पृष्ठ २/२१४

क्रम, उ गतौ । इति कविकल्पद्रुमः ॥ (भ्वां--परं--

सकं--सेट् ।) उ, क्रमित्वा क्रान्त्वा क्रन्त्वा । क्रामति ।
वारिपूर्णां महीं कृत्वा पश्चात् संक्रमते गुरु-
रिति संशब्दस्योपसर्गप्रतिरूपकत्वे वागेरित्या-
त्मनेपदम् । वृत्त्युत्साहतायनेषूपसर्गान्तरपूर्ब्बा-
दप्यात्मनेपदमिति शरणदेवः । संक्रामयतीत्यादि
तु संक्रामन्तं करोतीति शत्रन्तात् ञौ साध्यम् ।
अन्यथा अमन्तत्वाद्ध्रस्वः स्यात् । हरेर्यदक्रामि
पदैककेन खमिति तु धातुपारायणमते चुरादि-
विवक्षया सिद्धम् । तन्मतन्तु परिभाषायां लिखि-
तम् । अथवा आत्मेति कर्म्मणोऽध्याहारे प्रेरणे
ञौ साध्यम् । हरेः पदं आत्मानं यत् खं क्रामया-
मास । इत्यर्थः । इति दुर्गादासः ॥

क्रम, य गतौ । इति कविकल्पद्रुमः ॥ (दिवां-परं-

सकं-सेट् ।) य, क्रम्यति । गोविन्दभट्टक्रमदीश्वरौ
तु दीर्घं विधाय । क्राम्यतीत्याहतुः । तथा च ।
“इष्यते श्यनि दीर्घत्वं दाक्षिलक्षणवेदिभिः ।
तेन क्राम्यति कौमारे श्यनीत्यस्योपलक्षणात्” ॥
इति दुर्गादासः ॥

क्रमः, पुं, (क्रम्यते प्राप्यते पाठभेदो ऽनेन । क्रम +

घञ् । “नोदात्तोपदेशस्येति” । ७ । ३ । ३४ ।
इति न वृद्धिः ।) वैदिकविधानम् । तत्पर्य्यायः ।
कल्पः २ विधिः ३ । इत्यमरः । २ । ७ । ४० ॥
(क्रम + भावे घञ् ।) अनुक्रमः ।
(यथा, रघुः । ११ । २४ ।
“लोकमन्धतमसात् क्रमोदितौ
रश्मिभिः शशिदिवाकराविव” ॥)
शक्तिः । आक्रमणम् । इति मेदिनी ॥ (क्रा-
मत्यनेन घञ् न वृद्धिः ।) चरणः । इति हेम-
चन्द्रः ॥ (स्वनामख्यातो वत्सप्रीपुत्त्रः ।
यथा, मार्कण्डेये ११८ । १ ।
“तस्य तस्यां सुनन्दायां पुत्त्रा द्वादश जज्ञिरे ।
प्रांशुः प्रवीरः शूरश्च सुचक्रो विक्रमः क्रमः” ॥
सर्व्वाक्रमणात् रुद्रः ।
यथा, महाभारते । १३ । १७ । १२९ ।
“छत्रं सुच्छत्रो विख्यातो लोकः सर्व्वाश्रयः क्रमः” ॥
त्रिपादेन सर्व्वाक्रमणात् विष्णुः ।
यथा, तत्रैव १३ । १४९ । २२ ।
“ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः” ॥)

क्रमकः, पुं, (क्रमं वेदपाठभेदं अधीते वेत्ति वा ।

“क्रमादिभ्यो वुन्” । ४ । २ । ६१ । इति वुन् ।)
क्रमज्ञः । इति मुग्धबोधम् ॥

क्रमणः, पुं, (क्रामत्यनेन करणे ल्युट् ।) चरणः ।

इति हेमचन्द्रः ॥ (यदुवंशीयनृपविशेषः । यथा
हरिवंशे ।
“कृमिश्च क्रमणश्चैव धृष्टः शूरः पुरञ्जयः” ॥
क्ली । भावे ल्युट् । पादविक्षेपः । यथा, भागवते ८ ।
१० । २१ ।
“पृष्ठे त्वधर्म्मं क्रमणेषु यज्ञम्” ॥)

क्रमपूरकः, पुं, (क्रमेण पूरयति वीजम् । पूर + णिच्

ण्वुल् । पुष्पवृन्ते क्रमेणास्य वीजपूरकत्वात् तथा-
त्वम् ।) वकवृक्षः । इति राजनिर्घण्टः ॥

क्रमशः, [स्] व्य, (कारकार्थवृत्तेः क्रमात् + वीप्सायां

शस् ।) क्रमेण क्रमेण । क्रमेक्रमे इति भाषा ।
यथा । “भवति विज्ञतमःक्रमशो जनः” । इति
प्राचीनाः ॥ (तथा च मनौ । ३ । १२ ।
“सवर्णाऽग्रे द्विजातीनां प्रशस्ता दारकर्म्मणि ।
कामतस्तु प्रवृत्तानामिमाः स्युः क्रमशोऽवराः” ॥)

क्रमागतं, त्रि, (क्रमेणागतं आयातम् ।) क्रमायातम् ।

पितृपितामहादिक्रमेण प्राप्तम् । यथा, --
“अस्वतन्त्राः स्त्रियः सर्व्वाः पुत्त्रदासपरिग्रहाः ।
अस्वतन्त्रस्तत्र गृही यत्र तत् स्यात् क्रमागतम्” ॥
इति व्यवहारतत्त्वे नारदः ॥ (तथा च मनुः ।
२ । १८ ।
“तस्मिन् देशे य आचारः पारम्पर्य्यक्रमागतः ।
वर्णानां सान्तरालानां स सदाचार उच्यते” ॥)

क्रमायातः, त्रि, (क्रमेणायातः आगतः ।) क्रमागतः ।

इति मिताक्षरा ॥

क्रमिः, पुं, (क्रम् + इन् ।) कृमिः । इति भरतो

द्विरूपकोषश्च ॥ रोगविशेषः । तच्चिकित्सा यथा,
“विडङ्गव्योषसंयुक्तमन्नमण्डं पिबेन्नरः ।
दीपनं क्रिमिनाशाय जठराग्निविवृद्धये ॥
प्रत्यहं कदुकं तिक्तं भोजनं कफनाशनम् ।
क्रिमीणां नाशनं रुच्यमग्निसन्दीपनं परम् ॥
विडङ्गशृतपानीयं विडङ्गेनावधूलितम् ।
पीतं क्रिमिहरं दृष्टं क्रिमिजांश्च गदान् जयेत् ॥
लिह्याद्विडङ्गचूर्णं वा मधुना क्रिमिनाशनम् ।
पलाशवीजस्य रसं पिबेन्माक्षिकसंयुतम् ॥
पिबेत्तद्वीजकल्कं वा तक्रेण क्रिमिनाशनम् ।
काम्पिल्यचूर्णकर्षार्द्धं गुडेन सह भक्षितम् ॥
पातयेत क्रिमीन् सर्व्वानुदरस्थान्न संशयः ।
विडङ्गं कौटजं वीजं तथा वीजं पलाशजम् ॥
संचूर्ण्य खादेत् खण्डेन क्रिमीन्नाशयितुं नरः ।
निम्बपत्रसमुद्भूतं रसं क्षौद्रयुतं पिबेत् ॥
धूस्तूरपत्रजं वापि क्रिमिनाशमनुत्तमम् ।
रसेन्द्रेण समायुक्तो रसो धुस्तूरपत्रजः ॥
ताम्बूलपत्रजो वापि लेपाद्यूकाविनाशनः ।
धत्तूरपत्रकल्केन तद्रसेनैव पाचितम् ॥
तैलमभ्यङ्गमात्रेण यूकान्नाशयति क्षणात् ।
क्रिमीणां विट्कफोत्थानामेतदुक्तं चिकित्सितम् ॥
रक्तजानान्तु संहारं कुर्य्यात् कुष्ठचिकित्सया ॥
क्षीराणि मांसानि घृतानि वापि
दधीनि शाकानि च पर्णवन्ति ।
अम्लञ्च मिष्टञ्च रसं विशेषात्
क्रिमीन् जिघांसुः परिवर्ज्जयेद्धि” ॥
इति क्रिम्यधिकारः । इति भावप्रकाशः ॥

क्रमिकण्टकं, क्ली, (क्रमौ क्रमिनाशे कण्टकमिव ।

तस्य नाशकत्वात्तथात्वम् ।) चित्राङ्गः । विडङ्गम् ।
उडुम्बरः । इति मेदिनी ॥

क्रमिघ्नं, क्ली, (क्रमिं हन्ति । हन् + टः ।) विडङ्गम् ।

इति रत्नमाला ॥

क्रमिजं, क्ली, (क्रमेः क्रमिभ्यो वा जायते इति । जन्

+ डः ।) अगुरु । इत्यमरः ॥

क्रमिजा, स्त्री, (क्रमिज + टाप् ।) लाक्षा । इति

इति रत्नमाला ॥

क्रमिशत्रुः, पुं, (क्रमेः क्रमीणां वा शत्रुरिव नाश-

कत्वात् ।) विडङ्गः । इति रत्नमाला ॥

क्रमुः, पुं, (क्रमु + बाहुलकादुः ।) गुवाकः । इति

भरतो द्विरूपकोषश्च ॥

क्रमुकः, पुं, (क्रमु + संज्ञायां कन् ।) पट्टिकालोध्रः ।

गुवाकवृक्षः । ब्रह्मदारुवृक्षः । इत्यमरः । २ । ४ ।
४१ ॥ भद्रमुस्तकम् । कार्पासिकाफलम् । इति
मेदिनी ।

क्रमुकफलं, क्ली, (क्रमुक एव फलम् । क्रमुकस्य

गुवाकादिवृक्षस्य फलं वा ।) गुवाकम् । इति
राजनिर्घण्टः ॥ (यथा, माघे ।
“आस्वादितार्द्रक्रमुकाः समुद्रात्” ॥
क्रमुकाः क्रमुकफलानीत्यर्थः ॥) अस्य गुणपर्य्यायौ
गुवाकशब्दे द्रष्टव्यौ ॥

क्रमुकी, स्त्री, (क्रमुक + स्त्रियां गौरादित्वात् ङीष् ।)

गुवाकः । इति शब्दरत्नावली ॥

क्रमेलः, पुं, (क्रममालम्ब्य एलति गच्छतीति । एल् +

अच् ।) उष्ट्रः । इत्युणादिकोषः ॥

क्रमेलकः, पुं, (क्रममालम्ब्य एलति गच्छति । एल्-

गतौ + ण्वुल् । यद्वा, क्रमेल + स्वार्थे कन् ।) उष्ट्रः ।
इत्यमरः २ । ९ । ७५ ॥ (यथा पञ्चतन्त्रे । १ । ४१४ ।
“भो ममाग्रेऽपि क्रमेलकहृदयं भक्षयित्वा अधुना
मम मुखमवलोकयसि” ॥)

क्रमोद्वेगः, पुं, (क्रमेण उद्गतः उत्कृष्टो वा वेगो

यस्य ।) वृषः । इति भूरिप्रयोगः ॥

क्रयः, पुं, (क्री + भावे अच् ।) पणपूरणादिमूल्य-

दानेन विक्रेतुः स्वत्वापनयनेन स्वत्वापादनव्या-
पारविशेषः । मूल्येन द्रव्यग्रहणम् । केना इति
भाषा । यथा, --
“प्रकाशं वा क्रयं कुर्य्यात् मूल्यं वापि समर्पयेत्” ॥
इति प्रायश्चित्ततत्त्वे वृहस्पतिः ॥

क्रयलेख्यं, क्ली, (क्रयस्य क्रये क्रयमधिकृत्य वा

लेख्यम् ।) भूम्यादिक्रयलिपिः । कवाला इति
पारस्य भाषा । यथा,
“गृहं क्षेत्रादिकं क्रीत्वा तुल्यमूल्याक्षरान्वितम् ।
पत्रं कारयते यत्तु क्रयलेख्यं तदुच्यते” ॥
इति प्रायश्चित्ततत्वे वृहस्पतिः ॥

क्रयविक्रयः, पुं, (क्रयेण सह विक्रयः ।) वाणिज्यम् ।

केना वेचा इति भाषा । यथा, --
“ऋणदानं तथादानं वस्तूनां क्रयविक्रयम् ।
न कुर्य्यात् गुरुणा सार्द्धं शिष्यो भूत्वा कदाचन” ॥
इति तन्त्रसारः ॥
(केचित्तु एतौ द्विवचनान्ताविच्छन्ति । तत्र द्वन्दः
यथा, क्रयश्च विक्रयश्च तौ क्रयविक्रयौ ।
यदुक्तं मनुसंहितायाम् ।
“आगमं निर्गमस्थानं तथा वृद्धिक्षयावुभौ ।
विचार्य्य सर्व्वपण्यानां कारयेत् क्रयविक्रयौ ॥
पञ्चरात्रे पञ्चरात्रे पक्षे पक्षे ऽथवा गते ।
पृष्ठ २/२१५
कुर्व्वोत चैषां प्रत्यक्षमर्थसंस्थापनं नृपः” ॥

क्रयविक्रयानुशयः, पुं, (क्रये विक्रये च क्रयविक्रयोर्वा

अनुशयः पश्चात्तापः ।) अष्टादशविवादान्तर्गतवि-
वादविशेषः । यथा ।
“वेतनस्यैव चादानं संविदश्च व्यतिक्रमः ।
क्रयविक्रयानुशयो विवादः स्वामिपालयोः” ॥
अस्य विवरणम् । यथा, मनौ ।
“क्रीत्वा विक्रीय वा किञ्चित् यस्येहानुशयो भवेत् ।
योऽन्तर्दशाहात् तद्द्रव्यं दद्याच्चैवाददीत वा” ॥

क्रयविक्रयिकः, पुं, (क्रयविक्रयाभ्यां जीवतीति ।

“वस्नक्रयविक्रयात् ठन्” । ४ । ४ । १३ । इति ठन् ।)
वणिक् । इत्यमरः । २ । ९ । ७८ ॥

क्रयशीर्षं, क्ली, (कपिशीर्ष + पृषोदरात् साधुः ।)

