वली ॥

कलादः, पुं, (अलङ्कारनिर्म्माणाय गृहस्थैः समर्पि-

तानां स्वर्णादीनां कलां अंशं आदत्ते गृह्णाति ।
अलङ्कारनिर्म्माणहेतुना गृहस्थोपार्ज्जितधनांशं
वा आदत्ते । आ + दा + कः ।) स्वर्णकारः । इत्य-
मरः । २ । १० । ८ ॥

कलानिधिः, पुं, (कलाः निधीयन्तेऽस्मिन् । कला +

नि + धा + अधिकरणे किः ।) चन्द्रः । इत्यमरः ।
१ । ३ । १४ ॥ (यथाह कश्चित् ।
“अहो महत्त्वं महतामपूर्ब्बं
विपत्तिकालेऽपि परोपकारः ।
यथाऽस्य मध्ये पतितोऽपि राहोः
कलानिधिः पुण्यचयं ददाति” ॥)

कलानुनादी, [न्] पुं, (कलं अनुनदतीति । कल +

अनु + नद् + णिनिः ।) रोलम्बः । भ्रमरः । कल-
विङ्कः । चटकः । कपिञ्जलः । चातकः । इति
मेदिनी ॥

कलान्तरं, क्ली, (अन्या कला अंशः । सुप्सुपेति

समासः ।) वृद्धिः । लाभः । इति लीलावती ॥ सुद्
इति भाषा । (चन्द्रस्य अन्या कला । यथा
कुमारे १ । २५ ।
“पुपोष लावण्यमयान् विशेषान्
ज्योत्स्नान्तराणीव कलान्तराणि” ॥)

कलापः, पुं, (कलां मात्रां आप्नोति । कला + आप्

+ “कर्म्मण्यण” । ३ । २ । १ । इति अण् । यद्वा
कला आप्यतेऽनेन “हलश्च” । ३ । ३ । १२१ ।
इति घञ् ।) समूहः । (यथा भागवते ४ । २४ । ६२ ।
“क्रियाकलापैरिदमेव योगिनः
श्रद्धान्विताः साधु यजन्ति सिद्धये” ॥)
मयूरपिच्छः । (यथा, गोः रामायणे । ५ । ५२ । १३
“संप्रदीप्तकलापाग्रा विप्रकीर्णाश्च वर्हिणः” ॥)
काञ्ची । भूषणम् । (यथा कुमारे । १ । ४२ ।
“कण्ठस्य तस्याः स्तनबन्धुरस्य
मुक्ताकलापस्य च निस्तलस्य” ॥
“मुक्ताकलापस्य मुक्ताभूषणस्य” । इति मल्लिनाथः ॥)
तूणः । (यथा हेः रामायणे २ । ५२ । ११ ।
“ततः कलापान् सन्नह्य खङ्गौ बद्ध्वा च धन्विनौ” ॥)
चन्द्रः । विदग्धः । व्याकरणविशेषः । इति मे-
दिनी ॥ (यथा, वृहत्कथासारः ।
“अधुना स्वल्पतन्त्रत्वात् कातन्त्राख्यं भविष्यति ।
तद्वाहनकलापस्य नाम्ना कालापकं तथा” ॥)
ग्रामविशेषः । यथा, भागवते । ९ । १२ । ६ ।
“देवापिर्योगमास्थाय कलापग्राममाश्रितः ।
सोमवंशे कलौ नष्टे कृतादौ स्थापयिष्यति” ॥
(अस्त्रविशेषः । यथा महाभारते ४ । ५ । २८ ।
“खड्गांश्च दीप्तान् दीर्घांश्च कलापांश्च महाधनान् ।
विपाठान् क्षुरधारांश्च धनुर्भिर्निदधुः सह” ॥)

कलापकः, पुं, (कलाप + संज्ञायां कन् ।) हस्तिकण्ठ-

पृष्ठ २/०५९
:बन्धः । इति हेमचन्द्रः ॥ (स्वार्थे कन् । कलापार्थः ।
क्ली, यस्मि न् काले मयूराः कलापिनी भवन्ति स
उपचारात् कलापी तत्र देयमृणम् । “कलाप्य-
श्वत्थयववुसाद्वुन्” । ४ । ३ । ४८ । ऋणविशेषः ।
इति सिद्धान्तकौमुदी ॥ पद्यविशेषः । यथा,
साहित्यदर्पणे ६ । २४७ ।
“छन्दोबद्धपदं पद्यं तेनैकेन च मुक्तकम् ।
द्वाभ्यान्तु युग्मकं सन्दानितकं त्रिभिरिष्यते ।
कलापकं चतुर्भिश्च पञ्चभिः कुलकं स्मृतम्” ॥)

कलापिनी, स्त्री, (कलापश्चन्द्रः अस्ति अस्याम् ।

कलाप + मत्वर्थे इनिः + ततो ङीप् ।) रात्रिः ।
नागरमुस्ता । इति राजनिर्घण्टः ॥

कलापी, [न्] पुं, (कलापाः फलपत्रसमूहाः सन्त्य-

स्मिन् । कलाप + इनिः ।) प्लक्षवृक्षः । (कलापो-
वर्हः अस्ति अस्य इनिः ।) मयूरः । इति मेदिनी ॥
(यथा रघुः ६ । ९ ।
“पुरोपकण्ठोपवनाश्रयाणां
कलापिनामुद्धतनृत्यहेतौ” ॥)
कोकिलः । इति धरणी ॥ (त्रि, तूणवान् । कलाप-
व्याकरणाध्यायी ॥)

कलापूर्णः, पुं, (कलाभिः पूर्णः ।) चन्द्रः । इति शब्द-

चन्द्रिका ॥ (त्रि, कलापरिपूर्णः । यथा महाभा-
रते । ४ । ३७ । १३ ।
“सदा भवान् फाल्गुनस्य गुणैरस्मान् विकत्थते ।
न चार्ज्जुनः कलापूर्णो मम दुर्योधनस्य वा” ॥)

कलाभृत्, पुं, (कलां बिभर्त्ति । कला + भृ + क्विप् ।

तुगागमश्च ।) चन्द्रः । इति हेमचन्द्रः ॥ (कलां
गीतादिकं बिभर्त्तीति । गीतादिकलाभिज्ञे वाच्य-
लिङ्गत्वम् । यथा मनुः २ । १३४ ॥
“दशाब्दाख्यं पौरसख्यं पञ्चाब्दाख्यं कलाभृताम् ।
त्र्यब्दपूर्ब्बं श्रोत्रियाणां स्वल्पेनापि स्वयोनिषु” ॥)

कलामकः, पुं, (कलम + कनि पृषोदरात् साधुः ।)

कलमधान्यम् । इति हेमचन्द्रः ॥ (कलमशब्देऽस्य
विशेषो ज्ञातव्यः ॥)

कलाम्बिका, स्त्री, (कला अर्थः विकायते प्रयुज्यते

अस्याम् । कला + वि + कै + क + टाप् । पृषो-
दरादित्वात् मुमि साधुः ।) अर्थानां प्रयोगः ।
ऋणदानम् । इति त्रिकाण्डशेषः ॥ धार देओया
इति भाषा ॥

कलायः, पुं, (कलां अयते । “कर्म्मण्यण्” । ३ । २

१ । इति अण् ।) शमीधान्यविशेषः । मटर वाँ-
टुला इति भाषा । तत्पर्य्यायः । सतीलकः २
हरेणुः ३ खण्डिकः ४ । इत्यमरः । २ । ९ । १६ ॥
त्रिपुटः ५ अतिवर्त्तुलः ६ । इति रत्नमाला ॥
मुण्डचणकः ७ शमनः ८ नीलकः ९ कण्टी १०
सतीलः ११ हरेणुकः १२ सतीनः १३ सती-
नकः १४ । (यथा, माघः । १३ । २१ । “विक-
सत्कलायकुसुमासितद्युतेः” ॥) अस्य गुणाः । वात-
रुचिपुष्ट्यामदोषकारित्वम् । पित्तदाहकफनाशि-
त्वम् । शीतत्वम् । कषायत्वञ्च ॥ (अस्य पर्य्यायो-
गुणाश्च यथा, भावप्रकाशस्य पूर्ब्बखण्डे धान्यवर्गे ।
“कलायो वर्त्तुलः प्रोक्तः सतिलश्च हरेणुकः ।
कलायो मधुरः स्वादुःपाके रूक्षश्च वातलः” ॥)
अस्य शाकगुणाः । मंधुरत्वम् । पित्तश्लेष्महरत्वम् ।
गुरुत्वम् । कषायानुरसत्वम् । रूक्षत्वम् । मल-
भेदित्वम् । बायुकोपनत्वञ्च । इति राजनिर्घण्टः ॥
(“भेदनं मधुरं रूक्षं कषायमतिवातलम्” ॥
इति सुश्रुते सूत्रस्थाने । ४६ अध्याये ॥)

कलायनः, पुं, (कलानां नृत्यगीतादोनां अयनं प्राप्ति-

र्यत्र ।) नर्त्तकः । इति शब्दरत्नावला ॥

कलाया, स्त्री, (कलाय + स्त्रियां टाप् ।) गण्ड-

दूर्व्वा । इति राजनिर्घण्टः ॥ (गण्डदूर्व्वाशब्दे-
ऽस्या विवरणं ज्ञातव्यम् ॥)

कलालापः, पुं, (कलं मधुरास्फुटं आलपतीति । कल

+ आ + लप् + उपपदे “कर्म्मण्यण्” । ३ । २ । १ ।
इति अण् ।) भ्रमरः । इति राजनिर्घण्टः ॥ (मधु-
रालापकर्त्तरि त्रि ॥)

कलावती, स्त्री, (कला गान्धर्व्वकलाः संगीतरागा-

लापादयः सन्ति अस्याम् । कला + मतुप् मस्य
वः स्त्रियां ङीप् ।) तुम्बुरुगन्धर्व्वस्य वीणा । इति
हेमचन्द्रः ॥ (यथा माघस्य १ । १० श्लोकस्य टी-
कायां मल्लिनाथधृतवैजयन्तीवचनम् ।
“विश्वावसोस्तु वृहती तुम्बुरोस्तु कलावती ।
महती नारदस्य स्यात् सरस्वत्यास्तु कच्छपी” ॥
स्वनामख्याता द्रुमिलस्य राज्ञः पत्नी । यथा ब्रह्म-
वैवर्त्ते ब्रह्मखण्डे । २० । १२ ।
“कान्यकुब्जे च देशे च द्रुमिलो नाम राजकः ।
कलावती तस्य पत्नी बन्ध्या चापि पतिव्रता” ॥)
श्रीराधामाता । सा तु वृषभानुपत्नी । इति ब्रह्म-
वैवर्त्तपुराणम् ॥ अप्सरोविशेषः । यथा रतिस्तव
कलावतीति श्लिष्टकाव्ये जयदेवः ।
(कलाः चतुःषष्टिकलाः विद्यन्ते यस्याः । गङ्गा ।
यथा, काशीखण्डे २९ । ४७ ।
“कूटस्था करुणा कान्ता कूर्म्मयाना कलावती” ॥)
दीक्षाविशेषः । तस्याः क्रमो मन्त्रं विना लिख्यते ।
शिष्यः पूर्ब्बमुपोषितः कृतनित्यक्रियः स्वस्तिवा-
चनपूर्ब्बकं सङ्कल्पं कुर्य्यात् । ततो गुरुं वृणुयात् ।
अथ गुरुराचम्य द्वारदेशे सामान्यार्घ्यं कुर्य्यात् ।
तदर्घ्यजलेन द्वारमभ्युक्ष्य द्वारपूजां कुर्य्यात् । ततो
दक्षिणपादपुरःसरं द्वारवामशाखां स्पृशन् दक्षि-
णाङ्गं सङ्कोचयन् मण्डपान्तः प्रविश्य नैरृत्यां
वास्तुपुरुषं ब्रह्माणञ्च संपूज्य देयमन्त्रेण दिव्य-
दृष्ट्यावलोकनेन दिव्यान् विघ्नानुत्सार्य्य अस्त्रमन्त्रेण
जलेनान्तरीक्षगान् विघ्नानुत्सार्य्य वामपार्ष्णिघात-
त्रयेण भौमान् विघ्नानुत्सार्य्य सप्तधास्त्रमन्त्राभि-
मन्त्रितविकिरानादाय भूतनिवारणार्थमन्त्रेण
तान् विकिरेत् । तत आसनशुद्धिं कृत्वा मन्त्रेण
स्वस्तिकादिक्रमेणोपविशेत् । उपविश्य वा विघ्ना-
नुत्सारयेत् । ततः पञ्चगव्येन मूलेन मण्डपं शोध-
येत् । ततः स्वदक्षिणे पूजाद्रव्याणि वामे सुवा-
सिताम्बुपूर्णकुम्भं हस्तप्रक्षालनार्थं पात्रमेकं पृष्ठ-
देशे स्थापयेत् । सर्व्वदिक्षु घृतप्रदीपांश्च स्थाप-
यित्वा पुटाञ्जलिर्भूत्वा वामे गुरुपरमगुरुपरा-
परगुरून् प्रणम्य दक्षिणे गणेशं मध्ये स्वेष्टदेवताञ्च
प्रणम्य अस्त्रमन्त्रेण गन्धपुष्पाभ्यां करौ संशोध्य
ऊर्द्ध्वोर्द्ध्वतालत्रयं दत्त्वा छोटिकाभिर्दशदिग्वग्धनं
कृत्वा वह्निवीजेन जलधारया वह्निप्राकारं विचिन्त्य
भूतशुद्धिं कुर्य्यात् । ततो मातृकान्यासः प्राणा-
यामः पीठन्यासः ऋष्यादिन्यासः मन्त्रन्यासः ।
ततो मुद्रां प्रदर्श्य ध्यानं भानसपूजां अर्घ्यस्थापनञ्च
कुर्य्यात् । ततोऽर्घ्यपात्रात् किञ्चित् जलं प्रोक्षणी-
पात्रे निक्षिप्य तेनोदकेनात्मानं पूजोपकरणञ्च
मूलेन त्रिरभ्युक्ष्य पीठमन्त्रेण शरीरे धर्म्मादीन्
पूजयेत् । ततो हृत्पद्मस्य पूर्ब्बादिकेशरेषु पीठ-
शक्तीः संपूज्य मध्ये पीठमनुं यजेत । तत्र हृदये
मूलदेवतां नैवेद्यं विना गन्धाद्यैः पूजयेत् । तत
उत्तमाङ्गहृदयमूलाधारपादसर्व्वाङ्गेषु मूलेन पञ्च-
पुष्पाञ्जलीन् दत्त्वा यथाशक्ति मन्त्रं जप्त्वा जपं
समर्पयेत् । सर्व्वमेतत् प्रोक्षणीपात्रस्थवारिणा
विदध्यात् । ततः प्रोक्षण्यास्तोयं विसृज्य पूर्ब्बवदा-
पूर्य्य वहिःपूजामारभेत । तत्र शारदोक्तसर्व्वतोभद्र-
मण्डलाद्यन्यतममण्डलं विधाय तत्र घटं संस्थाप्य
मण्डलं संपूज्य शालिभिः कंर्णिकामापूर्य्य तदुपरि
तण्डुलानास्तीर्य्य तेषु दर्भानास्तीर्य्य विष्टरं चाक्षत-
संयुक्तं तदुपरि न्यसेत् । तती मण्डले पीठोक्त-
देवताः पूजयेत् । ततो मण्डले प्रादक्षिण्येन वह्ने-
र्दशकला विन्यस्य पूजयेत् । ततो हेमादिरचितं
कुम्भं अस्त्रमन्त्रेण प्रक्षाल्य चन्दनागुरुकर्पूरैर्धूप-
यित्वा त्रिगुणतन्तुना संवेष्ट्य कुम्भं संपूज्य तत्र
विष्टराक्षतं नवरत्नानि च प्रक्षिप्य प्रणवमुच्चरन्
कुम्भपीठयोरैक्यं विभाव्य पीठे स्थापयेत् । कुम्भे
प्रादक्षिण्येन सूर्य्यस्य द्वादशकला विन्यस्य संपू-
जयेत् । ततः क्षीरिद्रुमकषायेण पलाशत्वग्मवेन
वा तीर्थजलैर्व्वा सुवासितजलैर्व्वा आत्माभेदेन
मातृकां मन्त्रञ्च प्रतिलोमतो जपन् पूरयेत् कुम्भं
देवताधिया । ततश्चंन्द्रस्यामृतादिषोडशकला जले
प्रादक्षिण्येन विचिन्त्य मन्त्रेण संपूज्य शङ्खान्तरं
क्षीरिद्रुमकषायादिद्रव्येणापूर्य्य गन्धाष्टकं विलोड्य
तस्मिन् जले सकलाः कला आवाह्य पूजयेत् ।
तत्रादौ वह्नेर्दशकलाः पूजयेत् । ततो मूलमन्त्रं
प्रतिलोमेन जपन् मन्त्रस्य देवतां मनसा ध्यायन्
आसां प्राणप्रतिष्ठां कृत्वा गन्धादिभिः पूजयेत् ।
ततः प्रत्येकेन् पूजयेत् । ततः सूर्य्यस्य तपिन्यादि-
द्वादशकलाः आवाहनादिकं कृत्वा संपूज्य प्रत्येकं
पूजयेत् । ततश्चन्द्रस्यामृतादिषोडशकलाः प्राण-
प्रतिष्ठादिकं कृत्वा संपूज्य प्रत्येकेन पूजयेत् । ततः
पञ्चाशत्कलाः पूजयेत् । यथा सृष्ट्यादिकचवर्ग-
दशकलाः प्राणप्रतिष्ठादिकं कृत्वा पूर्ब्बवत् संपूज्य
प्रत्येकेन पूजयेत् । ततो जरादिटतवर्गदशकलाः
प्राणप्रतिष्ठादिकं कृत्वा संपूज्य प्रत्येकेन पूजयेत् ।
ततस्तीक्ष्णादिपयवर्गदशकलाः प्राणप्रतिष्ठादिकं
कृत्वा संपूज्य प्रत्येकेन पूजयेत् । ततः पीतादिष-
वर्गपञ्चकलाः (षं-सं-हं-कषं) प्राणप्रतिष्ठादिकं
कृत्वा संपूज्य प्रत्येकेन पूजयेत् । ततो निवृत्त्यादि-
अवर्गषोडकलाः प्राणप्रतिष्ठादिकं कृत्वा पूजयेत् ।
शक्तश्चेत् प्रत्येकमावाह्य पाद्यादिभिः पूजयेत् ।
पृष्ठ २/०६०
:ततः कलात्मकं तत्शङ्खस्थं क्वाथं कुम्भेनिःक्षिपेत् ।
ततोऽश्वत्थपनसचूतपल्लवैरिन्द्रवल्लीवेष्टितैः कल्प-
वृक्षबुद्ध्या कुम्भवक्त्रं पिधाय तस्मिन् वक्त्रे सफला-
क्षतं चषकं कल्पवृक्षफलबुद्ध्या स्थापयेत् । ततः
कुम्भं निर्म्मलेन क्षौमयुग्मेन संवेष्ट्य मूलेन कुम्भे
मूर्त्तिं सङ्कल्प्य यथोक्तरूपेण देवतां ध्यात्वा तस्या-
मावाहनादिकं कृत्वा पूजयेत् । देवताङ्गे अङ्गन्यासं
कृत्वा धेनुमुद्रापरमीकरणमुद्रे प्रदर्श्य प्राणप्रतिष्ठां
कृत्वा षोडशोपचारादिभिः पूजयेत् । ततोऽष्टो-
त्तरं सहस्रं शतं वा संजप्य जपं समर्पयेत् । ततो
मन्त्रस्य दशसंस्कारान् कृत्वा गुरुः शिष्यमानीय
मन्त्रेण शिष्यनेत्रं वस्त्रेणाच्छाद्य शिष्याञ्जलिं पुष्पैः
पूरयित्वा गुरुः स्वयमेव मन्त्रं जपन् कलसे देव-
ताप्रीत्यै क्षिपेत् । ततो नेत्रबन्धनं दूरीकृत्य दर्भा-
स्तरे आसीनं शिष्यं स्वकृतपूजाक्रमाद्भूतशुद्ध्या-
दिकं विधाय तत्तन्मन्त्रोक्तन्यासान् शिष्यस्य देहे
कुर्य्यात् । कुम्भस्थां देवतां पुनः पञ्चोपचारैः
संपूज्यालङ्कृतं शिष्यमन्यस्मिन्नुपवेशयेत् । ततो
मङ्गलाचारपूर्ब्बकं तत्कुम्भं समुद्धृत्य तन्मुखस्थान्
सुरद्रुमरूपान् पल्लवान् शिष्यशिरसि निधाय
मातृकां मनसा जपन् मूलेन साधितैस्तोयैर्वशिष्ठ-
संहितोक्ताभिषेकमन्त्रैस्तमभिषिञ्चेत् । शिष्योऽव-
शिष्टजलेनाचभ्य वाससी परिधाय गुरोः सन्निधा-
वुपविशेत् । ततस्तामेव गुरुरात्मनो देवतां शिष्य-
संक्रान्तां तयोरैक्यं विभाव्य गन्धादिभिः पूजयेत् ।
ततो मन्त्रेण शिष्यस्य शिखां बद्ध्वा संरक्ष्य शिष्य-
शरीरे कलान्यासं कुर्य्यात् । ततः शिष्यशिरसि
हस्तं दत्त्वा अष्टोत्तरशतं जप्त्वा अमुकमन्त्रं तेऽहं
ददामीति शिष्यहस्ते जलं दद्यात् । ददस्वेति
शिष्यो ब्रूयात् । तत ऋष्यादियुक्तं मन्त्रं गुरु-
र्द्विजातीनां दक्षिणकर्णे त्रिः श्रावयेत् वामे
सकृत् । स्त्रीशूद्राणां वामकर्णे त्रिः श्रावयेत्
दक्षिणे सकृत् । ततः शिष्यो गुरुचरणे पतित
एव तिष्ठेत् । ततो गुरुर्म्मन्त्रेण तमुत्थापयेत् ।
ततः शिष्यो लब्धमन्त्रं अष्टोत्तरशतं जपेत् । ततः
शिष्यः कुशतिलजलान्यादाय गुरवे दक्षिणां सुवर्णं
काञ्चनं वा दद्यात् । दीक्षाग्रहणसामग्रीश्च निवे
दयेत् । अन्यांश्च ब्राह्मणान् परितोषयेत् । गुरुः
स्वशक्तिरक्षणार्थाय अष्टाधिकं सहस्रं शतं वा
मन्त्रं जपेत् । ततः शिष्यो मिष्टान्नपानादिना
व्राह्मणान् परितोष्य स्वयं भुञ्जीत । दीक्षादिवसे
गुरुशिष्ययोरुपवासे दोषः । इति तन्त्रसारोक्ता
कलावतीदीक्षा समाप्ता ॥

कलाविकः, पुं, (कलं आविकायति विशेषेण रौतीति

कल + आ + वि + कै + कः ।) कुक्कुटः । इति त्रि-
काण्डशेषः ॥

कलाविकलः, पुं, (कलः मधुराष्यक्तः आविकलः रवो

यम्य मः । यद्वा कलया कामावेशेन विकलः
चञ्चलः ।) चटकः । इति शब्दरत्नावली ॥

कलाहकः, पुं, (कलमाहन्तीति । कल + आ + हन्

+ डः । संज्ञायां कन् ।) काहलवाद्यम् । इति
शब्दरत्नावली ॥

कलिः, पुं, (कलते कलेराश्रयत्वेन वर्त्तते इति । कल

+ “सर्व्वधातुभ्य इन्” । उणां ४ । ११७ । इति
इन् ।) विभीतकवृक्षः । (विभीतकस्य कलिद्रुमत्व-
कारणमुक्तं यथा, वामने २७ अध्याये ।
“इत्येवमुक्तो देवेन ब्रह्मणा कलिरव्ययः ।
दीनान् दृष्ट्वा च शक्रादीन् विभीतकवनं ययौ” ॥
अस्य गुणादिकं विभीतकशब्दे द्रष्टव्यम् ॥ * ॥
कलते स्पर्द्धते इति कल + “सर्व्वधातुभ्यः इन्” ।
उणां-४ । ११७ । इति इन् ।) शूरः । (कलन्ते स्पर्द्ध-
माना भाषन्तेऽस्मिन्निति । कल + “सर्व्वधातुभ्य
इन्” । उणां ४ । ११७ । इति इन् ।) विवादः ।
(यथा, भागवते ९ । ६ । ४४ ।
“तासां कलिरभूद्भूयांस्तदर्थेऽपोह्य सौहृदम् ।
समानुरूपो नायं व इति तद्गतचेतसाम्” ॥)
युद्धम् । (कल्यते पापेषु निक्षिप्यते अनेन यद्वा
कलयति पापेन जडयति कलुषितं करोति ।
कल + इन् ।) अन्त्ययुगम् । इति हेमचन्द्रः ॥
तस्योत्पत्तिर्यथा ।
“प्रलयान्ते जगतस्रष्टा ब्रह्मा लोकपितामहः ।
ससर्ज्ज घोरं मलिनं पृष्ठदेशात् सपातकम् ॥
सचाधर्म्म इति ख्यातस्तस्य वंशानुकीर्त्तनात् ।
श्रवणात् स्मरणाल्लोकः सर्व्वपापैः प्रमुच्यते ॥
अधर्म्मस्य प्रिया रम्या मिथ्या मार्ज्जारलोचना ।
तस्याः पुत्त्रोऽतितेजस्वी दम्भः परमकोपनः ॥
स मायायां भगिन्यान्तु लोभं पुत्त्रञ्च कन्यकाम् ।
निकृतिं जनयामास तयोः क्रोधः सुतोऽभवत् ॥
स हिंसायां भगिन्यान्तु जनयामास तत्कलिम् ।
वामहस्तधृतोपस्थं तैलाभ्यक्ताञ्जनप्रभम् ॥
काकोदरं करालास्यं लोलजिह्वं भयानकम् ।
पूतिगन्धं द्यूतमद्यस्त्रीसुवर्णकृताश्रयम् ॥
भगिन्यान्तु दुरुक्त्यां स भयं पुत्त्रञ्च कन्यकाम् ।
मृत्युं संजनयामास तयोश्च निरयोऽभवत् ॥
यातनायां भगिन्यान्तु लोभपुत्त्रायुतायुतम् ।
इत्थं कलिकुले जाता बहवो धर्म्मनिन्दकाः” ॥
इति कल्किपुरणे १ अध्यायः ॥ * ॥
कलिधर्म्मो यथा ।
“यदा सदानृतं तन्द्रानिद्रा हिंसा विषादनम् ।
शोकमोहभयं दैन्यं स कलिस्तु तदा स्मृतः ॥
यस्मिन् जनाः कामिनः स्युः शश्वत्कटुकभाषिणः ।
दस्युकृष्टा जनपदा वेदाः पाषण्डदूषिताः ॥
राजानश्च प्रजाभक्षाः शिश्नोदरपरा द्विजाः ।
अव्रता वटवो ऽशौचा भिक्षवश्च कुटुम्बिनः ॥
तपस्विनो ग्रामवासा न्यासिनो ह्यर्थलोलुपाः ।
ह्रस्वकाया महाहाराश्चौर्य्यमायोरुसाहसाः ॥
त्यक्ष्यन्ति भृत्याश्च पतिं तापसास्त्वखिलं व्रतं ।
शूद्राः प्रतिग्रहीष्यन्ति तपोवेशोपजीविनः ॥
उद्विग्नाश्चानलङ्काराः पिशाचसदृशाः प्रजाः ।
अस्नातभोजनेनाग्निदेवतातिथिपूजनम् ॥
करिष्यन्ति कलौ प्राप्ते न च पिण्डोदकक्रियाम् ।
स्त्रीपराश्च जनाः सर्व्वे शृद्रप्रायाश्च शौनक ॥
बहुप्रजाल्पभाग्याश्च भविष्यन्ति कलौ स्त्रियः ।
शिरःकण्डयनपरा आज्ञां भेत्स्यन्ति सत्पतेः ॥
विष्णुं न पूजयिष्यन्ति पाषण्डोपहता जनाः ॥
कलेर्द्दोषनिधेर्विप्र अस्ति ह्येको महान् गुणः ।
कीर्त्तनादेव कृष्णस्य मुक्तबन्धः परं व्रजेत् ॥
कृते यद्ध्यायतो विष्णुं त्रेतायां यजतः फलम् ।
द्वापरे परिचर्य्यायां कलौ तद्धरिकीर्त्तनात् ॥
तस्मार्द्ध्ययो हरिर्नित्यं ध्येयः पूज्यश्च शौनक” ॥
इति गारुडे युगधर्म्मे २२७ अध्यायः ॥
(माघिपूर्णिमायां शुक्रवारे कलियुगोत्पत्तिः ॥)
तद्युगमानम् । द्वात्रिंशत्सहस्राधिकचतुर्लक्षवत्-
सराः (४३२०००) ।
(आर्य्यभट्टमते ऽत्र १५७७९१७५० दिवसाः ।
सूर्य्यसिद्धान्तमते १५७७९१७८२ । ४८ दिवसाः ।
ज्योतिषसैद्धान्तिकमतेच १५७७९१७८२ दिवसाः ॥
अतो वर्षमाणमार्य्यभट्टमते ३६५ । १५ । ३१ । १५ ।
दिवसाः ।
सूर्य्यसिद्धान्तमते ३६५ । १५ । ३१ । ३१ । २४ । दिवसाः ।
ज्योतिषसैद्धान्तिकमते च ३६५ । १५ । ३१ । ३०
दिवसाः ॥)
तस्यातीताब्दाः १८०९ शाकपर्य्यन्तं ४९८८ ॥
(कलेस्त्रिपञ्चाशदधिकषट्शतमितेषु (६५३)
वत्सरेषु गतेषु युधिष्ठिरादयो जाताः । यदुक्त
राजतरङ्गिण्यां १ । ५१ ।
“शतेषु षट्सु सार्द्धेषु त्र्यधिकेषु च भूतले ।
कलेर्गतेषु वर्षाणामभवन् कुरुपाण्डवाः” ॥
ऋतुपक्षशरद्विमितेषु (२५२६) युधिष्ठिराब्देषु
कलेर्ग्रहसिन्ध्विन्दुनेत्रमितेषु (३१७९) वत्सरेषुगतेषु
च महाविषुवसंक्रान्त्यां शालिवाहनस्य राज्ञो
जन्मदिनमारभ्य शकाब्दः प्रवर्त्तितः । यदुक्तं
तत्रैव १ । ५६ ।
“आसन् मघासु मुनयः शासति पृथ्वीं युधिष्ठिरे
नृपतौ । षड् द्विपञ्चद्वियुतः शककालस्तस्य रा-
ज्यस्य” ॥ अयन्तु महाविषुवसंक्रान्तिमधिगम्य
परिगणितो भवति ॥
कलेश्चतुश्चत्वारिं शदधिकत्रिसहस्रपरिमितेषु
(३०४४) वत्सरेषु गतेषु चैत्रशुक्लप्रतिपदि उज्ज-
यिनीपतेर्विक्रमादित्यस्य राज्यप्राप्तिकालमारभ्य
संवत् इत्याख्यया प्रसिद्धो वत्सरः प्रचलितः ॥
अयन्तु चैत्रशुक्लप्रतिपत्तिथिमधिगम्य परिगणितो
भवति ॥
कलेरेकोर्द्ध्वशताधिकत्रिसहस्रपरिमितेषु (३१
०१) वत्सरेषु गतेषु प्रायशो सौरपौषस्य अष्टा
दशदिवसे यीशुख्रीष्टीयाब्दः प्रचलितः ॥
पञ्चनवत्यूर्द्ध्वषट्शताधिकत्रिसहस्रपरिमितेषु
(३६९५) कलेरतीताब्देषु सप्तदशाधिकपञ्च-
शतमिते (५१७) च शकाब्दे प्रचलति भाद्रशुक्ल-
द्वादश्यां उत्कलदेशप्रचलितः विलायति इत्या-
ख्यया प्रसिद्धो वत्सरः प्रवर्त्तितः । अयन्तु भाद्र-
शुक्लद्वादशीमधिगम्य परिगणितो भवति ॥
त्रयोविंशत्यूर्द्धसप्तशताधिकत्रिसहस्रपरिमितेषु
(३७२३) कलेरतीताब्देषु पञ्चचत्वारिंशदधिक-
पञ्चशतमिते (५४५) च शकाब्दे प्रचलति ज्यैष्ठस्य
विंशतितमदिवसीय शुक्रवारात् महम्मदस्य मक्का-
पृष्ठ २/०६१
:प्रस्थानकालमारभ्य “हिज्रि” इति प्रसिद्धो
हायनः प्रचलितः । अयन्तु चान्द्रमाणेन परिग-
णितो भवति । अतः प्रायशः सौरसप्तनवतितम-
वर्षैरस्य शततमा वत्सरा भवेयुः ॥
पञ्चाशीत्यूर्द्ध्वपञ्चशताधिकचतुःसहस्रपरिमि-
तेषु कलेरतीताब्देषु (४५८५) सप्ताधिकचतु-
र्द्दशशतपरिमिते (१४०७) च शकाब्दे प्रचरति
फाल्गुनीयोनविंशदिवसे शुक्रवारे पूर्णिमायां भग-
वांश्चैतन्यदेवः प्रादुर्बभूव । अस्य जन्मदिनमारभ्य
चैतन्याब्दः प्रचलितः ॥)
अस्मिन् युगे धर्म्म एकपादः । अधर्म्मश्चतु-
ष्पादः । आयुः शतवर्षाणि । अवतारः श्रीकृष्णः ।
तद्युगशेषे पापिनां विनाशाय भगवद्दशमावतारः
कल्किर्भविष्यति । तद्युगधर्म्मो यथा ।
“कलौ तु धर्म्मपादानां तूर्य्यांशोऽधर्म्महेतुभिः ।
एधमानैः क्षीयमाणो ह्यन्ते सोऽपि विनङ्क्ष्यति ॥
तस्मिन् लुब्धा दुराचारा निर्दयाः शुष्कवैरिणः ।
दुर्भगा भूरितर्षाश्च शूद्रदासोत्तराः प्रजाः” ॥
“यदा मायानृतं तन्द्रा निद्रा हिंसा विषादनम् ।
शोकमोहौ भयं दैन्यं स कलिस्तामसः स्मृतः ॥
यस्मात् क्षुद्रदृशो मर्त्याः क्षुद्रभाग्या महाशनाः ।
कामिनो वित्तंहीनाश्च स्वैरिण्यश्च स्त्रियोऽसतीः ॥
दस्युकृष्टा जनपदा वेदाः पाषण्डदूषिताः ।
राजानश्च प्रजाभक्षाः शिश्नोदरपरा द्विजाः ॥
अव्रता वटवोऽशौचा भिक्षवश्च कुटुम्बिनः ।
तपस्विनो ग्रामवासा न्यासिनो ह्यर्थलोलुपाः ॥
ह्रस्वकाया महाहारा बह्वपत्या गतह्रियः ।
शश्वत्कटुकभाषिण्यश्चौर्य्यमायोरुसाहसाः ॥
पणयिष्यन्ति वै क्षुद्राः किराटाः कुटकारिणः ।
अनापद्यपि मंस्यन्ते वार्त्तां साधुजुगुप्सिताम् ॥
पतिं त्यक्ष्यन्ति निर्द्रव्यं भृत्या अप्यखिलोत्तमम् ।
भृत्यं विपन्नं पतयः कौलं गाश्चापयस्विनीः ॥
पितॄन् भ्रातॄन् सुहृद्ज्ञातीन् हित्वासौरतसौहृदाः
ननान्दृश्यालसम्बादा दीनाः स्त्रैणाः कलौ नराः ॥
शूद्राः प्रतिग्रहीष्यन्ति तपोवेशोपजीविनः ।
धर्म्मं वक्ष्यन्त्यधर्म्मज्ञा अधिरुह्योत्तमासनम् ॥
नित्यमुद्विग्नमनसो दुर्भिक्षकरकर्षिताः ।
निरन्ने भूतले राजन्ननावृष्टिभयातुराः ॥
वासोऽन्नपानशयनव्यवायस्नानभूषणैः ।
हीनाः पिशाचसन्दर्शा भविष्यन्ति कलौ प्रजाः ॥
कलौ काकिणिकेऽप्यर्थे विगृह्य त्यक्तसौहृदाः ।
त्यक्ष्यन्ति हि प्रियान् प्राणान् हनिष्यन्ति स्वकानपि ॥
न रक्षिष्यन्ति मनुजाः स्थविरौ पितरावपि ।
पुत्त्रान् भार्य्याञ्च कुलजां क्षुद्राः शिश्नोदरम्भराः ॥
कलौ न राजन् जगतां परं गुरुं
त्रिलोकनाथानतपादपङ्कजम् ।
प्रायेण मर्त्या भगवन्तमच्युतं
यक्ष्यन्ति पाषण्डविभिन्नचेतसः” ॥ * ॥
कलिकृतदोषविनाशोपायः । यथा,
“यन्नामधेयं म्रियमाण आतुरः
पतन् स्खलन् वा विवशो गृणन् पुमान् ।
विमुक्तकर्म्मार्गल उत्तमां गतिं
प्राप्नोति यक्ष्यन्ति न तं कलौ जनाः ॥
पुंसां कलिकृतान् दोषान् द्रव्यदेशात्मसम्भवान् ।
सर्व्वान् हरति चित्तस्थो भगवान् पुरुषोत्तमः ॥
श्रुतः संकीर्त्तितो ध्यातः पूजितस्त्वादृतोऽपि वा ।
नृणां क्षिणोति भगवान् हृत्स्थो जन्मायुताशुभम् ॥
यथा हेम्नि स्थितो वह्निर्दुर्व्वर्णं हन्ति धातुजम् ।
एवमात्मगतो विष्णुर्योगिनामशुभाशयम् ॥
विद्यातपःप्राणनिरोधमैत्री
तीर्थाभिषेकव्रतदानजप्यैः ।
नात्यन्तशुद्धिं लभतेऽन्तरात्मा
यथा हृदिस्थे भगवत्यनन्ते ॥
तस्मात् सर्व्वात्मना राजन् हृदिस्थं कुरु केशवम् ।
म्रियमाणो ह्यवहितस्ततो याहि परां गतिम्” ॥
“कलेर्दोषनिधे राजन्नस्ति ह्येको महान् गुणः ।
कीर्त्तनादेव कृष्णस्य मुक्तसङ्गः परं व्रजेत् ॥
कृते यद्ध्यायतो विष्णुं त्रेतायां यजतो मखे ।
द्वापरे परिचर्य्यायां कलौ तद्धरिकीर्त्तनात्” ॥
इति श्रीभागवते महापुराणे १२ । ३ अध्यायः ॥ * ॥
तद्युगशेषधर्म्माः यथोक्तास्तत्रैव १२ । १ । ३६-४७ ॥
“सौराष्ट्रावन्त्याभीराश्च शूरा अर्ब्बुदमालवाः ।
व्रात्या द्विजा भविष्यन्ति शूद्रप्राया जनाधिपाः ॥
सिन्धोस्तटं चन्द्रभागां कान्तीं काश्मीरमण्डलम् ।
भोक्ष्यन्ति शूद्रा व्रात्याद्या म्लेच्छा अब्रह्मवर्च्चसः ॥
तुल्यकाला इमे राजन् म्लेच्छप्रायाश्च भूभृतः ।
एतेऽधर्म्मानृतपराः फल्गुदास्तीव्रमन्यवः ॥
स्त्रीबालगोद्विजघ्नाश्च परदारधनादृताः ।
उदितास्तमितप्राया अल्पसत्वाल्पकायुषः ॥
असंस्कृताः क्रियाहीना रजसा तमसा वृताः ।
प्रजास्ते भक्षयिष्यन्ति म्लेच्छा राजन्यरूपिणः ॥
तन्नाथास्ते जनपदास्तच्छीलाचारवादिनः ।
अन्योन्यतो राजमिश्च क्षयं यास्यन्ति पीडिताः” ॥
तत्रैव १२ । २ । १-१६ ।
“ततश्चानुदिनं धर्म्मः सत्यं शौचं क्षमा दया ।
कालेन बलिना राजन् नंङ्क्ष्यत्यायुर्ब्बलं स्मृतिः ॥
वित्तमेव कलौ नॄणां जन्माचारगुणोदयः ।
धर्म्मन्यायव्यवस्थायां कारणं बलमेव हि ॥
दाम्पत्येऽभिरुचिर्हेतुर्मायैव व्यवहारिके ।
स्त्रीत्वे पुंस्त्वे च हि रतिर्विप्रत्वे सूत्रमेव हि ॥
लिङ्गमेवाश्रमाख्यातावन्योन्यापत्तिकारणम् ।
अवृत्त्या न्यायदौर्ब्बल्यं पाण्डित्ये चापलं वचः ॥
अनाढ्यतैवासाधुत्वे साधुत्वे दम्भ एव हि ।
स्वीकार एव चोद्वाहे स्रानमेव प्रसाधनम् ॥
दूरे वार्य्ययनं तीर्थं लावण्ये केशधारणम् ।
उदरम्भरता स्वार्थः सत्यत्वे धार्ष्ट्यमेव हि ॥
दाक्ष्ये कुटुम्बभरणं यशोऽर्थे धर्म्मसेवनम् ।
एवं प्रजाभिर्दुष्टाभिराकीर्णे क्षितिमण्डले ।
ब्रह्मविट्क्षत्त्रशूद्राणां यो बली भविता नृपः ॥
प्रजा हि लुब्धै राजन्येर्निर्घृणैर्दस्युधर्म्मभिः ।
आच्छिन्नदारद्रविणा यास्यन्ति गिरिकाननम् ॥
शाकमूलामिषक्षौद्रफलपुष्पाष्टिभोजनाः ।
अनावृष्ट्या विनङ्क्ष्यन्ति दुर्मिक्षकरपीडिताः ॥
शीतवाततपप्रावृडहिमैरन्योऽन्यतः प्रजाः ।
क्षुत्तृड्भ्यां व्याधिभिश्चैव सन्तप्स्यन्ते च चिन्तया ॥
त्रिंशद्विंशतिवर्षाणि परमायुः कलौ नृणाम् ॥
क्षीयमाणेषु देहेषु देहिनां कलिदोषतः ।
षर्णाश्रमवतां धर्म्मे नष्टे वेदपथे नृणाम् ॥
पाषण्डप्रचुरे धर्म्मे दस्युप्रायेषु राजसु ।
चौर्य्यानृतवृथाहिंसानानावृत्तिषु वै नृषु ॥
शूद्रप्रायेषु वर्णेषु छागप्रायासु धेनुषु ।
गृहप्रायेष्वाश्रमेषु यौनप्रायेषु बन्धुषु ॥
अनुप्रायास्वोषधीषु शमीप्रायेषु स्थास्नुषु ।
विद्युत्प्रायेषु मेघेषु शून्यप्रायेषु सद्मसु ॥
इत्थं कलौ गतप्राये जनेषु खरधर्म्मिषु ।
धर्म्मत्राणाय सत्वेन भगवानवतरिष्यति” ॥
(देवगन्धर्व्वविशेषः । स तु कश्यपात् दक्षकन्यायां
मुनौ जातः । यथा, महाभारते १ । ६५ । ४४ ।
“तथा शालिशिरा राजन् पर्ज्जन्यश्च चतुर्द्दश ।
कलिः पञ्चदशस्त्वेषां नारदश्चैव षोडशः” ॥
शिवः । यथा महाभारते । १३ । १७ । ७८ ।
“दम्भोह्यदम्भो वैदम्भो वश्यो वशकरः कलिः” ॥)

कलिः, स्त्री, (कलयति ईषत्प्रकाशते उद्भिद्यते वा

कल् + ततः इन् ।) कलिका । इति मेदिनी ॥

कलिकः, पुं, (कलो मन्दगम्भीरध्वनिरस्यास्ति ।

कल + मत्वर्थे ठन् ।) क्रौञ्चपक्षी । इति शब्द-
रत्नावली ॥

कलिका, स्त्री, (कलिरेव । स्वार्थे कन् टाप् च ।)

अस्फुटितपुष्पम् । तत्पर्य्यायः । कोरकः २ । इत्य-
मरः । २ । ४ । १६ ॥ कलिः ३ कली ४ । कोरकम् ।
५ इति तट्टीका ॥ (यथा, साहित्यदर्पर्णे ३ ।
१६८ ।
“मुग्धामजातरजसं कलिकामकाले
व्यर्थं कदर्थयसि किं नवमालिकायाः” ॥)
वीणामूलम् । इति हेमचन्द्रः ॥ पदसन्ततियुक्त-
रचनाविशेषः । तद्विवरणम् यथा, --
“स्युर्म्महाकलिकारम्भे श्लोकास्तु युगशः स्मृताः ।
अन्यासां कलिकानान्तु भवन्त्येकैकशो हि ते ॥
पूर्त्तौ द्वौ कलिकाभिस्तु विरुदास्तुल्यसङ्ख्यकाः” ॥ * ॥
कलिकालक्षणम् ।
“कला नाम भवेत्तालनियता पदसन्ततिः ।
कलाभिः कलिका प्रोक्ता तद्भेदाः षट् समीरिताः ।
कलिका चण्डवृत्ताख्या द्विगादिगणवृत्तका ।
तथा त्रिभङ्गी वृत्ताख्या मध्या मिश्रा च केवला” ॥
चण्डवृत्ते दशधा संयुक्तवर्णाः ।
“अत्र संयुक्तवर्णानां नियमो दशधा च ते ।
मधुरं श्लिष्टविश्लिष्टशिथिलह्रादिनस्त्वमी ॥
भिद्यन्ते ह्रस्वदीर्घाभ्यां ते दर्श्यन्ते स्फुटं यथा ।
ह्रस्वान्मधुरसंयोगाः शङ्कराङ्कुशकिङ्कराः ॥
तस्मात्तु श्लिष्टसंयक्ता दर्पकर्परसर्पवत् ।
ततो विश्लिष्टसंयुक्ता भल्लकल्याणचिल्लयः ॥
तथा शिथिलसंयुक्ताः पश्य कश्यप वश्यवत् ।
प्रोक्ता ह्रादियुता मह्यं सह्यं गुह्यं प्रसह्यवत् ॥
गर्हादीन् ह्रादिसंयुक्तमेदान् केचित् ममूचिरे ।
दीर्घात्तुङ्गाङ्गकार्पामं बाल्यं वैश्यश्च वाह्यकम्” ॥
कलापरिमाणमुक्तम् ।
पृष्ठ २/०६२
:“अधिकाश्चेच्चतुःषष्टिर्न्यूना द्वादश ताः कलाः ।
एताभ्यो नाधिकाः कार्य्या न्यूनाश्चापि न पण्डितैः” ॥
तत्र तावच्चण्डवृत्तकलिका द्विधा । नखो विशिख-
श्चेति भेदात् । तत्र रणादि-विंशतिभेदस्य नखस्येह
बर्द्धितादयो नव भेदा गृहीताः ।
“वर्द्धितं वीरभद्रश्च समग्रोऽच्युत उत्पलम् ।
तुरङ्गः श्रीगुणरतिस्तथा मातङ्गखेलितम् ।
तिलकश्चेति कलिका नखस्येहोदिता नव” ॥ इत्युक्तेः ॥
अथ विशिखः । पद्मकुन्दचम्पकवञ्जुलभेदात् पञ्च-
विधः । तेष्वादिमं पद्मं पङ्केरुहसितकञ्जपाण्डूत्पले-
न्दीवरारुणाम्भोरुहकह्लारभेदात् षड्विधम् ।
अन्तिमं वकुलन्तु भासुरमङ्गलभेदात् द्विविधमित्ये
कादशभेदो विशिखः ।
“पङ्केरुहं सितकञ्जं तथा पाण्डूत्पलं परम् ।
इन्दीवरारुणाम्भोजे कह्लारञ्चेति षड्विधम् ॥
ईषद्भेदेन कथितं पद्ममेव मनीषिभिः ।
चम्पकं वञ्जुलं कुन्दं वकुलुं द्विविधं तथा” ॥
इति पञ्चविधस्यापि विशिखस्येशसङ्ख्यका इत्युक्तेः ।
एवं चण्डवृत्तकलिका विंशतिधा गृहीताः ॥ * ॥
अथ पञ्चधाद्विगादिगणवृत्तकाकलिका मञ्जरी-
त्यभिहिता क्रमात् कोरकगुच्छकसंफुल्लकुसुम-
गन्धाख्या । तस्याश्चात्र कोरकगुच्छकुसुमानि
गृहीतानि । कोरको गुच्छकुसुमैर्मञ्जरी त्रिविधात्र
त्वित्युक्तेः । त्रिभङ्गी कलिका तु शिखरिण्यादि-
पूर्ब्बा सोढा । तस्याश्चात्र दण्डकपूर्व्बा विदग्धपूर्ब्बा
च गृहीता । दण्डकाख्या विदग्धाख्या त्रिभङ्गीह
द्विधा मतेत्युक्तेः ॥ * ॥ अथ मिश्रकलिका तु
कलिकागद्यसंपृक्ता सप्तविभक्तिका वा । अक्ष-
मयी सर्व्वलघ्वी चेति द्विभेदा केवला चेत्यष्टौ ।
तदेवं षड्भ्यो महाकलिकाभ्यो ऽष्टाबिंशतिरिह
कलिका गृहीताः । रणादय एकादश नखभेदाः ।
संफुल्लगन्धौ मञ्जरीभेदौ । शिखरिण्यादयः त्रिभ
ङ्गीभेदा मध्यकलिका च त्यक्ताश्चारुताधिक्यविर-
हात् । इति रूपगोस्वामिकृतगोविन्दविरुदावली-
भाष्ये बलदेवविद्याभूषणः ॥ (छन्दोभेदः । यदुक्तं
वृत्तरत्नाकरे ४ अध्याये ।
“प्रथममपरचरणसमुत्थं
श्रयति स यदि लक्ष्म ।
इतरदितरगदितमपि यदि च तूर्य्यम्
चरणयुगलकमविकृतमपरमिति कलिका सा” ॥
कला । यथोक्तं सिद्धान्तशिरोमणौ ।
“तन्यन्ते कलिका यस्मात्तस्मात्तास्तिथयः स्मृताः” ॥)

कलिकापूर्व्वं, क्ली, (कलिकया अंशेन जन्यं अपूर्व्वं

अदृष्टम् ।) अङ्गप्रधानान्यतरबहुकर्म्मसाध्यस्वर्गा-
दिफलजनकापूर्ब्बोत्पत्तौ तत्तत्प्रत्येककर्म्मजन्यमदृ-
ष्ठम् । इति स्मृतिः ॥

कलिकारः, पुं, (कलिं चिचिकुचीतिशब्देन कलहं

करोतीति । कलि + कृ + अण् ।) धूम्याटपक्षी ।
पीतमस्तकपक्षी । (कलिं स्वदेहस्थकण्टकैरनिष्ठं
करोतीति ।) पूतिकरञ्जः । इति मेदिनी ॥

कलिकारकः, पुं, (कलिं कण्टकैरनिष्टं करोति ।

कलि + कृ + णिच् + ण्वुल् ।) पूतिकरञ्जः । काँटा-
करञ्ज नाटाकरञ्ज इति च भाषा । इत्यमरः । २ ।
४ । ४८ ॥ (कलिं कलहं कारयति । कलि + कृ +
णिच् + ण्वुल् ।) नारदमुनिः । इति हेमचन्द्रः ॥

कलिकारी, स्त्री, (कलिं गर्भपाताद्यनिष्टं करोतीति ।

कलि + कृ + अण् । जातित्वात् ङीष् ।) उप-
विषभेदः । विषलाङ्गलीया इति भाषा । तत्प-
र्य्यायः । लाङ्गली २ हलिनी ३ गर्भपातनी ४
दीप्ता ५ विशल्या ६ अग्निमुखी ७ हली ८ नक्ता
९ इन्द्रपुष्पिका १० विद्युज्ज्वाला ११ अग्निजिह्ना
१२ व्रणहृत् १३ पुष्पसौरभा १४ खर्णपुष्पा
१५ वह्निशिखा १६ । अस्या गुणाः । कटुत्वम् ।
उष्णत्वम् । कफवातनाशित्वम् । गर्भान्तःशल्यनि-
ष्क्रामकारित्वम् । परमसारित्वञ्च । इति राज-
निर्घण्टः ॥

कलिङ्गं, क्ली, (कलि + गम् + ड । निपातनात्

साधुः ।) इन्द्रयवम् ॥ इत्यमरः । २ । ४ । ६७ ॥

कलिङ्गः, पुं, (कलिं पूतिगन्धादिकं गच्छति प्राप्नोति

कलि + गम् + ड । निपातनात् साधुः ।) पूतिक-
रजवृक्षः । (के मस्तके लिङ्गं पीतादिचिह्नमस्य ।)
धूम्याटपक्षी । देशविशेषः । इति हेमचन्द्रः ॥
(स्वनामख्यातो नृपतिविशेषः । अस्य नामानुसारे-
णैव कलिङ्ग इति देशाख्या जाता । यदुक्तं महा
भारते । १ । १०४ । ४९, ५० ।
“अङ्गो वङ्गः कलिङ्गश्च पुण्ड्रः सुह्मश्च ते सुताः ।
तेषां देशाः समाख्याताः स्वनामप्रथिता भुवि ॥
अङ्गस्याङ्गोऽभवद्देशो वङ्गो वङ्गस्य च स्मृतः ।
कलिङ्गविषयश्चैव कलिङ्गस्य च स स्मृतः” ॥)
मेदिनीमते जलपदार्थे पुं भूम्नि । (यदुक्तं तत्रैव
गत्रिके ३३ ।
“कलिङ्गः पूतिकरजे धूम्याटे भूम्नि नीवृति” ॥
अस्य प्रमाणं यथा, गोःरामायणे । ४ । ४० । २१ ।
“ततः शकपुलिन्दांश्च कलिङ्गांश्चैव मार्गतः” ॥
तद्देशवासिमानवादयः । यथा, महाभारते । ३ ।
११४ । ३ ।
“ततः समुद्रतीरेण जगाम वसुधाधिपः ।
भ्रातृभिः सहितो वीरः कलिङ्गान् प्रति भारत” ॥)
कुटजवृक्षः । (अस्यपर्य्यायो यथा भावप्रकाशे
पूर्ब्बखण्डे १ भागे ।
“उक्तं कुटजवीजन्तु यवमिन्द्रयवन्तथा ।
कलिङ्गञ्चापिकालिङ्गं तथा भद्रयवा अपि” ॥
इन्द्रयवशब्देऽस्य गुणावली ज्ञेया ॥
व्यवहारो यत्र तद्यथा ।
“विल्वं छागपयः सिद्धं सितामोचरसान्वितम् ।
कलिङ्गचूर्णसंयुक्तं रक्तातीसारनाशनम्” ॥
इति वैद्यकचक्रपाणिसंग्रहेऽतीसाराधिकारे ॥)
शिरीषवृक्षः । प्लक्षवृक्षः । इति राजनिर्घण्टः ॥

कलिङ्गकः, पुं, (कलिङ्ग + संज्ञायां कन् । कलिङ्ग

इव कायति वा । कै + कः ।) इन्द्रयवम् । इति
रत्नमाला ॥ (यथा, वैद्यकचक्रपाणिसंग्रहे ज्वरा-
धिकारे ।
“कलिङ्गकाः पटोलस्य पाठा कटुकरोहिणी” ॥)
कलिङ्गा, स्त्री, (कं सुखं लिङ्गतीति । क + लिङ्ग
अच् टाप् ।) नितम्बिनी । महिला । इति मेदिनी
करहेमचन्द्रौ ॥ त्रिवृत् । इति शब्दचन्द्रिका ।
तेउडि इति भाषा ॥

कलिञ्जः, पुं, (कं वातं लञ्जति तिरस्करोति रोधने-

नेति यावत् । क + लजि भर्त्सने + “कर्म्मण्यण्”
३ । २ । १ । इति अण् । निपातनात् साधुः ।)
कटः । इति हेमचन्द्रः ॥ चाँच् दरमा इत्यादि
भाषा ॥

कलितं, त्रि, (कल् + कर्म्मणि क्त ।) विदितम् ।

आप्तम् । इति मेदिनी ॥ भेदितम् । गणितम् ।
इति शब्दरत्नावली ॥ धृतम् यथा, --
“करकलितकपालः कुण्डली दण्डपाणिः” । इति
भैरबध्यानम् ॥
(प्राप्तः । यथा आर्य्यासप्तशती ३५५ ।
“विशिख इव कलितकर्णः प्रविशति हृदं न
निःसरति” ॥ भावे + क्त । ज्ञानम् ॥)

कलिद्रुमः, पुं, (कलिना आश्रितो द्रुमः शाकपार्थि-

वादिवत् मध्यपदलोपः ।) विभीतकवृक्षः । इत्य-
मरः । २ । ४ । ५८ । वयडा इति भाषा ॥ (अस्य
पर्य्यायो यथा भावप्रकाशस्य पूर्ब्बखण्डे । १ भागे ।
“विसीतकस्त्रिलिङ्गः स्यान्नाक्षः कर्षफलस्तु सः ।
कलिद्रुमो भूतवासस्तथा कलियुगालयः” ॥
विशेषविवरणमस्य विभीतकशब्दे ज्ञेयम् ॥)

कलिन्दः, पुं, (कलिं ददाति द्यति वा खच् मुम् च ।)

विभीतकवृक्षः । इति राजनिर्घण्टः ॥ (विभीतक-
शब्देऽस्य विशेषो ज्ञातव्यः ॥) सूर्य्यः । पर्व्वत-
विशेषः । यस्मात् यमुना निर्गता । इति कालि-
न्दीशब्दव्युत्पत्तौ भरतः ॥ (यथा रघुः ६ । ४८ ।
“कलिन्दकन्या मथुरां गतापि
गङ्गोर्म्मिसंसक्तजलेव भाति” ॥)

कलिन्दकन्या, स्त्री, (कलिन्दस्य पर्व्वतविशेषस्य कन्या

तदुत्पन्नत्वात् ।) यमुनानदी । इति राजनिर्घण्टः ॥
(“कलिन्दकन्यामथुरां गतापि
गङ्गोर्म्मिसंसक्तजलेव भाति” ॥
इति रघुः । ६ । ४८ ॥)

कलिन्दनन्दिनी, स्त्री, (कलिन्दं नन्दयति । कलिन्द +

नन्द + णिनिः ङीप् च । कलिन्दस्य नन्दिनी वा ।)
यमुनानदी । इति शब्दरत्नावली ॥

कलिप्रियः, पुं, (कलिः कलहः प्रियो यस्य ।) नारद-

मुनिः । यथा । “कलिप्रियस्य प्रियशिष्यवर्गः” ।
इति रघुः ॥ (कलेः प्रियः दुष्टप्रकृतिकः ॥) वा-
नरः । इति शब्दरत्नावली ॥

कलिमारकः, पुं, (कलीनां कलिकानां माला यत्र ।

लस्य रः कप् संज्ञायां कन् वा । यद्वा कलिना
स्वदेहस्थकण्ठकाघातदुःखेन मारयतीति । कलि
+ मृ + णिच् + ण्वुल् ।) कलिकारकः । इत्यमर-
टीकायां रमानाथः । २ । ४ । ४८ ॥

कलिमालकः, पुं, (कलीनां माला यत्र । कप् कलिना

मारयति वा रस्य लः ।) कलिकारकः । इति
स्वामी इत्यमरटीकायां भरतः ॥

कलिमाल्यः, पुं, (कलीनां माल्यं यत्र ।) पूतिकरञ्जः ।

इति राजनिर्घण्टः ॥
पृष्ठ २/०६३

कलियुगं, क्ली, (कलिरेव युगम् । अग्नेः शिखा राहोः

शिर इति वत् कलेर्युगं वा ।) चतुर्थयगम् । (यथा
मनुः १ । ८५ ।
“अन्ये कृतयुगे धर्म्मा स्त्रेतायां द्वापरे परे ।
अन्ये कलियुगे नॄणां युगह्रासानुरूपतः” ॥)
तस्योत्पत्त्यादि यथा । माघीपूर्णिमायां शुक्रवारे
कलियुगोत्पत्तिः । तत्र अवतारः कल्किः । पुण्य-
मेकपादम् ॥ पापं त्रिपादम् । गङ्गा तीर्थम् ।
ब्राह्मणो निरग्निः । अन्नगताः प्राणाः । सार्द्ध-
त्रिहस्तपरिमितो मनुष्यदेहः । अष्टाधिकशत-
वर्षं परमायुः । भोजनपात्रस्य नियमो नास्ति ।
इति कलियुगस्य लक्षणम् ॥ कलियुगाब्दाः
४३२००० । आदौ कलिराजा धर्म्मपुत्त्रो युधि-
ष्ठिरः । हरिश्चन्द्रः मुनिश्चन्द्रः तेजशेखरः विक्र-
मादित्यः विक्रमसेनः लाउसेनः बल्लालसेनः देव-
पालः भूपालः महीपालः । एते राजचक्रवर्त्तिनः ॥
तन्माहात्म्यं यथा, --
‘धर्म्मः सङ्कुचितस्तपो विरहितं सत्यञ्च दूरंगतम् ।
लोकाधर्म्महता द्विजाश्चलुभिता नारीवशा मानवाः’ ॥
तत्र तारकब्रह्मनाम ।
“हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे ।
हरे राम हरे राम राम राम हरे हरे” ॥
इति केचित् ॥