कपिशीर्षम् । इति त्रिकाण्डशेषः ॥

क्रयारोहः, पुं, (आ + रुह + अधिकरणे घञ् ।

क्रयार्थं आरोहः समारोहोऽत्र ।) हट्टः । इति
त्रिकाण्डशेषः ॥

क्रयिकः, पुं, (क्रयः प्रयोजनमस्त्यस्य इति ठन् ।)

क्रेता । तत्पर्य्यायः । क्रायकः २ । इत्यमरः ॥ क्रयी
३ । इति हेमचन्द्रः ॥ (यथा, महाभारते । १३ ।
“धनेन क्रयिको हन्ति खादकश्चोपभोगतः” ॥
क्रयेण जीवतीति । “वस्नक्रयविक्रयात् ठन्” ।
४ । ४ । १३ । इति व्यस्तादपि ठन्) क्रयजीवी ।
वणिक् । इत्यमरटीकायां भरतः ॥ (यथा, माघे ।
“पर्य्यापतत् क्रयिकलोकमगण्यपण्या” ॥)

क्रयी, [न्] त्रि, (क्रयोऽस्त्यस्य इति । क्रय + इनिः ।)

क्रयकर्त्ता । इति हेमचन्द्रः ॥

क्रय्यं, त्रि, (डुक्रीञ् द्रव्यपर्य्यये + “अतो यत्” । ३ । १ ।

९७ । “क्रय्यस्तदर्थे” ६ । १ । ८२ । इति साधुः ।)
क्रये प्रसारितम् । क्रयनिमित्तं हट्टादौ न्यस्तं यत्
द्रव्यम् । इत्यमरः ॥ (यथा, शतपथब्राह्मणे । ३ ।
३ । ३ । १ । “क्रय्यस्ते सोमो राजा इति क्रय
इत्याह सोमविक्रयी” ॥)

क्रव्यं, क्ली, (क्लव + यत् । लस्य रत्वम् ।) मांसम् ।

इत्यमरः ॥ (यथा, भागवते । ४ । १८ । २४ ।
“क्रव्यादाः प्राणिनः क्रव्यं दुदुहुः स्वे कलेवरे ।
सुपर्णवत्सा विहगाश्चरं वाऽचरमेव च” ॥)

क्रव्यघातनः, पुं, (क्रव्यस्य क्रव्यार्थं वा घात्यतेऽसौ । हन्

+ स्वार्थे णिच् + कर्म्मणि ल्युट् ।) मृगः । इति
शब्दचन्द्रिका ॥

क्रव्यात्, [द्] पुं, (क्रव्यं मांसं अत्तीति । “क्रव्ये च विट्” ।

२ । २ । ६९ । इति ।) राक्षसः । इत्यमरः ॥ मांसा-
शिनि त्रि । इति मेदिनी । (गृध्रादिमांसभुक्
पक्षिविशेषश्चापि । यथा, रघौ । १५ । १६ ।
“धूमधूम्रो वसागन्धी ज्वालाबभ्रुशिरोरुहः ॥
क्रव्याद्गणपरीवारश्चिताग्निरिव जङ्गमः” ॥
“कृशानुपक्षे क्रव्यादो गृध्रादयः” । इति मल्लि-
नाथः । व्याघ्रादिहिंस्रपशुभेदः ।
यथा, मनुः ५ । १३१ ।
“श्वभिर्हतस्य यन्मांसं शुचि तन्मनुरब्रवीत् ।
क्रव्याद्भिश्च हतस्यान्यैश्चण्डालाद्यैश्च दस्युभिः” ॥
“क्रव्याद्भिः व्याघ्रश्येनादिभिश्चेति” । कुल्लूकभट्टः ॥
ग्राम्यक्रव्यादो मार्ज्जारादयः ।
यथा, मनौ । ११ । १९९ ।
“श्वशृगालखरैर्दष्टो ग्राम्यैः क्रव्याद्भिरेव च” ।
“ग्राम्यैः क्रव्याद्भिराममांसादैर्मार्ज्जादिभिः” ।
इति कुल्लूकभट्टः ॥ गुरुपत्नीगामिनां नरकभोगा-
वसाने क्रव्यादां आममांसाशिनां योनिप्राप्तिर्भवति ।
यथा, तत्रैव । १२ । ५८ ।
“तृणगुल्मलतानाञ्च क्रव्यादां दंष्ट्रिणामपि ।
क्रूरकर्म्मकृताञ्चैव शतशो गुरुतल्पगः” ॥
शवदाहकाग्निभेदः । यथा, शतपथब्राह्मणे । १ ।
२ । १ । ४ ।
“अपाग्ने ! अग्निमामादं जहि निष्क्रव्यादं सेध
इत्ययं वा आमाद् येनेदं मनुष्याः पक्त्वाऽश्नन्ति
अथ येन पुरुषं दहन्ति स क्रव्याद् एतावेवैत-
दुभावतोऽपहन्ति” । “हे अग्ने ! गार्हपत्य ! आ-
मादमग्निमपजहि परित्यज तथा, --
“क्रव्यादमग्निं निःसेधनिःशेषं दूरे गमय” ।
इति भाष्यम् ॥ ऋग्वेदे च । १० । १६ । १० ।
“योऽग्निं क्रव्यात् प्रविवेश यो गृहम्” ॥)

क्रव्यादः, पुं, (क्रव्यं मांसमत्ति । अद् उपपदे “कर्म्म-

ण्यण्” । ३ । २ । १ । इति अण् । कृत्तं छिन्नं तदेव
पुनर्व्विशेषतः कृत्तं पक्वञ्च भुङ्क्ते इति कृत्तविकृत्त-
पक्वशब्दस्य पृषोदरात् क्रव्यादेशः । इति का-
शिका ।) राक्षसः । इत्यमरः ॥ सिंहः । श्येनः ।
इति राजनिर्घण्टः ॥ शवभक्षकाग्निः । यथा,
“क्रव्यादो मृतभक्षणे” । इति तिथ्यादितत्त्वम् ॥
मांसाशिनि त्रि । इति धरणी ॥ (पुरा किल केन-
चिद्रक्षसाग्निमुखादियमेव सा भृगुभार्य्या पुलो-
मेति विदितेनैवापहृतायान्तस्यां पुलोमायां मह-
र्षिर्भृगुरत्यन्ताऽमर्षमाहरन् त्वं सर्व्वभक्षो भविष्य-
सीति तस्मै वह्नये शापं प्रददौ तेन हि तस्य
क्रव्यादत्वं प्रसिद्धम् । ततः शप्तेनापि तेनाग्निदेवे-
नात्मनः सर्व्वभक्षकत्वरूपशापं परिहर्त्तुकामेन
सर्व्वभक्षः सन्कथं देवादीनां मुखं भविष्यामीति
चिन्तयता अग्निहोत्रेषु यज्ञसत्रक्रियासु च आ
त्मनः संहारश्चक्रे । पितामहस्तु देवादिभिरनुरुद्धो
वह्नेः स्वप्रभावमनुस्मारयन् कौशलेन हुतभागग्र-
हणस्वीकारमकारयत् । एतद्विवरणन्तु महाभा-
रते । १ । ६--७ अध्याययोर्द्रष्टव्यम् । तद्यथा,
भृगुरुवाच ।
“केनासि रक्षसे तस्मै कथिता त्वं जिहीर्षते ।
न हि त्वां वेद तद्रक्षो मद्भार्य्यां चारुहासिनीम् ॥
तत्त्वमाख्याहि तं ह्यद्य शप्तुमिच्छाम्यहं रुषा ।
विभेति को न शापान्मे कस्य चायं व्यतिक्रमः ॥
पुलोमोवाच ।
अग्निना भगवंस्तस्मै रक्षसेऽहं निवेदिता ।
ततो मामनयद्रक्षः क्रोशन्तीं कुररीमिव ॥
साहं तव सुतस्यास्य तेजसा परिमोक्षिता ।
भस्मीभूतन्तु तद्रक्षो मामुत्सृज्य पपात वै ॥
सूत उवाच ।
इति श्रुत्वा पुलोमाया भृगुः परममन्युमान् ।
शशापाग्निमतिक्रुद्धः सर्व्वमक्षो भविष्यसि” ॥
“शप्तस्तु भृगुणा वह्निः क्रुद्धो वाक्यमथाब्रवीत् ।
किमिदं साहसं ब्रह्मन् कृतवानसि मां प्रति” ॥
“अमावास्याञ्च पितरः पौर्णमास्याञ्च देवताः ।
मन्मुखेनैव हूयन्ते भुञ्जते च हुतं हविः ॥
सर्व्वभक्षः कथं तेषां भविष्यामि मुखं त्वहम्” ॥
“चिन्तयित्वा ततो वह्निश्चक्रे संहारमात्मनः ।
द्विजानामग्निहोत्रेषु यज्ञसत्रक्रियासु च ॥
निरोङ्कारवषट्काराः स्वधास्वाहाविवर्ज्जिताः ।
विनाग्निना प्रजाः सर्व्वास्तत आसन् सुदुःखिताः ॥
अथर्षयः समुद्विग्ना देवान् गत्वाब्रुवन् वचः ।
अग्निशापात्क्रियाभ्रंशात्भ्रान्ता लोकास्त्रयोऽनघाः ।
विदध्वमत्र यत्कार्य्यं न स्यात् कालात्ययो यथा ।
अथर्षयश्च देवाश्च ब्रह्माणमुपगम्य तु ॥
अग्नेरावेदयच्छापं क्रियासंहारमेव च ।
भृगुणा वै महाभाग ! शप्तोऽग्निः कारणान्तरे ॥
कथं देवमुखो भूत्वा यज्ञभागाग्रभुक् तथा ।
हुतभुक् सर्व्वभूतेषु सर्व्वभक्षत्वमेष्यति ॥
श्रुत्वा तु तद्वचस्तेषामग्निमाहूय विश्वकृत् ।
उवाच वचनं श्लक्ष्णं भूतभावनमव्ययम् ॥
लोकानामिह सर्व्वेषां त्वं कर्त्ता चान्त एव च ।
त्वं धारयसि लोकांस्त्रीन् क्रियाणाञ्च प्रवर्त्तकः ॥
स तथा कुरु लोकेश ! नोच्छिद्येरन् क्रिया यथा ।
कस्मादेवं विमूढस्त्वमीश्वरः सन् हुताशन ! ॥
त्वं पवित्रः सदा लोके सर्व्वलोकगतिश्च ह ।
न त्वं सर्व्वशरीरेण सर्व्वभक्षत्वमेष्यसि ॥
अपाने ह्यर्च्चिषो यास्ते सर्व्वं भोक्ष्यन्तिताः शिखिन् ! ।
क्रव्यादा च तनुर्य्या ते सा सर्व्वं भक्षयिष्यति ॥
यथा सूर्य्यांशुभिः स्पृष्टं सर्व्वं शुचि विभाव्यते ।
तथा त्वदर्च्चिर्निर्द्दग्धं सर्व्वं शुचि भविष्यति ॥
त्वमग्ने ! परमं तेजः स्वप्रभावाद्विनिर्गतम् ।
स्वतेजसैव तं शापं कुरु सत्यमृषेर्विभो ! ॥
देवानाञ्चात्मनो भागं गृहाण त्वं मुखे हुतम्” ।
“एवमस्त्विति तं वह्निः प्रत्युवाच पितामहम् ॥
जगाम शासनं कर्त्तुं देवस्य परमेष्ठिनः” ॥ * ॥
अतएव ऋङ्मन्त्रेण क्रव्यादाख्याग्नेः शान्तिकर्म्मा-
दिष्वपसारणं जातवेदोऽग्नेरादानं प्रोक्तम् ।
यथा, ऋग्वेदे । १० । १६ । ९ ।
“क्रव्यादमग्निं प्रहिणोमि दूरं
यमराज्ञो गच्छतु रिप्रवाहः ।
इहैवायमितरो जातवेदा
देवेभ्यो हव्यं वहतु प्रजानन्” ॥
“क्रव्यं आमिषं अत्ति क्रव्यादः तं तीव्रमग्निं दूरं
विप्रकृष्टे देशे प्रहिणोमि प्रगमयामि । रिप्रं पापं
तस्य वाहः वोढा यद्वा रिप्रं पापं वहति उपपदे
“कर्म्मण्यण्” इति वह + अण् । सोऽग्निः यमराज्ञः
यमो राजा येषां तान् यमराजकान् प्रदेशान्
गच्छतु प्राप्नोतु । अथ शान्तिकर्म्मार्थं उपासने
इतरः क्रव्यादादन्यः जातवेदा अग्निः इहैव देशे
देवेभ्यः देवार्थं हव्यं वहुतु” ॥ इति भाष्यम् ॥
क्रव्यं मांसं अत्ति । अद् + उपपदे “कर्म्मण्यण्” ।
३ । २ । १ । इत्यण् । रुरुनामाममांसाशिमृगभेदः ।
यथा, भागवते । ५ । २६ । ११ ।
पृष्ठ २/२१६
“एवमेव महारौरवो यत्र निपतितं पुरुषं क्रव्यादा
नाम रुरवस्तं क्रव्येण घातयन्ति यः केवलं देह-
म्भरः” ॥)

क्रान्तः, पुं, (क्रम्यते आक्रम्यते इति । क्रम + क्तः ।)

घोटकः । इति त्रिकाण्डशेषः ॥ (पादेन्द्रियम् ।
यथा, मनौ । १२ । १२१ ।
“मनसीन्दुं दिशः श्रोत्रे क्रान्ते विष्णुं बले हरम् ।
वाच्यग्निं मित्रमुत्सर्गे प्रजने च प्रजापतिम्” ॥
“क्रान्ते पादेन्द्रिये विष्णुमिति” । कुल्लूकभट्टः ॥
भावे + क्तः । क्ली, आरूढम् । क्रमणम् ।
यथा माघे ।
“क्रान्तं रुचा काञ्चनवप्रभाजा” ॥
यथा च शतपथब्राह्मणे ५ । ४ । २ । ६ ।
“विष्णोः क्रान्तमसीतीमे लोकाः विष्णो-
र्विक्रमणं विष्णोर्विक्रान्तं विष्णोः क्रान्तम्” ॥)
आक्रान्ते त्रि ॥