कलियुगाद्या, स्त्री, (कलियुगस्य आद्या आद्यतिथिः ।)

माघीपौर्णमासी । तत्प्रमाणं युगाद्याशब्दे द्रष्टव्यम् ॥

कलिलः, त्रि, (कल्यते मिश्य्रते इति । “सलिकलि”

उणां १ । ५५ । इति इलच् ।) गहनः । इत्यमरः ।
३ । १ । ८५ ॥ (यथा गीतायाम् २ । ५२ ।
“यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति” ॥)
मिश्रः । इत्युणादिकोषः ॥ (यथा भागवते ६ ।
२ । ४६ ।
“न यत्पुनः कर्म्मसु सज्जते मनो
रजस्तमोभ्यां कलिलं ततोऽन्यथा” ॥)

कलिवृक्षः, पुं, (कलेराश्रयरूपो वृक्षः ।) कलिद्रुमः ।

वहेडुकवृक्षः । इति हेमचन्द्रः ॥

कली, स्त्री, (कल् + “सर्व्वधातुभ्य इन्” ततः वा

ङीप् ।) कलिका । इत्यमरटीकायां भरतः ॥

कलुषं, क्ली, (कं सुखं लुषति हिनस्ति । क + लुष् +

अण् । यद्वा कल् + “पॄनहिकलिभ्य उषच्” ।
उणां ४ । ७५ । इति उषच् ।) पापम् । इत्यमरः ।
१ । ४ । २८ ॥ (यथा शङ्करार्य्यकृतात्मबोधे ५ ।
“अज्ञानकलुषं जीवं ज्ञानाभ्यासाद्विनिर्म्मलम् ।
कृत्वा ज्ञानं स्वयं नश्येज्जलं कतकरेणुवत्” ॥
मालिन्यं यथा ऋतुसंहारे । ३ । २३ ।
“विगतकलुषमम्भः शालिपक्वा धरित्री ।
विमलकिरणचन्द्रं व्योम ताराविचित्रम्” ॥)

कलुषः, पुं, स्त्री, (कस्य जलस्य लुषः हिंसकः । आ

विलकारक इत्यर्थः । क + लुष् + क ।) महिषः ।
इति राजनिर्घण्टः ॥ (बद्धः । यथा शकुन्तलायां
“कण्ठः स्तम्भितवाष्पवृत्तिकलुषः” ॥ निन्दितः ।
यथा मनुः १ । ५७ ।
“वर्णापेतमविज्ञातं नरं कलुषयोनिजम्” ॥)

कलुषः, त्रि, (कल् + उषच् ।) अनच्छः । आविलः ।

इत्यमरः । १ । १० । १४ ॥ (“निर्भुग्नकलुषे नेत्रे”
इति सुश्रुते उत्तरतन्त्रे । ३१ अध्याये ॥)

कलेवरं, क्ली, (कले शुक्रे वरं श्रेष्ठं देहोत्पत्तिहेतु-

कत्वात् पवित्रम् । समम्या अलुक् ।) शरीरम् ।
इत्यमरः । २ । ६ । ७० ॥ (यथा गीतायाम् । ८ । ६ ।
“यं यं भावं स्मरन् देही त्यजत्यन्ते कलेवरम् ।
तं तमुपैति कौन्तेय ! सदा तद्भावभावितः” ॥)

कल्कः, पुं, क्ली, (कल् गतौ + “कृ दाधारार्च्चि-

कलिभ्यः कः” । उणां ३ । ४० । इति कः ।)
घृततैलादिशेषः । (यथा याज्ञवल्क्यः । १ । २७७ ।
“स्नपनं तस्य कर्त्तव्यं पुण्येऽह्नि विधिपूर्ब्बकम् ।
गौरसर्षपकल्केन साज्येनोत्सादितस्य च” ॥)
दम्भः । (यथा महाभारते १ । १ । २७१ ।
“तपो न कल्कोऽध्ययनं न कल्कः
स्वाभाविको वेदविधिर्नकल्कः ।
प्रसह्यवित्ताहरणं न कल्कः
तान्येव भावोपहतानि कल्कः” ॥)
विभीतकवृक्षः । विष्ठा । किट्टम् । पापम् । इति
मेदिनी ॥ (यथा भागवते २ । २ । २४ ।
“विधूतकल्कोऽथ हरेरुदस्तात्
प्रयाति चक्रं नृप ! शैशुमारम्” ॥
यस्य कस्यचित् वस्तुनो चूर्णम् । यथा कुमारे ।
७ । ९ ।
“तां लोध्रकल्केन हृताङ्गतैला-
माश्यानकालेयकृताङ्गरागाम्” ॥)
कर्णमलः । इति शब्दरत्नावली ॥ तुरुष्कनाम-
गन्धद्रव्यम् । इति राजनिर्घण्ठः ॥ घृततैलादि-
पाके देयमौषधद्रव्यम् । तत्तु पञ्चकषायान्तर्गत-
दृशदि पेषितम् । अस्य पूर्णवीर्य्यं याममेकं ति
ष्ठति । यथा, --
“द्रव्यमात्रं शिलापिष्टं शुष्कं वा जलमिश्रितम् ।
तदेव सूरिभिः पूर्ब्बैः कल्क इत्यभिधीयते” ॥
तत्पर्य्यायः । पिष्टः २ विनीयः ३ । इति रत्नमाला ॥
आवापः ४ प्रक्षेपः ५ । इति वैद्यकपरिभाषा ॥
(“द्रव्यमार्द्रं शिलापिष्टं शुष्कं वा सजलं भवेत् ।
प्रक्षेपावापकल्कास्ते तन्मानं कर्षसम्मितम् ॥
इति मध्यखण्डे । ५ । १ । शार्ङ्गधरेणोक्तम् ॥
यस्तु क्षतेषूपयुज्यते सभूयः कल्क इति संज्ञा
लभते निरुद्धालेपनसंज्ञस्तेनास्रावसंनिरोधो मृ-
दुता पूतिमांसापकर्षणमन्तर्निद्दोषताव्रणशुद्धिश्च
भवति” ॥ इति सुश्रुते सूत्रस्थाने । १८ अध्याये ॥)
शाठ्यम् । इति मोक्षधर्म्मटीकायां नीलकण्ठः ॥

कल्कः, त्रि, (कलयति पापमाचरति । कल् + कः ।)

पापाशयः । पापात्मा । इति मेदिनी ॥

कल्कफलः, पुं, (कल्कस्य विभीतकस्य फलमिव फलं

यस्य अवयवसादृश्यात् ।) दाडिमवृक्षः । इति
राजनिर्घण्टः ॥ (दाडिमशब्देऽस्य गुणादयो ज्ञा-
तव्याः ॥)

कल्किः, पुं, (कल्कः पापं हार्य्यतया अस्ति अस्य ।

कल्क + इन् ।) विष्णोर्दशमावतारः । स तु
कलिशेषे पापात्मनां विनाशाय सम्मलग्रामे
भविष्यति । यथा, --
“सम्भलग्राममुख्यस्य ब्राह्मणस्य महात्मनः ।
भवने विष्णुयशसः कल्किः प्रादुर्भविष्यति” ॥
तस्य कर्म्म यथा, --
“अश्वमाशुगमारुह्य देवदत्तं जगत्पतिः ।
असिनाऽसाधुदमनमष्टैश्वर्य्यगुणान्वितः ॥
विचरन्नाशुना क्षौण्यां हयेनाप्रतिमद्युतिः ।
नृपलिङ्गच्छदो दस्यून् कोटिशो निहनिष्यति” ॥
इति श्रीभागवतम् ॥ तस्योत्पत्तिर्यथा, --
“स्तुत्वा प्राह पुरो ब्रह्मा देवानां हृदयेप्सितम् ।
तं श्रुत्वा पुण्डरीकाक्षो ब्रह्माणमिदमब्रवीत् ॥
सम्भले विष्णुयशसो गृहे प्रादुर्भवाम्यहम् ।
सुमत्यां मातरि विभो धन्यायां त्वन्निदेशतः ॥
चतुर्भिर्भ्रातृभिर्देव करिष्यामि कलिक्षयम् ।
भवन्तो बान्धवा देवाः स्वांशेनावतरिष्यथ ॥
इयं मम प्रिया लक्ष्मीः सिंहले संभविष्यति ।
वृहद्रथस्य भूपस्य कौमुद्यां कमलेक्षणा ।
भार्य्यायां मम भार्य्यैषा पद्मा नाम्नी जनिष्यति ॥
यात यूयं भुवं देवाः स्वांशावतरणे रताः ॥
राजानौ मरुदेवापी स्थापयिष्याम्यहं भुवि ।
पुनः कृतयुगं कृत्वा धर्म्मान् संस्थाप्य पूर्ब्बवत् ।
कलिव्यालं संनिरस्य प्रयास्ये स्वालयं विभो ॥
इत्युदीरितमाकर्ण्य ब्रह्मा देवगणैर्वृतः ।
जगाम ब्रह्मसदनं देवाश्च त्रिदिवं ययुः ॥
महीमाश्वास्य भगवान् निजजन्मकृतोद्यमः ।
सम्भलग्रामविप्रर्षिमाविवेश परात्मकः ॥
सुमत्यां विष्णुयशसा गर्भमाधत्त वैष्णवम् ।
ग्रहनक्षत्रराश्यादिसेवितश्रीपदाम्बुजम् ॥
सरित् समुद्रा गिरयो लोकाः सस्थाणुजङ्गमाः ।
सहर्षा ऋषयो देवा जाते विष्णौ जगत्पतौ ॥
बभूव सर्व्वसत्वानामानन्दो विविधाश्रयः ।
नृत्यन्ति पितरो हृष्टास्तुष्टा देवा जगुयशः ॥
चक्रुर्व्वाद्यादि गन्धर्व्वा ननृतुश्चाप्सरोण{??}ः ।
द्वादश्यां शुक्लपक्षस्य माधवे मासि माधवः ।
जातो ददृशतुः पुत्त्रं पितरौ हृष्टमानसौ ॥
धात्री माता महाषष्ठी नाडीच्छेत्त्री तदाम्बिका ।
गङ्गोदकक्लेदमोक्षा सावित्री मार्ज्जनोद्यता ॥
तस्य विष्णोरनन्तस्य वसुधाऽदात् पयः सुधाम् ।
मातृका माङ्गल्यवचः कृष्णजन्मदिनेऽभवन् ॥
व्रह्मा तदुपधार्य्याशु स्वाशुगं प्राह सेवकम् ।
याहीति सूतिकागारं गत्वा विष्णुं प्रबोधय ॥
चतुर्भुजमिदं रूपं देवानामपि दुर्ल्लभम् ।
त्यक्त्वा मानुषवद्रूपं कुरु नाथ विचारितम् ॥
इति व्रह्मवचः श्रुत्वा पवनः सुरभिः सुखम् ।
सुशीतः प्राह तरसा ब्रह्मणो वचनादृतः ।
तच्छ्रुत्वा पुण्डरीकाक्षस्तत्क्षणात् द्विभुजोऽभवत् ।
तदा तत्पितरौ दृष्ट्वा विस्मयापन्नमानसौ ॥
भ्रमसंस्कारवत्तत्र मेनाते तस्य मायया ।
ततस्तु सम्भलग्रामे सोत्सवा जीवजातयः ॥
मङ्गलाचारबहुलाः पापतापविवर्ज्जिताः ।
सुमतिस्तं सुतं लब्ध्वा विष्णुं जिष्णुं जगत्पतिम् ॥
पूर्णकामा विप्रमुख्यानाहूयादाद्गवां शतम् ।
पृष्ठ २/०६४
:हरेः कल्याणकृद्विष्णुयशाः शुद्धेन चेतसा ॥
सामर्ग्यजुर्व्विद्भिरग्र्यैस्तन्नामकरणे रतः ।
तदा रामः कृपो व्यासो द्रौणिर्भिक्षुः शरीरिणः ॥
समायाता हरिं द्रष्टुं बालकत्वमुपागतम् ।
तानागतान् समालोक्य चतुरः सूर्य्यसन्निभान् ।
हृष्टरोमा द्विजवरः पूजां चक्रे स ईश्वरान् ॥
पूजितास्ते स्वासनेषु संविष्टाः स्वसुखाश्रयाः ।
हरिं क्रोडगतं तस्य ददृशुः सत्त्वमूर्त्तयः ॥
तं बालकं नराकारं विष्णुं नत्वा मुनीश्वराः ।
कल्किं कल्कविनाशार्थमाविर्भूतं विदुर्ब्बुधाः ।
नामाकुर्व्वंस्ततस्तस्य कल्किरित्यभिविश्रुतम् ॥
कृत्वा संस्कारकर्म्माणि ययुस्ते हृष्टमानसाः ।
ततः स ववृधे तत्र सुमत्या परिपालितः ॥
कालेनाल्पेन कंसारिः शुक्लपक्षे यथा शशी ।
कल्केर्ज्ज्येष्ठास्त्रयः शूराः कविप्राज्ञसुमन्त्रकाः ॥
तातमातृप्रियकरा गुरुविप्रप्रतिष्ठिताः ।
कल्केरंशाः पुरो जाताः साधवो धर्म्मतत्पराः ॥
गार्ग्यभर्ग्यविशालाद्या ज्ञातयस्तदनुव्रताः ।
विशाखयूपभूपालपालितास्तापवर्ज्जिताः ।
ब्राह्मणाः कल्किमालोक्य परां प्रीतिमुपागताः ॥
ततो विष्णुयशाः पुत्रं धीरं सर्व्वगुणाकरम् ।
कल्किं कमलपत्राक्षं प्रोवाच पठनादृतम् ।
तात ते ब्रह्मसं स्कारं यज्ञसूत्रमनुत्तमम् ।
सावित्रीं वाचयिष्यामि ततो वेदान् पठिष्यसि ॥
इति श्रीकल्किपुराणेऽनुभागवते भविष्ये कल्कि-
जन्मोपनयनम् २ अध्यायः ॥

कल्की, [न्] पुं, (कल्कः पापं नाश्यतया अस्ति

अस्य । कल्क + इनि ।) कल्किः । भगवतो दशा-
वतारेषु चरमोऽवतारः । यथा पुराणे ।
“मत्स्यः कूर्म्मो वराहश्च नरसिंहोऽथ वामनः ।
रामो रामश्चरामश्च बुद्धः कल्की च ते दश” ॥
(अस्य जन्मादिविवरणन्तु कल्किशब्दे द्रष्टव्यम् ॥)

कल्पः, पुं, (कल्प्यते विधीयते असौ । कृप् +

कर्म्मणि घञ् ।) विधिः । (यथा मनुः ३ । १४७ ।
“एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः ।
अनुकल्पस्त्वयं ज्ञेयः सदा सद्भिरनुष्ठितः” ॥
(कल्पयति सृष्टिं नाशं वा अत्र । कृप् + णिच् +
अधिकरणे अप् ।) प्रलयः ।
(“युगानां सप्ततिः सैकामन्वन्तरमिहोच्यते” ।
“कृताब्दसंख्यस्तस्यान्ते सन्धिः प्रोक्तो जलप्लवः” ॥
“ससन्धयस्ते मनवः कल्पे ज्ञेयाश्चतुर्दश ।
कृतप्रमाणकल्पादौ सन्धिः पञ्चदशस्मृतः” ॥
ते एकसप्ततियुगरूपा मनवः सायम्भुवाद्याः सस-
न्धयः स्वस्वसन्धिसहिताः कल्पकाले ज्ञातव्याः ।
ससन्धियुक्तचतुर्द्दशसनुभिः कल्पो भवेदित्यर्थः ।
इति सूर्य्यसिद्धान्तोक्तकल्पपरिमाणम् ॥ आका-
लिकनैमित्तिकदैनन्दिनमहाप्रलयानां विवृतिस्तु
ततच्छब्दे द्रष्टव्यम् ॥ * ॥
कल्पते स्वक्रियायै समर्थो भवत्यत्र । कृप् +
अधिकरणे घञ् ।) ब्राह्मं दिनम् । तत्तु दैवद्विस-
हस्रयुगम् । इत्यमरः । १ । ४ । २१ ॥ (यथा
विष्णुपुराणे १ मांशे १ । १२ ।
“कल्पान् कल्पविकल्पांश्च चतुर्युगविकल्पितान् ।
कल्पान्तस्य स्वरूपञ्च युगधर्म्मांश्च कृत्स्नशः” ॥)
त्रिंशत्कल्पैर्व्रह्मण एको मासो भवति तेषां
नामानि यथा । श्वेतवाराहः १ नीललोहितः २
वामदेवः ३ गाथान्तरः ४ रौरवः ५ प्राणः ६
वृहत्कल्पः ७ कन्दर्पः ८ सत्यः ९ ईशानः १०
ध्यानः ११ सारस्वतः १२ उदानः १३ गरुडः १४
कौर्म्मः १५ अयं व्रह्मणः पौर्णमासी । नारसिंहः
१६ समाधिः १७ आग्नेयः १८ विष्णुजः १९
सौरः २० सोमकल्पः २१ भावनः २२ सुप्तमाली
२३ वैकुण्ठः २४ आर्च्चिषः २५ वल्मीकल्पः २६
वैराजः २७ गौरीकल्पः २८ माहेश्वरः २९
पितृकल्पः ३० अयं ब्रह्मणोऽमाव्रास्या । इति
क्रमसन्दर्मे प्रभासखण्डम् ॥ एतादृशैर्द्वादशमासैब्र-
ह्मणः सम्बत्सरो भवति । एवं वर्षशतं ब्रह्मण
आयुः । तत्र पञ्चाशद्वर्षानि व्यतीतानि एकपञ्चा-
शदारम्भे अधुना श्वेतवाराहकल्पः । इति महा-
भारतम् ॥ (कल्पारम्भकालश्च ब्रह्मसिद्धान्ते उक्त-
स्तद्यथा, --
“चत्रसितादेर्भानोर्वर्षर्त्तुमासयुगकल्पाः ।
सृष्ठ्यादौ लङ्कायामिह प्रवृत्ता दिनैर्वत्स !” ॥
चैत्रसितादेश्चैत्रशुक्लप्रतिपदमारभ्य इत्यर्थः ।
तथा च ब्रह्मपुराणम् ।
“चैत्रे मासि जगत् ब्रह्मा ससर्ज प्रथमेऽहनि ।
शुक्लपक्षे समग्रन्तु तदा सूर्य्योदये सति ।
प्रवर्त्तयामास तदा कालस्य गणनामपि” ॥
इति कालसामान्यगणंनायास्तदारभ्य कथनात् ॥
एवं चैत्रशुक्लप्रतिपदि कल्पारम्भेऽपि ।
“माघशुक्लतृतीयायां कृष्णायां फाल्गुनस्य च ।
पञ्चमी चैत्रमासाद्या यथैवाद्या तथा परा ।
शुक्ला त्रयोदशी माघे कार्त्तिकस्य तु सप्तमी ।
नवमी मार्गशीर्षस्य सप्तैताः संस्मराम्यहम् ।
कल्पनामादयो ह्येता दत्तस्याक्षयकारकाः” ॥
इति वराहवाक्यानि समूलानि चेत् तदा कल्पभे-
दादविरुद्धानि कल्पादित्वेन तत्तत् तिथिषु श्राद्ध-
कर्त्तव्यतोपयोगिपारिभाषिकपरत्वेन वा समर्थ-
नीयानि ॥ अत एव सूर्य्यसिद्धान्ते उक्तम् । यथा--
“सुरासुराणामन्योन्यमहोरात्रविपर्य्ययात् ।
यत् प्रोक्तं तद्भवेद्दिव्यं भानोर्भगणपूरणात् ॥
मन्वन्तरव्यवस्था च प्राजापत्यमुदाहृतम् ।
न तत्र द्युनिशोर्भेदो ब्राह्मकल्पः प्रकृत्तितः” ॥
इत्यादीनां युगमन्वन्तरकल्पानां सौरत्वेन उक्तिः ।
सौरमाणे च नियतयुगादिकालेषु अनियततिथि-
सम्भवेऽपि सर्व्वेषां कल्पानामादौ चैत्रसितादि-
तिथिरेव नियता प्रागुक्तवचनप्रामाण्यात् । किन्तु
प्रागुक्तमात्स्ये ब्राह्मकल्पानां चान्द्रत्वकथनात् ति-
थिभेदसम्भवः । इति सूर्य्यसिद्धान्तवाक्यं ग्रह-
स्पष्टीकरणोपयोगीत्यविरोधः ॥) विकल्पः । कल्प-
ष्टक्षः । न्यायः । शास्त्रविशेषः । स तु वेदषडङ्गा-
न्तर्गतो यागक्रियाणामुपदेशकः । इति हेमचन्द्रः ॥
(यथा रघुः १ । ९४ ।
“कल्पवित् कल्पयामास वन्यामेवास्य संविधाम्” ॥)
व्याकरणस्य प्रत्ययविशेषः । स च स्याद्यन्तत्या-
द्यन्तपदाभ्यामीषदूनार्थे भवति । तत्र वाच्यलिङ्गत्वे
यथा, ईषदूनो विद्वान् विद्वत्कल्पः । ईषदूनं
पचति पचतिकल्पम् । इति मुग्धबोधव्याकरणम् ।
(तथा महाभारते १ । १२६ । ५ ।
“ते परस्परमामन्त्र्य देवकल्पा महर्षयः” ॥)

कल्पकः, पुं, (कल्पयति क्षौरकर्म्मादिना वेशादिकं

रचयतीति । कृप् + णिच् + ण्वुल् ।) नापितः ।
इति शब्दमाला ॥ कर्च्चूरः । इति भावप्रकाशः ॥
(कल्पयति गद्यपद्यादिकमुद्भाव्य रचयतीति वाक्ये-
रचयिता । ग्रन्थकर्त्ता ॥)

कल्पनं, क्ली, (कृप् + भावे ल्युट् ।) कॢप्तिः । छेदनम् ।

इति त्रिकाण्डशेषः ॥

कल्पना, स्त्री, (कृप् + णिच् + भावे युच् टाप् ।)

हस्तिसज्जना । नायकस्यारोहणार्थं गजसज्जी-
करणम् । इत्यमरः । २ । ८ । ४२ ॥ अनुमितिः ।
इति न्यायशास्त्रम् ॥ रचना । यथा “प्रबन्ध-
कल्पना कथा” । इत्यमरः । १ । ६ । ६ ॥

कल्पनी, स्त्री, (कल्पयति केशानीन् छिनत्ति अनया ।

कृप् छेदने + करणे ल्युट् । ततो ङीप् ।)
कर्त्तनी । इति हेमचन्द्रः ॥ काँचि इति भाषा ॥

कल्पपादपः, पुं, (कल्पयति सर्व्वकामं सम्पादयति ।

इति कल्पः । स चासौ पादपश्चेति कर्म्मधारयः ।)
कल्पवृक्षः । यथा नैषधे । १ । १५ । “मृषा न
चक्रेऽल्पितकल्पपादपः” ॥

कल्पपादपदानं, क्ली, (कल्पपादपस्य सुवर्णनिर्मितपाद-

पाकृतेर्दानम् ।) महादानविशेषः । तद्विधानं यथा,
“कल्पपादपदानाख्यमतः परमनुत्तमम् ।
महादानं प्रवक्ष्यामि सर्व्वपातकनाशनम् ॥
पुण्यन्दिनमथासाद्य तुलापुरुषदानवत् ।
पुण्याहवाचनं कृत्वा लोकेशावाहनन्तथा ॥
ऋत्विङ्मण्डपसम्भारभूषणाच्छादनादिकम् ।
काञ्चनं कारयेद्वृक्षं नानाफलसमन्वितम् ॥
नानाविहगवस्त्राणि भूषणानि च कारयेत् ।
शक्तितस्त्रिपलादूर्द्ध्व मासहस्रात् प्रकल्पयेत् ॥
अर्द्धकॢप्तं सुवर्णस्य कारयेत् कल्पपादपम् ।
गुडप्रस्थोपरिष्टाच्च सितवस्त्रयुगावृतम्” ॥
अर्द्धकॢप्तं यावदुपात्तसुवर्णस्यार्द्धेन निर्मितम् ।
“ब्रह्मविष्णुशिवोपेतं पञ्चशाखं समास्करम् ।
कामदेवमधस्ताच्च सकलत्रं प्रकल्पयेत् ॥
सन्तानं पूर्ब्बतस्तद्वत्तुरीयांशेन कल्पयेत् ।
मन्दारं दक्षिणे पार्श्वे श्रिया सार्द्धं घृतोपरि” ॥
सन्तानं पूर्ब्बतस्तद्वदिति गुडप्रस्थस्थं सितवस्त्रयुगा-
वृतमित्यर्थः । कामदेवमधस्ताच्चेति सन्तानवृक्षस्या-
धस्तात् सकलत्रं कामदेवं प्रकल्पयेदिति योजनम् ।
मन्दारादिष्वेकैकदेवतासम्बन्धश्रुतेः ॥
“पश्चिमे पारिभद्रन्तु सावित्र्या सह जीरके ।
सुरभीसंयुतं तद्वत्तिलेष हरिचन्दनम् ॥
तृतीयांशेन कुर्व्वीत सौम्येन फलसंयुतम् ।
कौषेयवस्त्रसंयुक्तानिक्षुमाल्यफलान्वितान्” ॥
तृतीयांशेनसन्तानघटनावस्थितसुवर्णतृतीयभागेन ।
सौम्येन उत्तरदिग्विभागेन ॥
पृष्ठ २/०६५
:“तथाष्टपूर्णकलसान् पादुकासनभाजनान् ।
दीपिकोपानहच्छत्रचामरासनसंयुतम्” ॥
पादुकासनभाजनान् पादुकासनभाजनसहि-
तानित्यर्थः । आसनपदञ्चात्र कलसावस्थानो-
चितासनपरम् । चामरासनसंयुतमिति पुन-
रासनपदश्रवणात् ।
“फलपक्षियुतं तद्वदुपरिष्टाद्वितानकम् ।
तथाष्टादशधान्यानि समन्तात् परिकल्पयेत् ॥
होमाधिवासनान्ते तु स्नापितो देवपुङ्गवैः ।
त्रिःप्रदक्षिणमावृत्य मन्त्रमेतमुदीरयेत् ॥
नमस्ते कल्पवृक्षाय चिन्तितान्नप्रदाय च ।
विश्वम्भराय देवाय नमस्ते विश्वमूर्त्तये ॥
यस्मात्त्वमेव विश्वात्मा ब्रह्मा स्थाणुर्द्दिवाकरः ।
मूर्त्तामूर्त्तपरं वीजमतः पाहि सनातन ! ॥
त्वमेवामृतसर्व्वस्वमनन्तपुरुषोऽव्ययः ।
सन्तानाद्यैरूपेतः सन् पाहि संसारसागरात् ॥
एवमामन्त्र्य तं दद्यारद्गुवे कल्पपादपम् ।
चतुर्भ्यश्चापि ऋत्विग्भ्यः सन्तानादीनि कल्पयेत्” ॥
एतेन चत्वार एवर्त्विजः कर्त्तव्याः । कुशमया-
श्चत्वारो ब्रह्माण इत्युक्तं सम्भवति ॥
“स्वल्पेष्वेकाग्निवत् कुर्य्यात् गुरुरेवाभिपूजितः ।
न वित्तशाठ्यं कुर्व्वीत न च विस्मयवान् भवेत्” ।
न च विस्मयवान् इदम्मया दत्तमिति नाह-
ङ्कारवान् भवेदित्यर्थः ॥
“अनेन विधिना यस्तु महादानं निवेदयेत् ।
सर्व्वपापविनिर्मुक्तः सोऽश्वमेधफलं लभेत् ॥
अप्सरोभिः परिवृतः सिद्धचारणकिन्नरैः ।
भूतान्भव्यांश्च मनुजांस्तारयेदात्मसम्मितांन् ॥
स्तूयमानो दिवः पृष्ठे पुत्त्रपौत्त्रप्रपौत्त्रवान् ।
विमानेनार्कवर्णेन विष्णुलोकं स गच्छति ।
दिवि कल्पशतं तिष्ठेद्राजराजो भवेत्ततः ॥
नारायणबलोपेतो नारायणपरायणः ।
नारायणकथासक्तो नारायणपुरं व्रजेत् ॥
यो वा पठेत् कनककल्पतरुप्रदानं
यो वा शृणोति पुरुषोऽल्पधनः स्मरेद्वा ।
सोऽपीन्द्रलोकमधिगम्य सहाप्सरोभि-
र्म्मन्वन्तरं वसति पापविमुक्तदेहः” ॥ * ॥
अत्र यजमानः समुपजातकल्पपादपमहादान-
दानेच्छुस्तुलापुरुषलिखितं खड्गचर्म्ममयाच्छन्नस-
न्नाहतुलास्थाप्यहरिप्रतिमालङ्कारतुलाहस्तग्राह्य-
प्रतिमाऋत्विक्चतुष्टयवरणादिदक्षिणासामग्री-
वहिः सर्व्वसम्भारं अधिकत्वेन पलत्रयादुर्द्ध्वसहस्र-
पलावधियथेष्टकाञ्चनमुपादाय तस्यार्द्धेन कल्प-
पादपमपारार्द्धेन समभागेन सन्तानं मन्दारं
पारिभद्रं हरिचन्दनमेवं पञ्चतरून् पञ्चशाखान्
सौवर्णनानाफलपक्षिसुवर्णनिर्म्मितानेकवसनाकार
सहितान् केयूरकुण्डलाद्यभिमतालङ्कारभूषितान्
एषामाच्छादनार्थं श्वेतवस्त्रयुगपञ्चकं तरूणाम-
वस्थापनार्थं गुडप्रस्थद्वयं प्रत्येकं प्रस्थपरिमितान्
पात्रस्थघृतजीरकतिलांश्च कल्पवृक्षाधःस्थापनार्थ-
मभीष्टसुवर्णान्तरयन्त्रोत्खाटिता ब्रह्मविष्णुशिव-
भास्करप्रतिमाः यथोक्तक्रमतरुचतुष्टयाधःस्थाप-
नार्थमभिमतसुवर्णान्तरयन्त्रोत्खाटिताः सरति-
कामदेवलक्ष्मीसावित्रीसुरभिप्रतिमाश्च कल्पतरु-
पार्श्वस्थापनार्थमष्टौ कुम्भान् तदधःस्थापनार्थं
कुशादिनिर्म्मितासनाष्टकंकुम्भाच्छादनार्थं कौषेय-
वस्त्राष्टकं कुम्भपार्श्वस्थापनार्थमिक्षुदण्डाष्टकं पुष्प-
मालावृकसामग्रीं यथेष्टफलाष्टकं पादुकायुगा-
ष्टकं कांस्यभाजनाष्टकञ्च कल्पतरुपार्श्वार्पणार्थं
दीपिकोपानद्युगच्छत्रचामरासनाष्टादशधान्यानि
च उत्पादयेत् । ततस्तुलापुरुषोक्तसमयानामन्य-
तमस्य पूर्ब्बतरदिने यजमानगुर्वृत्विग्जापकास्तुला
पुरुषवद्धविष्यभोजनादिकं कृत्वा निवेदनसङ्कल्प-
वाक्ययोस्तुलापुरुषपदस्थाने कल्पपादपपदं प्रक्षिप्य
यथायथं निवेदनं सङ्कल्पञ्च कुर्य्युः । ततोऽपरदिने
यजमानस्तुलापुरुषवद्गोविन्दाद्याराधनादिमधुपर्क-
दानान्तं गोविन्दाद्यभ्यर्चनब्राह्मणानुज्ञापनदान-
सङ्कल्पपुण्याहादिवाचनवरणवाक्येषु तुलापुरुष-
पदस्थाने कल्पपादपपदं प्रक्षिप्य कुर्य्यात् । ततो
गुर्व्वृत्विग्यजमानजापका उपवसेयुः । अपर-
दिने च कृतनित्यास्तुलापुरुषवदग्निस्थापनादिमध्य-
ब्राह्मणवाचनान्तं कर्म्म यथायथं कुर्य्युः । एवञ्च
मध्यब्राह्मणवाचनान्तं कर्म्म तुलापुरुषग्रन्थं अनु-
सन्धावानुष्ठातव्यम् । तत ऋत्विजः कल्पतरुमा-
नीय प्रधानवेद्यां लिखितचक्रमध्ये गुडप्रस्थं दत्त्वा
तदुपरि स्थापयेयुः । ततस्तस्याधो गुडप्रस्थोपरि
पङ्क्तिक्रमेण सुवर्णयन्त्रोत्खाटिता ब्रह्मविष्णुशिव-
भास्करप्रतिमाः स्थापयेयुः । तत्पूर्ब्बतः अधस्तादा-
रोपितसरतिकामदेवप्रतिमां गुडप्रस्थोपरि स-
न्तानं कल्पतरुदक्षिणतः अधःसमारोपितलक्ष्मी-
प्रतिमां घृतप्रस्थोपरि मन्दारं कल्पतरोः पश्चि-
मतः अधःसमारोपितसावित्रीप्रतिमां जीरक-
प्रस्थोपरि पारिभद्रं कल्पतरूत्तरतः अधःसमारो-
पितसुरभिप्रतिमां तिलप्रस्थोपरि हरिचन्दनञ्चा-
रोपयेयुः । सर्व्वांश्च वृक्षान् प्रत्येकं सितवस्त्रयुगे-
नाच्छादयेयुः । अष्टासु दिक्षुप्रत्येकं कौषेयवस्त्रा-
च्छादितान् इक्षुदण्डफलान्वितान् माल्यालङ्कृता-
नष्टौ पूर्णकुम्भान् पार्श्वारोपितपादुकायुगभाज-
नानासनेष्वारोप्य कल्पतरुपार्श्वे पूर्ब्बोक्तदीपिका-
द्युपकरणमारोपयेयुः । ततो मङ्गलतूर्य्यगीतवन्दि-
घोषेषु सत्सु ऋत्विजः कुण्डसमीपस्थकुम्भचतुष्टय-
जलेन यजमानं स्नापयेयुः । ततो यजमानः शुक्ल-
माल्याम्बरधरो धृतसर्व्वालङ्कारः पुष्पाञ्जलिमादाय
कल्पपादपं त्रिः प्रदक्षिणीकृत्य नमस्ते कल्प-
वृक्षायेत्यादि पाहि संसारसागरादित्यन्तमन्त्रान्
पठित्वा पुष्पाञ्जलिनाभ्यर्च्य गुर्वृत्विग्भ्यो यथायथं
दद्यात् ॥ ॐ अद्यासुकामुकसगोत्रेभ्योऽमुका-
मुकवेदामुकामुकशाखाध्यायिभ्यः अमुकामुकदेव-
शर्म्मभ्यो युष्मभ्यं मत्स्यपुराणोक्तकल्पपादपमहा
दानदानफलप्राप्तिकामोऽहं मत्स्यपुराणोक्तभाग-
व्यवस्थया एतं गुडप्रस्थारोपितसौवर्णब्रह्मविष्णु-
महेश्वरभास्करप्रतिमासितवसनयुगान्वितगुडप्र-
स्थारोपितसौवर्णसरतिकामदेवप्रतिमासितवसन-
युगान्वितसौवर्णसन्तानसहितं घृतप्रस्थारोपित-
सौवर्णलक्ष्मीप्रतिमासितवस्त्रयुगान्वितसौवर्णम-
न्दारसहितं जीरकप्रस्थारोपितसौवर्णसावित्री-
प्रतिमासितवसनयुगलान्वितसौवर्णपारिभद्रसहितं
तिलप्रस्थारोपितसौवर्णसुरभिप्रतिमासितवसन-
युगान्वितसौवर्णहरिचन्दनसहितं कौषेयवस्त्रयुग-
वेष्टितग्रीवेक्षुमाल्यफलान्वितकुशासनपादुकायुग-
कांस्यभाजनयुतपूर्णकुम्भाष्टकदीपिकोपानद्युगच्छ-
त्रचामरासनफलमाल्ययुतपञ्चवर्णवितानकाष्टादश-
धान्ययुतं कल्पपादपमहादानमहं ददे ॥ प्रति-
ग्रहीतारः स्वस्तीत्युक्त्रा सावित्रीं पठित्वा यथायथं
अमुकपादपोऽयं विष्णुदैवतमित्युक्त्वा यथाशाखं
कामस्तुतिं पठेयुः । ततो दक्षिणादानम् ।
ॐ अद्य कृतैतद्दानप्रतिष्ठार्थं युष्मभ्यमहन्दक्षिणा-
मिमां यदुत्पत्तियोग्यां भूमिमेतानि च रत्नानि-
ददे ॥ प्रतिग्रहीतारः स्वस्तीत्युक्त्वा प्रत्येकं तरून्
मूलेषु स्पृशेयुः । ततो यजमानस्तुलापुरुषवत् जाप-
केभ्यो दक्षिणादानं दीनानाथादितर्पणं ब्राह्मण-
वाचनञ्च कुर्य्यात् । ततः कल्पपादपं गुरवे सन्तान-
कादींश्चतुरो वृक्षान् ऋग्वेद्यादिक्रमेण चतुर्भ्य
ऋत्विग्भ्यो निवेदयेत् । स्वल्पकल्पपादपदाने तु
गुरुरेवैकाग्निवत् स्वगृह्योक्तविधिना सर्व्वं ब्रह्माण्ड-
दानवत् कुर्य्यात् । इति कल्पपादपमहादानं
समाप्तम् ॥ * ॥ इति महाराजाधिराजनिःशङ्कसङ्कर-
श्रीमद्बल्लालसेनदेवविरचिते श्रीदानसागरे महा-
दानदानावर्त्तः ॥

कल्पलतादानं, क्ली, (महादानान्तर्गता सुवर्णकल्पिता

लता तस्या दानम् ।) महादानविशेषः ॥
तस्य विधिर्यथा ।
“अथातः संप्रवक्ष्यामि महादानमनुत्तमम् ।
महाकल्पलतं नाम पातकावलिनाशनम् ॥
पुण्यान्तिथिमथासाद्य कृत्वा ब्राह्मणवाचनम् ।
ऋत्विङ्मण्डपसम्भारभूषणाच्छादनादिकम् ॥
तुलापुरुषवत् कुर्य्यात् लोकेशावाहनादिकम् ।
चामीकरमयीः कुर्य्याद्दशकल्पलताः शुभाः ॥
नानापुष्पफलोपेता नानांशुकविभूषिताः ।
विद्याधरसुपर्णानां मिथुनैरुपशोभिताः” ॥
सुपर्णानां किन्नराणाम् ॥
“हारानादित्सुभिः सिद्धैः फलानि च विहङ्गमैः ।
लोकपालानुसारिण्यः कर्त्तव्यास्ताश्च देवताः” ॥
लोकपालानुसारिण्य इति लोकपालसमानाकृतयः ॥
“ब्राह्मीमनन्तशक्तिञ्च लवणस्योपरि न्यसेत् ।
अधस्ताच्च तयोर्मध्ये महाखड्गधरे शुभे” ॥
पद्मशङ्खकरे इति क्वचित् पाठः ॥
“स्वर्णासनस्था माहेन्द्री पूर्ब्बतः कुलिशायुधा ।
रजनीसंस्थिताग्नेयी श्रुवपाणिरथाचला” ॥
रजनी हरिद्रा ॥
“याम्या तु महिषारूढा गदिनी तण्डुलोपरि ।
नैरृत्यां नैरृती स्थाप्या सखड्गा च घृतोपरि ॥
वारुणे वारुणी क्षीरे सर्पस्था नागपाशिनी ।
पताकिनी च वायव्ये मृगस्था शर्करोपरि ॥
सौम्या तिलेषु संस्थाप्या कौवेरदिशि संस्थिता ।
माहेश्वरी वृषगता नवनीते तु शूलिनी ॥
पृष्ठ २/०६६
:मौलिन्यो वरदास्तद्वत् कर्त्तव्या बालकान्विताः ।
शक्त्या पञ्चपलादूर्द्ध्वमासहस्रात् प्रकल्पयेत्” ॥
मौलिन्यो मुकुटवत्यः । वरदाः प्रसन्नमूर्त्तयः ।
वालकान्विताः क्रोडनिहितपुत्रकाः । एतेन क्रो-
डनिविष्टवामकरघृतपुत्रका दक्षिणहस्तविधृत
यथोक्तशस्त्राः प्रसन्नमूर्त्तयो बद्धमुकुटाः सवाहना
घटनीयाः । अनुक्तवाहनानान्तु ब्राह्म्याग्नेयी
नैरृतीनान्तत्तल्लोकपालवाहनानि । लोकपालानु-
सारिण्य इति श्रुतेः । तेन हंसारूढा ब्राह्मी
छागारूढाग्नेयी नरारूढा नैरृती घटनीया ।
अनन्तस्य तु क्वचिद्वाहनादर्शनात् अनन्तशक्ति-
र्व्वाहनशून्यैव कर्त्तव्या ॥
“सर्व्वासामुपरिष्टाच्च पञ्चवर्णवितानकम् ।
धेनवो दशकुम्भाश्च वस्त्रपुष्पाणि चैव हि ॥
मध्यमे द्वे तु गुरवे ऋत्विग्भ्योऽन्यास्तथैव च ।
ततो मङ्गलशब्देन स्नातः शुक्लाम्बरो बुधः ।
त्रिः प्रदक्षिणमावृत्य मन्त्रमेतमुदीरयेत्” ॥
“नमो नमः पापविनाशिनीभ्यो
ब्रह्माण्डलोकेश्वरपालनीभ्यः ।
आसंशिताधिक्यफलप्रदाभ्यो
दिग्भ्यस्तथा कल्पलताबधूभ्यः ॥
इति सकलदिगङ्गनाप्रदानं
भवभयसूदनकारि यः करोति ।
अभिमतफलदे स नाकलोके
वसति पितामहवत्सराणि विंशत् ॥
पितृशतमथ तारयेद्भवाब्धे-
र्गुरुदुरितौघविघातशुद्धदेहम् ।
सुरपतिवनितासहस्रसंघः
परिवृतमम्बुरुहोद्भवाभिनन्द्यम् ॥
इति विधानमिदं सदिगङ्गना
कनककल्पलताविनिवेदने ।
पठति यः स्मरतीह तथेक्षते
स पदमेति पुरन्दरसेवितम्” ॥ * ॥
अत्र यजमानः समुपजातमहाकल्पलतामहादान-
दानेच्छः तुलापुरुषलिखितं खड्गचर्म्भमयाच्छन्न-
सन्नाहतुलापुरुषस्थापनीयहरिप्रतिमासालङ्कारतु-
लाहस्तग्राह्यप्रतिमावहिः सर्व्वसम्भारमधिकत्वेन
पलपञ्चकादूर्द्ध्वपलसहस्रावधियथेष्ट हेमनिर्म्मिताः
स्थानस्थानघटितविद्याधरकिन्नरमिथुनसिद्धगणाः
पल्लवाग्रनिर्म्मि तयथेच्छाकृतिफलकुसुमफलग्रह-
शोभितपक्षिण्यः सिद्धहस्तासक्तयथेच्छसङ्ख्यमुक्ता-
हारसहिता नानाविधचित्रनेत्रादिवस्त्रोपशो-
भिता दशलताः । तासामधः स्थापनार्थं यथेच्छ-
हेमयन्त्रोत्खाटिता यथोक्तरूपा ब्राह्म्यादिदश-
प्रतिमाः । तदारोपणाथं लवणगुडहरिद्रातण्डुल-
घृतक्षीरशर्करातिलनवनीतानि । लतापार्श्वस्थाप-
नार्थं धेनुदशकं कुम्भदशकञ्च वस्त्रयुगदशकञ्चो-
त्पादयेत् । ततो यजमानस्तुलापुरुषोक्तसमयानाम-
न्यतमस्य पूर्ब्बतरदिने गुर्व्वृत्विग्यजमानजापकास्तु-
लापुरुषवथविष्यभोजनादिकं कृत्वा निवेदनस-
ङ्कल्पवाक्ययोस्तुलापुरुषपदस्थाने महाकल्पलतापदं
निदेश्य निषेदनं सङ्कल्पञ्चकुर्य्युः । अपरदिने चयज-
मानः पूर्ब्बवद्गोविन्दाद्याराधनादिमधुपर्कदानान्तं
कर्म्मगोविन्दाद्यभ्यर्च्चनब्राह्मणानुज्ञापनदानसङ्कल्प-
पुण्याहादिवाचनवरणवाक्येषु तुलापुरुषपदस्थाने
महाकल्पलतापदं प्रक्षिप्य कुर्य्यात् । ततो गुर्व्वृ-
त्विग्यजमानजापका उपवसेयुः । अपरदिने कृत-
नित्यास्तुलापुरुषवदग्निस्थापनादि मध्यब्राह्मणवाच-
नान्तं कर्म्म यथायथं कुर्य्युः । एवञ्च मध्यब्राह्मण-
वचनान्तं कर्म्म तुलापुरुषग्रन्थमनुसन्धायानुष्ठा-
तव्यम् । तत ऋत्विजः प्रधानवेद्यां लिखित चक्रोपरि
लतानां मध्ये पूर्ब्बादिदिक्क्रमेणाष्टौ लताः समा-
रोप्य लतामण्डलमध्ये लताद्वयञ्चारोप्य तदधो-
लवणं दत्त्वा तत्र ब्राह्मीमनन्तशक्तिञ्च आरोप्य
पूर्ब्बादिदिक्क्रमारोपिताष्टलताधःक्रमेण गुडादि-
द्रव्याणि दत्त्वा तेषु क्रमात् कुलिशायुधादिशक्ति-
प्रतिमाः समारोपयेयुः । लतापार्श्वे दशधेनूः पूर्ण-
कुम्भदशकं दशवस्त्रयुगानि च स्थापयेयुः । ततो म-
ङ्गलगीतवाद्यवन्दिघोषेषु सत्सु कुण्डसमीपस्थकुम्भ-
चतुष्टयजलेन यजमानं स्नापयेयुः । ततो यजमानः
शुक्लमाल्याम्बरधरो धृतसर्व्वालङ्कारः पुष्पाञ्जलि-
मादाय लताः त्रिः प्रदक्षिणीकृत्य नमो नमः
पापविनाशिनीभ्य इत्यादिमन्त्रेण पुष्पाञ्जलिना-
भ्यर्च्च्य गुर्व्वृ त्विग्भ्यो दद्यात् । तद्यथा । ॐ अद्या-
मुकामुकसगोत्रेभ्यः अमुकामुकवेदामुकामुक-
शाखाध्यायिभ्योऽमुकामुकदेवशर्म्मभ्यो युष्मभ्यं मत्-
स्यपुराणोक्तकल्पलतामहादानदानफलप्राप्तिकामो
ऽहं मत्स्यपुराणोक्तभागव्यवस्थयैता लवणगुडहरि-
द्रातण्डुलघृतक्षीरशर्करातिलनवनीतार्पितकलधौत-
ब्रह्मानन्तकुलिशायुधवह्निशमननिरृतिवरुणवायु-
सोममहेश्वरशक्तिप्रतिमासहिताः पञ्चवर्णविता-
नकधेनुदशककुम्भदशकवसनयुगदशकान्विताः द-
शकल्पलता सम्प्रददे ॥ प्रतिग्रहीतारः स्वस्तीत्युक्त्वा
सावित्रीं पठेयुः । ततो गुरुः कल्पलतेयं विष्णु-
दैवतेति ब्रूयात् । ऋत्विजस्तु प्रत्येकं कल्पलतेयं
विष्णुदैवतेति ब्रूयुः । ततो यथाशाखं कामस्तुतिं
पठेयुः । तत ॐ अद्य कृतैतद्दानप्रतिष्ठार्थं युष्म-
भ्यमहं दक्षिणामिमां यदुत्पत्तियोग्यां भूमिमेतानि
च रत्नानि सम्प्रददे ॥ ब्राह्मणाः स्वस्तीत्युक्त्वा कल्प-
लताः स्पृशेयुः । ततस्तुलापुरुषवज्जापकेभ्यो दक्षिणां
दीनानाथादितर्पणं ब्राह्मणवाचनं त्वरया कल्प-
लतानां यथायथं प्रतिपादनञ्च कुर्य्यात् । इति कल्प-
लतामहादानं समाप्तम् । इति दानसागरः ॥

कल्पवृक्षः, पुं, कल्पस्य सङ्कल्पस्य दाता वृक्षः । कल्प-

स्थायी वृक्ष इति वा । इति सारसुन्दरी । देवतरुः ।
इत्यमरः । १ । १ । ५३ ॥ (यथा, दानसागरे ।
“नमस्ते कल्पवृक्षाय चिन्तितान्नप्रदाय च ।
विश्वम्भराय देवाय नमस्ते विश्वमूर्त्तये” ॥)

कल्पान्तः, पुं, (कल्पस्य अन्तो यत्र ।) ब्रह्मणोदिनान्तः ।

प्रलयः । इत्यमरः । १ । ४ । २२ ॥ (यथा, गोः
रामायणे ३ । १० । ४ ।
“उपवासरताश्चैव जले कल्पान्तवासिनः” ॥)

कल्पितः, पुं, (कल्प्यते सज्जीक्रियते असौ । कृप् +

णिच् + कर्म्मणि क्तः ।) सज्जितहस्ती । इति हेम-
चन्द्रः ॥ रचिते त्रि ॥ (यथा, महानिर्व्वाणोक्ता
त्मज्ञाननिर्णये ।
“ब्रह्मादितृणपर्य्यन्तं मायया कल्पितं जगत् ।
सत्यमेकं परं ब्रह्म विदित्वैवं सुखी भवेत्” ॥)

कल्मषं, क्ली, (कर्म्म शुभकर्म्म स्यति नाशयति रस्य

लत्वे षत्वे च पृषोदरादित्वात् साधुः ।) पापम् ।
इत्यमरः । १ । ४ । २३ ॥ (यथा, मनुः १२ । २२ ।
“यामीस्ता यातनाः प्राप्य सजीवो वीतकल्मषः ।
तान्येव पञ्चभूतानि पुनरप्येति भागशः” ॥)
हस्तपुच्छम् । इति त्रिकाण्डशेषः ॥ (मालिन्यम् ।
यथा, हेः रामायणे २ । ३६ । २७ ।
“न हि कञ्चन पश्यामो राघवस्यागुणं वयम् ।
दुर्लभोऽह्यस्य निरयः शशाङ्कस्येव कल्मषम्” ॥)

कल्मषः, पुं, (कर्म्म शुभकर्म्म स्यति नाशयति । कर्म्म

+ सो + कः । रस्यः लः सस्य षत्वञ्च निपातनात् ।)
नरकविशेषः । इति मेदिनी ॥ मलिने त्रि । इति
जटाधरः ॥

कल्माषः, पुं, (कलयति इति क्विप् कल् । माषयति

स्वभाषा अभिभवति अन्यवर्णान् । मष् हिंसायां
णिच् + अच् । कल् चासौ माषश्चेति ।) चित्रवर्णः ।
तद्वति त्रि । इत्यमरः । १ । ६ । १७ ॥ कृष्णपाण्डर-
वर्णः । कृष्णवर्णः । (कलं शुभकर्म्म माषयति हिन-
स्ति । कल + मष् + णिच् + अच् वा ।) राक्षसः ॥
इति मेदिनी ॥ गन्धशालः । इति राजनिर्घण्टः ॥
(नागविशेषः । यथा, महाभारते १ । ३५ । ७ ।
“नीलानोलौ तथा नागौ कल्माष शवलौ तथा” ॥)

कल्माषकण्ठः, पुं, (कल्माषः कृष्णवर्णः कण्ठो यस्य ।)

शिवः । इति हारावली ॥

कल्माषपादः, पुं, (कल्माषौ शापजलप्रक्षेपणात् कृष्ण-

वर्णौ पादौ यस्य ।) सौदासराजः । इति श्रीभा-
गवतम् ॥ (यथा, महाभारते १ । १७७ । १ ।
“कल्माषपाद इत्येवं लोके राजा बभूव ह ।
इक्ष्वाकुवंशजः पार्थ तेजसासदृशो भुवि” ॥)
अस्य यथा कल्माषपादत्वं जातं तदुच्यते ।
नलसखस्य ऋतुपर्णस्य वंशजः सौदासनामा नृपतिः
पुरा मृगयां चरन् एकं राक्षसमवधीत् ।
अस्य रक्षसो भ्राता तु वैरशोधनं चिकीर्षुः
सूदरूपधरोऽस्य राज्ञो गृहं प्रत्युवास । एकदा
तु असौ राक्षसः भोक्तुकामाय नृपतेः सौदा-
सस्य गुरवे वशिष्ठाय नरामिषं पक्त्वा ददौ ।
वशिष्ठस्तु तदभोज्यं दृष्ट्वातिक्रुद्धः “राक्षसो
भविष्यतीति” राजानमशपत् । राजा तु शाप-
वृत्तान्तं विदित्वा विनापराधेन प्रदत्तः शापः इति
विचिन्त्य जलमादाय गुरुं प्रतिशप्तुं समुद्यतः ।
एतस्मिन्नन्तरेऽस्य पत्नी मदयन्ती दृष्ट्वैवमकर-
णीयोद्यतं पतिं निवारयामास । राजा तु तया
निवारितः स्वपादयोः शापजलं प्रक्षिप्तवान् ।
एतदारभ्यायं पादयोः कल्माषतां प्राप्तवान् ॥ अस्य
अन्या विस्तृतिस्तु भागवते ९ । ९ अध्याये, तथा
महाभारते १ । १७७ अध्याये द्रष्टव्या ॥)

कल्यं, क्ली, (कल्यते आगम्यते । कल गतौ + कर्म्मणि

यत् । प्रत्यूषः । इत्यमरः । १ । ४ । २ ॥ (यथा,
पृष्ठ २/०६७
:भागवते ४ । २४ । ७८ ।
“इदं यः कल्य उत्थाय प्राञ्जलिः श्रद्धयान्वितः ।
शृणुयाच्छ्रावयेन्मर्त्त्यो मुच्यते कर्म्मबन्धनैः” ॥
कलयति मिष्टतां सम्पादयतीति । अघ्न्यादित्वात्
यक् ।) मधु । इति हेमचन्द्रः ॥

कल्यः, त्रि, (कलासु साधुः इति यत् ।) सज्जः । (यथा,

महाभारते १ । ५ । ३ ।
कथयस्व कथामेतां कल्याः स्म श्रवणे तव” ॥)
निरामयः । इत्यमरः । ३ । ३ । १५९ ॥ वाक्श्रुति-
वर्जितः । दक्षः । कल्याणवचनम् । उपायवचनम् ।
इति मेदिनी ॥

कल्यजग्धिः, स्त्री, (कल्ये प्रातर्जग्धिर्भोजनम् ।) प्रात-

राशः । प्रातर्भोजनम् । इति जटाधरः ॥

कल्यत्वं, क्ली, (कल्य + भावे “ता त्वम्” । इति त्वम्)

आरोग्यम् । इति जटाधरः ॥

कल्यपालः, पुं, (कल्यं मधु मद्यमियर्थः पालयतीति ।

कल्य + पाल् + अण् ।) शौण्डिकः । इति हेमचन्द्रः ॥

कल्यपालकः, पुं, (कल्यं पालयति । कल्य + पाल् +

ण्वुल् ।) शौण्डिकः । इति शब्दमाला ॥

कल्यवर्त्तः, पुं, (कल्ये प्रातः वर्त्त्यते प्राप्यते गृह्यते

इति वा यद्वा वर्त्त्यते जीव्यते अनेन । वृत् + णिच्
+ कर्म्मणि करणे वा अप् ।) प्रातर्भोजनम् । इति
त्रिकाण्डशेषः ॥

कल्या, स्त्री, (कडयति मादयति । कडमदे णिच् अ-

घ्न्यादित्वात् यक् टाप् च । डस्य लत्वम । कलयति
मादयति वा । कल् + णिच् + यक् टाप् च ।)
मद्यम् । इति मेदिनी ॥ शुभात्मिका वाणी । कल्याण-
वचनम् । इत्यमरः । १ । ६ । १८ ॥ हरीतकी ।
इति शब्दरत्नावली ॥

कल्याणं, क्ली, (कल्ये प्रातः अण्यते शब्द्यते इति ।

कल्य + अण् + “अकर्त्तरिचेति” ३ । ३ । १९ ।
घञ् ।) मङ्गलम् । (यथा, विष्णुपुराणे । १ । १२ । १०२ ।
“स्थानभ्रंशं न चाप्नोति दिवि वा यदि वा भुवि ।
सर्व्वकल्याणसंयुक्तो दीर्घकालञ्च जीवति” ॥)
तत्पर्य्यायः । श्वः २ श्रेयसम् ३ शिवम् ४ भद्रम् ५
शुभम् ६ भावुकम् ७ भविकम् ८ भव्यम् ९ कुश-
लम् १० क्षेमम् ११ शस्तम् १२ । तद्युक्ते त्रि । इत्य-
मरः । १ । ४ । २५, २६ ॥ (यथा, मनुः ८ । ३९२ ।
“प्रातिवेश्यानुवेश्यौ च कल्याणे विंशतिद्विजे” ॥)
स्वर्णम् । इति मेदिनीकरहेमचचन्द्रौ ॥

कल्याणवीजः, पुं, (कल्याणं वीजं यस्य ।) मसूरः ।

इति राजनिर्घण्टः ॥ (मसूरशब्दे विशेषोऽस्य
ज्ञेयः ॥)

कल्याणिका, स्त्री, (कल्याण + संज्ञायां कन् तत-

ष्टाप् अत इत्वम् ।) मनःशिला । इति राज-
निर्घण्टः ॥ (मनःशिलाशब्देऽस्या विवृतिर्ज्ञेया ॥)

कल्याणिनी, स्त्री, (कल्याणमस्यास्तीति इनिः ततः

स्त्रियां ङीप् ।) बला । इति राजनिर्घण्टः ॥
कल्याणविशिष्टेत्रि ॥

कल्याणी, स्त्री, (कल्याण + स्त्रियां ङीप् । माषपर्णी ।

गौः । इति राजनिर्घण्टः ॥ (यथा, रघुः १ । ८७ ।
“उपस्थितेयं कल्याणी नाम्नि कीर्त्तित एव यत्” ॥
कल्याणवती । यथा महाभारते । ३ । ७४ । ५ ।
“दमयन्त्यपि कल्याणी प्रासादस्था ह्युपैक्षत” ॥)

कल्यापालः, पुं, (कल्यां मद्यं पालयतीति । कल्या +

पालि + अण् ।) शौण्डिकः । इति त्रिकाण्डशेषः ॥

कल्ल, ङ कूजने । शब्दे । अशब्दे । इति कविकल्प-

द्रुमः ॥ (भ्वां--आत्मं--अकं--सेट् ।) लद्वयान्तः । ङ
कल्लते लोकः अव्यक्तशब्दं करोति शब्दं न
करोति वेत्यर्थः । कूजने इति चान्द्रा जौमराश्च ॥
शब्दमात्रे इति केचित् । अशब्दे इति कालापाः ।
इति दुर्गादासः ॥

कल्लः, त्रि, (कल्लते शब्दं न गृह्लाति इति । कल्ल +

अच् ।) बधिरः । इति त्रिकाण्डशेषः । काला
इति भाषा ॥

कल्लत्वं, क्ली, (कल्लस्य भावः । कल्ल + त्वम् ।) स्वरभेदः ।

इति हेमचन्द्रः ॥ बधिरता च ॥

कल्लोलः, पुं, (कल्ल + बाहुलकात् ओलच् । यद्वा

कं जलं लोलं चपलं यस्मात् निपातनात् साधुः ।)
महातरङ्गः । वड ढेउ इति भाषा । तत्पर्य्यायः ।
उल्लोलः २ । इत्यमरः । १ । १० । ६ ॥
(“कालिन्दीजलकल्लोलकोलाहलकुतूहली” ॥
इत्युद्भटः ॥) हर्षः । शत्रौ त्रि । इति मेदिनी ॥