क्रान्ता, स्त्री, (क्रम + कर्त्तरि क्त । स्त्रियां जाति-

त्वेपि संयोगोपधत्वात् टाप् ।) वृहती । इति
राजनिर्घण्टः ॥

क्रान्तिः, स्त्री, (क्रम + भावे क्तिन् ।) खगोलमध्य-

वर्त्तिसूर्य्यगमनार्थतिर्य्यग्गोलरेखा । यथा, --
“अयनादयनं यावत् कक्षा तिर्य्यक् तथापरा ।
क्रान्तिसंज्ञा तया सूर्य्यः सदा पर्य्येति भासयन्” ॥
इति सूर्य्यसिद्धान्ते गोलाध्यायः ॥ “नाडीमण्डलात्
दक्षिणोत्तरं क्रान्तिमण्डलावधियदन्तरं तत्” ।
इति तट्टीकायां नृसिंहविदाम्बरः ॥ तत्पर्य्यायः ।
अपमण्डलम् २ अपवृत्तम् ३ अपक्रमः ४ अप-
क्रान्तिः ५ । इति सूय्यसिद्धान्तः ॥ अपमः ६ ।
इति सिद्धान्तशिरोमणिः ॥ इष्टक्रान्त्यानयनक्रमो
यथा, --
“परमापक्रमज्या च सप्तरन्ध्रगुणेन्दवः ।
तद्गुणाज्या त्रिजीवाप्ता तच्चापक्रान्तिरुच्यते” ॥
इति सूर्य्यसिद्धान्तः ॥ * ॥ आक्रमः । इति हेम-
चन्द्रः ॥ गतिः । गत्यर्थात् क्रमधातोर्भावे क्तिन्-
प्रत्ययात् तथात्वम् ॥

क्रान्तिवलयः, पुं, (सूर्य्यसिद्धान्तोक्ता क्रान्तिरेव

वलयः वृत्तम् ।) क्रान्तिमण्डलम् । विषुवद्वृत्तात्
चतुर्विंशतिभागैर्दक्षिणे चोत्तरे यद्वृत्तं तत् । इति
सिद्धान्तशिरोमणिः ॥