कव, ऋ ङ स्तुतौ । वर्णे । इति कविकल्पद्रुमः ।

(भ्वां--आत्मं--सकं--सेट् । ऋदित् ।) ऋ अचका-
वत् । ङ कवते । इति दुर्गादासः ॥

कवकं, क्ली, (कवते आच्छादयति विस्तारयति वा ॥

कव् + अच् । संज्ञायां कन् ।) छत्राकम् । यथा, --
“देवतार्थं हविः शिग्रुं लोहितान् व्रश्चनांस्तथा ।
अनुपाकृतमांसानि विड्जानि कवकानि च” ॥
कवकानि छत्राकाराणि । वर्ज्जयेदिति प्रत्येक-
मभिसम्बध्यते । इति मिताक्षरायामाचाराध्यायः ॥

कवकः, पुं, (कव + अच् + संज्ञायां कन् ।) कवलः ।

ग्रासः । इति हेमचन्द्रः ॥

कवचः, पुं, क्ली, (कं देहं वञ्चति विपक्षास्त्राणि

वञ्चयित्वा रक्षति इति शेषः । क + वन्च् + अच् ।
कं वातं वञ्चति वा अन्तर्ण्यर्थो वा । यद्वा कवते-
इति कुधातोरच् प्रत्यय इति केचित् इत्युणादि-
कोषः ४२ । २ ।) सन्नाहः । साँजोया इति भाषा ।
(यथा, विष्णुपुराणे । १ । १३ । ४० ।
“शराश्च दिव्या नभसः कवचञ्च पपात ह” ॥)
तत्पर्य्यायः । तनुत्रम् २ वर्म्म ३ दंशनम् ४ उरश्छदः
५ कङ्कटकः ६ जगरः ७ । इत्यमरः । २ । ८ । ६४ ॥
दंसनम् ८ जागरः ९ अजगरः १० । इति तट्टीका ॥
कटकः ११ योगः १२ सन्नाहः १३ कञ्चुकः १४ ।
इति जटाधरः ॥ * ॥ तस्य युक्तिर्यथा ।
खड्गादीनान्तु गणना पूर्ब्बमेव निदर्शिता ।
अस्त्रात्मनैव निर्द्दिष्टकवचादिरपीष्यते ॥
तल्लक्षणं संग्रहेण प्रवक्ष्यामि निबोधत ।
काष्ठं चर्म्म च सकलं त्रयमेतत्तु दुस्तरम् ॥
यथोत्तरं गुणयुतं तथा पूर्ब्बन्तु निन्दितम् ।
शरीरावरकत्वन्तु लघुत्वं दृढता तथा ॥
दुर्भेद्यतेति कथितः कुवचे गुणसंग्रहः ।
सच्छिद्रतातिगुरुता तनुता सुखभेद्यता ॥
कवचानां विनिर्द्दिष्टः समासाद्दोषसंग्रहः ।
अत्र वर्णो विनिर्द्दिष्टः क्रमादेवं चतुर्व्विधः ॥
सितो रक्तस्तथा पीतः कृष्णो ब्रह्मादिषु क्रमात् ।
केचित् कुर्व्वन्ति कुशलाः कवचं धातुसम्भवम् ॥
कनकं रजतं ताम्रं लौहं तेषु यथाक्रमम्” ॥
इति युक्तिकल्पतरुः ॥ * ॥
“यथा शस्त्रप्रहाराणां कवचं प्रति वारणम् ।
तथा दैवोपघातानां शान्तिर्भवति वारणम्” ॥
इति मलमासतत्त्वम् ॥ लौहादिवर्म्मवत् अङ्गादि-
रक्षणार्थं देवतामन्त्रविग्रहम् । तत्तु पूजायां पाठ्यं
भूर्ज्जे विलिख्य कण्ठादौ धार्य्यञ्च । इति तन्त्रम् ॥
गर्द्धभाण्डवृक्षः । पटहवाद्यम् । इति मेदिनी ॥

कवचपत्रं, क्ली, (कवचलेखनसाधनपत्रमिव पत्रं

वल्कलं यस्य ।) भूर्ज्जपत्रम् । इति शब्दचन्द्रिका ॥

कवटी, स्त्री, (कौति शब्दायते इति । कु + अटन् +

गौरादित्वात् ङीष् ।) कवाटः । इति भरतो
द्विरूपकोषश्च ॥

कवयी, स्त्री, (कात् जलात् वयते गच्छति इति ।

क + वय् गतौ + इन् “कृदिकारान्तत्वात्” वा
ङीष् ।) मत्स्यविशेषः । कयी माच् इति भाषा ॥
तत्पर्य्यायः । क्रकचपृष्ठी २ । इति त्रिकाण्डशेषः ॥
अस्या गुणाः । मधुरत्वम् । स्निग्धत्वम् । बलकारि-
त्वम् । वायुकफनाशित्वञ्च । इति राजवल्लभः ॥
किञ्चित्पित्तकरीति केचित् ॥ (“कवय्यः स्निग्ध-
मधुराः” । इति चक्रपाणिकृतद्रव्यगुणे ॥)

कवरं, त्रि, (के मस्तके वरं शोभमानत्वात् श्रेष्ठम् ।)

केशपाशः । इत्यमरटीका ॥ (यथा भागवते
५ । २ । ७ । “वल्गुस्पन्दनस्तनकलशकवरभार-
रशनां देवीम्” ॥) संपृक्तम् । खचितम् । इति
हलायुधः ॥

कवरः, पुं, क्ली, (कं जलं वृणोति । क + वृ + अच् ।)

लवणः । अम्लः । इति मेदिनी हेमचन्द्रश्च ॥ (कौ-
तीति । कुशब्दे + “कोररन्” । उणां ४ । १५४ ।
इति अरन् । पाठकः । इत्युज्ज्वलदत्तः ॥ कर्वुर-
वर्णः । इति हलायुधः । यथा, माघे ५ । १९ ।
“दृष्ट्वैव निर्ज्जितकलापभरामधस्ता-
द्व्याकीर्णमाल्यकवरां कवरीं तरुण्याः” ॥)

कवरकी, स्त्री, (कवरं केशपाशं किरति विक्षिपति

यत्र इति । कवर + कॄ + बाहुलकात् ड गौरा-
दित्वात् ङीष् । कारावासदुःखेन केशादिपारि-
पाट्यराहित्यात् तथात्वम् ।) कारागारबद्धः । इति
हारावली । कयेदी इति भाषा ॥

कवरा, स्त्री, (कवर + अजादित्वात् टाप् ।) खर-

पुष्पा । इति शब्दचन्द्रिका । वावुइ इति भाषा ॥

कवरी, स्त्री, (कं शिरः वृणोति आच्छादयति । क +

वृ + अच् + जानपदेत्यादिना ङीप् । कु + अरन्
ङीष् वा ।) केशविन्यासः । चुलेर खोपा टिकी
इति भाषा । तत्पर्य्यायः । केशवेशः २ कवरः ३
केशगर्भकः ४ । इति शब्दरत्नावली ॥
(“गोपीभर्त्तुर्विरहविधुरा काचिदिन्दीवराक्षी
उन्मत्तेव स्खलितकवरी निःश्वसन्ती विशालम्” ॥
इति पदाङ्कदूते । १ ॥) वर्व्वरा । वावुइ इति
पृष्ठ २/०६८
:भाषा । कारवी । इत्यमरो मेदिनी च ॥ हिङ्गेर
पाता इति भाषा ॥

कवलः, पुं, (केन जलेन वलतेचलतीति । वल् + अच् ।)

ग्रासः । इत्यमरः । २ । ९ । ५४ ॥
(“त्रिकटुकमजमोदा सैन्धवं जीरके द्वे
समधरणधृतानामष्टमो हिङ्गुभागः ।
प्रथमकवलभुक्तं सर्पिषा चूर्णमेत-
ज्जनयति जठराग्निं वातरोगांश्चं हन्ति” ॥
इति तैद्यकचक्रपाणिसंग्रहे अग्निमान्द्याधिकारे ॥
“व्यसृजन् कवलान्नागा गावोवत्सान् न पाययन्” ।
इति हेःरामायणे । २ । ४१ । ९ ॥) मत्स्यविशेषः ।
इति शब्दचन्द्रिका ॥ वेले माच इति भाषा ॥

कवलितः, त्रि, (कवलं करोति । कवल + णिच् +

कर्म्मणि क्तः ।) भुक्तः । इति जटाधरः ॥ (“शश्वत्
कवलितानेकजीवम्” । इति कथासरित्सागरः ।
२६ । १४२ ॥)

कवसः, पुं, (कौति कवते वा । कुशब्दे + “ऋतनी-

त्यादिना” उणां ४ । २ । अस् ।) कवचः । इत्यु-
णादिकोषः ॥

कवाटः, त्रि, (कुशब्दे + भावे अप् । कवं शब्दं

अटतीति । कव + अट् + अच् । यद्वा कं वातं
वटति वृणोति वारयतीत्यर्थः क + वट् + अण् ।)
कपाटः । इत्यमरटीकायां वाचस्पतिः ॥ (यथा
हेःरामायणे २ । ७१ । ३७ ।
“असंयतकवाटानि श्रीविहीनानि सर्व्वशः” ॥)

कवाटवक्रं, क्ली, (कवाटं वक्रं यस्मात् ।) वृक्षविशेषः ।

कवाटवेटु इति भाषा । कवाडवेण्टुया इति
केचित् ॥ तत्पर्य्यायः । वक्राग्रम् २ कपोतवक्रम् ३
अस्रजित् ४ । इति रत्नमाला ॥

कवाटी, स्त्री, (कवाट + अल्पार्थे + ङीप् ।) कपा-

टम् । इत्यमरटीकायां भरतः ॥

कवारं, क्ली, (कं जलं आश्रयत्वेन वृणोति । क + वृ +

अण् ।) पद्मम् । इति त्रिकाण्डशेषः ॥

कविः, पुं, (कवते सर्व्वं जानाति सर्व्वं वर्णयति सर्व्वं

सर्व्वतो गच्छति वा । कव् इन् । यद्वा कुशब्दे +
“अचः इः” । उणां ४ । १३८ । इति इः ।)
ब्रह्मा । इति हेमचन्द्रः ॥ (अयमादिकविः यथा,
“तेने ब्रह्महृदा य आदिकवये” इति भागवते ।
१ । १ ॥) “वाल्मीकिमुनिः । (एकोऽभून्नलिनात्
ततस्तु पुलिनात् वल्मीकतश्चापरस्त एव प्रथिताः
कवीन्द्रगुरवस्तेभ्यो नमस्कुर्म्महे” । इत्युद्भटः ॥)
शुक्राचार्य्यः । (यथा महाभारते १ । ६६ । ४२ ।
“ब्रह्मणो हृदयं भित्त्वा निःसृतो भगवान् भृगुः ।
भृगोः पुत्त्रः कविर्विद्वान् शुक्रः कविसुतो ग्रहः” ॥)
मृर्य्यः । काव्यकरः । (यथा रघुः १ । ३ ।
“मन्दः कवियशः प्रार्थी गमिष्याम्युपहास्यताम्” ॥)
ग्वलीने स्त्री । इति मेदिनी ॥ (विष्णुः । यथा
महामारते १३ । १४९ । २७ ।
“वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित् कविः” ॥)
कल्किदेवस्य ज्येष्ठम्राता । यथा, --
“कल्केर्ज्येष्ठास्त्रयः शूराः कविप्राज्ञसुमन्त्रकाः ।
तातमातृप्रियकरा गुरुविप्रप्रतिष्ठिताः” ॥
इति कल्किपुराणे २ अध्यायः ॥ * अपि च ।
“विशाखयूपभूपालः प्रायात् साधुजनप्रियः ।
कल्किं द्रष्टुं हरेरंशमाविर्भूतञ्च सम्भले ॥
कविं प्राज्ञं सुमन्त्रञ्च पुरस्कृत्य महाप्रभम् ।
गार्ग्यभर्ग्याविशालैश्च ज्ञातिभिः परिवारितम् ।
विशाखयूपो ददृशे चन्द्रं तारागणैरिव” ॥
इति तत्रैव ३ अध्यायः ॥ * ॥ चौरयोद्धा । यथा ।
“वेधस्थाने रणे भङ्गो दुर्गे खण्डिः प्रजायते ।
कविप्रवेशनं तत्र योधाघातश्च तत्र वै” ॥
इति सर्व्वतोयद्रचक्रे ज्योतिस्तत्त्वम् ॥

कविः, त्रि, (कवते श्लोकान् ग्रथते वर्णयति वा ।

कव् + इन् ।) पण्डितः । इत्यमरः । २ । ७ । ५ ॥
(यथा मनुः २ । १५१ ।
“अध्यापयामास पितॄन् शिशुराङ्गिरसः कविः” ॥)

कविः, स्त्री, (कवति शब्दायते इति । कुशब्दे “अच्

इः” । उणां । ४ । १३८ इति इः । अश्वमुखे श-
ब्दायमानत्वात्तथात्वम् ।) खलीनः । इति मेदिनी ।
लागाम् इति भाषा ॥

कविकं, क्ली, (कवि + खार्थे कन् ।) खलीनः । इति

हलायुधः ॥

कविका, स्त्री, (कवि + स्वार्थे कन् टाप् च ।) खलीनः ।

इत्यमरः । २ । ८ । ४९ ॥ लागाम इति भाषा ।
केविकापुष्पम् । इति राजनिर्घण्टः ॥ कवयी मत्स्यः ।
इति भावप्रकाशः ॥ (अस्या गुणा यथा, --
“कविका मधुरा स्निग्धा कफघ्ना रुचिकारिणी ।
किञ्चित् पित्तकरी वात-नाशिनी वह्निवर्द्धिनी” ॥
इति च भावप्रकाशस्य पूर्ब्बखण्डे मांसवर्गे ॥)

कविज्येष्ठः, पुं, (कविषु ज्येष्ठः ।) वाल्मीकिमुनिः ।

इति त्रिकाण्डशेषः ॥

कविता, स्त्री, (कवेः रचयितुर्भावः तल् ।) कवि-

त्वम् । काव्यम् । यथा, --
“कविता वनिता वापि आयाता सुखदायिनी” ।
इत्युद्भटः ॥

कविवेदी, [न्] त्रि, (कविं कवित्वं वेत्ति । कवि +

विद् + णिनिः ।) कविः । इति जटाधरः ॥

कवियं, क्ली पुं, (कं सुखं अजति । क + अज् + क ।

अजस्थाने विः ।) खलीनः । इति त्रिकाण्डशेषः ॥

कविरामायणः, पुं, (कविना कवितया कविषु काव्येषु

वा रामः अयनं आश्रयो यस्य ।) वाल्मीकिमुनिः ।
इति शब्दरत्नावली ॥

कविलासिका, स्त्री, (कं सुखं विलासयति उद्दीपय-

तीति । क + वि + लस् + णिच् + ण्वुल् टाप् अत
इत्वम् ।) वीणाविशेषः । इति शब्दरत्नावली ॥

कविवाल्मीकिः, पुं, (कविश्चासौ वाल्मीकिश्चेति ।)

वाल्मीकिमुनिः । इति शब्दरत्नावली ॥

कवी, स्त्री, (कवि वा ङीष् ।) खलीनः । इति मेदिनी

भरतश्च ॥

कवीयं, क्ली, (कवि + स्वार्थे च्छः ।) खलीनः । इति जटाधरः ॥

कवेलं, क्ली, (कं जलं विलति स्तृणाति । क + विल् +

अण् ।) कुवलयम् । उत्पलम् । इति शब्दचन्द्रिका ॥

कवोष्णं, क्ली, (कुत्सितं उष्णं ईषदुष्णं वा ।) ईषदु-

ष्णम् । (यथा रघुः १ । ६७ ।
“मत्परं दुर्लभं मत्वा नूनमावर्ज्जितं मया ।
पयः पूर्ब्बैः स्वनिश्वासैः कवोष्णमुपभुज्यते” ॥)
तद्वति त्रि । इत्यमरः । १ । ४३५ ॥

कव्यं, क्ली, (कूयते पितृभ्यः । पित्रुद्देशेन दीयते यद-

न्नादिकम् । कु + “अचो यत्” ३ । १ । ९७ ।
इति यत् ।) पित्रन्नम् । पितृसम्प्रदानकान्नम् ।
इत्यमरः । २ । ७ । २४ ॥ (यथा, मनुः १ । ९५ ॥
“यस्यास्येन सदाश्नन्ति हव्यानि त्रिदिवौकसः ।
कव्यानि चैव पितरः किम्भूतमधिकं ततः” ॥
कव्यानि तु वेदतत्त्वविदे ब्राह्मणाय दातव्यानि
अन्यथा तद्दानं निष्फलं स्यात्यदुक्तं मनौ ३
अध्याये ।
“श्रोत्रियायैव देयानि हव्यकव्यानि दातृभिः ।
अर्हत्तमाय विप्राय तस्मै दत्तं महाफलम् ॥
एकैकमपि विद्वांसं दैवे पित्र्ये च भोजयेत् ।
पुष्कलं फलमाप्नोति नामन्त्रज्ञान् बहूनपि ॥
दूरादेव परीक्षेत ब्राह्मणं वेदपारगम् ।
तीर्थं तद्धव्यकव्यानां प्रदाने सोऽतिथिः स्मृतः ॥
सहस्रं हि सहस्राणामनृचां यत्र भुञ्जते ।
एकस्तान् मन्त्रवित् प्रीतः सर्व्वानर्हति धर्म्मतः ॥
ज्ञानोत्कृष्टाय देयानि कव्यानि च हवींषि च ।
न हि हस्तावसृग्दिग्धौ रुधिरेणैव शुध्यतः ॥
यावतो ग्रसते ग्रासान् हव्यकव्येष्वमन्त्रवित् ।
तावतो ग्रसते प्रेत्य दीप्तशूलर्ष्ट्ययोगुडान् ॥
ज्ञाननिष्ठा द्विजाः केचित् तपोनिष्ठास्तथापरे ।
तपःस्याध्यायनिष्ठाश्च कर्म्मनिष्ठास्तथापरे ॥
ज्ञाननिष्ठेषु कव्यानि प्रतिष्ठाप्यानि यत्नतः ।
हव्यानि तु यथान्यायं सर्व्वेष्वेव चतुर्ष्वपि ॥
एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः ।
अनुकल्पस्त्वयं ज्ञेयः सदा सद्भिरनुष्ठितः ॥
मातामहं मातुलञ्च स्वस्रीयं श्वशुरं गुरुम् ।
दौहित्रं विट्पतिं बन्धुमृत्विग्याज्यौ च भोजयेत् ॥
येस्तेनपतितक्लीवा ये च नास्तिकवृत्तयः ।
तान् हव्यकव्ययोर्विप्राननर्हान्मनुरब्रवीत् ॥
चिकित्सकान् देवलकान् मांसविक्रयिणस्तथा ।
विपणेन च जीवन्तो वर्ज्ज्याःस्युर्हव्यकव्ययोः” ॥
इत्यादि । विस्तृतिस्तु तत्रैव द्रष्टव्या ॥)

कव्यबालः, पुं, (कव्यं बल्यते दीयते अस्मै । कव्य +

बल् दाने + सम्प्रदाने घञ् ।) पितृगणविशेषः ।
इति त्रिकाण्डशेषः ॥ (यथा, वायुपुराणे ।
“कव्यबालोऽनलः सोमः यमश्चैवार्य्यमा तथा ।
अग्निस्वात्ता वर्हिषदः सोमपाः पितृदेवताः” ॥)

कश, शब्दे । इति कविकल्पद्रुमः ॥ (भ्वां--परं--अकं--

सेट् ।) कशति । इति दुर्गादासः ॥

कशा, स्त्री, (कशति शब्दायते ताडयति वा । कश्

+ करणस्य कर्तृविवक्षया कर्त्तरि अच् टाप् च ।
ताडयत्यनया वा ।) अश्वादेस्ताडनी । इत्यमरः ।
२ । १० । ३१ । कोडा चावुक् इति च भाषा ॥
(“जघान कशया मोहात् तदा राक्षसवन्मुनिम्” ॥
इति महाभारते । १ । १७७ । १० ॥) मांस-
रोहिणी । इति भावप्रकाशः ॥

कशार्हः, त्रि, (कशां अर्हति इति । कशा + अर्ह +

पृष्ठ २/०६९
:अण् ।) कशाघातयोग्यः । कोडा मारिवार उप-
युक्त इति भाषा । तत्पर्य्यायः । कश्यः २ । इत्यमरः ।
३ । १ । ४४ ॥

कशिपुः, पुं, (कशति दुःखं कश्यते वा कशगति-

शासनयोः । कश + मृगष्वादित्वात् निपातनात्
साधुः ।) भक्तम् । आच्छादनम् । एकोक्त्यान्नवस्त्रे
कशिपू इति द्विवचनान्तम् । इति मेदिनी ॥
(शय्या । यथा, भागवते २ । २ । ४ ।
“सत्यां क्षितौ किं कशिपोः प्रयासैः” ॥)

कशेरु, क्ली पुं, (के देहे शीर्य्यते । क + शॄ + “केश्र

एर ङ चास्य” । उणां १ । ९० । इति उः एरङ्-
चान्तादेशः ।) पृष्ठास्थि । पिठेर दाँडा इति
भाषा । इति हलायुधः ॥ (पुं सि उदाहरणं ।
“किं कुर्व्वता वराहेण खाद्यन्ते हि कशेरवः” ।
इत्युणाटिकाधृतचन्द्रवचनम् ।)

कशेरु, क्ली, (कं जलं वातं वा शृणाति । क + शॄ +

उणादित्वात् उः । एरङ्चान्तादेशः ।) कशेरुका ।
केशुर इति भाषा । इति रत्नामाला ॥
राजनिर्घण्टे दन्त्यसकारवान् पुंलिङ्गोऽप्ययं शब्दः ॥
(“कशेरु द्विविधं तत्तु महद्राजकशेरुकम् ।
मुस्ताकृतिलघुः स्यात् यत् तच्चिवोटमिति स्मृतम्” ॥
इति वैद्यकम् ॥)

कशेरुः, पुं, (क + शॄ + उ + एरङ् ।) जम्बुद्वीपस्य

खण्डविशेषः । इति शब्दमाला ॥

कशेरुकं, क्ली, (कशेरु + स्वार्थे कन् ।) तृणकन्दः ।

केशुर इति भाषा । अस्य गुणाः । गुरुत्वम् ।
विष्टम्भकारित्वम् । शीतलत्वञ्च । इति राजवल्लभः ॥
(“तरुठविसशालूकक्रौञ्चादनकशेरुकम् ।
शृङ्गाटकं कलोड्यञ्च गुरु विष्टम्भि शीतलम्” ॥
इति चरके सूत्रस्थाने २७ अध्याये ॥)

कशेरुका, स्त्री, (कशेरु + स्वार्थे कन् टाप् च ।)

पृष्ठास्थि । इति रत्नमाला । पिटेर दाँडा इति
भाषा ।

कशेरूः, स्त्री, (क + शॄ + “केश्र एरङ्चास्य” । उणां

१ । ९० । इति ऊः । एरङ्चान्तादेशः ।) तृणकन्दः
इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥ केशुर
इति भाषा ।

कश्चन, व्य, (किम् + चन् इति मुग्धबोधमतम् ।

पाणिनिमते पृथक्पदमिति भेदः ।) कश्चित् ।
इति ब्याकरणम् ॥ कोन । केह इति च भाषा ।
(यथा माधः १६ । १ ।
“दमघोषसुतेन कश्चन
प्रतिशिष्ठः प्रतिभानवानथ” ॥)

कश्चित्, व्य (किम् + चित् । पाणिनिमते पृथक्

पदम् ।) कश्चन । इति व्याकरणम् ॥ (यथा मेघ-
दूते १ ।
‘कश्चित्कान्ता विरहगुरुणा स्वाधिकारप्रमत्तः’ ॥)

कश्मलं, क्ली, (कश् गतिशातनयोः + कल । “कुटि-

कशिकौतिभ्यः प्रत्ययस्य मुट्” ॥ उणां १ । १०८
इति मुट् ।) मूर्च्छा । इत्यमरः । २ । ८ । १०९ ।
(मोहः । यथा, गीतायाम् २ । २ ।
“कुतस्त्वाकश्मलमिदं विषमे समुपस्थितम्” ॥)
पापम् । इति शब्दमाला ॥ मलिने त्रि । इति
हेमचन्द्रः ॥

कश्मीरः, पुं, (कश् + “कशेर्मुट् च । उणां ४ । ३०

इति ईरन् मुट् च ।) काश्मीरदेशः । इति त्रि-
काण्डशेषः ॥ (अस्य सीमादि र्यथा, -- शक्ति सङ्ग
मतन्त्रे ७ पटले ।
“शारदामठमारभ्य कुङ्कुमादितटान्तकः ।
तावत् कश्मीरदेशः स्यात् पञ्चाशद्योजनात्मकः” ॥)

कश्मीरजन्मा, [न्] पुं, (कश्मीरे कश्मीरदेशे जन्म

यस्य ।) काश्मीरजन्मा । कुङ्कुमम् । इत्यमरटी-
कायां रायमुकुटः ॥

कश्यं, क्ली, (कशां अर्हतीति । कशा + दन्तादित्वात् ।

५ । १ । ६६ । यत् ।) अश्वमध्यभागः । (कशति
अनेन । कश + बाहुलकात् करणे यत् ।) मद्यम् ।
यथा, -- मार्कण्डेयपुराणे १०४ । ३ ।
“ब्रह्मणस्तनयो योऽभूत् मरीचिरिति विश्रुतः ।
कश्यपस्तस्य पुत्त्रोऽभूत् कश्यपानात् स कश्यपः” ॥
कशार्हे त्रि । इत्यमरः । ३ । १ । ४४ ॥

कश्यपः, पुं, (कश्यं सोमरसादिजनितं मद्यं पिब-

तीति । कश्य + पा + क । अस्य नामनिरुक्ति-
र्यथा मार्कण्डेयपुराणे । १०४ । ३ ।
“ब्रह्मणस्तनयो योऽभूत् मरीचिरिति विश्रुतः ।
कश्यपस्तस्य पुत्त्रोऽभूत् कश्यपानात् स कश्यपः” ॥)
मुनिभेदः । कलागर्भजो मरीचिमुनेरौरसः पुत्त्रः ।
अस्य भार्य्या दक्षस्य सप्तदशकन्याः । तासां तत्पु-
त्त्राणाञ्च नामानि यथा । अदितेर्देवाः १ दिते-
र्दैत्याः २ दनोर्दानवाः ३ काष्ठाया अश्वादयः ४
अरिष्टाया गन्धर्व्वाः ५ सुरसाया राक्षसाः ६
इलाया वृक्षाः ७ मुनेरप्सरोगणाः ८ कोधवशायाः
सर्पाः ९ ताम्रायाः श्येनगृध्रादयः १० सुरभेर्गो-
महिषाः ११ सरमायाः श्वापदाः १२ तिमेर्यादो-
गणाः १३ विनताया गरुडारुणौ १४ कद्रोर्नागाः
१५ पतङ्ग्याः पतङ्गाः १६ यामिन्याः शलभाः १७ ।
इति श्रीभागवतम् ॥ * ॥
(मार्कण्डेयपुराणमते अस्य त्रयोदशभार्य्याः ।
यदुक्तं तत्रैव १०४ अध्याये । अदितिः १ दितिः २
दनुः ३ विनता ४ खसा ५ कद्रुः ६ मुनिः ७
क्रोधा ८ रिष्टा ९ इरा १० ताम्रा ११ इला १२
प्रधा १३ । महाभारतमतेऽपि अस्य त्रयोदश
भार्य्या । यदुक्तं तत्रैव १ । ६५ । ११--१३ ।
“मरीचेः कश्यपः पुत्रः कश्यपात्तु इमाः प्रजाः ।
प्रजज्ञिरे महाभागा दक्षकन्यास्त्रयोदश ॥
अदितिर्दितिर्दनुः काला दनायुः सिंहिका तथा ।
क्रोधा प्राधा च तिश्वा च विनता कपिला मुजिः ।
कद्रुश्च मनुजव्याघ्र ! दक्षकन्यैव भारत” ! ॥
परमेश्वरस्यैव कश्यप इति नामास्ति । यथा,
“तेनैवेमाः सर्व्वाः प्रजाः उत्पादितास्तस्मात् सर्व्वा
इमाः प्रजाः काश्यप्य इत्युच्यन्ते । कश्यपः कस्मात्
पश्यको भवतीति निरुक्त्या पश्यतीति पश्यः
सर्व्वज्ञतया सकलं जगद्विजानाति स पश्यः ।
पश्य एव निर्भ्रमतयातिसूक्ष्ममपि वस्तु यथार्थं
जानात्येवातः पश्यक इति । आद्यन्ताक्षरविप-
र्य्ययासिद्धेः सिंहः कृतेस्तर्कुरित्यादिवत् कश्यप
इति हयवरट् इत्येतस्योपरि महाभाय्यप्रमाणेन
पदं सिध्यति” ॥ इति दयानन्दकृतायां वेदभाष्यो-
पक्रमणिकायां २९१ सङ्ख्यकपत्रे ॥ कश्यं अज्ञानं
अविद्यामित्यर्थः । तत्पिबति शोषयति नाश-
यति । यद्वा कश्यं विज्ञानघनम् पाति रक्षति
स्वात्मनीति । परब्रह्म । तथा च तापनिश्रुतिः
२ । ११ ॥
“सा होवाच गान्धर्व्वी ऋषिं वै दुर्व्वाससं कोऽयं
ब्रह्मन् ! दा एतस्य प्रजालोकस्य पालयिता भर्त्ता
वा जगतः । सहोवाच तत्त्ववित् प्रवरो महान्
दुर्व्वासाः । तदेव ब्रह्म वा आत्मा एतस्य पाता
हर्त्ता प्रजानां गोप्ता वावह कश्यपो ह योऽयम-
ज्ञानभोक्ता गान्धर्व्वि” ॥
कच्छपः । तथा च शतपथब्राह्मणे--
“स यत्कूर्म्मो नाम । प्रजापतिः प्रजा असृजत
यदसृजताकरोत्तद्यदकरोत्तस्मात् कूर्म्मः कश्यपो
वै कूर्म्मस्तस्मादाहुः सर्व्वाः प्रजाः काश्यप्यः” ॥
यथा यजुर्व्वेदे २४ । २७ ।
“अपामुद्रो मासां कश्यपः” । “कश्यपः कच्छपः” ।
इति वेददीधितिः ॥ कश्यं मद्यं पिबतीति ।
कश्य + पा + क । “सुरापः श्यावदन्तः स्यात्” ।
इति वचनात्तथात्त्वम् । श्यावदन्ते त्रि,
यथा, कात्यायनश्रौतसूत्रे १० । २ । ३५ ।
“प्रसृप्तेभ्यश्चान्यत् कण्वकश्यपयाचमानवर्ज्जम्” ॥)
मृगविशेषः । इति मेदिनी ॥ मत्स्यभेदः । इति
विश्वः ॥