क्रान्तुः, पुं, (क्रामतीति । “क्रमिगमिक्षमिभ्यस्तुन्

वृद्धिश्चेति” । उणां ५ । ४३ । इति तुन् वृद्धिश्च ।)
पक्षी । इत्युणादिकोषः ॥

क्रायकः, पुं, (क्रीणाति इति । कर्त्तरि ण्वुल् ।) क्रेता ।

इत्यमरः ॥ क्रयजीवी । इत्यमरटीकायां भरतः ॥

क्रिमिः, पुं, (क्रमु पादविक्षेपे । “क्रमितमिशतिस्तं-

भामत इच्च” । उणां ४ । १२१ । इति इन् कित्
अत इच्च ।) कीटः । द्रुमामयः । इत्यमरटीकायां
भरतः ॥ रोगविशेषः । तस्य प्रकारो यथा, --
“क्रिमयस्तु द्विधा प्रोक्ता वाह्याभ्यन्तरभेदतः ।
वहिर्मलकफासृग्विड्जन्मभेदाच्चतुर्व्विधाः ॥
नामतो विंशतिविधा वाह्यास्तत्र मलोद्भवाः ।
तिलप्रमाणसंस्थानवर्णाः केशाम्बराश्रयाः ॥
बहुपादाश्च सूक्ष्माश्च यूका लिख्याश्च नामतः ।
द्विधा ते कोठपिडका कण्डूगण्डान् प्रकुर्व्वते ॥ * ॥
निदानम् यथा ।
“अजीर्णभोजी मधुराम्लनित्यो
द्रवप्रियः पिष्टगुडोपभोक्ता ।
व्यायामवर्जी च दिवाशयानो
विरुद्धभुक् संलभते क्रमींश्च” ॥
पुरीषजनिदानं यथा, --
“मांसपिष्टान्नलवणगुडशाकैः पुरीषजाः” ॥ * ॥
कफजनिदानं यथा, --
“मांसमाषगुडक्षीरदधिशुक्तैः कफोद्भवाः” ॥
रक्तजनिदानं यथा, --
“विरुद्धाजीर्णशाकाद्यैः शोणितोत्था भवन्ति हि” ॥
अभ्यन्तरक्रिमिलक्षणं यथा, --
“ज्वरो विवर्णता शूलं हृद्रोगच्छर्द्दनं भ्रमः ।
भक्तद्वेषोऽतिसारश्च संजातक्रिमिलक्षणम्” ॥
कफजरूपं यथा, --
“कफादामाशये जाता वृद्धाः सर्पन्ति सर्व्वतः ॥
पृथुब्रध्ननिभाः केचित् केचिद्गण्डूपदोपमाः ।
रूढधान्याङ्कुराकारास्तनुदीर्घास्तथाणवः ॥
श्वेतास्ताम्रावभासाश्च नामतः सप्तधा तु ते ।
अन्त्रादा उदरावेष्टा हृदयादा महागुदाः ॥
चुरवो दर्भकुसुमाः सुगन्धास्ते च कुर्व्वते ।
हृल्लासमास्यस्रवणमविपाकमरोचकम् ॥
मूर्च्छाच्छर्द्दिज्वरानाहकार्श्यक्षवथुपीनसान्” ॥ * ॥
रक्तजरूपं यथा, --
“रक्तवाहिशिरास्थाना रक्तजा जन्तवोऽणवः ॥
अपादा वृत्तताम्राश्च सौक्ष्मात् केचिददर्शनाः ।
केशादा रोमविध्वंसा रोमद्वीपा उडुम्बराः ॥
षट् ते कुष्ठैककर्म्माणः सहसौरसमातरः” ॥
विड्जरूपं यथा, --
“पक्वाशये पुरीषोत्था जायन्तेऽधोविसर्पिणः ।
वृद्धास्ते स्युर्भवेयुश्च ते यदामाशयोन्मुखाः ।
तदास्योद्गारनिश्वासविड्गन्धानुविधायिनः ॥
पृथुवृत्ततनुस्थूलाः श्यावपीतसितासिताः ।
ते पञ्च नाम्ना क्रिमयः ककेरुकमकेरुकाः ॥
सौस्वरादाः सशूलाख्या लेलिहा जनयन्ति हि” ॥
विमार्गगक्रिमिलक्षणं यथा, --
“विड्भेदशूलविष्टम्भकार्श्यपारुष्यपाण्डुताः ।
रोमहर्षाग्निसदनगुदकण्डूर्विमार्गगाः” ॥
इति माधवकरः ॥
(अस्य सहेतुकलक्षणचिकित्सितानि यथा, --
“इह खल्वग्निवेशविंशतिविधाः क्रिमयः पूर्ब्ब-
मुक्ता नानाविधेन प्रविभागेनान्यत्र सहजेभ्यः ।
ते पुनः प्रकृतिभिर्भिद्यमानाश्चतुर्व्विधास्तद्यथा ।
पुरीषजाः श्लेष्मजाः शोणितजाः मलजाश्चेति ।
तत्र मलो वाह्यश्चाभ्यन्तरश्च । तत्र वाह्ये
मले जातान् मलजान् सञ्चक्ष्महे, तेषां समुत्थानं
मृजावर्ज्जनं, स्थानकेशश्मश्रुलोमपक्ष्मवासांसि,
संस्थानमणवस्तिलाकृतयो बहुपादा वर्णः कृष्णः
शुक्लश्च, नामानि यूकाः पिपीलिकाश्चेति, प्रभावः
कण्डूजननं कोठपिडकाभिनिर्व्वर्त्तनञ्च, चिकि-
त्सितं त्वेषामपकर्षणं मलोपघातो मलकराणाञ्च
भावानामुपसेवनमिति । शोणितजानान्तु कुष्ठैः
समानं समुत्थानं, स्थानं रक्तवाहिन्यो धमन्यः,
संस्थानमणवो वृत्ताश्चापादाश्च सूक्ष्मत्वाच्चैके भव-
न्त्यदृश्याः, वर्णस्ताम्रः, नामानि केशादा लोमादा
लोमद्वीपाः सौरसा औदुम्बरा जन्तुमातर इति ।
प्रभावः केशश्मश्रुनखलोमापध्वंसो ब्रणगतानाञ्च
हर्षकण्डूतोदसंसर्पणान्यवृद्धानाञ्च त्वक्सिरास्नायु-
मांसतरुणास्थिभक्षणमिति, चिकित्सितमप्येषां
कुष्ठैः समानं तदुत्तंरकालमुपदेक्ष्यते ।
श्लेष्मजाः क्षीरगुडतिलमत्स्यानूप-मांस-पिष्टान्न-
परमान्नकुसुम्भस्नेहाजीर्ण-पूतिक्लिन्नसङ्कीर्ण-विरु-
द्धासात्म्यभोजनसमुत्थानाः । तेषामाशंयः स्थानं
प्रवर्द्धमानास्तूर्द्ध्वमधो वा विसर्पन्ति, उभयतो वा ।
संस्थानवर्णविशेषास्तु श्वेताः पृथुब्रध्नसंस्थानाः
केचित्, केचिद्वृत्तपरिणाहाः गण्डूपदाकृतयश्च
श्वेतास्ताम्रावभासाः, केचिदणवो दीर्घास्तन्त्वा-
कृतयः श्वेताः । तेषां त्रिविधानां श्लेष्मनिमित्तानां
क्रिमीणां नामानि, अन्त्रादा, उदरादा, हृदया-
दाश्चुरवो दर्भपुष्पाः, सौगन्धिकाः, महागुदाश्च
इति । प्रभावो हृल्लासास्यसंस्रवणमरोचका वि-
पाको ज्वरो मूर्च्छाजृम्भाक्षवथुरानाहोऽङ्गमर्द्दः
छर्द्दिः कार्श्यं पारुष्यमिति ।
पुरीषजास्तुल्यसमुत्थानाः श्लेष्मजैस्तेषां स्थानं
पक्वाशयः । प्रवर्द्धमानास्त्वधो विसर्पन्ति । यस्य
पुनरामाशयाभिमुखाः स्युस्तदनन्तरं तस्योद्गार-
निःश्वासाः पुरीषगन्धिनः स्युः । संस्थानवर्णविशे-
षास्तु सूक्ष्मवृत्तपरीणाहाः श्वेता दीर्घोर्णांशुक-
सङ्काशाः केचित् केचित् पुनः स्थूलवृत्तपरी-
णाहाः श्यावनीलहरित पीताः । तेषां नामानि
ककेरुकमकेरुकाः लेलिहाः शालूवकाः सौसुरा-
दाश्चेति । प्रभावः पुरीषभेदः कार्श्यं पारुष्यं लोम-
हर्षाभिनिर्व्वर्त्तनञ्च । तत्र वास्य गुदमुखं परितु-
दन्तः कण्डूश्चोपजनयन्तो गुदमुखं पर्य्यासते । स
जातहर्षो गुदान्निष्क्रमणमतिवेलं करोति !
इत्येषश्लेष्मजांनां पुरीषजानाञ्च क्रिमीणां समु-
त्थानादिविशेषः । चिकित्सितन्तु खल्वेषां समा-
सेनोपदिश्य पश्चाद्विस्तरेणोपदेक्ष्यते । तत्र सर्व्व-
क्रिमीणामपकर्षणमेवादितः कार्य्यम् । ततः प्रकृ-
तिविघातोऽनन्तरं निदानोक्तानां भावानामनुप-
सेवनमिति ।
तत्रापकर्षणं हस्तेनाभिमृश्यापनयनमुपकरण-
वतानुंपकरणेन वा । स्थानगतानान्तु क्रिमीणां
भेषजेनापकर्षणं न्यायतश्चतुर्विधमिति । तद्-
यथा, -- शिरोविरेचनं वमनं विरेचनमास्थापन-
मित्यपकर्षणविधिः ।
प्रकृतिविघातस्त्वेषां कटुतिक्तकषायक्षारो-
ष्णानां द्रव्याणामुपयोगो यच्चान्यदपि किञ्चित्
श्लेष्मपुरीषप्रत्यनीकभूतं तत्स्यादिति प्रकृति-
विघातः ।
अनन्तरं निदानोक्तानां भावानामनुपसेदनम् ।
यदुक्तं निदानविधौ, तस्य वर्ज्जनं तथाविध-
पृष्ठ २/२१७
प्रायाणां चापरेषां द्रव्याणामिति लक्षणतश्चिकि-
त्सितमनुव्याख्यातमेतदेव पुनर्विस्तरेणोपदेक्ष्यते ।
अथैनं क्रिमिकोष्ठमातुरमग्रे षड्रात्रं सप्त-
रात्रं वा स्नेहस्वेदाभ्यामुपपाद्य श्वोभूते एनं
संशोधनं पाययितास्मीति, क्षीरदधिगुडतिल-
मत्स्यानूपमांसपिष्टान्नपरमान्नकुसुम्भस्नेह सम्प्रयुक्तै-
र्भोज्यैः सायम्प्रातरुपपादयेत् समुदीरणार्थञ्चैव
क्रिमीणाङ्कोष्ठाभिसरणार्थञ्च । भिषगथ व्युष्टायां
रजन्यां सुखोषितं सुप्रजीर्णभुक्तञ्चाज्ञायास्थाप-
नवमनविरेचनैस्तदहरेवोपपादयेत् । उपपादनी-
यश्चेत्स्यात् सर्व्वान् परीक्ष्य विशेषान् समीक्ष्य
सम्यक् । अथाहरेति ब्रूयात् । मूलक-सर्षपलशुनक-
रञ्ज-शिग्रु-खरपुष्पभूस्तृण-सुमुख-सुरस-कुठेरक-
कण्डीर-कालमालपर्णासक्षवकफणिज्झकानि स-
र्व्वाण्यथवा यथालाभम् । तान्याहृतान्यभिसमीक्ष्य
खण्डशश्छेदयित्वा प्रक्षाल्य पानीयेन सुप्रक्षालि
तायां स्थाल्यां समावाप्य गोमूत्रेणार्द्धोदकेनाभ्या-
सिच्य साधयेत् । सततमवघट्टयन् दर्व्व्या तमु-
पयुक्तं भूयिष्टेऽम्भसि । गतरसेष्वौषधेषु स्थाली-
मवतार्य्य सुपरिपूतं कषायं सुखोष्णं मदनफल-
विडङ्गकल्कतैलोपहितं सर्ज्जिकालवणमभ्यासिच्य
वस्तौ विधिवदास्थापयेदेनम्” ।
“मदनफलपिप्पलीकषायेष्वञ्जलिमात्रेण त्रिवृत्
कल्काक्षमात्रामालोड्य पातुमस्मै प्रयच्छेत् । तदस्य
दोषमभयतो निर्हरति साधु । एवमेव कल्पो-
क्तानि वमनविरेचनानि संसृज्य पाययेदेनं बुद्ध्या
सर्व्वविशेषानवेक्षमाणः ।
अथैनं सम्यग्विरिक्तं विज्ञायापराह्णे शैख-
रिककषायेण सुखोष्णेन परिषेचयेत् । तेनैव च
कषायेण वाह्याभ्यन्तरान् सर्व्वोदकार्थान् कारयेत्
शश्वत् । तदभावे वा कटुकतिक्तकषायाणामौष-
धानां क्वाथैर्मूत्रक्षारैर्वा परिषेचयेत् । परिषिक्तञ्च
एवं निवातमागारमनुप्रवेश्य पिप्पलीपिप्पली-
मूलचव्यचित्रकशृङ्गवेरसिद्धेन यवाग्वादिना क्रमे-
णोपक्रामयेत् । विलेप्याक्रमागतञ्चैनमनुवासयेत्
विडङ्गतैलेनैकान्तरं द्विस्त्रिर्व्वा । यदि पुनरस्याति-
प्रवृद्धान् शीर्षादीन् क्रिमीन् मन्येत, शिरस्येवा-
भिसर्पतः कदाचित् । ततः स्नेहस्वेदाभ्यामस्य शिर
उपपाद्य, विरेचयेदपामार्गतण्डुलादिना शिरो-
विरेचनेन ।
यस्त्वभ्याहार्य्यविधिः प्रकृतिविघातोक्तः क्रिमीणां
सोऽनुव्याख्यास्यते । मूषिकपर्णीं समूलाग्रप्र-
तानामपहृत्य खण्डशश्छेदयित्वा उदूखले क्षोद-
यित्वा पाणिभ्यां पीडयित्वा च रसं गृह्णीयात् ।
तेन रसेन लोहितशालितण्डुलपिष्टं समालोड्य
पूपलिकां कृत्वा विधूमेष्बङ्गारेषूपकुड्य विडङ्गतैल-
लवणोपहितां क्रिमिकोष्ठाय भक्षयितुमुप-
यच्छेत् । तदनन्तरमम्लकाञ्जिकमुदश्विद्वा पिप्प-
ल्यादि पञ्चवर्गसंसृष्टं सलवणमनुपाययेत्” ।
“अथाश्वशकृदाहृत्य महति किलिञ्जे प्रती-
र्य्यातपे शोषयित्वोदूखले क्षोदयित्वा दृशदि
पुनः सूक्ष्माणि चूर्णानि कारयित्वा विडङ्गकषा-
येण त्रिफलाकषायेण वा अष्टकृत्वो दशकृत्वो
वा आतपे सुपरिभाषितानि भावयित्वा दुशदि
पुंनः सूक्ष्माणि चूर्णानि कारयित्वा नवे कलसे
समवाप्यानुगुप्तं निधापयेत् । तेषान्तु खलु चूर्णानां
पाणितलं पूर्णं यावद्वा साधु मन्येत क्षौद्रेण संसृज्य
क्रिमिकोष्ठाय लेढुम्प्रयच्छेत् ॥
तथा भल्लातकास्थीन्याहार्य्य कलसप्रमाणेन
सम्पोथ्य स्नेहभाविते दृढे कलसे सूक्ष्मानेकच्छिद्र-
ब्रध्रे मृदावलिप्ते समवाप्योडुपेन पिधाय भूमा-
वाकण्ठं निखातस्य स्नेहभावितम्यैव दृढस्योपरि
कुम्भस्यारोप्य समन्तात् गोमयैण्पचित्य दाह-
येत् । स यदा जानीयात् साधु दग्धानि गोम-
यानि विगतस्नेहानि भल्लातकास्थीनीति ततस्तं
कुम्भमुद्धारयेत् । अथ तस्मात् द्वितीयात् कुम्भात्तं
स्नेहमादाय विडङ्गतण्डुलचूर्णैः स्नेहार्द्धमात्रैः प्रति
संसृज्यातपे सर्व्वमहः स्थापयित्वा ततोऽस्मै मात्रां
प्रयच्छेत् पानाय । तेन साधु विरिच्यते विरि-
क्तस्य चानुपूर्ब्बी यथोक्ता” ॥
“अथाहरेति ब्रूयात् शारदान्नवांस्तिलान्
सम्पदुपेतानाहृत्य सुनिष्पूतान्निष्पूय सुशुद्धान्
शोधयित्वा विडङ्गकषाये सुखोष्णे प्रक्षिप्य
सुनिर्ष्वापितान् निर्व्वापयेत् आदोषशमनात् ।
गतदोषानभिसमीक्ष्य सप्रलूनान् प्रलुच्य पुनरेव
सुनिष्पूतान्निष्पूय सुशुद्धान् शोधयित्वा विडङ्ग-
कषायेण त्रिःसप्तकृत्वः सुपरिभावितान् भाव-
यित्वातपे शोधयित्वोदूखले संक्षुद्य दृशदि पुनः
श्लक्ष्णपिष्टान् कारयित्वा द्रोण्यामभ्यवधाय वि-
डङ्गकषायेण मुहुर्मुहुरवसिञ्च्य पाणिमर्द्दं मर्द्द-
येत् । तस्मिन् खलु प्रपीड्यमाने यत्तैलमुपदियात्
तत्पाणिभ्यां पर्य्यादाय शुचौ दृढे कलसे समा-
सिच्यानुगुप्तन्निधापयेत् । अथाहरेति ब्रूयात्
तिल्वकोद्दालकयोर्द्वौ विल्वमात्रौ पिण्डौ श्लक्ष्ण-
पिष्टौ विडङ्गकषायेण, ततोऽर्द्धमात्रौ श्यामा-
त्रिवृतयोरर्द्धमात्रौ दन्तीद्रवन्त्योरतो अर्द्धमात्रौ-
चव्यचित्रकयोरित्येतत् सम्भारं विडङ्ग-कषाय-
स्यार्द्धाढकमात्रेण प्रतिसंसृज्य ततस्तैलप्रस्थमावाप्य
सर्व्वमालोड्य महति पर्य्योगे समासिच्याग्नावधि-
श्रित्य महत्यासने सुखोपविष्टः सर्व्वतः स्नेहमव-
लोकयन्नजस्रं मृद्वग्निना साधयेद्दर्व्व्या सततमव-
घट्टयन् । स यदा जानीयाद्विरमति शब्दः, प्रशा-
म्यति च फेणः, प्रसादमापद्यते स्नेहो यथास्वङ्गन्ध-
वर्णरसोत्पत्तिः संवर्त्तते, भेषजमङ्गुलिभ्यां मृद्य-
मानमनतिमृदुमनतिदारुणमनङ्गुलिग्राहि चेति ।
सकालस्तस्यावतारणाय । ततस्तमवतीर्णं हृतं
शीतीभूतं महता वाससा परिपूय शुचौ दृढे
कलसे समासिच्य पिधानेन पिधाय शुक्लेन
वस्त्रपट्टेनाच्छाद्य सूत्रेण सुबद्धं अनुगुप्तन्निधाप-
येत् । ततोऽस्मै मात्राम्प्रयच्छेत् पानाय । तेन
साधु विरिच्यते । सम्यगपहृतदोषस्य चास्यानु-
पूर्ब्बी यथोक्ता । ततश्चैनमनुवासयेदनुवासन-
काले” ॥
“इत्येतत् द्वयानां श्लेष्म-पुरीष-सम्भवानां
क्रिमीणां समुत्थानस्थानमंस्थानवर्ण-नाम-प्रभाव-
चिकित्सितविशेषा व्याख्याताः सामान्यतः । वि-
शेषतस्त्वल्पमात्रमास्थापनानुवासनानुलोमहरणं
भूयिष्ठं तेष्वौषधेषु पुरीषजानां क्रिमीणां चिकि-
त्सितं कार्य्यं मात्राधिकं पुनः शिरोविरेचनवमनो-
पशमनभूयिष्ठं तेष्वौषधेषु श्लेष्मजानां क्रिमीणां
चिकित्सितं कार्य्यम् । इत्येष क्रिमिघ्नो भेषज-
विधिरनुव्याख्यातो भवति” ॥ इति चरके विमान-
स्थाने सप्तमोऽध्यायः ॥ * ॥
“सूतं गन्धं मृतं लौहं मरिचं विषमेव च ।
मुस्तकं त्रिफला शुण्ठी धातकी सरसाञ्जनम् ॥
त्र्यूषणं मुस्तकं पाठा बालकं विल्वमेव च ।
एतानि समभागानि स्वरसैर्भृङ्गजैस्तथा ॥
वराटिका प्रमाणेन भक्षणाय विशेषतः ।
क्रिमिरोगविनाशाय क्रिमिरोगविनाशनः” ॥
इति क्रिमिरोगारिरसः ॥ * ॥
“क्रमेण वृद्धं रसगन्धकाज-
मोदा विडङ्गं विषमुष्टिका च ।
पलाशवीजञ्च विचूर्ण्यमस्य
निष्कप्रमाणं मधुनावलीढम् ॥
पिवेत् कषायं षनजं तदूर्द्ध्वं
रसोऽयमुक्तः क्रिमिमुद्गराख्यः ।
क्रिमीन्निहन्यात् क्रिमिजांश्च रोगान्
सन्दीपयत्यग्निमयं त्रिरात्रात्” ॥
इति क्रिमिमुद्गरो रसः ॥
इति वैद्यकरसेन्द्रसारसंग्रहे क्रिमिरोगाधिकारे ॥ * ॥
अथास्य पथ्यापथ्यविधिः । पथ्यानि यथा, --
“आस्थापनं कायशिरोविरेचनं
धूमः कफघ्नानि शरीरमार्ज्जना ।
चिरन्तना वैणवरक्तशालयः
पटोलवेत्राग्ररसोनवास्तुकम् ॥
हुताशमन्दारदलानि सर्षपा
नवीनमोचं वृहतीफलान्यपि ।
तिक्तानि नाली च दलानि मौषिकं
मांसं विडङ्गं पिचुमर्द्दपल्लवम् ॥
पथ्या च तैलन्तिलसर्षपोद्भवं
सौवीरशुक्तञ्च तुषोदकं मधु ।
पचेलिमं तालमरुष्करं गवां
मूत्रञ्च ताम्बूलसुरामृगाण्डजम् ॥
औष्ट्राणि मूत्राज्यपयांसि रामठं
क्षाराजमोदा खदिरञ्च वत्सकम् ।
जम्बीरनीरं सुषवी यमानिका
क्षाराः सुराह्वा गुरुशिंशपोद्भवाः ॥
तिक्तः कषायः कटुको रसोऽप्ययं
वर्गो नराणां क्रिमिरोगिणां सुखः” ॥ * ॥
अपथ्यानि यथा, --
“छर्द्दिञ्च तद्वेगविधारणञ्च
विरुद्धपानाशनवह्णिनिद्राम् ।
द्रवञ्च पिष्टान्नमजीर्णताञ्च
घृतानि माषान् दधिपत्रशाकम् ॥
मांसं पयोऽम्लं मधुरं रसञ्च
क्रिमीन् जिघांसुः परिवर्ज्जयेच्च” ॥
पृष्ठ २/२१८
इति वैद्यकक्रिमिरोगपथ्यापथ्यविधिग्रन्थे ॥)

क्रिमिकण्टकं, क्ली, (क्रिमौ कण्टकमिव ।) कृमि-

कण्टकम् । इति मेदिनी ॥

क्रिमिघ्नः, पुं, (क्रिमिं हन्ति नाशयतीति । “अमनु-

ष्यकर्तृके च” । ३ । २ । ५३ । इति टक् । मूलवि-
भूजादित्वात् सिद्धः । अत् पूर्ब्बस्येति नियमान्न
णत्वम् ।) कृमिघ्नः । विडङ्गः । इत्यमरटीकायां
रमानाथः ॥ (क्रिमिरोगनाशकौषधविशेषः ।
“क्रिमिघ्नं किंशुकारिष्टवीजं सरसभस्मकम् ।
वल्वद्वयञ्चाखुपर्णीरसैः क्रिमिविनाशनः” ॥
इति क्रिमिघ्नो रसः ॥
इति वैद्यकरसेन्द्रसारसंग्रहे क्रिम्यधिकारे ॥)

क्रिमिघ्नी, स्त्री, (क्रिमिघ्न + टित्वात् स्त्रियां ङीप् ।)

सोमराजी । इति शब्दचन्द्रिका ॥

क्रिमिजं, क्ली, (क्रिमिभ्यः जायते इति । “अन्येष्वपि

दृश्यते” । ३ । २ । १०१ । इति डः ।) अगुरु । इत्यमरः ॥

क्रिमिजा, स्त्री, (क्रिमिज + स्त्रियां टाप् ।) लाक्षा ।

इति रत्नमाला ॥

क्रिमिशत्रुः, पुं, (क्रिमेः शत्रुरिव नाशकत्वात् ।) रक्त-

पुष्पकः । इति शब्दचन्द्रिका । पालितामादार
रति भाषा ॥

क्रिमिशात्रवः, पुं, (शत्रु + स्वार्थे अण् शात्रवः ।

क्रिमेः शात्रव इव तन्नाशकत्वात् ।) विट्खदिरः ।
इति शब्दचन्द्रिका ॥

क्रिमिशैलः, पुं, (क्रिमिभिनिर्म्मितः शैल इव ।)

वल्मीकः । इति त्रिकाण्डशेषः ॥

क्रियः, पुं, (क्रिया ग्रहाणामाद्यगतिक्रिया विद्यते-

अत्र अर्शआदेरच् ।) मेषराशिः । इति दीपिका ॥

क्रिया, स्त्री, (क्रियते अनया असौ अस्मिन् इति

वा । डु कृ ञ् करणे करणकर्म्माधिकरणादौ च
यथायथं श प्रत्ययः । “रिङ् शयग्लिङ्क्षु” ।
७ । ४ । १८ । इति रिङादेशः । “अचिश्नुधातु-
भ्रुवां य्वोरियङुवङौ” । ६ । ४ । ७७ । इति
इयङ् ।) आरम्भः । निष्कृतिः । शिक्षा । पूज-
नम् । सम्प्रधारणम् । उपायः । कर्म्म । तन्नव-
विधम् । यथा, --
“आरम्भो निष्कृतिः शिक्षा पूजनं सम्प्रधारणम् ।
उपायः कर्म्म चेष्टा च चिकित्सा च नव क्रियाः” ॥
इति भावप्रकाशः ॥ चेष्टा । चिकित्सा । इत्य-
मरः । ३ । ३ । १५६ ॥ कारणम् । इति हेम-
चन्द्रः ॥ श्राद्धम् । इत्यमरटीकायां स्वामी ॥
शौचम् । इति शब्दरत्नावली ॥ धात्वर्थः करोत्यर्थो
वा । इति वैयाकरणाः ॥ क्रियाः साध्यरूपाः
वस्तधर्म्माः पाकादयः एषु हि अधिश्रयणाद्यव-
श्रयणान्तादिः पूर्ब्बापरीभूतो व्यापारकलापः
पाकादिशब्दवाच्यः । इति साहित्यदर्पणम् ॥ चतुः-
प्रकारव्यवहारपादान्तर्गतव्यवहारपादविशेषः ।
सा द्विधा मानुषी दैविकी च । तत्राद्या साक्ष्य-
लेख्यानुमानभेदेन त्रिधा । द्वितीया धटाग्न्युदक-
विषकोषतण्डलतप्तमाषकफालधर्म्मजभेदेन नवधा
दिष्यानि । यथा, --
“द्विप्रकारा क्रिया प्रोक्ता मानुषी दैविकी । तथा
साक्ष्यलेख्यानुमानञ्च मानुषी त्रिविधा स्मृता ।
धटाद्या धर्म्मजान्ताश्च दैविकी नवधा स्मृता” ॥
इति व्यवहारतत्त्वे वृहस्पतिः ॥ (चिकित्साकार्य्यं
यथा, -- चरके सूत्रस्थाने १७ अध्याये ॥
“याभिः क्रियाभिर्जायन्ते शरीरे धातवः समाः ।
सा चिकित्सा विकाराणां कर्म्मतद्भिषजां मतम् ॥
कथं शरीरे धातूनां वैषम्यं न भवेदिति ।
समानाञ्चानुबन्धः स्यादित्यर्थं क्रियते क्रियाः” ॥
“यात्युदीर्णं शमयति नान्यं व्याधिं करोति च ।
सा क्रिया न तु या व्याधिं हरत्यन्यमुदीरयेत्” ॥
शीते शीतप्रतीकार उष्णेचोष्मनिवारणम् ।
कृत्वाकुर्य्यात् क्रियांप्राप्तां क्रियाकालं न हापयेत्” ॥
इति च सुश्रुते सूत्रस्थाने ३५ अध्याये ॥)

क्रियाकारः, पुं, (क्रियां शिक्षारम्भं करोतीति । कृ +

उपपदे “कर्म्मण्यण्” ३ । १ । १ । इत्यण् ।) नव-
च्छात्रः । नूतन पडुया इतिभाषा । इति त्रिकाण्ड-
शेषः ॥ कर्म्मकर्त्तरि त्रि ॥

क्रियाद्वेषी, [न्] पुं, (क्रियां व्यवहाराङ्गसाधनं

साक्षिलेख्यादिकं द्वेष्टि । द्विष् + णिनिः ।)
साक्ष्यलिखितभुक्तियुक्तिशपथद्वेष्टा । स चं व्यव-
हारविषये पञ्चधा । हीनान्तर्गतहीनविशेषः ।
यथाह, -- व्यवहारतत्त्वे नारदः ।
“अन्यवादी क्रियाद्वेषी नोपस्थायी निरुत्तरः ।
आहूतप्रपलायी च हीनः पञ्चविधः स्मृतः” ॥
(तल्लक्षणं यथा । वीरमित्रधृतकात्यायनवचने ।
“लेख्यञ्च दाक्षिणञ्चैव क्रिया ज्ञेया मनीषिभिः ।
तां क्रियां द्वेष्टि यो मोहात् क्रियाद्वेषी स उच्यते” ॥)
कर्म्मद्वेष्टरि त्रि ॥

क्रियापादः, पुं, (क्रिया विवादसाधनं पाद इव ।)

चतुष्पादव्यवहारान्तर्गततृतीयपादः । यथा, --
“पूर्ब्बपक्षः स्मृतः पादो द्वितीयश्चोत्तरः स्मृतः ।
क्रियापादस्तथा चान्यश्चतुर्थो निर्णयः स्मृतः” ॥
इति वृहस्पतिः ॥ स च साक्ष्यलिखितभुक्तियुक्ति-
शपथरूपः । इति व्यवहारतत्त्वम् ॥

क्रियाभ्युपगमः, पुं, (क्रियायाः कर्षणादिक्रियार्थं

अभ्युपगमः स्वीकारः ।) परस्परक्रियास्वीकारः ।
द्वयोः पुरुषयोः कस्मिंश्चिद्विषये परस्पराङ्गीका-
रेण अनुमतिः । यथा, --
“क्रियाभ्युपगमात् क्षेत्रं वीजार्थं यत् प्रदीयते ।
तस्येह भागिनौ दृष्टौ वीजी क्षेत्रिक एव च” ॥
इति मनुः ॥ अस्यार्थः । “यदत्रापत्यं भविष्यति
तदावयोरुभयोरेवेति नियम्यैतत् क्षेत्रस्वामिना
वीजवपनार्थं यद्वीजिनो दीयते तस्यापत्यस्य लोके
वीजिक्षेत्रिणौ द्वावपि भागिनौ दृष्टौ” । इति
कुल्लूकभट्टः ॥ उपलक्षणमेतत् ॥

क्रियायोगः, पुं, (क्रियैव योगः योग उपायः ।) देवा-

राधनतदालयादिकरणरूपपुण्यक्रिया । यथा, --
नारद उवाच ।
“क्रियायोगः कथं प्रोक्तस्त्वया मे प्रपितामह ! ।
तदहं श्रोतुमिच्छामि फलं चास्य यथातथम् ॥
ब्रह्मोवाच ।
ज्ञानयोगस्तु योगस्य यस्तु साधनमात्मना ।
यस्तु वाह्यार्थसंयोगः क्रियायोगः स उच्यते ॥
प्रधानं कारणं योगो मुक्तेर्मुनिवरोत्तम ! ।
क्रियायोगस्तु योगस्य परमं तात ! साधनम् ॥
यदेतद्भवता पृष्टं तदिहैकमनाः शृणु ।
यैस्तु देवालयं विष्णोः शुभं दारुमयं कृतम् ॥
कारयेन्मृण्मयं वापि शृणु तस्य फलं मुने ! ।
अहन्यहनि योगेन यजतो यन्महाफलम् ॥
प्राप्नोति तत् फलं विष्णोर्यः कारयति मन्दिरम् ।
कुलानां शतमागामि समतीतं तथा शतम् ॥
कारयेद्भगवद्धाम नयत्यच्युतमन्दिरम् ।
सप्तजन्मकृतं पापं स्वल्पं वा यदि वा बहु ॥
विष्णोरालयविन्यासप्रारम्भादेव नश्यति ।
पतितं पतमानन्तु तथार्द्धपतितं तथा ॥
समुद्धृत्य हरेर्द्धाम द्विगुणं फलमाप्नुयात् ॥
“प्रतिमां लक्षणवतीं यः कुर्य्याच्चैव मानवः ॥
केशवस्य परं लोकमक्षयं प्रतिपद्यते ।
अनुज्ञातो मया राज्ये यमो राजाथ किङ्कराः ॥
केवलं ये जगद्धाममनन्तं समुपाश्रिताः ।
भवद्भिः परिहार्य्यास्ते तेषां नास्तीह संस्थितिः ॥
नमः कृष्णाच्युतानन्त वासुदेवेत्युदीरितम् ।
यैर्भावभावितैर्दूतास्ते च त्याज्याः सुदूरतः ॥
दानं ददद्भिर्यैरुक्तमच्युतः प्रीयतामिति ।
श्रद्धापुरःसरैर्नित्यं ते च त्याज्याः सुदूरतः” ॥
इत्याद्ये वह्निपुराणे वैष्णवक्रियायोगे यमानुशासन-
नामाध्यायः ॥ तथा च पातञ्जले ।
“तपः स्वाध्यायेश्वरप्रणिधानानि क्रियायोगाः” ॥)

क्रियावसन्नः, त्रि, (क्रियया अवसन्नः ।) साक्ष्यादिना

प्राप्तपराजयः । यथा, --
“स्वयमभ्युपपन्नो हि स्वचर्य्यावसितोऽपि सन् ।
क्रियावसन्नो वादे तु परं सभ्यावधारणम्” ॥
इति व्यवहारतत्त्वम् ॥

क्रियावान्, [त्] त्रि, (क्रिया अस्यास्तीति मतुम् ।

मस्य वः ।) कर्म्मसूद्यतः । क्रियासु नियुक्तः ।
इत्यमरः । ३ । १ । १८ ॥ (यथा, भट्टिः । १ । १० ।
“पुत्त्रीयता तेन वराङ्गनाभि-
रानायि विद्वान् क्रतुषु क्रियावान्” ॥)

क्रियावादी, [न्] पुं, (क्रियां क्रियासाध्यं वदति ।

वद + णिनिः ।) प्रमाणवादी । कार्य्यवादी । इति
मिताक्षरा ॥ फरियादी इति पारस्यभाषा ॥

क्रियेन्द्रियं, क्ली, (क्रियायाः कर्म्मणः साधनं इन्द्रि-

यम् ।) कर्म्मेन्द्रियम् । इति हेमचन्द्रः ॥ (तानि च
पञ्चसंख्यकानि ज्ञानकर्म्मभेदेन दशसंख्यकानि च
प्रसिद्धानि मनस्तु उभयात्मकं सर्व्वेषां प्रवर्त्तकम् ।
यथा मनौ ।
“श्रोत्रं त्वक् चक्षुषी जिह्वा नासिका चैव पञ्चमी ।
पायूपस्थापाणिपादवाक् चैव दशमी स्मृता” ॥)

क्री, डु ञ ग द्रव्यपर्य्यये । इति कविकल्पद्रुमः ॥

(क्र्यां--उभं-सकं-अनिट् ।) पर्य्यायः परीवर्त्तः ।
डु, क्रीत्रिमम् । ञ ग, क्रीणाति क्रीणीते धान्यं
धनेन लोकः । इति दुर्गादासः ॥

क्रीड, ऋ खेले । इति कविकल्पद्रुमः ॥ (भ्वां-

परं-अकं-सेट् ।) ऋ, अचिक्रीडत् । क्रीडति
पृष्ठ २/२१९
बालः शिशुभिः । इति दुर्गादासः ॥

क्रीडः, पुं, (क्रीड + भावे घञ् ।) परीहासः । इति

शब्दरत्नावली ॥

क्रीडनं, क्ली, (क्रीड + भावे ल्युट् ।) खेला । यथा ।

“बालक्रीडनमिन्दुशेखरधनुर्भङ्गावधि प्रह्वता
ताते काननसेवनावधि कृपा सुग्रीवसख्यावधि” ।
इति महानाटकम् ॥

क्रीडा, स्त्री, (क्रीड + भावे अप् ततष्टाप् ।) परी-

हासः । खेला । इत्यमरः । १ । ७ । ३३ ॥
(यथा, भागवते । २ । ३ । १५ ।
“स वै भागवतो राजा पाण्डवेयो महारथः ।
बालक्रीडनकैः क्रीडन् कृष्णक्रीडां य आददे” ॥)
अवज्ञानम् । इति मेदिनी ॥

क्रीडातालः, पुं, (क्रीडानामकस्तालः ।) तालप्रभेदः ।

यथा, --
“एक एव प्लुतो यत्र क्रीडातालः स कथ्यते ।
अपरं नियमं विना” । इति सङ्गीतदामोदरः ॥

क्रीडारत्नं, क्ली, (क्रीडायां क्रीडायाः वा रत्नमिव ।)

रतिः । इति त्रिकाण्डशेषः ॥

क्रीडारथः, पुं, (क्रीडायै रथः ।) क्रीडार्थरथः । इति हलायुधः ॥

क्रीतः, पुं, (क्री + कर्म्मणि क्तः ।) क्रीतकपुत्त्रः । स

तु द्वादशविधपुत्त्रान्तर्गतपुत्त्रभेदः । इति जटा-
धरः ॥ (यथाह, याज्ञवल्क्यः ।
“दद्यात् मातापिता वा यं स पुत्त्रो दत्तको भवेत् ।
क्रीतश्च ताभ्यां विक्रीतः कृत्रिमः स्यात् स्वयं कृतः” ॥)
कृतक्रये त्रि । केना इति भाषा । यथा, --
“दीयमानं न गृह्णाति क्रीतं पण्यन्तु यः क्रयी ।
स एवास्य भवेद्दोषो विक्रेतुर्योऽप्रयच्छतः” ॥
इति प्रायश्चित्ततत्त्वे नारदः ॥

क्रीतकः, पुं, (क्रीत + स्वार्थे कन् ।) क्रीतपुत्त्रः ।

यथा, मनुः । ९ । १७४ ।
“क्रीणीयाद्यस्त्वपत्यार्थं मातापित्रोर्यमन्तिकात् ।
स क्रीतकः सुतस्तस्य सदृशोऽसदृशोऽपि वा” ॥

क्रीतानुशयः, पुं, (क्रीते क्रये अनुशयः पश्चात्तापः ।)