कश्यपनन्दनः, पुं, (कश्यपस्य नन्दनः ।) गरुडः । इति

हलायुधः ॥ (देवासुरादयोऽपि ॥)

कष वधे । इति कविकल्पद्रुमः ॥ (भ्वां--परं--सकं--

सेट् ।) कषति । अयमुभयपदीति चतुर्भुजजुमरौ ॥
रमानाथरामौ तु इमं परस्मैपदिनं मत्वा उभ-
यपदिनं तालव्यान्तं अन्यं मन्येते । इति दुर्गा-
दासः ॥

कषः, पुं, (कषत्यत्र अनेन वा । कष् + अच् ।) कष-

पट्टिका । कष्टिपातर इति भाषा । तत्पर्य्यायः ।
शानः २ निकषः ३ । इत्यमरः । २ ! १० । ३२ ॥

कषणः, त्रि, (कष्यते विस्वाद्यते । कष् + कर्मणि

ल्युट् ।) अपक्वः । इति शब्दचन्द्रिका ॥ (पुं,
कषत्यत्र । अधिकरणे ल्युट् । निकषोपलम् ।
यथा, आर्य्यामप्तशती ४१८ ।
“भूषणतां भजतः सखि ! कषणविशुद्वस्य जात-
रूपस्य” ॥ भावे ल्युट् । क्ली, कण्डूयनम् ।
यथा किराते ५ । ४७ ।
“कषणकम्पनिरस्तमहाहिभिः
क्षणविमत्तमतङ्गजवर्जितैः” ॥
“इहाद्रौ कषणेन कण्डूयणेन यः कम्पस्तेन निरस्ता
महाहयो येभ्यस्तैः” ॥ इति तट्टीकायां मल्लिनाथः ॥)

कषा, स्त्री, (कष्यते ताड्यते अनया । कष् + बाहुल-

कात् करणे अप् । ततष्टाप् ।) कशा । इत्यमर
टीकायां रमानाथः ॥ चावुक् इति भाषा ॥ (यथा
गोःरा {?मा?}यणे ६ । ३७ । ४१ ।
पृष्ठ २/०७०
:‘उष्ट्रान् हयान् खरान् नागान् जघ्नुर्दण्डकषाङ्कुशैः’ ॥)

कषाकुः, पुं, (कष् + आकुः ।) सूर्य्यः । अग्निः । इत्यु-

णादिकोषः ॥

कषायः, पुं, क्ली, (कषति कण्ठम् । कष् + आयः ।)

रसविशेषः । कषा इति भाषा । पृथिव्यनिलगुण-
बाहुल्यात्तस्योत्पत्तिः । इति शिवदासः ॥
(यथा, मनुः ११ । १५३ ।
“शुक्तानि च कषायांश्च पीत्वामेध्यान्यपि द्विजः” ॥)
तत्पर्य्यायः । तुवरः २ तद्युक्ते त्रि । इत्यमरः ।
१ । ५ । ९ ॥ कुवरः ३ तूरवः ४ । इति तट्टीका ॥
अस्य गुणाः । व्रणादिरोपणत्वम् । ग्राहित्वम् ।
शोषणत्वम् । वायुकोपकारित्वञ्च । अतियुक्तस्य
तस्य गुणः । मलमूत्रग्रहाध्मानहृत्पीडाक्षेपणादि-
रोगकारित्वम् । अन्यच्च ।
“कषायः शोषणः स्तम्भी व्रणपाकार्त्तिनाशनः ।
कफशोणितवातघ्नी रूक्षः शीतो गुरुस्तथा” ॥
इति राजवल्लभः ॥ अपि च ।
“कषायनामा निरुणद्धि शोफं
वर्णन्तनोर्दीपनपाचनश्च ।
सत्त्वापहोऽसौ शिथिलत्वकारी
निषेवितः पाण्डु करोति मात्रम्” ॥
इति राजनिर्घण्टः ॥ * ॥ पाचनादिः । तस्य पूर्ण-
वीर्य्यं याममेकं तिष्ठति । तत्पर्य्यायः । क्वाथः २
निर्य्यूहः ३ । स तु पञ्चविधो यथा । स्वरसः १
कल्कः २ क्वथितः ३ शीतः ४ फाण्टम् ५ । इति
वैद्यकपरिभाषा ॥ * ॥
(“जिह्वां कण्ठं ग्रसति नितरां ग्राहकश्चातिसारे
श्लेष्मव्याधेरुपशमकरः श्वासकासापहर्त्ता ।
हिक्कां शूलं हरति नितरां शोधनं स्याद्व्रणानां
प्रोक्तश्चायं समधिकगुणो नाम श्रेष्ठः कषायः” ॥
इति हारीते प्रथम स्थाने ७ अध्याये ॥
“कषायो जडयेज्जिह्वां कण्ठस्रोतो विबन्धकृत्” ॥
“कषायः पित्तकफहा गुरुरस्रविशोधनः ।
पीडनो रोपणः शीतः क्लेदमेदो विशोषणः ।
आमसंस्तम्भनो ग्राही रूक्षोऽतित्वक्प्रसादनः ॥
करोति शीलितः सोऽति विष्टम्भाध्मानहृद्रुजः ।
तृट्कार्श्य पौरुषभ्रंशस्रोतोरोधमलग्रहान्” ॥
इति वाभटे सूत्रस्थाने १० अध्याये ॥
“कषायो रसः संशमनः संग्राही सन्धारणः
पीडनो रोपणः शोषणः स्तम्भनः श्लेष्मरक्तपित्त-
प्रशमनः शरीरक्लेदस्योपयोक्ता रूक्षः शीतो
गुरुश्च ।
स एवं गुणोऽप्येक एवात्यर्थमुपयुज्यमानः आस्यं
शोषयति, हृदयं पीडयति, उदरमाध्मापयति,
वाचां निगृह्णाति, स्रोतांस्यवबध्नाति, श्यावत्व-
मापादयति, पौंस्त्वमुपहन्ति, विष्टभ्य जरां
गच्छति, वातमूत्रपुरीषाण्यवगृह्णाति, कर्षयति,
ग्लापयति, तर्षयति, स्तम्भयति, खरविषद-
रूक्षत्वात् पक्षवध-ग्रहापतानकार्द्दितप्रभृतींश्च
वातविकारानुपजनयतीति” ।
“वैषद्यस्तम्भजाड्यैर्यो रसनं योजयेद्रसः ।
बध्नातीवचयः कण्ठं कषायः स विकास्यपि” ॥
“पवन पृथिव्यतिरेकात् कषायः” ॥
इति चरके सूत्रस्थाने २६ अध्याये ॥)
निर्यासः । (यथा, महाभारते अनुशासनपर्व्वणि ।
“घृष्टो वटकषायेण अनुलिप्तः प्रियङ्गुणा ।
क्षीरेण षष्टिकान् भुक्त्वा सर्व्वपापैः प्रमुच्यते” ॥)
विलेपनम् । (यथा कुमारे ७ । १७ ।
“कर्णार्पितो लोध्रकषायरूक्षे
गोरोचनाक्षेपनितान्तगौरे” ॥
“लोध्रस्य वृक्षविशेषस्य कषायेण विलेपनेन” ॥
इति मल्लिनाथः ॥) अङ्गरागः । इति मेदिनी ॥

कषायः, पुं, (कष् + आयः ।) श्योणाकवृक्षः । इति

धरणी ॥ रागः । इत्यमरटीकायां स्वामी ॥
(यथा छान्दग्योपनिषदि ।
“आहारशुद्धौ सत्त्वशुद्धिः सत्त्वशुद्धौ ध्रुवा
स्मृतिः । स्मृतिलम्भे सर्व्वग्रन्थीनां विप्रमोक्ष-
स्तस्मै मृदितकषायाय तमसः पारं दर्शयति” ।
“तस्मै मृदितकषायाय वार्क्षारादिरिव कषायो
रागद्वेषादिदोषः सत्त्वस्य रञ्जनरूपत्वात् ज्ञान-
वैराग्याभ्यासरूपक्षारेण क्षालितो मृदितो विना-
शितो यस्य नारदस्य तस्मै” । इति भाष्यम् ॥)
कलियुगम् । इत्यमरटीकासारसुन्दरी ॥ (निर्व्वि-
कल्पसमाधेर्विघ्नभेदः । यथा, वेदान्तसारे समा-
धिकल्पे ८१ ।
“लयविक्षेपाभावेऽपि चित्तवृत्तेरागादिवासनया
स्तब्धीभावात् अखण्डवस्त्वनवलम्बनम्” । तत्रानेक
जन्माभ्यस्त वाह्याभ्यन्तररागाद्यनुभवजनितसंस्कारैः
कलुषीकृतं चित्तं कथञ्चित् श्रवणादिसाधनेनान्त-
र्मुखमपि चैतन्यग्रहणसामर्थ्याभावात् मध्य एव
स्तब्धीभवति यथा राजदर्शनाय स्वगृहान्निर्गत्य,
राजमन्दिरं प्रविष्टस्य कस्यचित् पुरुषस्य द्वार-
पालनिरोधेन स्तब्धीभावंः तथा परित्यक्त वाह्य-
विषयस्य अखण्डवस्तुग्रहणप्रवृत्तस्योद्बुद्धरागादि-
संस्कारैः स्तब्धीभावादखण्डवस्त्वग्रहणं कषायः ॥)

कषायः, त्रि, (कष + आयः ।) सुरभिः । (यथा मेघ-

दूते ३३ ।
“प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः” ॥)
लोहितः । इति मेदिनी ॥ (यथा कुमारे ३ । ३२ ।
“चूताङ्कुरास्वादकषायकण्ठः
पुंस्कोकिलो यन्मधुरं चुकूज” ॥)
रक्तपीतमिश्रितवर्णः । इत्यमरटीकायां स्वामी ॥
धववृक्षः । इति राजनिर्वण्टः ॥

कषायकृत्, पुं, (कषायं कषायरागं करोति इति ।

कषाय + कृ + क्विप् तुगागमश्च ॥) रक्तलोध्रः ।
इति जटाधरः ॥

कषाययावनालः, पुं, (कषायः रक्तवर्णः यावनालः ।)

तुवरयावनालधान्यम् । इति राजनिर्घण्टः ॥

कषाया, स्त्री, (कष + आय टाप् च ।) क्षुद्रदुरा-

लभालता । इति राजनिर्घण्टः ॥ (अस्याः पर्य्यायो-
यथा, -- भावप्रकाशस्य पूर्ब्बखण्डे १ भागे ।
“यासोपवासो दुष्पर्शो धन्वयासः कुनाशकः ।
दुरालभादुरालम्भा सभुद्रान्ता च रोदिनी ॥
गान्धारी कच्छुरानन्ता कषाया हरविग्रहा” ।)
यिकषातः, त्रि, (कषायो रक्तपीतवर्णादिर्जातोऽस्य ।
कषाय + तारकादित्वात् इतच ।) कृतलोहितः ।
(यथा कुमारे ४ । ३४ ।
“अमुनैव कषायितस्तनी
सुभगेन प्रियगात्रभस्मना” ॥)

कषायी, [न्] पुं, (कषायो विद्यते अस्य । कषाय +

इनिः ।) शालवृक्षः । इति जटाधरः ॥ लकुच-
वृक्षः । खर्जूरीवृक्षः । इति राजनिर्घण्टः ॥

कषिः, त्रि, (कषति हिनस्ति यः । कष + “खनि

कषि” इत्यादिना इः । उणां ४ । १३९ ।) हिं-
सकः । इत्युणादिकोषः ॥

कषीका, स्त्री, (कषतीति । कष + “कषि दुषिभ्यां

ईकन्” । उणां ४ । १६ । इति इकन् + टाप्च ।)
पक्षिजातिः । यदुक्तं उणादिकोषे ॥
“कषीका पक्षिजातौ स्यात् दूषिका नेत्रयोर्म्मले” ॥

कषेरुका, स्त्री, (कष + एरक् + ततः उः । संज्ञायां

कन् टाप् च ।) कशेरुका । पृष्ठास्थि । इत्यमर-
टीकायां रायमुकुटः ॥

कष्टं, क्ली, (कष्यते इति । कष् + भावे क्तः ।

“कृच्छ्रगहनयोः कषः” । ७ । २ । २२ । इति नेट् ।)
पीडामात्रम् । तत्पर्य्यायः । पीडा २ बाधा ३
व्यथा ४ दुःखम् ५ अमानस्यम् ६ प्रसूतिजम् ७
कृच्छ्रम् ८ आभीलम् ९ । इत्यमरः । १ । ९ ।
३ ॥ आबाधा १० वेदना ११ दुखम् १२ आमा-
नस्यम् १३ । इति तट्टीकायां भरतः ॥ कला-
कलम् १४ । इति वाचस्पतिः ॥ अर्त्तिः १५
आर्त्तिः १६ पीडनम् १७ बाधनम् १८ आम-
नस्यम् १९ विबाधनम् २० विहेठनम् २१ विधा-
नकम् २२ पीडितम् २३ । इति शब्दरत्नावली ॥
क्वाथः २४ अशर्म्म २५ । इति जटाधरः ॥ (यथा
महानिर्व्वाणोक्तात्मज्ञाननिर्णये ।
“कुर्व्वाणः सततं कर्म्म कृत्वा कष्टशतान्यपि ।
तावन्न लभते मोक्षं यावज्ज्ञानं न जायते” ॥)

कष्टः, त्रि, (कष्यतेऽसौ । कष् + कर्मणि + क्तः ।) पी-

डायुक्तः । गहनः । इत्यमरमेदिनीकरौ ॥ (यथा
मनुः १२ । ७८ ।
“बन्धनानि च कष्टानि परप्रेष्यत्वमेव च” ॥
अतिकष्टकरम् । विषादादौप्रयोक्तव्यम् । यथा,
महाभारते १ । १ । २१५ ।
“कष्टं ! युद्धे दशशेषाः श्रुता मे ।
त्रयोऽस्माकं पाण्डवानाञ्च सप्त” ॥)

कष्टकारकः, पुं, (कष्टं करोति उत्पादयति बन्धक-

त्वात् । कष्ट + कृ + कर्मण्यण् । ततः कन् । कष्टं
करोतीति । कृ + ण्वुल् वा । कष्टस्य कारको वा ।)
संसारः । इति त्रिकाण्डशेषः ॥ पीडाकरे त्रि ॥

कष्टस्थानं, क्ली, (कष्टं कष्टकरं स्थानम् ।) दुःखजनक-

स्थानम् । इति हारावली ॥

कस ज गतौ । इति कविकल्पद्रुमः ॥ (भ्वां--परं--सकं

--सेट्--ज्वलादिः ।) ज कासः कसः । विपूर्ब्बोऽयं
प्रफुल्लीभावे । तथा च ।
“प्रफुल्लोत्फुल्लसंफुल्लव्याकोषविकचस्फुटाः ।
फुल्लश्चैते विकसिते” इत्यमरः । २ । ४ । ७-८ ।
पृष्ठ २/०७१
:विकसित पङ्कजकलिका । इति दुर्गादासः ॥

कस इ ल ङ ध्वसे । गतौ । इति कविकल्पद्रुमः ॥

शाते च । (अदां--आत्मं--सकं--सेट् । इदित् ।)
इ कंस्यते । ल ङ कंस्ते हरिः कंसम् । चकारात्
गतौ च । शात इह ध्वंसना । इति दुर्गादासः ॥

कस ल ङ ध्वंसे । गतौ । इति कविकल्पद्रुमः ॥ (अदां--

शाते च । आत्मं--सकं--सेट् ।) ल ङ कस्ते हरिः
कंसम् । चकारात् गतौ च । शात इह ध्वंसना ।
इति दुर्गादासः ॥

कसः, पुं, (कसति विकसतीति । कस + अच् । कसति

विकसति स्वर्णादिरत्र वा । कस + आधारे अच् ।)
कषः । इत्यमरटीकायां भरतः ॥ कष्टिपातर इति
भाषा । पूर्ब्बोक्तधात्वर्थोऽप्यत्र ॥
(यथा नैषधे २ । ६९ ।
“कसपाषाणनिभे नभस्तले” ॥)

कसनोत्पाटनः, पुं, (उत्पाटयतीति उत्पाटनः । उत्

+ पाटि + ल्युः । कसनस्य कासरोगस्य उत्-
पाटनः नाशकः ।) वासकवृक्षः । इति शब्द-
चन्द्रिका ॥

कसिपुः, पुं, (कशति शास्ति दुःखम् । कश गति-

शासनयोः निपातनात् सिद्धम् ।) कशिपुः । अन्नम् ।
इति जटाधरः ॥

कसेरुः, पुं, (कं शृणातीति शॄगिहिंसायां बाहुलका-

दुप्रत्यये प्रकृतेरेरङादेशः । निपातनात् शस्य
सत्वम् ।) कशेरुः । केशुर इति भाषा । तत्पर्य्यायः ।
गुण्डकन्दः २ क्षुद्रमुस्ता ३ कसेरुका ४ शूकरेष्टः ५ ।
सुगन्धिः ६ सुकन्दः ७ कसेरुकः ८ । अस्य गुणाः ।
कषायत्वम् । अल्पमधुरत्वम् । अतिकटुत्वम् । रक्त
पित्तप्रशमनत्वम् । शीतत्वम् । दाहश्रमापहत्वञ्च ।
इति राजनिर्घण्टः ॥

कसेरुका, स्त्री, (कसेरुरेव । स्वार्थे कन् स्त्रियां टाप् ।)

कसेरुः । पृष्ठास्थि । इति राजनिर्घण्टः ॥

कस्तीरं, क्ली, रङ्गम् । इति हेमचन्द्रः ॥ (अस्य

पर्य्यायो यथा, -- वैद्यकरत्नमालायाम् ।
“रङ्गं वङ्गञ्च कस्तीरं मृद्वङ्गं पुत्त्रपिच्चठम्” ॥)

कस्तुरिका, स्त्री, (कसति गन्धोऽस्याः दूरतः । कस

+ ऊर । तुट् च । स्वार्थे कन् टाप् च पृषोदरा-
दित्वात् साधुः ।) कस्तूरी । इति भूरिप्रयोगः ॥

कस्तूरिका, स्त्री, (कस्तूरी + स्वार्थे कन् टाप् पृषोद-

रादित्वात् साधुः ।) कस्तूरी । इति रत्नमाला ॥
(यथा, माघे । ४ । ६१ ।
“कस्तूरिकामृगविमर्द्दसुगन्धिरेति” ॥
अस्या गुणादयः कस्तूरीशब्दे ज्ञातव्याः । वैद्यक-
रसेन्द्रसारसंग्रहे वृहज्जवरचूडामणिरसे अस्याः
प्रयोगो यथा “कस्तूरिकाविद्रुमरौप्यलौहं” ।
इत्यादि ॥)

कस्तूरी, स्त्री, (कसति गन्धोऽस्याः । कस + खर्ज्जूरा-

दित्वात् ऊरः । ङीप्तुटि पृषोदरादित्वात् साधुः ।)
मृगस्य नाभौजातसुगन्धिद्रव्यम् । तत्पर्य्यायः ।
मृगनाभिः २ मृगमदः ३ । इत्यमरः । २ । ६ । १२९ ।
मृगः ४ मृगी ५ नाभिः ६ मदः ७ । इति भरतः ॥
वातामोदः ८ योजनगन्धिका ९ । इति रभसः ॥
मदनी १० गन्धकेलिका ११ वेधमुख्या १२ मा-
र्जारी १३ सुभगा १४ बहुगन्धदा १५ सहस्रवेधी
१६ श्यामा १७ कामान्धा १८ मृगाङ्गजा १९
कुरङ्गनाभिः २० ललिता २१ श्यामला २२ मोदिनी
२३ कस्तूरिका २४ कस्तुरिका २५ नाभि २६
लता २७ योजनगन्धा २८ मार्गः २९ गन्धबोधिका
३० कालाङ्गी ३१ धूपसञ्चारी ३२ मिश्रा ३३
गन्धपिशाचिका ३४ इति शब्दरत्नावली ॥ अस्या
गुणाः । सुरभित्वम् । तिक्तत्वम् । चक्षुर्हितत्वम् ।
मुखरोगकिलासकफदौर्गन्ध्यबन्धालक्ष्मीमलापह--
त्वञ्च । इति राजनिर्घण्टः ॥ रक्तपित्तच्छर्द्दिनाशि-
त्वम् । इति राजवल्लभः ॥ तद्भेदाः । खरिका १
तिलका २ कुलत्था ३ पिण्डा ४ नायिका ५ ।
अपि च ।
“कपिला पिङ्गला कृष्णा कस्तूरी त्रिविधा क्रमात् ।
नेपालेऽपि च काश्मीरे कामरूपेऽपि जायते ॥
कामरूपोद्भवा श्रेष्ठा नैपाली मध्यमा भवेत् ।
काश्मीरदेशसम्भूता कस्तूरी ह्यधमा स्मृता” ॥
इति राजनिर्घण्टः ॥ (अस्याः पर्य्यायो गुणा उत्प-
त्तिश्च यथा, -- भावप्रकाशस्य पूर्ब्बखण्डे १ भागे ।
“मृगनाभिर्मृगमदः कथितस्तु सहस्रभित् ।
कस्तूरिका च कस्तूरी वेधमुख्या च सा स्मृता ॥
काश्मरीकपिलच्छाया कस्तूरी त्रिविधा स्मृता ।
कामरूपोद्भवा श्रेष्ठा नैपाली मध्यमा भवेत् ॥
कामरूपोद्भवा कृष्णा नैपाली नीलवर्णयुक् ।
काश्मीरदेशसम्भूता कस्तूरीह्यधमा मता ॥
कस्तूरिका कटुस्तिक्ता क्षारोष्णा शुक्रला गुरुः ।
कफवातविषच्छर्दिशीतदौर्गन्ध्यशोषहृत्” ॥)

कस्तूरीमल्लिका, स्त्री, (कस्तूरीगन्धयुक्ता मल्लिका ।)

मृगमदवासा । इति राजनिर्घण्टः ॥

कस्मलं, क्ली, (कश गतिशातनयोः + कल + सुट् च ।

निपातनात् शस्य सः ।) कश्मलम् । मोहः । इत्य-
मरटीकायां रायमुकुटः ॥

कह्लारं, क्ली, (कस्य जलस्य हार इव के जले ह्लादते

वा इति । क + ह्लाद + पचाद्यच् पृषोदरादि-
त्वात् साधुः ।) श्वेतोत्पलम् । सुँदि इति भाषा ।
तत्पर्य्यायः । सौगन्धिकम् २ । इत्यमरः १ । १० ।
३६ ॥ (कत्तृणम् ३ । गन्धकञ्च ४ । इति भाव-
प्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥ यथा, भागवते
४ । ६ । १८ ।
“कुमुदोत्पलकह्लारशतपत्रवनर्द्धिभिः” ॥)
तत्पुष्पगुणाः । कषायत्वम् । मधुरत्वम् । शीतत्वम् ।
पित्तकफरक्तनाशित्वञ्च । इति राजवल्लभः ॥

कह्वः, पुं, (के जले ह्वयति शब्दायते स्पर्द्धते वा । क +

ह्वे + कः ।) वकपक्षी । इत्यमरः ॥ २ । ५ । २२ ॥

कांसीयं, क्ली, (कंसस्य विकारः इति च्छः ।) कांस्यम् ।

इति राजनिर्घण्टः ॥

कांस्यं, क्ली, (कंसाय पानपात्राय हितं कंसीयं तस्य

विकारः इति । “कंसीयपरिसव्ययोरिति” । ४ । ३ ।
१६८ यञ् छस्य लुक् च । यद्वा कंसमेव इति स्वार्थे
यञ् प्रत्ययः ।) ताम्ररङ्गमिश्रितधातुः । काँसा इति
भाषा । तत्पर्य्यायः । कंसम् २ कंसास्थि ३ ताम्रार्द्धम्
४ । इति त्रिकाण्डशेषः ॥ सौराष्ट्रकम् ५ घोषम् ६
कांसीयम् ७ वह्निलोहकम् ८ दीप्तिलोहम् ९
घोरघुष्यम् १० दीप्तिकांस्यम् ११ कास्यम् १२ ।
अस्य गुणाः तिक्तत्वम् । उष्णत्वम् । चक्षुर्हितका-
रित्वम् । वातकफविकारनाशित्वम् । रूक्षत्वम् ।
कषायत्वम् रुचिकारित्वम् । लघुत्वम् । दीपनत्वम् ।
पाचनत्वम् । पथ्यत्वञ्च । इति राजनिर्घण्टः ॥ अम्ल-
रसत्वम् । विशदत्वम् । लेखनत्वम् । सारकत्वम् ।
पित्तनाशित्वम् इति राजवल्लभः ॥ दृढदेहायुर्वृद्धि-
कारित्वम् । इति सुखबोधः ॥
(“उपधातुर्भवेत् कांस्यं द्वयोस्तरणिरङ्गयोः ।
कांस्यस्य तु गुणा ज्ञेयाः स्वयोनिसदृशा जनैः ।
संयोगजप्रभावेण तस्यान्येऽपि गुणाः स्मृताः ॥
कांस्यङ्कषायन्तिक्तोष्णं लेखनं विशदं सरम् ।
गुरुनेत्रहितं रूक्षं कफपित्तहरम्परम्” ॥
इति भांवप्रकाशस्य पूर्ब्बखण्डे १ भागे ॥)
तत्शोधनमारणमाह ।
“अनेनैव विधानेन कांस्यं विड्गन्धलेपितम् ।
मारयेद्बुद्धिमान् तैद्यो मृतं भवति चूर्णवत्” ॥
अन्यच्च ।
“द्विक्षारं पञ्चलवणं सप्तधाम्लेन भावयेत् ।
कांस्यारकुटपत्राणि तेन कल्केन लेपयेत् ।
बद्ध्वा गजपुटे पच्याच्छुद्धिमायाति नान्यथा” ॥
अन्यच्च ।
“ताम्रवच्छोधन कृत्वा ताम्रवन्मारयेद्बुधः” ॥
अन्यच्च ।
“कज्ज्वलीं तत्समां दत्त्वा मर्द्दयेन्निम्बुकद्रवैः ।
एवं पुटत्रयेणैव निरुत्थं भस्म जायते” ॥
इति सुखबोधः ॥

कांस्यकारः, पुं, (कांस्यं तत्पात्रम् करोतीति । कांस्य

+ कृ + अण् ।) कंसकारः । इति जटाधरः । काँ-
सारि इति भाषा ॥

कांस्यनीलः, पुं, (कांसेन कृतः नीलः ।) अञ्जनभेदः ।

नीलतुत्थम् । तत्पर्य्यायः । मूषातुत्थम् २ हेम-
तारम् ३ वितुन्नकम् ४ इति हेमचन्द्रः ॥ (कांस्यो-
द्भवाञ्जनवन्नीलः इति विग्रहे वाच्यलिङ्गत्वम् । यथा,
गोः रामायणे ४ । ३९ । २३ ।
“कांस्यनीलो हरिर्नीलः कोटिभिर्दशभिर्वृतः” ॥
क्वचित् कांश्यनील इति पाठः ॥)

काकं, क्ली, सुरतवन्धः । (काकस्य समूहः इति

सङ्घार्थे अण् ।) काकसमूहः । इति मेदीनी ॥
(ईषत्कं जलम् कोः कादेशः । ईषज्जलम् । इति
व्याकरणम् ॥)

काकः, पुं, (कायते शब्दायते । कै शब्दे “इण्भीका-

पाशल्यतिमर्च्चिभ्यः कन्” । उणां ३ । ४३ । इति
कन् ।) स्वनामख्यातपक्षिविशेषः । काग् इति
भाषा । तत्पर्य्यायः । करटः २ अरिष्टः ३ बलि-
पुष्टः ४ सकृत्प्रजः ५ ध्माङ्क्षः ६ आत्मघोषः ७
परभृत् ८ बलिमुक् ९ वायसः १० । इत्यमरः
। २ । ५ । २० ॥ वातजवः ११ बलः १२ दीर्घायुः १३
सूचकः १४ कृष्णः १५ ग्रामीणः १६ पिशुनः १७
कटखादकः १८ द्विकः १९ कागः २० । इति
पृष्ठ २/०७२
:जटाधरः ॥ काणः २१ धूलिजङ्घः २२ निमित्त-
कृत् २३ कौशिकारिः २४ चिरायुः २५ मुखरः
२६ खरः २७ महालोलः २८ चिरञ्जीवी २९
चलाचलः ३० करटकः ३१ नागवीरकः ३२ गाढ-
मैथुनः ३३ लुण्टाकः ३४ श्रावकः ३५ रत-
ज्वरः ३६ । इति शब्दरत्नावली ॥ * ॥ अस्य
शाकुनं काकचरित्रम् । तद्यथा ।
“अथोच्यते काकरुतं रुतानां
मूर्द्ध्नि स्थितं शाकुनभाषितानाम् ।
अचिन्तितावेदितकार्य्यसिद्धिं
पूर्ब्बादिकाष्ठाप्रहरक्रमेण ॥
ये ब्राह्मणक्षत्रियवैश्यशूद्राः
काका भवन्त्यन्त्यजपञ्चमास्ते ।
वर्णाकृतिभ्यां ऋषिभाषिताभ्यां
सदाभियुक्तैरुपलक्षणीयाः ॥
वृहत्प्रमाणो गुरुदीर्घतुण्डो
दृढस्वरः कृष्णवपुः स विप्रः ।
पिङ्गाक्षनीलाक्षविमिश्रवर्णः
स्यात् क्षत्त्रियस्तीक्ष्णरवोऽतिशूरः ॥
यः पाण्डुनीलः सितनीलचञ्चु-
र्नात्यर्थरूढो रटितश्च तैश्यः ।
भस्मच्छविर्भूरिककारशब्दः
शूद्रः कृशाङ्गश्चपलो निरूक्षः ॥
विरूक्षसूक्ष्मास्यतनुर्व्विशङ्को
यः कन्धरादीप्तनवं बिभर्त्ति ।
स्थिरारवः स्थैर्य्यसमेतबुद्धिः
काकोऽन्त्यजातिः खलु पञ्चमोऽत्र ॥
द्रोणाभिधः कृष्णवपुर्द्विजो यो
ग्राह्यः स काकः खलु मुख्यवृत्त्या ।
तस्मादृते श्यामगलो निरीक्ष्यः
श्वेतश्च निन्द्योऽद्भुतदर्शनोऽसौ ॥
विप्रः स्फूटे जल्पति पृच्छ्यमाने
न्यूनं ततः क्षत्त्रियजातिराहुः ।
आख्यातिवैश्यस्त्वधिवासनेन
ब्रवीति शूद्रो बलिदानलोभात् ॥
प्रश्नं कृतं जल्पति कृष्णवर्णः
सदा समस्तं विहगोऽन्त्यजातिः ।
सद्यस्त्रिसप्ताहदशाहपक्षैः
पञ्चापि काकाः फलदाः क्रमेण ॥
शान्ते प्रदीप्ते च रटन् विहङ्गः
शुभप्रदो दीप्तपराङ्मुखः सन् ।
न क्वापि रौद्रो रटितः प्रशस्तः
सव्वत्र शस्तो मधुरश्च रक्तः ॥
दीप्तस्थितो यः परुषस्वरेण
विरौति दीप्ताभिमुखः स कार्य्यम् ।
निष्पाद्य निर्नाशयते च सम्य-
ग्दीप्तोन्मखः शान्तरवो हि सिद्ध्यै ॥
शान्तप्रदीप्ताभिमुखो विधाय
शब्दं प्रविश्याथ पुनः प्रदीप्तम् ।
यो रौति काको मधुरस्वरेण
हृत्वा विरुद्धं स ददाति सिद्धिम् ॥
विधाय दीप्ताभिमुखो विरावं
ततः प्रशान्ताभिमुखो विरौति ।
यो वायसोऽसौ विनिहन्त्यसम्यक्
कार्य्याणि सर्व्वाणि पुनः करोति ॥
सूर्य्योदये पूर्ब्बदिशि प्रशस्त-
स्थाने स्थितो योऽभिमुखं विरौति ।
नाशं रिपोश्चिन्तितकार्य्यसिद्धिं
स्त्रीरत्नलाभं स करोति काकः ॥
ध्माङ्क्षः प्रभाते यदि वह्निभागे
विरौति तिष्ठन् रमणीयदेशे ।
शत्रून् प्रणश्यत्यचिराद्विशङ्कः
प्रयाति योषित्समवाप्यते तत् ॥
रुवन् प्रभाते दिशि दक्षिणस्यां
काकः समावेदयतेऽतिदुःखम् ।
रोगार्त्तिमृत्युं परुषखरेण
रम्येण चेष्टागमयोषिदाप्तिम् ॥
नैरृत्यभागे यदि च प्रभाते
करोति काकः सहसा विरावम् ।
क्रूरं ततः कर्म्म समभ्युपैति
दूतागमो मध्यमिका च सिद्धिः ॥
प्रातः प्रतीच्यां यदि रौति काको
ध्रुवं तदा वर्षति वारिवाहः ।
स्त्रीवस्त्रभूभृत्पुरुषागमश्च
कलिः कलत्रेण समं तदा स्यात् ॥
ध्माङ्क्षस्य शब्दे पवनालयस्थे
वस्त्रान्नयानाभिमतागमाः स्युः ।
पान्थागमः प्राक्तनवृत्तिनाशः
स्यादन्यदेशे गमनं स्वदेशात् ॥
दिश्युत्तरस्यां सुरवः प्रभाते
निरीक्षमाणो बलिभुग् नराणाम् ।
ददाति दुःखं भुजगाच्च भीतिं
दरिद्रतां नष्टधनेष्टलाभम् ॥
दिशीशवत्यां यदि रौति काक
आगच्छतस्तद्वनितान्त्यजाती ।
व्याधेर्निमित्तं प्रियवस्त्रलाभो
भतेत्तदा रोगबलेऽवसानम् ॥
ब्रह्मप्रदेशे स्थितवायसस्य
प्रभातकाले मधुरस्वरेण ।
अभीप्सितार्थागमनं ध्रुवं स्यात्
स्वामिप्रसादो द्रविणस्य लाभः” ॥
ति वसन्तराजे दिक्प्रहरे सूर्य्योदयः ॥ * ॥
“पूर्ब्बत्र यामे प्रथमे सशब्दः
काको भवेच्चिन्तितकार्य्यसिद्ध्यै ।
अभीष्टलोकागमनं तथास्या-
न्नष्टार्थलाभो नियतं नराणाम् ॥
आग्नेयभागे यदि चाद्ययामे
स्त्रीलाभविद्वेषिवधौ भवेताम् ।
कृतान्तभागे बलिभुग् विरावः
स्त्रीलाभसौ ख्यप्रियसङ्गकारी ॥
नैरृत्यकोणे प्रिययोषिदाप्ति-
र्म्मिष्टाशनं सिध्यति चिन्तितोऽर्थः ।
दिशि प्रतीच्यां विरुते भवेता-
मभ्यर्थनीयागमनाम्बुष्टष्टी ॥
वायव्यकोणे करटः शुभः स्यात्
नृपप्रसादोऽध्वगदर्शनं च ।
सौम्येच भीस्तस्करशोकवार्त्ता
सौम्या च वार्त्ता धनलाभवार्त्ता ॥
ईशानदेशेऽभिमतेन शंस-
स्त्रासो हुताशाद् बहुलोकसङ्गः ।
ब्रह्मप्रदेशे सुखकामभोगः
सम्मानसम्पद्द्रविणाष्टसिद्धिः” ॥
इति प्रथम प्रहरः ॥ * ॥
“प्राच्यां द्वितीये प्रहरे विरावैः
काकस्य कश्चित् पथिकोऽभ्युपैति ।
चैराद्भयं व्याकुलता च बह्वी
जायेत काचिन्महती च शङ्का ॥
हुताशदेशे नियतं कलिः स्यात्
प्रियागमाकर्णनयोषिदाप्तिः ।
याम्ये तु वृष्टिर्महती च भीतिः
प्रियस्य चेष्टस्य समागमः स्यात् ॥
रक्षोदिशि प्राणभयं तदा स्युः
स्त्रीभोज्यलाभाखिलरुक्प्रणाशाः ।
भवेत् प्रतीच्यां प्रबलाबलाप्ति-
र्योषागमो वृद्धि कुवर्षणञ्च ॥
समीरभागे ध्वजचौरसङ्गो
दूतागमस्त्रीपिशितान्नलाभः ।
सौम्ये गणेष्टागमनं जयञ्च
रम्ये रवे चैरभयं त्वरण्ये ॥
महेश्वराशाविरुतश्चकाक-
श्चौराग्निसन्त्रासविरुद्धवार्त्ताः ।
ब्रवीति रूक्षैरटनैररूक्षैः
सदार्य्यगुर्व्वागमनं जयञ्च ॥
ब्रह्मप्रदेशे प्रहरे द्वितीये
काकः सुशब्दो नृपतिप्रसादम् ।
मिष्टान्नभोज्यञ्च ददाति पुंसां
करोत्यसौ चौरभयं कुशब्दः” ॥
इति द्वितीयप्रहरः ॥ * ॥
“ऐन्द्र्यां विरूक्षः प्रहरे तृतीये
वृद्धिं तथा चौरभयं ब्रवीति ।
कृष्णस्तु राजागमनं जयञ्च
करोति यात्रां शुभकार्य्यसिद्धिम् ॥
अग्नेर्विभागेऽग्निभयं कलिश्च
विरुद्धवार्त्ता विफला च यात्रा ।
भवेद्विरुद्धैर्ब्बलिभुखिरावै-
र्जयादिवार्त्ता च भवेद्विशुद्धिः ॥
काकुभ्यवाच्यां कुरुतेऽतितूर्णं
रोगं तथाप्तागमनं विहङ्गः ।
क्षुद्राणि कार्य्याणि च यान्ति सिद्धिं
सर्व्वाणि तन्मुख्यतया नराणाम् ॥
क्रव्याददेशे जलदागमः स्या-
न्मिष्टान्नलाभो रिपवो न सन्ति ।
शूद्रागमः स्वामिविरुद्धवार्त्ता
भवन्ति यात्रासु च कार्य्यनाशः ॥
स्यात् पश्चिमे नष्टधनस्य लाभो
दूराध्वयानं सुहृदागमश्च ।
पृष्ठ २/०७३
:योषागमोऽभीष्टजयादिवार्त्ता
यात्रासु रम्ये रटितेऽर्थसिद्धिः ॥
वातालये दुर्दिनमेव वार्त्ता
चौराभिनष्टार्थसमागमश्च ।
सन्तोषवार्त्ता वरयोषिदाप्ति-
र्यात्रा रवे स्यान्मधुरे प्रशस्ता ॥
यामे तृतीये विरुवन्त्युदीच्यां
कार्य्यार्थलाभो नृपसेवकानाम् ।
भोज्यप्रवृद्ध्यै शुभदा च वार्त्ता
प्रयाणकं वैश्यसमागमश्च ॥
दिश्यन्धकारेः कुरुते सुशब्दं
भोज्यं जयं हानिकली कुशब्दम् ।
ब्रह्मप्रदेशे तिलतण्डुलाभ्यां
भोज्यं च ताम्बूलयुतं ददाति” ॥
इति तृतीयप्रहरः ॥ * ॥
ऐन्द्र्यां तुरीयप्रहरेऽर्थलाभो
भूमीशपूजाभयवृद्धिरोगाः ।
वह्नेर्व्विभागे भयरोगमृत्युः
शिष्टागमो वायसरासितेन ॥
याम्ये रवे तस्करवैरिभीती
स्यातां विशिष्टागमरोगमृत्युः ।
स्यात् यातुधान्यां महती प्रवृद्धि-
रभीष्टसिद्धिः पथि चैरयुद्धम् ॥
दिशि प्रतीच्यां प्रहरे चतुर्थे
द्विजातिरभ्येति ततोऽर्थलाभः ।
आयाति योषिद्विजयाम्बुवृष्टिः
सिद्धिः प्रयाणे नृपतेर्व्वरश्च ॥
वायव्यभागे करटस्य शब्दै-
रायाति योषित् प्रियमानिनी या ।
ध्रुवं प्रवासो दिनसप्तकेन
शीघ्रागमः स्यात् गमने कृते च ॥
कुवेरभागे पथिकोऽभ्युपैति
ताम्बूललाभः कुशलस्य वार्त्ता ।
वैश्याद्धनाप्तिस्तुरगादिरूढा
यात्राविरुद्धे म्रियते च रोगी ॥
स्थाणौ स्थितश्चेद् बलिभुग् विरौति
सुवर्णवार्त्ता सरुजो विनाशः ।
ब्रह्मप्रदेशे प्रहरे चतुर्थे
वार्त्ता भवेन्मध्यमिका च सिद्धिः” ॥
इति चतुर्थप्रहरः ॥ * ॥
“यद्भाषितं शाकुनिकैर्व्विमिश्रं
शुभाशुभं दिक्प्रहरक्रमेण ।
तत्राशुभं यच्छति दीप्तशब्दः
श्रेयस्करः शान्तरवश्च काकः ॥
रम्यं रवं दीप्तदिशि प्रसर्पन्
शान्तां दिशं भूरि फलं ददाति ।
तदैव तुच्छं वितरत्यसौ वै
दीप्तस्थितः पश्यति दीप्तकाष्ठाम् ॥
यथोपदिष्टं फलमत्र दुष्टं
तथैव तद्दीप्तदिशि स्थितः सन् ।
ध्वाङ्क्षोऽधिरूढो विरुवन् करोति
निरीक्षमाणः ककुभं प्रदीप्ताम् ॥
काकः प्रशान्ताभिमुखोऽतितुच्छं
दीप्ताश्रितो दुष्टफलं ददाति ।
शाखाश्रितः शान्तदिगोक्षणेन
रूक्षारवोऽल्पं कथयत्यनिष्टम् ॥
शान्तस्वरः शान्तककुप्प्रदेशे
तिष्ठन् प्रदोप्तां ककुभञ्च पश्यन् ।
ददात्यभीष्टं फलमेवमल्पं
दीप्तां स पश्यंस्तु तदेव तूर्णम् ॥
आकारचेष्टारवभागविज्ञा-
श्चत्वारि काष्ठादिनयोः क्रमेण ।
सदाभियुक्ताश्च निरूपयन्ति
यस्माच्च ते काकरुतं मनुष्याः” ॥
इति काकरुते दिक्चक्रप्रकरणम् ॥ * ॥
“वर्षाकालमधिकृत्य किञ्चन
प्रोच्यते बलिभुजो यथाक्रमात् ।
आलपाण्डकविचारसुन्दरं
शाकुनं सकलशाकुनोत्तमम् ॥
वैशाखमासे निरुपद्रवेषु
द्रुमेषु काकस्य शुभाय नीडम् ।
निन्द्येषु शुष्केषु सकण्टकेषु
द्रुमेषु दुर्भिक्षप्रयायहेतुः ॥
प्रशस्तवृक्षे यदि पूर्ब्बशाखा-
माश्रित्य काकेन कृतं कुलायम् ।
तद्वृष्टिरिष्टाशकुनप्रमोदो
नीरोगता स्याद्विजयश्च राज्ञः ॥
आग्नेयशाखारचिते च नीडे
स्याद्वृष्टिरिष्टास्ति भयं कलिश्च ।
दुर्भिक्षशत्रूद्भवदेशभङ्गो
भवन्ति रोगाश्च चतुष्पदानाम् ॥
याम्यासु शाखासु च वायसेन
नीडे कृतेऽल्पं जलपातमाहुः ।
व्याधिप्रकोपं मरणं समन्ता-
दन्नक्षयं शत्रुविरोधिताञ्च ॥
नैरृत्यशाखारचिते च नीडे
यस्माच्छनैर्वर्षति वर्षकाले ।
पीडा नृणां विध्वरचौरभीति-
दुर्भिक्षयुद्धानि भवन्त्यवश्यम् ॥
नीडे कृते पश्चिमवृक्षशाखा-
माश्रित्य काकैः कथिता च वृष्टिः ।
नीरोगताक्षेमसुभिक्षवृद्धि-
सम्पत्प्रमोदाश्च भवन्ति लोके ॥
वायव्यशाखासु कृते च नीडे
प्रभूतवाताल्पजलाश्च मेघाः ।
स्युर्मूषिकोपद्रवशस्यनाश-
पक्षद्वयोद्वेगमहाविरोधाः ॥
कौवेरशाखामधिकृत्य नीडे
कृते भवेत् प्रावृषि वृष्टिरिष्टा ।
भवन्ति च क्षेमसुभिक्षसौख्य-
नीरोगतावृद्धिसमृद्धयोऽस्मिन् ॥
ईशानशाखासु च वृष्टिरल्पा
वैरं प्रजानामुपसर्गदोषः ।
स्याद्बान्धवानां कलहप्रवृत्ति-
र्म्मर्य्यादया हीयत एष लोकः ॥
वृक्षाग्रनीडे त्वतिवर्षकाले
मध्ये पुनर्मध्यमतोयपातः ।
तुच्छापि वृष्टिर्न प्रवत्यधस्तात्
स्फुटं दिशोक्तं न दिशः स्फुटत्वम् ॥
अवृष्टिरोगादिभयादिवृद्धिं
विद्याच्च भूमौ बलिमुक्कुलाये ।
शुष्के च वृक्षे डमरान्ननाशौ
प्राकार रन्ध्रेषु भयं प्रभूतम् ॥
निम्नप्रदेशे तरुकोटरे वा
वल्मीकरन्ध्रे व्रततिष्वपीह ।
काकस्य नीडे रुगवृष्टिदोषै-
र्भवन्ति शून्या नियमेन देशाः” ॥
इति वसन्तराजे काकरुतप्रकरणम् ॥ * ॥
अथकाकाण्डविचारः ।
“एकं भवेद्वारुणमग्निसंज्ञं
द्वितीयकं मारुतकं तृतीयम् ।
ऐन्द्रं तथा नाम चतुर्थमेव-
मण्डानि काक्याः परिकीर्त्तितानि ॥
काक्या भवेद्वारुणमण्डकं चेत्
पृथ्वी तदा नन्दति सर्व्वशस्यैः ।
मन्दप्रवर्षोऽनलसंज्ञकेऽण्डे
नोप्तस्य वीजस्य भवेत् प्ररोहः ॥
जातानि शस्यानि समीरणेऽण्डे
खादन्ति कीटाः शलभाः शुकाद्याः ।
क्षेमं सुभिक्षं सुखिता धरित्री
स्यादैन्द्रजेऽण्डेऽभिमता च सिद्धिः” ॥
इत्यण्डप्रकरणम् ॥ * ॥
“यात्रा निमित्तानि च कीर्त्तयामः
सकृत्प्रजानां शकुनानि तानि ।
विज्ञाय यानि प्रजहात्यनर्था-
नर्थांश्च सर्व्वान् कुरुतेऽध्वनीनः ॥
भुङ्क्षे बलिं पक्षिषु मन्त्रपूतं
त्वं प्राणिषु प्राणिषि वर्षलक्षम् ।
गुप्तेन च स्त्रीं भजसे नमोऽस्तु
तुभ्यं खगेन्द्राय सकृत्प्रजाय ॥
विलोक्य काकं विनिवेद्य तस्मै
मन्त्रेण पूजां दधिभक्तयुक्ताम् ।
उदीर्य्य कार्य्यं निजमध्वगेन
विलोकनीयं शकुनं तदर्थम् ॥
वामेन शब्दं मधुरं विमुञ्चन्
व्रजंस्त्ववामेन करोति काकः ।
सर्व्वार्थसिद्धिं पुनरागमञ्च
शुभप्रदेशे तु तदन्यरूपः ॥
प्रदक्षिणं संप्रविधाय माग
वामेन काको विनिवर्त्ततेऽसौ ।
यातुः करोतीहितकार्य्यसिद्धिं
क्षेमञ्च शीघ्रं पुनरागमञ्च ॥
वामे कलं रौत्यनुलोमयायी
यो वायसोऽसौ सकलार्थसिद्ध्यै
स्यातां क्रमाद्दक्षिणवामशब्दौ
सिद्ध्यै विरुद्धौ विपरीतभूतौ ॥
पृष्ठ २/०७४
:पृष्ठे विरावं मधुरं विमुञ्च-
न्ननुव्रजंश्चापि मतो हिताय ।
प्रायेण यातारमनुव्रजन्तः
सर्व्वेऽपि काकैः कथिता विहङ्गाः ॥
कृत्वा रवं यः पुरतः प्रयाति
उपस्थितो यो मुदमादधाति ।
कण्डूयते यः स्वशिरोऽङ्घ्रिणासौ
पुंसां तदाभीष्टफलं ददाति ॥
स्तम्भे गजानां नियतं गजाप्तिं
गजेऽधिरूढः पृथिवीपतित्वम् ।
तुरङ्गमे वाहनभूमिलाभं
करोति काको विजयं ध्वजेन ॥
प्रणष्टलाभं विजयं च कूपे
क्षिप्रं नदीरोधसि कार्य्यसिद्धिम् ।
पूर्णे घटेन्द्रे च धनाप्तिवृद्धिं
ध्वाङ्क्षोऽधिरूढः कुरुते सशब्दः ॥
प्रासादधान्योच्छ्रयहर्म्म्यपृष्ठ-
निष्पन्नशस्यावनिशाद्वलादौ ।
ध्वाङ्क्षोऽधिरूढो धनसाधनाय
रौति श्रियं यच्छति युग्मरावः ॥
पृष्ठे पुरो वा यदि गोमयस्थो
तथा वटाद्येषु तरुष्वपीह ।
स्थितो रुवन् भोजनपानमिष्टं
विष्ठां च कुर्व्वन् वितरत्यवश्यम् ॥
अन्नाद्यविष्ठाफलमूलपुष्प-
मत्स्यादिभिः पूर्णमुखः सदैव ।
संदृष्टमात्रोऽभिमतार्थसिद्ध्यै
मिष्टान्नभोज्याय सदैव काकः ॥
नारीशिरःपूर्णघटस्थितस्य
काकस्य शब्दैर्व्वनिताधनाप्तिः ॥
शय्याधिरूढस्य च तस्य शब्दैः
समागमः स्यात् सुजनेन सार्द्धम् ॥
गोपृष्ठदूर्व्वातरुगोमयेषु
तुण्डानि घर्षन्नवलोकिताग्रे ।
आहारमन्यस्य तथा ददानो
ददाति भोज्यं बलिभुग्विचित्रम् ॥
धान्यं यवं वा दधि वापि चाज्यं
विरौति पश्यन्निधिलामकारी ।
करोति लाभं पुरतः स दृष्टो
यस्यास्ति वक्त्रे तृणमप्यशुष्कम् ॥
वृक्षेषु रम्याङ्कुरपत्रपुष्प-
च्छायाफलाढ्येषु सकृत्प्रजस्य ।
शब्देन सिध्यन्त्यसकृन्नराणां
सदैव सर्व्वाणि समीहितानि ॥
प्रशान्तनादः शिखरे तरूणां
स्त्रीसङ्गसौख्यं करटोऽभिधत्ते ।
धान्यादिकूटेषु तथान्नलाभो
गोपृष्ठगो गोवनिताधनाप्तिम् ॥
क्षेमं विधत्ते करभस्य पृष्ठे
खरस्य पृष्ठेऽरिभयं वधञ्च ।
क्रोडस्य पृष्ठे वधमर्थलाभं
तस्यैव पृष्ठे घनलग्नपङ्के ॥
सद्यो ज्वरं सैरिभपृष्ठसंस्थो
मृताङ्गसंस्थो मरणं करोति ।
कार्य्यक्षतिं रिक्तघटस्य संस्थः
काकः कलिं काष्ठमधिष्ठितश्च ॥
यो दक्षिणं कूजति दक्षिणेन
प्रयाति यश्चाभिमुखोऽभ्युपैति ।
यो याति पृष्ठे प्रतिलोमगत्या
कृतारवः पातयते स रक्तम् ॥
वामे रवो दक्षिणतस्ततो यः
सोऽनर्थहेतुर्ब्बलिभोजनस्य ।
वामप्रदेशे प्रतिलोमयानं
विघ्नाय लाभो गृह एव तेन ॥
प्रयाति पृष्ठे यदि दक्षिणेन
कृतारवस्तद्रुधिरं पुरः स्यात् ।
वल्लीवरत्रादि च यो गृहीत्वा
प्रदक्षिणं याति स सर्पभीत्यै ॥
गोपुच्छवल्मीककृतास्पदश्च
रुवन् भवेत् सर्पविलोकनाय ।
स्यान्मृत्यवेऽङ्गारचितास्थिसंस्थः
काकः प्रकुर्व्वन् करचर्व्वणं च ॥
रुवन् पुरो हानिरुजौ करोति
मृत्युं पुनर्निष्ठुरपृष्ठशब्दः ।
प्रसार्य्य रिक्तं वदनं य आस्ते
सर्व्वत्र निन्द्यो बलिभोजनोऽसौ ॥
वामोऽप्यसृग्यातभयं मृतिं वा
संताडयित्वा रसचर्म्मखण्डम् ।
चञ्च्चास्थिभङ्गं ध्रुवमस्थिभङ्ग-
बन्धे वधं जल्पति युध्यमानः ॥
वामोऽपि रोगं कुरुते विशुष्के
तिक्तेऽपि वृक्षे कलिकार्य्यनाशौ ।
पक्षौ विधुन्वन् विरुवंश्च रूक्षं
सकण्टके मृत्युमुपाददाति ॥
वधो भवेद्भूरुहभग्नशाखे
बन्धो लताभिः परिवेष्टिते स्यात् ।
रम्ये तरौ कण्टकयुक्तवृक्षे
सदा भवेतां कलिकार्य्यसिद्धी ॥
छन्नाधिरूढो न रवेण यायात्
प्रयाति चेत् स्यात् खलु रक्तपातः ।
अवस्करं भूस्तृणकाष्ठकूप-
भस्मादिसंस्थो विनिहन्ति कार्य्यम् ॥
वल्लीवरत्राकचशुष्ककाष्ठ-
चर्म्मास्थिजीर्णाम्बरबल्कलानि ।
अङ्गाररक्तोत्पलकर्पराणि
दृष्टानि चेत् काकमुखे तदानीम् ॥
पुण्यक्षयः पापसमागमश्च
महद्भयं रोगसमुद्भवश्च ।
बन्धो वधः सर्व्वधनापहार
इत्यादिकं स्यात् पथि मन्दिरे च ॥
ऊर्द्ध्वाननश्चञ्चलपक्षयुग्मः
काकः कुनादो विदधाति मृत्युम् ।
छायायुधच्छत्रघटास्थियान-
वादित्रकाष्ठादिककुट्टकानि ॥
सङ्कोचितैकाङ्ख्रिरुपेतवित्तो
दीप्तस्वरो भास्करमीक्षते च ।
काष्ठादिकं कुट्टयतेऽथवा यो
युद्धाधिकानर्थकरः खगोऽसौ ॥
तुण्डेन पिच्छं विलिखन् रवेण
यो रौति तूर्णञ्च निरीक्षते कम् ।
एकेन पादेन तथोपविष्टो
ब्रूते स बन्धं पुरतो जनस्य ॥
विङ्गोमयौ न्यस्यति यस्य मूर्द्ध्नि
तस्यानलत्रासरुजौ भवेताम् ।
यस्यास्थिखण्डं विसृजत्यसौ तु
प्रयाति तूर्णं नगरीं यमस्य ॥
ब्रह्मप्रदेशे विरुवन् यियासोः
कलत्रदोषं जनयत्यवश्यम् ।
मनुष्यमातङ्गतुरङ्गमाणां
शिरोऽधिरूढो निधनाय तेषाम् ॥
नदीतटे वाथ रटन्नटव्यां
खरस्वरो व्याघ्रमयाय गन्तुः ।
नैवातुरः क्वापिं मतो हिताय
न दुष्टचेष्टो वितनोति शान्तिम् ॥
यात्रोद्यमे सैन्यवधाय काको
दृष्टो रथे साश्वनृमस्तकेषु ।
आयाति यस्याभिमुखो बलस्य
युद्धोद्यमे तस्य पराजयः स्यात् ॥
सगृध्रकङ्कैः कटके नृपस्य
काकैः प्रविष्टैः पिशितं विनापि ।
संयुध्यमानैररिभिः समं स्या-
न्महाहवः सन्धिरयुध्यमानैः ॥
चिह्नध्वजच्छन्नकृताधिरोहः
समुद्यतं शत्रुबलं प्रपश्यन् ।
आजौ जयं जल्पंति भूमिपानां
कृतध्वनिः क्षीरतरौ च काकः ॥
गतिस्वरौ वायससंप्रयुक्तौ
प्राच्यां फलायोदितवैपरीत्यात् ।
एवं जनोऽप्याचरति प्रभूतौ
यथोदितं तत्र तथागमार्थम् ॥
दिग्यामचक्रेऽपि शुभाशुभानि
फलानि यानि प्रतिपादितानि ।
प्रतिष्ठमानस्य भवन्ति यानि
तथाविधानीति वदन्ति तज्ज्ञाः” ॥
इति काकरुते यात्राप्रकरणम् ॥ * ॥
“स्थानस्थितानां कथयन्ति काका-
श्चेष्टाविशेषेण शुभाशुभानि ।
प्रबोधिताः प्राक्तनकर्म्मभिर्ये
तल्लक्षणाय क्रियते प्रयत्नः ॥
निष्कारणं संवलिता रुवन्तो
ग्रामेऽन्ननाशाय भवन्ति काकाः ।
रोधञ्च चक्राकृतयो वदन्ति
सव्यापसव्यभ्रमणाद्भयञ्च ॥
विघातमाहुर्ब्बहुवर्गसंस्था
रात्रौ रुवन्तो जनताविनाशम् ।
लोकञ्च चञ्चूचरणप्रहारै-
पृष्ठ २/०७५
:रुद्वेजयन्तः परचक्रवृद्धिम् ॥
यः स्नाति धूल्यान्तु विलोक्य रौति
वृष्टिं समाशंसति वायसोऽसौ ।
जलस्थलप्राणिविपर्य्ययेण
वर्षासु वृष्टिं भयमन्यदा तु ॥
मध्यं दिने वेश्मनि यस्य काको
विरौति रौद्रं विधुनोति वाङ्गे ।
हरन्ति चौरा द्रविणानि तस्य
ध्रुवं तथान्यो भवति प्रमादः ॥
रुवन्नदृष्टस्तृणपूर्णवक्त्रो
हुताशभीतिं करटः करोति ।
स्यात् प्रस्थितस्याप्यथवा स्थितस्य
दुःखं प्रभूतं दिवसत्रयेण ॥
छायासु लाभं भुवि भूमिलाभं
विघ्नं जले ग्रावणि कार्य्यनाशम् ।
करोति काको विरुवन्नरस्य
प्रास्थायिनः स्थानगतस्य वापि ॥
द्वारप्रदेशेरुधिरानुलिप्तो
विरौति काकः शिशुनाशनाय ।
पक्षौ विधुन्वन् विरुवंश्च रूक्षं
शान्ते च दीप्ते भवने न शस्तः ॥
भूयस्तथोर्द्ध्वे प्रविधाय पक्षौ
काकः कुनादं प्रलयं करोति ।
क्रुद्धोऽधिरूढः करटान्तरञ्च
रोगेण मृत्युं कुरुते नराणाम् ॥
द्रव्ये हते वापहृते खगेन
विनाशलाभावपि तादृशस्य ।
रुक्मस्य पीते रजतस्य शुक्ले
चौलस्य कार्पासमये भवेताम् ॥
प्रश्ने कृते रोगविनाशबुद्ध्या
हन्त्याशु रोगं सुरवः प्रदीप्ते ।
शान्ते प्रदेशे करटश्चिरेण
बल्यारवो रोगमपाकरोति ॥
प्रश्ने शुभे शान्तदिगाश्रयस्थः
शान्तस्वरो यः शुभमादधाति ।
यो बायसस्तं शुभदं बदन्ति
तद्व्यत्यये व्यत्ययहेतुरुक्तः ॥
विरौति कुम्भे मणिकेऽथवा यः
स गर्भवत्याः सुतजन्महेतुः
उड्डीयते कण्टकिनीञ्च शाखा
मादाय राजागमनाय काक ॥
अन्नादिविष्ठापिशितादिभिर्यः
पूर्णाननोऽभोष्टफलप्रदोऽसौ ।
मन्त्रादिसिद्धौ बणिजादिलाभे
शस्तो विवाहादिविधौ च काकः ॥
इष्टार्थदोऽश्वादिकवाहनस्थ-
श्छत्रादिसंस्थस्तदवाप्तकारी ।
बध्वागमं जल्पति तोरणस्थो
हृद्यार्थदो हृद्यतरुस्थितश्च ॥
वायसः कुलकुलध्वनिं यदा
व्याहरेद्भवनसंमुखं तदा ।
अभ्युपैति पथिकस्तदा ध्वनिं
सर्व्वकार्य्यशुभदं वदत्यसौ ॥
इदं त्विहोत्पातयुगं पृथिव्यां
महाभयं शाकुनिका वदन्ति ।
यद्वायसो मैथुनसन्निविष्टो
दृश्येत यद्वा धवलः कदाचित् ॥
उद्वेगविद्वेषभयप्रवास-
धनक्षयव्याधिभयप्रहाराः ।
बुद्धिप्रणाशाकुलताप्रवादा
नृणां भवन्त्यद्भुतदर्शनेन ॥
शमाय तत्सूचितदुःखराशेः
स्नानं वहिस्तत्क्षणमेव कुर्य्यात् ।
आत्मीयशक्त्या च सदक्षिणानि
द्विजाय दद्यात् वसनानि तानि ॥
नयेदहःशेषमपुण्यहान्या
शयीत भूमावकृतान्नभक्षः ।
हविष्यभोजी न भजेच्च नारीं
दिनानि सप्त त्रिगुणानि यावत् ॥
अकाकघातव्रतमादधीत
बलिं च दद्याद्बलिभोजनेभ्यः ।
स्नात्वा प्रभाते विदधीत शान्तिं
दद्यात् स्वशक्त्या द्रविणं गुणिभ्यः ॥
देशे तु यत्राद्भुतमेतदुग्र-
मालोक्यते तत्र समापतन्ति ।
अवृष्टिदुर्भिक्षभयोपसर्ग-
चौराग्निशत्रूद्भवधर्म्मनाशाः ॥
कर्म्माणि तस्योपशमाय राजा
प्रवर्त्तयेत् शान्तिकपौष्टिकानि ।
अन्नाद्यगोभूमिवसूनि दद्यात्
युद्धं विदध्यान्न च यावदब्दम्” ॥
इति काकरुते स्थानस्थितप्रकरणं पञ्चमम् ॥ * ॥
अथ स्वरविचारः ।
“ककामिति क्षेमविधो विरावः
केकामितीष्टाशनयानहेतुः ।
करोति कूं कूमिति चार्थलाभं
क्वं क्वं ध्वनिः काञ्चनलाभमाह ॥
कें केमिति स्त्रीवरयोषिदाप्त्यै
भोगाय कां कामिति शब्दितः स्यात् ।
अपत्यलाभः कु कु इत्यनेन
गन्तुः फलं केकव इत्यनेन ॥
क्रौ कोमितीदं शुभलाभकारि
कुं कुं निनादः प्रियसङ्गमाय ।
क्रां क्रूमिति क्रामिति च त्रयोऽमी
क्रां क्रामिति द्वौ च रवौ रणाय ॥
क्रां क्रामिति क्रौमिति च द्विरुक्तं
क्रूं क्रूमिति क्रौ कुकु कू इतीदम् ।
रुतं प्रदिष्टं मरणाय नॄणां
गन्तुः प्रणाशं कुतते खगाख्यः ॥
क्री क्रीमितीष्टार्थविनाशनाय
ज्वलज्वलेत्यग्निभयाय शब्दः ।
कीकीति कोकाविति यः कथञ्चिन्-
मुहुर्मुहुः स्यात् स मतो वधाय ॥
स्यात् का इतीदं विफलं सदैव
मित्राप्तये स्यात् क इतीदृशञ्च ।
काका इतीदं तु विघातकारि
करोति काको वदति स्वतुष्ट्यै ॥
आहारदोषाय च काकटीति
स्यादाकुलं कुक्कुनिभं रणाय ।
केकेध्वनिष्काकुटि किं टिकीति
त्रयं त्विदं स्यात् पुरदूषणाय ॥
यत् का इति त्रिस्तदनुस्वरेण
शब्दद्वयं स्यान्महते रणाय ।
कामित्ययं वाहननाशनञ्च
ददाति हर्षं कुकुकुंर्व्वितीदम् ॥
यत्का इतीदं विरुतं सुदीर्घ-
कृतस्वरेणोच्चरितं प्रमादात् ।
उत्साहहीनः श्रमदैन्ययुक्तः
स वायसः कार्य्यविनाशनाय ॥
सामिषं वकवकेति भोजये-
द्वारयेत् कलिकलीति रासनम् ।
अभ्युपैति स्वररूक्षभाषिते
प्रोषितः शवशवारवे शवः ॥
स्यात् कलिः कवकवध्वनौ नृणां
जायते कणकणाध्वनौ स्वरः ।
आव्रजेत् कुलुकुलुध्वनौ प्रियः
सौदनं कटकटध्वनौ दधि ॥
एवं प्रकारा बहवोऽपरेऽपि
प्रशान्तदीप्ताबलिभोजनानाम् ।
भवन्ति शब्दाः खलु तेषु केचि-
दस्माभिरुक्ताः खलु लक्षणीयाः” ॥
इति काकरुते स्वरप्रकरणं षष्ठम् ॥ * ॥
“हितं नरेभ्यो मुनिभिः पुराणै-
र्ज्ञानं यदुक्तं बलिपिण्डयुक्त्या ।
तदुच्यते संप्रति येन काका
वदन्ति नित्यं बलिलाभतुष्टाः ॥
अदक्षिणस्यां दिशि यत्र काकै-
र्य्युतो भवेत् क्षीरतरुः प्रभूतौ ।
गत्वा निवृत्तेऽहनि तत्र काका
निमन्त्रणीया बलिपिण्डभाज्ये ॥
प्रातस्ततः क्षीरतरोरधस्ता-
द्विशोध्य लिख्येत् सह गोमयेन ।
भूमिप्रदेशे चतुरस्रमस्य
मध्येऽर्च्चयेत् ब्रह्ममुरारिभानून् ॥
इन्द्राग्निवैवस्वतयातुधान-
जलेशवायुद्रविणेशशम्भून् ।
अभ्यर्च्चयेदष्टसु दिक्षु भक्त्या
क्रमेण चाष्टावपि लोकपालान् ॥
नमोयुतैः सप्रणवैश्च सर्व्वा-
न्निजाभिधानैः प्रयतो मनुष्यः ।
अर्घासनालेपनपुष्पधूप-
नैवेद्यदीपाक्षतदक्षिणाभिः ॥
आब्रह्मकाकांस्तरुसन्निविष्टा-
नाध्याय तत्प्राक्तनमन्त्रयुक्त्या ।
ततस्तदर्थं बलिमाज्यसिक्तं
मन्त्रेण दद्यात् दधिपिण्डयुक्तम्” ॥
पृष्ठ २/०७६
:मन्त्रः । इन्द्राय यमाय वरुणाय धनदाय भूतवाय-
साय बलिं गृह्णातु मे स्वाहा ॥
“उदीर्य्य कार्य्यं स्वमथावसृत्य
ततः प्रदेशे करटस्य चेष्टाः
स्पृष्टीकृताङ्गानि शुभाशुभार्थं
सलक्षयेन्निश्चलपाणिपादः ॥
पूर्ब्बेण खादन् सुखवित्तवृद्धिं
करोति वह्णेर्दिशि वह्णिभीतिम् ।
काकोऽर्थनाशं दिशि दक्षिणस्यां
नैरृत्यगो दिग्वरकृत्यदिष्टः ॥
जलेशदेशेऽभिमतार्थसिद्धि-
र्व्वायोर्दिशीति प्रभवाल्पवृष्टिः ।
सौम्ये सुखारोग्यसमीहितार्थ-
मीशानदेशे वितरत्यभीष्टम् ॥
बलौ विलुप्ते करटः समन्तात्
कार्य्ये विमिश्रं परिभावनीयम् ।
बलिं विकीर्य्यापि न भक्षयन्ति
काकास्तदानीं भयदा भवन्ति ॥
क्षीरद्रुमारामचतुष्पदेषु
सरित्समीपे त्रिदशालयेषु ।
देयो बलिर्भूतदिनाष्टमीषु
कुल्माषदध्योदनतण्डुलाद्यैः” ॥
इति काकरुते पिण्डप्रकरणं सप्तमम् ॥ * ॥
“पिण्डत्रयस्याथ विधानमेत-
दाख्यायते यत् किल नारदाद्यैः ।
दृष्टं मुनीन्द्रैरशुभं शुभञ्च
यथावदस्मिन् कथयन्ति काकाः ॥
गत्वा शुभेऽह्णि प्रहरे चतुर्थे
देशेषु पूर्ब्बप्रतिपादितेषु ।
नरेण पिण्डत्रयभोजनार्थं
काकाः प्रयत्नेन निमन्त्रणीयाः ॥
ततः प्रभाते ह्युपलिप्य भूमिं
तस्याञ्च पूर्ब्बोदितमन्त्रयुक्त्या ।
ब्रह्माच्युतेशाप्पतिलोकपालाः
काकाश्च पुंसां क्रमतोर्च्चनीयाः ॥
दध्योदनाद्यैर्व्विहितं प्रवेश्य
पिण्डत्रये मण्डलकस्य मध्ये ।
अभ्यर्च्चयेदक्षतपुष्पधूपै-
र्मनोहरैर्यत्नपरो मनुष्यः ॥
तेषु क्षिपेत् प्राग्दिगनुक्रमेण
पिण्डेषु हेमप्रथमे द्वितीये ।
रूप्यं तथा लौहलवं तृतीये
शेषञ्च कुर्य्याद्बलिपिण्डतुल्यम् ॥
त्रिःसप्तकृत्वो विनिवेश्य पिण्डे
पिण्डा निवेश्या बलिभोजनेभ्यः ।
मन्त्रोक्तमावाहनतोषितेभ्यः
कार्य्यं बिचार्य्यापसरेत्ततश्च” ॥
मन्त्रः ॐ हिवि टिमि विटि काकचाण्डालाय
स्वाहा । इति पिण्डाभिमन्त्रणार्थम् ॥ ॐ ब्रह्मणे
विश्वाय काकचण्डालाय स्वाहा । काकाह्वानमन्त्रः ॥
“काकेन मुक्ते ससुवणपिण्डे
ज्ञेयं नरेणोत्तममात्मकार्य्यम् ।
भुक्ते सरूप्ये खलु मध्यमं स्याद्-
भुक्ते सलौहे त्वधमं प्रदिष्टम् ॥
विवादबाणिज्यविवाहवृष्टि-
क्षेमाश्च वित्ताः कृषिभोगरोगाः ।
संग्रामसेवानृपकार्य्यदेशा
इत्यादयोऽस्मिन् परिभावनीयाः ॥
चेष्टामवामां विदधाति याति
प्रदक्षिणं दक्षिणपक्षमुच्चैः ।
ग्रीवां तथोच्चां कुरुते सशब्दः
स्थानं मनोज्ञं श्रयति द्रुमञ्च ॥
एवंविधां यो विदधाति चेष्टां
पिण्डं समादाय शुभं खगोऽसौ ।
अभीष्टकार्य्यादधिकं करोति
चेष्टाविपर्य्यासतयान्यथात्वम् ॥
पिण्डं समादाय यदि प्रधानं
शान्तं दिशं गच्छति काकपक्षी ।
पूर्णं फलं तत् कुरुते नराणां
चिकीर्षिते वस्तुनि यत्र तत्र ॥
काको गृहीत्वा यदि मुख्यपिण्डं
प्रयाति दीप्तां ककुभं तदानीम् ।
अत्युत्तमं कार्य्यफलं प्रदर्श्य
ततः सभस्तं विनिहन्त्यवश्यम् ॥
द्वितीयकं यद्यपहृत्य पिण्ड-
मुड्डीयते शान्तदिगाश्रयेण ।
फलं तदानीं शुभदं नराणाम्
याप्यं खगो जल्पति कार्य्यजातम् ॥
काके समादाय जघन्यपिण्डं
याते प्रदीप्तां ककुभं वदन्ति ।
कार्य्यं जघन्यादधिकं जघन्यं
स्यान्मध्यमं मध्यमपिण्डभागे” ॥
इति वसन्तराजे पिण्डत्रयप्रकरणमष्टमम् ॥ * ॥
“महर्षयो वायसशाकुनस्य
वदन्ति सारादपि सारभूतम् ।
पिण्डाष्टकं यत्तदशेषमेत-
दाख्यायते कार्य्यविनिश्चयार्थम् ॥
शुभेऽह्नि काकानधिवास्य सायं
पिण्डाष्टकं भोक्तुमथ प्रभाते ।
तत्कालयोग्यानि समस्तवस्तू-
न्यादाय यायाद्वहिरप्रमत्तः ॥
एकान्तदेशे तरुपार्श्वभूमौ
मृद्गोमयाभ्यामुपलेपितायाम् ।
सत्पञ्चगव्येन समुक्षितायां
सौम्योपहारैरुपशोभितायाम् ॥
विधाय पूजां कुलदेवतानां
मध्ये ततोऽष्टस्वपि दिक्षु देयम् ।
भक्तेन सर्पिर्दधिमिश्रितेन
पिण्डाष्टकं प्राग्दिगनुक्रमेण ॥
पक्षीन्द्रवह्न्यन्तकराक्षसेन्द्रान्
विष्णुं विरिञ्चिं धनदं महेशम् ।
पूर्ब्बादिकाष्ठाक्रमयोजितेषु
न्यसेत् क्रमादष्टसु पिण्डकेषु ॥
नमोयुतैस्तान् प्रणवश्च सर्व्वां-
स्ततोऽर्च्चयेत्तन्निजनाममन्त्रैः ।
अर्घ्यासनालेपनपुष्पधूपै-
र्नैवेद्यदीपाक्षतदक्षिणाभिः ॥
अभ्यर्च्चितेभ्यो विधिनोदितेन
पिण्डाष्टकं तत् ददतु द्विजेभ्यः ।
मन्त्रेण संमग्त्र्य निवेदनार्थं
कार्य्यं विचिन्त्यापसरेच्च किञ्चित्” ॥
अथ मन्त्रः । ॐ नमः खगपतये गरुड य
द्रोणाय पक्षिराजाय स्वाहा ॥
“द्रोणाढकसमं पिण्डं गृहाण त्वमशङ्कितः ।
यथादृष्टं निमित्तं च कथयस्वाधमे स्फुटम् ॥
काकेन पिण्डे प्रथमे गृहीते
तिष्ठन् व्रजन् वापि भवेत् कृतार्थः ।
उद्वेगशोकौ विफलः प्रयाणे
हानिः कलिर्व्वा भवति द्वितीये ॥
याम्ये रुगापद्भयमृत्यवः स्युः
पिण्डे चतुर्थे विजयो रणेषु ।
स्याद्वैष्णवेऽभीष्टमकष्टसाध्यं
भवेत् प्रवासो विफलश्च षष्ठे ॥
नास्तीह तन्निश्चयमेव कार्य्यं
भुक्ते न यत् सिध्यति सौम्यपिण्डे ।
सन्तापशोकौ विफला च यात्रा
पिण्डेऽष्टमे वायसभक्षिते च ॥
पिण्डं न गृह्णात्यथवा न भुङ्क्ते
चञ्चूनखैर्व्विक्षिपति द्विजो यः ।
कार्य्येषु सर्व्वेषु स न प्रशस्तो
ब्रवीति घोरं समरं स पुंसाम्” ॥
इति वसन्तराजे काकरुते पिण्डाष्टकप्रकरणं
नवमम् ॥ * ॥
“आद्यं पञ्चाशता द्वाभ्यां वृत्तैर्दिक्चक्रमीरितम् ।
काकालयपरीक्षा च द्वितीये दशभिस्त्रिभिः ॥
वृत्तैस्त्रिभिस्तृतीये च काकाण्डकनिरूपणम् ।
द्वाचत्वारिंशता वृत्तैर्यात्रा तुर्य्ये प्रकीर्त्तिताः ॥
वृत्तानि विंशतिस्त्रीणि स्थानं स्थाप्ये च पञ्चमः ।
स्वरप्रकरणं षष्ठं वृत्तैर्द्वादशभिस्ततः ॥
एकादशभिराख्यानं बलिंसंज्ञञ्च सप्तमम् ।
पिण्डत्रयविधानाय चतुर्द्दशभिरष्टमम् ॥
पिण्डाष्टकविधानाय नवमे यदुदाहृतम् ।
अन्त्यप्रकरणं तच्च वृत्तान्येकादशैव तु ॥
वसन्तराजशाकुने सदागमार्थशोभने ।
समस्तसत्वकौतुके विचारितोऽत्र वायसः” ॥ * ॥
समुदायेन १८१ वृत्तानि । इति वसन्तराजशाकु-
नान्तर्गतवायसशाकुननामकाकचरित्रं समाप्तम् ॥
काकमांसगुणाः । दोषक्षयापहत्वम् । चक्षुर्हितत्वम् ।
वृंहणत्वम् । बलायुर्हितकारित्वम् । लधुत्वम् ।
दीपणत्वञ्च । इति राजनिर्घण्टः ॥
(“काकः कोकिलशूकरास्त्वथ खरो-
ष्ट्राश्वादयो भल्लुका
व्यालाः सौरभयो वृकप्रभृतयो
ये चान्यजीवा नृणाम् ।
मण्डूकाश्च सरीसृपादिकगणा
यूका कलिङ्गाश्च ये
पृष्ठ २/०७७
:कोकः सारसशारिका शुक इमे
भक्ष्या न शस्तास्तथा ॥
गृहचटकचकोराः काकजात्याश्च श्येनाः
पिकशुकविषशृङ्गीभृङ्गदात्यूहकल्काः ।
जलकरटकपोता पोतकी खञ्जरीटाः
कलविकमशकाद्या यूकपिङ्गादयोऽन्ये ॥
एते भक्ष्या नैव भक्ष्या न चेष्टा
ये चाप्यन्येऽज्ञातनामाण्डजाश्च ।
अन्ये चापि श्वापदा ये च निन्द्या-
स्ते चाखाद्या वर्ज्जिताश्चात्र सर्व्वे” ॥
इति हारीते प्रथमस्थाने । ११ अः ॥
“काककङ्ककुररचाषभासशशघात्युलूकचिल्लिस्ये-
नगृध्रप्रभृतयः प्रसहाः ॥
“एते सिंहादिभिः सर्व्वे समाना वायसादयः ।
रसवीर्य्य विपाकेषु विशेषाच्छोषिणे हिताः” ॥
इति सुश्रुते सूत्रस्थाने । ४६ अः ॥) पीठसर्पी ।
खोँडा इति भाषा ॥ द्वीपविशेषः । परिमाणभेदः ।
वृक्षविशेषः । शिरोऽवक्षालनम् । इति हेमचन्द्र-
मेदिनीकरौ ॥ तिलकः । अतिधृष्टः । इति शब्द-
रत्नावली ॥