द्रव्यं क्रीत्वा पश्चादनुतापः । यथा, --
“क्रीत्वा मूल्येन यः पण्यं क्रेता न बहु मन्यते ।
क्रीतानुशय इत्येतत् विवादपदमुच्यते” ॥
इति याज्ञवल्क्यः ॥

क्रुङ्, [ञ्च्], पुं स्त्री, (क्रुञ्चति वक्रं यथा स्यात् तथा

गच्छति । “ऋत्विग् दधृक् स्रगिति” । ३ । २ ।
५९ । इति निपातनात् साधुः ।) क्रौञ्चः । इत्य-
मरः । २ । ५ । २२ ॥ कोच् वक इति भाषा ।
(यथा, यजुर्वेदे १६ । ७३ ।
“अद्भ्यः क्षीरं व्यापिबत् क्रुङङाङ्गिरसो धिया ।
ऋतेन सत्यमिन्द्रियम्” ।
“आङ्गिरसः अङ्गानां रसः प्राणो यथा, क्रुङ्
हंसो भूत्वा धिया प्रज्ञया अद्भ्यः सकाशात्
क्षीरं दुग्धं व्यापिबत् पिबति संसृष्टाभ्यां क्षीरो-
दकाभ्यां क्षीरमेव हंसः पिबतीति जातिस्व-
भावः” । इति भाष्यम् ॥)

क्रुञ्चः, पुं, (क्रुन्च + अच् ।) क्रौञ्चपर्व्वतः । इति

हेमचन्द्रः ॥ (वकविशेषः । यथा, यजुर्वेदे २४ । २२ ।
“वायवे वलाका इन्द्राग्निभ्यां क्रुञ्चान्” ॥)

क्रुञ्चा, स्त्री, (क्रुञ्च + स्त्रियां संयोगोपधत्वात् टाप् ।)

अजादित्वात् टावित्येके । वीणाभेदः । इति शब्द-
रत्नावली ॥

क्रुत्, [ध्] स्त्री, (क्रुध् + सम्पदादित्वात् क्विप् भावे ।)

क्रोधः । इत्यमरहेमचन्द्रौ ॥ अस्या रूपान्तराणि ।
क्रुद् । क्रुत्त क्रुद्द । इति संक्षिप्तसारव्याकरणम् ॥

क्रुद्धः, त्रि, (क्रुध् + कर्त्तरि क्तः ।) क्रोधयुक्तः । यथा ।

“योद्धुमभ्याययौ क्रुद्धो रक्तवीजो महासुरः” ॥
इति देवीमाहात्म्यम् ॥ (भावे क्तः ।) क्रोधे क्ली ॥

क्रुध, ऌ य औ कोपे । इति कविकल्पद्रुमः ॥

(दिवां-परं-अकं-अनिट् ।) ऌ, अक्रुधत् । य, क्रुध्य-
ति लोकः शिशवे । औ, क्रोद्धा । इति दुर्गा-
दासः ॥ * ॥ रेलते १ हेलते २ भ्रामते ३ भृणी-
यते ४ भ्रीणाति ५ भ्रेयति ६ दोधति ७ वनय्यति
८ कम्पते ९ भोजते १० । इति दश क्रुध्यति-
कर्म्माणः । इति वेदनिघण्टौ २ अध्यायः ॥

क्रुधा, स्त्री, (क्रुध् + क्विप् स्त्रियां हलन्तत्वात् वा टाप् ।)

क्रोधः । इत्यमरटीकायां भरतः ॥

क्रुन्च, गत्याम् । वक्रणे । इति कविकल्पद्रुमः ॥ (भ्वां-

परं-सकं-अकं च-सेट् ।) रेफयुक्तादिः पञ्चमस्वरी ।
क्रुञ्चति । इति दुर्गादासः ॥

क्रुन्थ, ग श्लिषि । क्लिशि । इति कविकल्पद्रुमः ॥

(क्र्यां-परं-अकं-सेट् ।) पञ्चमस्वरी रेफयुक्तः ।
क्लिशि दुःखानुभवे । ग, क्रुथ्नाति बुभुक्षार्त्तः । इति
हलायुधः । चुक्रुन्थ । इति दुर्गादासः ॥

क्रुश, ज औ रोदे । हूतौ । इति कविकल्पद्रुमः ॥

(भ्वां-परं-रोदने अकं-आह्वाने सकं-अनिट् ।)
ज, क्रोशः क्रुशः । औ, अक्रुक्षत् । रोदोऽश्रु-
विमोचनम् । हूतिराह्वानम् । इति दुर्गादासः ॥

क्रुश्वा, [न्] पुं स्त्री, (क्रोशति रौतीति । क्रुश +

“लीङ् क्रुशिरुहीति” । उणां ४ । ११३ । इति
क्वनिप् ।) शृगालः । इति सिद्धान्तकौमुद्यामुणा-
दिवृत्तिः ॥

क्रुष्टं, क्ली, (क्रुश् + भावे क्तः ।) रोदनम् । इत्यमरः ।

१ । ७ । ३५ ॥ रावः । इति मेदिनी ॥

क्रूरः, त्रि, (कृत् छेदने + “कृतेश्छक्रूच” । उणां २ ।

२१ । इति रक्प्रत्ययः धातोः क्र्वादेशश्च ।) पर-
द्रोहकारी । (यथा, मेघदूते । १०७ ।
“क्रूरस्तस्मिन्नपि न सहते सङ्गमं नौ कृतान्तः” ॥)
निर्दयः । तत्पर्य्यायः । नृशंसः २ घातुकः ३ पापः ४ ।
(यथा, भागवते । ९ । १४ । ३७ ।
“स्त्रियो ह्यकरुणाः क्रूरा दुर्मर्षाः प्रियसाहसाः” ॥
यथा, च कुमारे । २ । ४८ ।
“तस्मिन्नुपायाः सर्व्वे नः क्रूरे प्रतिहतक्रियाः” ।
“क्रूरे घातुके” इति मल्लिनाथः ॥)
कठिनः । इत्यमरः । ३ । ३ । १९० ॥
(यथा, रघुवंशे । १२ । ४ ।
“तस्याभिषेकसम्भारं कल्पितं क्रूरनिश्चया” ॥)
घोरः । इति मेदिनी ॥ (यथा, पञ्चतन्त्रे ३ । २५ ।
“क्रूरो लुब्धोऽलसोऽसत्यः प्रमादी भीरुरस्थिरः” ॥)
उष्णः । इति हेमचन्द्रः ॥ प्रथमतृतीषपञ्चमसप्तम-
नवमैकादशराशयः । यथा, --
“ओजोऽथ युग्मं विषमः समश्च
क्रूरोऽथ सौम्यः पुरुषोऽङ्गना च ।
चरस्थिरद्व्यात्मकनामधेया
मेषादयोऽमी क्रमशः प्रदिष्टाः” ॥
इति दीपिका ॥

क्रूरः, पुं, (कृन्ततीति । “कृतेश्छक्रूच” । उणां २ । २१ ।

इति रक् धातोः क्र्वादेशश्च ।) भूताङ्कुशवृक्षः ।
रक्तकरवीरवृक्षः । श्येनपक्षी । कङ्कपक्षी । इति
राजनिर्घण्टः ॥

क्रूरकर्म्मा, [न्] पुं, (क्रूरं कर्म्म यस्य ।) भयानक-

कर्म्मकर्त्तरि त्रि ॥ (यथा, पञ्चतन्त्रे । १ । ७० ।
“द्विजिह्ला क्रूरकर्म्माणो निष्ठाच्छिद्रानुसारिणः ।
दूरतोऽपि हि पश्यन्ति राजानो भुजगा इव” ॥)
कटुतुम्बिनीवृक्षः । इति राजनिर्घण्टः ॥ (अक-
पुष्पी । अस्याः पर्य्याया यथा, -- भावप्रकाशस्य
पूर्ब्बखण्डे प्रथमे भागे ।
“अर्कपुष्पी क्रूरकर्म्मा पयस्या जलकामुका” ॥)

क्रूरगन्धः, पुं, (क्रूरः उग्रो गन्धोऽस्य ।) गन्धकः । इति

राजनिर्घण्टः ॥

क्रूरगन्धा, स्त्री, (क्रूरः उग्रो गन्ध एकदेशं ऽस्याः । स्त्रियां

टाप् ।) कन्थारीवृक्षः । इति राजनिर्घण्टः ॥

क्रूरदृक्, [श्] त्रि, (क्रूरा दृक् दृष्टिर्यस्य । क्रूरं

यथा स्यात् तथा पश्यति वा । दृश् + क्विन् ।)
पिशुनः । शनैश्चरे पुं । इति मेदिनी ॥ (यथा, --
ज्योतिषतत्त्वे । “आरोवक्रः क्रूरदृक् चावनेयः” ॥)

क्रूरधूर्त्तः पुं, (क्रूरः कृष्णवर्णतया धूर्त्त इव ।) कृष्ण-

धत्तूरकः । इति राजनिर्घण्टः ॥ (कृष्णधत्तूरकशब्दे
ऽस्य गुणपर्य्याया ज्ञातव्याः ॥)

क्रूररावी, [न्] पुं, (क्रूरं कर्क्कशं उग्रं वा रौतीति ।

रु + णिनिः ।) द्रोणकाकः । इति राजनिर्घण्टः ॥

क्रूरलोचनः, पुं, (क्रूरे लोचने क्रूरं लोचनं वा अस्य ।)

शनिः । इति हारावली ॥

क्रूरस्वरः, त्रि, (क्रूरः कर्क्कशः स्वरोऽस्य ।) कर्क्कश-

ध्वनियुक्तः । यथा, --
“क्रूरस्वरा काकोलूकघरट्टोष्ट्राश्वगर्द्दभाः” ॥
इति कविकल्पलतायां द्वितीयश्लेषस्तवके तृतीय-
कुसुमम् ॥

क्रूरा, स्त्री, (क्रूर + स्त्रियां जातित्वेपि न ङीष् अतः

टाप् ।) रक्तपुनर्नवा । इति राजनिर्घण्टः ॥

क्रूराकृतिः, पुं, (क्रूरा आकृतिर्यस्य ।) रावणः ।

इति शब्दमाला ॥ (कठोरमूर्त्तौ, त्रि ॥)

क्रेणिः, पुं, (क्री + निः ।) क्रयणम् । इत्युणादिकोषः ।

क्रेतव्यं, त्रि, (क्री + कर्म्मणि तव्यत् ।) क्रेयवस्तु । यथा,

“क्रेयं क्रेतव्यमात्रके” । इत्यमरः । २ । ९ । ८१ ॥

क्रेता, [ऋ] त्रि, (क्री + तृच् ।) क्रयकर्त्ता । यथा ।

“विक्रेतुर्दर्शनाच्छुद्धिः स्वामी द्रव्यं नृपो दमम् ॥
क्रेता मूल्यमवाप्नोति तस्माद्यस्तस्य विक्रयी” ॥
इति प्रायश्चित्ततत्त्वे याज्ञवल्क्यः ॥

क्रेयं, त्रि, (क्री + कर्म्मणि यत् ।) क्रेतव्यमात्रकम् ।

इत्यमरः । १ । ९ । ८१ ॥ किनिवार उपयुक्त द्रव्य
इति भाषा ॥
पृष्ठ २/२२०
क्रोञ्चदारणः, पुं, (क्रुञ्च + अच् बाहुलकाद्गुणः ।
क्रोञ्चः पर्व्वतविशेषः । तस्य दारणः दारकैत्यर्थः ।
कोञ्चं दारयति वा । दॄ + णिच् + ल्युः ।) कार्त्ति-
केयः । इत्यमरटीकायां रायमुकुटः ॥

क्रोडं, क्ली, स्त्री, (क्रूड + घञ् ।) बाह्वोर्मध्यम् । कोल

इति भाषा । तत्पर्य्यायः । भूजान्तरम् २ उरः ३
वत्सम् ४ वक्षः ५ । इत्यमरः । २ । ६ । ७७ ॥ उत्सङ्गः ६
भोगः ७ वपुषःप्राक् ८ । इति राजनिर्घण्टः ॥
(यथा, यजुर्व्वेदे । २५ । ८ । “इन्द्रस्य क्रोडोऽदित्यै-
पाजस्यम्” । कात्यायनश्रौतसूत्रे च । ६ । ८ । १३ ।
“शेषमिडा पात्र्यामासिच्य क्रोडमनस्थीनि च
पास्यति” ॥ हितोपदेशे च ।
“तत्र तरोर्निर्म्मितनीडक्रोडे पक्षिणः सुखं वर्षासु
निवसन्ति” ॥)

क्रोडः, पुं, (कूड + घञ् । क्रोडोऽस्यास्तीति अर्श

आदिभ्यः अच् वा ।) शूकरः । इत्यमरः । २ । ५ । २ ॥
शनिः । इति मेदिनी ॥ वाराहीकन्दः । इति राज-
निर्घण्टः ॥ (यथा, महाभारते । १३ । ५० । २० ।
“नदी शैवालदिग्धाङ्गं हरिश्मश्रुजटाधरम् ।
नग्नैः शङ्खनखैर्गात्रैः क्रोडैश्चित्रैरिवार्पितम्” ॥)

क्रोडकन्या, स्त्री, (क्रोडस्य शूकरस्य कन्या इव ।)

वाराहीकन्दः । इति राजनिर्घण्टः ॥

क्रोडचूडा, स्त्री, (क्रोडे चूडा यस्याः ।) महाश्राव-

णिकावृक्षः । इति राजनिर्घण्टः ॥ वड थुलकुडि
इति भाषा ।

क्रोडपर्णी, स्त्री, (क्रोडे कण्टकमध्ये पर्णं यस्याः ।)

कण्टकारिका । इति शब्दचन्द्रिका ॥ (कण्ट-
कारीशब्दे विवरणमस्य ज्ञेयम् ॥)

क्रोडपादः, पुं, (क्रोडे शरीराभ्यन्तरे पादोऽस्य ।)

कच्छपः । इति हेमचन्द्रः ॥

क्रोडाङ्गः, पुं, (क्रोडे अङ्गानि अस्य ।) कच्छपः । इति

शब्दरत्नावली ॥

क्रोडाङ्घ्रिः, पुं, (क्रोडे अङ्घ्रिरस्य ।) कच्छपः । इति

त्रिकाण्डशेषः ॥

क्रोडी, स्त्री, (क्रोड + जातिवाचकत्वात् गौरादित्वात्

ङीष् ।) वाराहीकन्दः । इति राजनिर्घण्टः ॥

क्रोडीकरणं, क्ली, (क्रोड + कृ + भावे ल्युट् । अभूत-

तद्भावे च्चिः ।) आलिङ्गनम् । इति हलायुधः ॥

कोडीकृतिः, स्त्री, (क्रोड + कृ + भावे + क्तिन् । अभूत-

तद्भावे चिः ।) आलिङ्गनम् । इति हेमचन्द्रः ॥

क्रोडीमुखः, पुं, (क्रोड्याः शूकर्य्याः मुखमिव मुखं

अम्य ।) गण्डकः । गण्डारः । इति राजनिर्घण्टः ॥
गण्डार इति भाषा ।

क्रोडेष्टा, स्त्री, (क्रोडस्य शूकरस्य इष्टा प्रिया ।)

मुस्ता इति राजनिर्घण्टः ॥

क्रोथः, पुं, (क्रुथ् हिंसने + भावे घञ् ।) हननम् ।

इति हेमचन्द्रः ॥

क्रोधः, पुं, (क्रध् + भावे घञ् ।) प्रतिकूले सति

तैक्ष्णम्य प्रबोधः । (यथा, भमवद्गीतायाम् । ३ अ०
“काम एष क्रोध एष रजोगुणसमुद्भवः ।
महाशको हापाप्मा विद्ध्येनमिह वैरिणम्” ॥)
तत्पर्य्यायः । कोपः २ अमर्षः ३ रोषः ४ प्रतिघः ५
रुट् ६ क्रुत् ७ क्रुद् ८ । इत्यमरः । १ । ७ । २६ ॥
आमर्षः ९ इति तट्टीकासारसुन्दरी ॥ भीमः १०
क्रुधा ११ रुषा १२ । इति शब्दार्णवः ॥ स तु
ब्रह्मणो भ्रुवो जातः शरीरस्थषड्रिपोरन्तर्गतश्च ।
इति पुराणम् ॥ हेलः १ हरः २ हृणिः ३ त्यजः ४
भामः ५ एहः ६ ह्वरः ७ तपुषी ८ जूर्णिः ९
मन्युः १० व्यथिः ११ । इत्येकादश क्रोधनामानि ।
इति वेदनिघण्टौ २ अध्यायः ॥ (वत्सरभेदः । यथा,
“विषमस्थं जगत् सर्व्वं व्याकुलं समुदाहृतम् ।
जनानां जायते भद्रे ! क्रोधे क्रोधः परस्परम्” ॥
इति शब्दार्थचिन्तामणिः । स्त्रियां टाप् । दक्ष-
कन्याविशेषः । यथा, महाभारते १ । ६५ । १२ ।
“क्रोधा प्राधा च विश्वा च विनता कपिला मुनिः” ॥)

क्रोधजः, पुं, (क्रोधात् जायते । जन् + डः ।) मोहः ।

यथा, भगवद्गीतायाम् । २ । ६२ ।
“सङ्गात् संजायते कामः कामात् क्रोधोऽभिजायते ।
क्रोधात्भवति सम्मोहः सम्मोहात् स्मृतिविभ्रमः” ॥
द्विधाव्यसनगणान्तर्गतव्यसनगणः । यथा, मनुः ।
“पैशुन्यं साहसं द्रोह ईर्ष्यासूयार्थदूषणम् ।
वाग्दण्डजञ्च पारुष्यं क्रोधजोऽपि गणोऽष्टकः” ॥

क्रोधनः, त्रि, (क्रुध् + “क्रुधमण्डार्थेभ्यश्च” । ३ । २ ।

१५१ । इति युच् ।) क्रोधविशिष्टः । तत्पर्य्यायः ।
अमर्षणः २ कोपी ३ । इत्यमरः । ३ । १ । ३२ ॥
क्रोधी ४ रोषणः ५ । इति हेमचन्द्रः ॥ (यथा,
वेणीसंहारे तृतीयाङ्के ।
“यद्रामेण कृतं तदेव कुरुते द्रौणायणिः क्रोधनः” ॥
कुरुवंशीयनृपविशेषः ।
यथा, भागवते । ९ । २२ । ११ ।
“ततश्च क्रोधनस्तस्माद् देवातिथिरमुष्य च” ॥
षष्टिवर्षान्तर्गतोनषष्टितमवर्षभेदः । यथा तन्त्रे ।
“रोगो मरणदुर्भिक्षं विरोधोत्तरसङ्कुलम् ।
क्रोधने विषमं सर्व्वं समाख्यातं हरप्रिये !” ॥
भैरवभेदः । यदुक्तं तन्त्रे ।
“असिताङ्गो रुरुश्चण्ड उन्मत्तः क्रोधनस्तथा” ॥)

क्रोधना, स्त्री, (क्रुध् + युच् + स्त्रियां टाप् ।) कोप-

वती । तत्पर्य्यायः । भामिनी २ चण्डी ३ । इति
त्रिकाण्डशेषः ॥ (यथा, रामायणे । २ । ७० । १० ।
“आत्मकामा सदा चण्डी क्रोधना प्राज्ञमानिनी” ॥)

क्रोधमूर्च्छितः, पुं, (क्रोधः क्रोधमय इव मूर्च्छितः ।)

चोरनामगन्धद्रव्यम् । इति शब्दरत्नावली ॥ (क्रो-
धेन मूर्च्छितः ।) अतिकोपने त्रि ॥ (यथा, रामा-
यणे । १ । १ । ४९ ।
“रक्षसां निहतान्यासन् सहस्राणि चतुर्द्दश ।
ततो ज्ञातिवधं श्रुत्वा रावणः क्रोधमूर्च्छितः” ॥)

क्रोधी, [न्] त्रि, (क्रोधोऽस्यास्तीति इनिः । यद्वा,

क्रुध्यति इति । क्रुध् + णिनिः ।) क्रोधयुक्तः इति
हेमचन्द्रः ॥ महिषः । इति राजनिर्घण्टः ॥ (यथा
सुश्रुते । “तत्र जागरुकः शीतद्वेषी दुर्भगस्तेनो
मत्सर्य्यनार्य्यो गान्धर्व्वचित्तः स्फुटितकरचरणोऽति-
रूक्षश्मश्रुनखकेशः क्रोधी दन्तनखखादी च” ॥)

क्रोशः, पुं, (क्रोशति यतः । क्रुश् + अपादाने घञ् ।)

सहस्रधनुः । चतुःसहस्रहस्तपरिमाणम् । कोश
इति भाषा । तत्पर्य्यायः । गव्यूतम् २ । इति
हेमचन्द्रः ॥ (यथा, रघुवंशे । १३ । ७९ ।
“क्रोशार्द्धं प्रकृतिपुरःसरेण गत्वा
काकुत्स्थः स्तिमितजवेन पुष्पकेण” ॥)
द्विसहस्रदण्डः । अष्टसहस्रपरिमाणम् । इति
लोलावती ॥ मुहूर्त्तः । यथा, --
“दशदण्डे तु या पूजा तत्सर्व्वमक्षयं भवेत् ।
षष्ठक्रोशे महेशानि तत् ! सर्व्वममृतोपमम् ॥
सप्तमक्रोशके देवि ! सर्व्वं क्षीरोपमं भवेत् ।
अष्टमक्रीशके देवि ! द्रव्यतुल्यं न संशयः ॥
अतः परं महेशानि ! विषतुल्यं न संशयः” ।
इति गुप्तसाधनतन्त्रे षष्ठः पटलः ॥ क्रुश् + भावे
घञ् । रोदनम् । आह्वानम् ॥)

क्रोशतालः, पुं, (क्रोशं व्याप्य तालः शब्दभेदः यस्य ।)

ढक्का । इति हारावली ॥

क्रोशध्वनिः, पुं, (क्रोशं व्याप्य ध्वनिरस्य ।) ढक्का ।

इति हारावली ॥

क्रोशयुगं, क्ली, (क्रोशस्य क्रोशपरिमिताध्वनो युगं

युग्मम् ।) क्रोशद्वयम् । तत्पर्य्यायः । गव्यूतिः २ ।
इत्यमरः ॥ गोरुतम् ३ गव्या ४ गव्युतम् ५ । इति
हेमचन्द्रः ॥

क्रोष्टा, [ष्टु] पुं, स्त्री, (क्रोशति रौतीति । क्रुश् +

“सितनिगमिमसीति” । उणां १ । ७० । इति तुन् ।
“तृज्वत् क्रोष्टुः” । ७ । १ । ९५ । इति तृज्वत् ।)
शृगालः इत्यमरः । २ । १ । १८ ॥ (यथा, महाभारते-
१ । २१४ । ८ ।
“ब्राह्मणस्य प्रशान्तस्य हविर्धाङ्क्षैः प्रलुप्यते ।
शार्द्दूलस्य गुहां शून्यां नीचः क्रोष्टाभिमर्द्दति” ॥
यदुवंशीयो राजविशेषः । यथा, हरिवंशे ३३ । ६१
“क्रोष्टोस्तु शृणु राजेन्द्र ! वंशमुत्तमपौरुषम् ।
यदोर्वंशधरस्याथ यज्वनः पुण्यकर्म्मणः ॥
क्रोष्टोर्हि वंशं श्रुत्वेमं सर्व्वपापैः प्रमुच्यते” ॥)

क्रोष्टुकपुच्छिका, स्त्री, (क्रोष्टुकस्य शृगालस्य पुच्छ-

मिव अस्त्यस्याः । ठन् टाप ।) पृश्निपर्णी । चाकु
लिया इति भाषा । रामवासक इति ख्याता ।
इति केचित् । इत्यमरटीकायां स्वामी ॥ गोलो-
मिका । इति राजनिर्घण्टः ॥

क्रोष्टुकमेखला, स्त्री, (क्रोष्टुकस्येव मेखला कट्यधःपश्चाद्

भागो वा अस्त्यस्याः “अर्शआदिभ्यः” । ५ । २ । १२७ ।
इति अच् टाप् ।) पृश्निपर्णी । इति रत्नमाला ॥

क्रोष्टुपुच्छिका, स्त्री, (क्रोष्ठो शृगालस्य पुच्छमिव

अस्त्यस्याः । ठन् टाप् अत इत्वं च ।) पृश्निपर्णी ।
इति रत्नमाला ॥

क्रोष्टुपुच्छी, स्त्री, (क्रोष्टोः पुच्छमिव अस्त्यस्याः इति

“अर्शआदिभ्यः” । ५ । २ । १२७ । इति अच् ङीष् ।)
पृश्निपर्णी । इति शब्दरत्नावली ॥

क्रोष्टुफलः, पुं, (क्रोष्टोः प्रियं फलं अस्य अस्मिन् वा ।)

इङ्गुदीबृक्षः । इति राजनिर्घण्टः ॥

क्रोष्टुविन्ना, स्त्री, (क्रोष्टुभिः विन्ना ज्ञाता वा लब्धा

इव ।) पृश्निपर्णी । इत्यमरः । २ । ४ । ९३ ॥ वि-
रालछाञि इति ख्याता इति केचित् । इति
भरतः ॥ (अस्याः पर्य्यायाः । यथा, --
पृष्ठ २/२२१
“पृष्ठिपर्णी पृथक्पर्णी चित्रपर्ण्यहिपर्ण्यपि ।
क्रोष्टुविन्ना सिंहपुच्छी कलशीद्धावनिर्गुहा” ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

क्रोष्टेक्षुः, पुं, (क्रोष्टोः प्रियः इक्षुः । पृषोदरात्

उकारस्य अत्वे सन्धिः ।) श्वेतेक्षुः । इति राज-
निर्घण्टः ॥

क्रोष्ट्री, स्त्री, (क्रोष्टु + “तृज्वत् क्रोष्टुः” । इति

ऋदन्तात् स्त्रियां ङीप् ।) शुक्लभूमिकुष्माण्डः ।
इत्यमरः । २ । ४ । ११० ॥
(‘विदारी स्वादुगन्धा च सा तु क्रोष्ट्री सिता स्मृता’ ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) शृगा-
लिका । कृष्णविदारी । लाङ्गली । इति मेदिनी ॥