काककङ्गुः, स्त्री, (काकप्रियः कङ्गुः ।) चीनकः । इति

हेमचन्द्रः ॥

काककला, स्त्री, (काकस्य कला अङ्गं जङ्घावयवः

तद्वत् अङ्गं यस्याः ।) काकजङ्घावृक्षः । इति
जटाधरः ॥

काकघ्नी, स्त्री, (काकं हन्तीति । काक + हन् + टः

टित्त्वात् ङीप् ।) महाकरञ्जः । इति राज-
निर्घण्टः ॥

काकचिञ्चा, स्त्री, (काकवर्णा चञ्चा प्रान्तभागः फले

यस्याः । पृषोदरादित्वात् साधुः ।) गुञ्जा । इति
शब्दरत्नावली । कूँच् इति भाषा । (गुञ्जाशब्दे-
ऽस्या विवरणं बोद्धव्यम् ॥)

काकचिञ्चिः, स्त्री, (काकवर्णा चञ्चा प्रान्तभागः फले

यस्याः । पृषोदरादित्वात् साधुः ।) गुञ्जा । इति
शब्दरत्नावली ॥

काकचिञ्ची, स्त्री, (काकचिञ्चि + वा ङीप् ।) गुञ्जा ।

इत्यमरः । २ । ४ । ९८ ॥ (अस्याः पर्य्यायो भाव-
प्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे । यथा, --
“श्वेता रक्तोच्चटा प्रोक्ता कृष्णला चापि सा स्मृता ।
रक्ता सा काकचिञ्ची स्यात् काकानन्ती च रक्तिका ।
काकादनी काकपीलुः सा स्मृता काकवल्लरी” ॥
गुञ्जाशब्दे विवरणान्तरं ज्ञेयम् ॥)

काकच्छदः, पुं, (काकस्य छदः पक्ष इव छदो यस्य ।)

खञ्जनपक्षी । इति शब्दरत्नावली ॥

काकच्छदिः, पुं, खञ्जनपक्षी । इति त्रिकाण्डशेषः ॥

(खञ्जरीटशब्देऽस्य विवृतिर्ज्ञेया ॥)

काकजङ्घा, स्त्री, (काकस्य जङ्घेवाकृतिर्यस्याः ।)

स्वनामख्यातवृक्षविशेषः । केउया ठेङ्गा इति
भाषा । तत्पर्य्यायः । काकाङ्गी २ काकाञ्ची ३ काक-
नासिका ४ । इति शब्दरत्नावली ॥ कृषीवलः । इति
रत्नमाला ॥ ध्माङ्क्षजङ्घा ६ काकाह्वा ७ सुलोमशा
८ पारावतपदी ९ दासी १० नदीकान्ता ११ ।
अस्या गुणाः । तिक्तत्वम् । उष्णत्वम् । कृमिव्रण-
कफबाधिर्य्याजीर्णजीर्णविषमज्वरनाशित्वञ्च । इति
राजनिर्घण्टः ॥
(“काकजङ्घा बला श्यामा ब्रह्मदण्डी कृताञ्जलिः ।
पश्निपर्णी त्वपामार्गस्तथा भृड्गरजोऽष्टमः ॥
एषामन्यतमं मूलं पुष्येणोद्धृत्य यत्नतः ।
रक्तसूत्रेण संवेष्ट्य बद्धमैकाहिकं जयेत्” ॥
इति वैद्यकचक्रपाणिसंग्रहे ज्वराधिकारे ॥
मसीति लोके । अस्याः पर्य्याया गुणाश्च यथा, --
“काकजङ्घा नदीकान्ता काकतिक्ता सुलोमशा ।
पारावतपदी दासी काका चापि प्रकीर्त्तिता ॥
काकजङ्घा हिमा तिक्ता कषाया कफपित्तजित् ।
निहन्ति ज्वरपित्तास्रज्वरकण्डूविषक्रिमीन्” ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
गुञ्जा । इति रत्नमाला ॥

काकजम्बुः, स्त्री, (काकवर्णा जम्बुः ।) भूमिजम्बुः ।

क्षुद्रजम्बुः । इति शब्दमाला । वनजाम् इति
भाषा ॥

काकजम्बूः, स्त्री, (कं जलं अकति आश्रयत्वेन गृह्णा-

तीति । क + अक् + अण् + टाप् च । काका
जम्बूः । यद्वा काकवर्णा जम्बूः ।) जम्बूप्रभेदः ।
तत्पर्य्यायः । काकफला २ नादेयी ३ काकवल्लभा
४ भृङ्गेष्टा ५ काकनीला ६ ध्माङ्क्षजम्बूः ७ धन-
प्रिया ८ । अस्या गुणाः । कषायत्वम् । अम्लत्वम् ।
पाके मधुरत्वम् । गुरुत्वम् । दाहश्रमातिसार-
नाशित्वम् । वीर्य्यवृद्धिबलप्रदत्वञ्च । इति राज
निर्घण्टः ॥

काकणं, क्ली, (कु ईषत् कणति निमीलति इति ।

अच् काकणं गुञ्जाफलं तद्वदाकृतिरस्यास्तीति
कृष्णरक्तचिह्णितत्वादस्य तथात्वम् ।) कुष्ठविशेषः ।
तस्य लक्षणम् । यथा, --
“यत् काकणन्तिकावर्णमपाकं तीव्रवेदनम् ।
त्रिदोषलिङ्गं तत्कुष्ठं काकणं नैव सिध्यति” ॥
इति माधवकरः ॥ (“काकणं तीव्रदाहरुक् ॥
“पूर्ब्बं रक्तञ्च कृष्णञ्च काकणन्तीफलोपमम् ।
कुष्ठलिड्गैर्युतं सर्व्वैर्नैकवर्णं ततो भवेत् ॥
दोषभेदीयविहितैरादिशेल्लिङ्गकर्म्मभिः” ॥
इति वाभटे निदानस्थाने १४ अः ॥
“काकणन्तिका वर्णान्यादौ पश्चात् सर्व्वकुष्ठ-
लिड्गसमन्वितानि पापीयसां सर्व्वकुष्ठलिङ्गसम्भवे
नानेकवर्णानि काकणानीति विद्यात् ।
इति निदानस्थाने ५ अः । चरकेणोक्तम् ॥)

काकणन्तिका, स्त्री, (कु ईषत् कणन्ती निमीलन्ती ।

कन् निमीलने शतृ ङीप् कोःकादेशः । ततः कन्
टाप् च पृषोदरादित्वात् साधुः ।) गुञ्जा । इति
रत्नमाला । कुँच् इति भाषा ॥
(“यत्काकणन्तिकावर्णमपाकं तीव्रवेदनम्” ।
इति चरके चिकित्सास्थाने ७ अः ॥)

काकतिक्ता, स्त्री, (काकमांसवत् तिक्ता इति मध्यपद-

लोपि समासः ।) काकचिञ्चा । इति रत्नमाला ।
कुँच् इति भाषा । (अस्याः पर्य्यायो यथा, --
“काकजङ्गा नदीकान्ता काकतिक्ता सुलोमशा ।
पारावतपदी दासी काका चापि प्रकृर्त्तिता” ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

काकतिन्दुकः, पु, (कं जलं अकति इत्यण् । काकः

तिन्दुकः काकवर्णो वा तिन्दुकः काकप्रियस्तिन्दुका
वा ।) वृक्षविशेषः । माकडा केन्दु । माकडो
गाव् । काकतेँदु इति च भाषा । तत्पर्य्यायः । का-
केन्दुः २ कुलकः ३ काकपीलुकः ४ । इत्यमरः
। २ । ४ । ३९ ॥ काकपीलुः ५ काकाण्डः ६ काक
स्फूर्ज्जः ७ काकाह्वः ८ काकवीजकः ९ । अस्य
गुणाः । कषायत्वम् । अम्लत्वम् । गुरुत्वम् ।
वातविकारनाशित्वञ्च । पक्वस्य तस्य गुणाः ।
मधुरत्वम् । किञ्चित्कफकारित्वम् । वान्तिपित्त-
नाशित्वञ्च । इति राजनिर्घण्टः ॥ (काकाण्डशब्दे-
ऽस्य विवरणं ज्ञेयम् ॥)

काकतुण्डः, पुं, (काकतुण्डस्येव वर्णोऽस्त्यस्य । अर्श-

आदित्वात् अच् ।) कालागुरु । इति हेमचन्द्रः ॥

काकतुण्डिका, स्त्री, (काकतुण्डस्येव वर्णः फलांशेऽस्याः

इति ठन् । स्त्रियां टाप् च ।) काकचिञ्चा । गुञ्जा ।
इति हलायुधः ॥

काकतुण्डी, स्त्री, (काकं ईषद्दुःखं तुण्डते नाशयतीति ।

तुडि ङ बधे + अण् । गौरादित्वात् ङीष् ।)
राजरीतिः । राजपितल इति भाषा । इति राज-
निर्घण्टः ॥ (काकतुण्डस्येवाकृतिर्विद्यते ऽस्याः ।
अर्श आदित्वादच् । गौरादित्वात् ङीष् ।) वृक्ष-
विशेषः । कौआडोडी । इति हिन्दी भाषा ।
तत्पर्य्यायः । काकादनी २ काकपीलुः ३ काक-
शिम्बी ४ रक्तला ५ ध्माङ्क्षादनी ६ वक्रशल्या ७
दुर्म्मोहा ८ वायसादनी ९ ध्माङ्क्षनखी १० वायसी
११ काकदन्तिका १२ ध्माङ्क्षदन्ती १३ । अस्य
गुणाः । कटुत्वम् । उष्णत्वम् । तिक्तत्वम् । द्रव-
त्वम् । रसायनत्वम् । वातदोषहारित्वम् । रुचि-
कारित्वम् । पलितस्तम्मित्वञ्च । इति राज-
जिर्घण्टः ॥

काकध्वजः, पुं, (काकमीषज्जलं वास्पं ध्वज इवास्य ।)

वाडवाग्निः । इति त्रिकाण्डशेषः ॥

काकनामा, [न्] पुं, (काकस्य नाम नाम यस्य ।)

वकवृक्षः । इति रत्नमाला ॥ (काकशीर्षशब्दे-
ऽस्य विवरणं बोध्यम् ॥)

काकनासः, पुं, (काकस्य नासाया वर्णः इव फले यस्य ।)

विकण्टकवृक्षः । इति राजनिर्घण्टः ॥

काकनासा, स्त्री, (काकस्य नासा इव फलमस्याः ।)

काकजङ्घावृक्षः । इति जटाधरः ॥ (अस्याः पर्य्याया
गुणाश्च यथा, भावप्रकाशस्य पूर्ब्बखण्डे १ भागे ।
“काकनासा तु काकाङ्गी काकतुण्डफला च सा ।
काकनासा कषायोञ्चा कटुका रस पाकयोः ।
कफघ्नी वामनीतिक्ता शोथार्शः श्वित्रकुष्ठहृत्” ॥

काकनासिका, स्त्री, (काकनासा ततः स्वार्थे कन्

टाप् अत इत्वम् ।) काकजङ्घावृक्षः । इत्यमरः ।
२ । ४ । ११८ ॥ रक्तत्रिवृत् । इति राजनिर्घण्टः ।