क्रौञ्चः, पुं, (क्रुञ्च + प्रज्ञाद्यण् स्वार्थे ।) पक्षिभेदः । कोँच

वक इति भाषा । (यथा, रामायणे । १ । १ । १५ ।
“मा निषाद ! प्रतिष्ठां त्वमगमः शाश्वतीः समाः ।
यत् क्रौञ्चमिथुनादेकमवधीः काममोहितम्” ॥)
तत्पर्य्यायः । क्रुङ् २ क्रुञ्चः ३ क्रुञ्चा ४ क्रौञ्चा ५ ।
इत्यमरभरतौ ॥ कालिकः ६ कालीकः ७ कलि-
कः ८ । इति शब्दरत्नावली ॥ (अस्य गुणा यथा, --
“क्रौञ्चो वृष्योऽतिरुचिकृदश्मरीं हन्ति नित्यशः ।
शोषमूर्च्छाहरो दीप्यो हन्ति कासमरोचकम्” ॥
इति हारीते प्रथमस्थाने ११ अध्याये ॥)
पर्व्वतविशेषः । इति मेदिनी ॥ (अयन्तु हिमवतः
पौत्त्रः मैनाकस्य पुत्त्रः ।
यथा, हरिवंशे १८ । १३-१४ ।
“एतेषां मानसी कन्या मेना नाम महागिरेः ।
पत्नी हिमवतः श्रेष्ठा यस्या मैनाक उच्यते ॥
मैनाकस्य सुतः श्रीमान् क्रौञ्चो नाम महागिरिः ।
पर्व्वतप्रवरः शुभ्रो नानारत्नसमन्वितः” ॥)
कुररपक्षी । इति राजनिर्घण्टः ॥ द्वीपभेदः । स
च दधिमण्डोदसमुद्रेणावृतः षोडशलक्षयोजन-
परिमितः । (यथा, विष्णुपुराणे । २ । ४ । ५७-५८ ।
“क्रौञ्चद्वीपः समुद्रेण दधिमण्डोदकेन च ।
आवृतः सर्व्वतः क्रौञ्चद्वीपतुल्येन मानतः ॥
दधिमण्डोदकश्चापि शाकद्वीपेन संवृतः ।
क्रौञ्चद्वीपस्य विस्ताराद् द्विगुणेन महामुने !” ॥
तस्याधिपतिः प्रियव्रतराजपुत्त्रो घृतपृष्ठः ।
यथा, भागवते । ५ । २० । १८-२० ।
“तथा च वहिः क्रौञ्चद्वीपो द्विगुणः स्वमानेन
क्षीरोदेन परीत उपकॢप्तो वृतो यथा, कुशद्वीपो
घृतोदेन । यस्मिन् क्रौञ्चो नाम पर्व्वतराजो द्वीप-
नामनिर्वर्त्तक आस्ते ॥ योऽसौ गुहप्रहरणोन्म-
थितनितम्बकुञ्जोऽपि क्षीरोदेनासिच्यमानो भग-
वता वरुणेनाभिगुप्तो विभयो बभूव ॥ तस्मि-
न्नपि प्रैयव्रतो घृतपृष्ठो नामाधिपतिः स्वे द्वीपे
वर्षाणि सप्त विभज्य तेषु पुत्त्रनामसु सप्त रिक्थादान्
वर्षपान् निवेश्य स्वयं भगवान् भगवतः परम-
कल्याणयशस आत्मभूतस्य हरेश्चरणारविन्दमुप-
जगाम” । दैत्यविशेषः । स च मयदानवपुत्त्रः ।
यथा, हरिवंशे । ४६ । २१--२४ ।
“तान्पाशहस्तग्रथितांश्छादितान् शीतरश्मिना ।
मयो ददर्श मायां वै दानवानां महात्मनाम् ॥
स शिलाजालविततां गण्डशैलाट्टहासिनीम् ।
पादपोत्कटकूटाग्रां कन्दराकीर्णकाननाम् ॥
सिंहव्याध्रगजाकीर्णां नदन्तीमिव यूथपैः ।
ईहामृगगणाकीर्णां पवनाघूर्णितद्रुमाम् ॥
निर्म्मितां स्वेन पुत्त्रेण क्रौञ्चेन दिविकामगाम् ।
प्रसृतां पार्व्वतीं मायां ससृजे दानवोत्तमः” ॥
अयमेवासुरः क्रौञ्चद्वीपे क्रौञ्चपर्व्वते हेमकन्दरे
भगवता स्कन्देन निहतः । यथा, -- मृगेन्द्रसंहि-
तायाम् ।
“क्रौञ्चे क्रौञ्चो हतो दैत्यः क्रौञ्चाद्रौ हेमकन्दरे ।
स्कन्देन युद्ध्वा सुचिरं चित्रमायी सुमायिना ।
स शैलस्तस्य दैत्यस्य ख्यातश्चित्रेण कर्म्मणा ।
केतुतामगमत्तस्य नाम्ना क्रौञ्चः स उच्यते” ॥)
अर्हतां ध्वजः । राक्षसविशेषः । इति हेमचन्द्रः ॥

क्रौञ्चदारणः, पु, (क्रौञ्चं स्वनामख्यातपर्व्वतविशेषं

दारयतीति । दॄ + णिच् + ल्युः । क्रौञ्चस्य दारण
इति केचित् ।) कार्तिकेयः । इत्यमरः । १ । १ । ४३ ॥
अस्य क्रौञ्चदारणकथा महाभारते ३ । मार्कण्डेय-
समस्यापर्व्वणि २२४ । ३१-३६ ।
“स तूत्थाय महाबाहुरुपसान्त्व्य च तान् जनान् ।
धनुर्विकृष्य व्यसृजद्वाणान् श्वेते महागिरौ ॥
बिभेद स शरैः शैलं क्रौञ्चं हिमवतः सुतम् ।
तेन हंसाश्च गृध्राश्च मेरुं गच्छन्ति पर्व्वतम् ॥
स विशीर्णोऽपतच्छैलो भृशमार्त्तस्वरान् रुवन् ।
तस्मिन्निपतिते त्वन्ये नेदुः शैला भृशं तदा ॥
स तं नादं भृशार्त्तानां श्रुत्वापि बलिनाम्बरः ।
न प्राव्यथदमेयात्मा शक्तिमुद्यम्य चानदत् ॥
सा तदा विमला शक्तिः क्षिप्ता तेन महात्मना ।
बिभेद शिखरं घोरं श्वेतस्य तरसा गिरेः ॥
स तेनाभिहतो दीर्णो गिरिः श्वेतोऽचलैः सह ।
उत्पपात महीं त्यक्त्वा भीतः स सुमहात्मनः” ॥
क्रौञ्चं असुरविशेषं दारयति नाशयतीति च ।
क्रौञ्चासुरवधकथा क्रौञ्चशब्दे द्रष्टव्या ॥)

क्रौञ्चा, स्त्री, (क्रौञ्च + टाप् ।) क्रौञ्चभार्य्या । कोँचवकी

इति भाषा । इति जटाधरः ॥ (केचित्तु टावन्तं
न मन्यन्ते ङीवन्तमेवेच्छन्ति । तथा च रामायणे
१ । २ । १४ ।
“निशाम्य रुदतीं क्रौञ्चीमिदं वचनमब्रवोत्” ॥)

क्रौञ्चादनं, क्ली, (अद्यते इति । अद् + कर्म्मणि ल्युट् ।

क्रौञ्चस्य अदनं भक्ष्यम् ।) मृणालम् । घेञ्चुली ।
घेँचु इति भाषा । चिञ्चोटकः । इति मेदिनी ॥
चेँचको इति भाषा । शेषस्य गुणाः । गुरुत्वम् ।
अजीर्णकारित्वम् । शीतत्वञ्च । इति राजवल्लभः ॥
(“क्रौञ्चादनं घेञ्चुलिका” । इति वैद्यकरत्नमाला-
याम् ।) पिप्पली । इति शब्दरत्नावली ॥

क्रौञ्चादनी, स्त्री, (क्रौञ्चादन + ङीप् ।) पद्मवीजम् ।

इति राजनिर्घण्टः ॥

क्रौञ्चारातिः, पुं, (क्रौञ्चस्य स्वनामख्यातस्य पर्व्वतस्य

दैत्यस्य वा अरातिः शत्रुः ।) कार्त्तिकेयः । इति
हलायुधः ॥

क्रौञ्चारिः, पुं, (क्रौञ्चस्य अरिः ।) कार्त्तिकेयः । इति

हेमचन्द्रः ॥ परशुरामः । इति शब्दमाला ॥

क्रौशशतिकः, पुं, (क्रोशशतं गच्छति । “क्रोशशतयो-

जनशतयोरुपसंख्यानम्” । वार्त्तिं ५ । १ । ७४ । इति
ठञ् ।) शतक्रोशगमनकर्त्ता । इति व्याकरणम् ॥
(क्रोशशतादभिगमनमर्हतीति । “ततोऽभिगमन
मर्हति” । इति ठञ् क्रोशशतादागन्ता भिक्षुः ॥)

क्लथ, कि म वधे । इति कविकल्पद्रुमः ॥ (चुरां पक्षे

भ्वां-परं-सकं-सेट् ।) अन्तःस्थतृतीययुक्वः । कि, क्लथ-
यति क्लथति । म, क्लथयति । इति दुर्गादासः ॥

क्लद, इ ञ ङ रुदि । इति कविकल्पद्रुमः ॥ (भ्वां-

उभं-आत्मं च-अकं-सेट् ।) अन्तःस्थ तृतीययुक्तः ।
इ, कर्म्मणि क्लन्द्यते । ञ, क्लन्दति क्लन्दते । ङ,
क्लन्दते । रुदि रोदने । इति दुर्गादासः ॥

क्लद, इ ष म ङ रोदने । आह्वाने । इति कवि-

कल्पद्रुमः ॥ (भ्वां-आत्मं-अकं-आह्वाने सकं-सेट् ।)
इ, कर्म्मणि क्लन्द्यते । ष, क्लन्दा । म, क्लन्दयति ।
ङ, क्लन्दते । इति दुर्गादासः ॥

क्लद, ष म ङ वैक्लव्यविकलत्वयोः । इति कविकल्प-

द्रुमः ॥ (भ्वां-आत्मं-अकं-सेट् ।) वैक्लव्यं विह्वली-
भावः । ष, क्लदा । म, क्लदयति । ङ, क्लदते
शोकार्त्तः । इति दुर्गादासः ॥

क्लम, उ भ इर् ग्लानौ । इति कविकल्पद्रुमः ॥ (भ्वां-

परं-अकं-सेट् । उदित्वात् क्त्वावेट् ।) अन्तःस्थ-
तृतीययुक्तः । उ, क्लमित्वा क्लान्त्वा । भ, क्ला-
म्यति । भ्वादिपक्षेऽपि शमादित्वं “ष्ठिवुक्लमाचम”
इति दीर्घज्ञापनार्थम् । इर्, अक्लमत् अक्लमीत् ।
इवि दुर्गादासः ॥

क्लम, ञि य भ ग्लानौ । इति कविकल्पद्रुमः ॥

(दिवां-परं-अकं-सेट् ।) अन्तःस्थतृतीययुक्तः । ञि,
क्लान्तोऽस्ति । य भ, क्लाम्यति । इति दुर्गादासः ॥

क्लमः, पुं, (क्लम + भावे घञ् । “नोदात्तोपदेशस्येति” ।

७ । ३ । ३४ । इति न वृद्धिः ।) आयामः । इत्यमरः ।
३ । २ । १० ॥ (यथा, मनौ । ७ । २२५ ।
“तत्र भुक्त्वा पुनः किञ्चित् तूर्य्यघोवैः प्रहर्षितः ।
संविशेत्तु यथाकालमुत्तिष्ठेच्च गतक्लमः ॥ अस्य
लक्षणं यथा, --
“योऽनायासः श्रमो देहे प्रवृद्धः श्वासवर्ज्जितः ।
क्लमः स इति विज्ञेय इन्द्रियार्थप्रबाधकः” ॥
इति सुश्रुतेन शारीरस्थाने चतुर्थाध्याये उक्तम् ॥)

क्लमथः, पुं, (क्लम् + “शमादिभ्योऽथच् इति”

अथच् ।) आयासः । इत्यमरः । ३ । २ । १० ॥

क्लव, ष म ङ भये । इति कविकल्पद्रुमः ॥ (भ्वां-

आत्मं-अकं-सेट् ।) ष, क्लवा । म, क्लवयति ।
ङ, क्लवते । विक्लवन्ति दिवि ग्रहाः । इति पचा-
दित्वादनि विक्लवा इवाचरन्तीति क्वौ साध्यम् ।
इति दुर्गादासः ॥

क्लान्तः, त्रि, (क्लम + कर्त्तरि क्तः ।) क्लान्तियुक्तः ।

श्रान्तः । यथाह, जयदेवः ।
“मदनकदनक्लान्तः कान्ते ! प्रियस्तव वर्त्तते” ॥
(महाभारते च । ३ । ७३ । २७ ।
“विश्राम्यतामित्युवाच क्लान्तोऽसीति पुनःपुनः” ॥)

क्लिद, इ ञ ङ रुदि । इति कविकल्पद्रुमः ॥ (भ्वां

उभं-आत्मं च-अकं-सेट् ।) अन्तःस्थतृतीययुक्तः ।
पृष्ठ २/२२२
इ, कर्म्मणि क्लिन्द्यते । ञ, क्लिन्दति क्लिन्दते । ङ,
क्लिन्दते । रुदि रोदने । इति दुर्गादासः ॥

क्लिद, य ऊ इर् क्लेदे । इति कविकल्पद्रुमः । (दिवां-

परं-अकं-वेट् ।) अन्तःस्थतृतीययुक्तः । क्लेद आर्द्री-
भावः । य, क्लिद्यति वस्त्रं पयसा । ऊ, क्लेदिष्यति
क्लेत्स्यति । इर्, अक्लिदत् अक्लेदीत् । अस्मात्
पुषादित्वात् ङ इत्यन्ये । इति दुर्गादासः ॥ (यथा,
नारदपञ्चरात्रे ।
“सुवेशं पुरुषं दृष्ट्वा भ्रातरं यदि वा सुतम् ।
योनिः क्लिद्यति नारीणां सत्यं सत्यं हि नारद !” ॥)

क्लिन्नं, त्रि, (क्लिद् कर्त्तरि क्तः ।) आर्द्रम् । इत्यमरः ।

३ । १ । १०५ ॥ भिजा इति भाषा । (यथा, रामायणे
१ । ४२ । १९ ।
“गङ्गायाः सलिलक्लिन्ने भस्मन्येषां महात्मनाम् ।
स्वर्गं गच्छेयुरत्यन्तं सर्व्वे च प्रपितामहाः” ॥)

क्लिन्नाक्षः त्रि, (श्लेष्मादिक्लेदेन क्लिन्ने क्लेदयुक्ते अ-

क्षिणी यस्य ।) श्लेष्मादिना क्लिन्नचक्षुः । कफादि-
जनितक्लेदयुक्तं चक्षुर्यस्य सः । तत्पर्य्यायः । चुल्लः २
चिल्लः ३ पिल्ल ४ । कर्म्मधारयेण क्लिन्ने चक्षुषि
क्ली । इत्यमरः । २ । ६ । ६० ॥

क्लिश, य उ ञ उपतापे । इति कविकल्पद्रुमः ॥

(दिवां--उभं--अकं--सकंच--सेट् । उदित्वात् क्त्वा
वेट् ।) य ञ, क्लिश्यति क्लिश्यते । उ, क्लिशित्वा
क्लिष्ट्वा । उपताप इह उपतप्तीभावः । तत्करणञ्च ।
क्लिश्यते न च निष्फलमिति हलायुधः । क्लिश्यते
कृपणः स्वर्गमपीति चतुर्भुजः । अन्ये त्वस्मात् परस्मै-
पदममन्यमानाः क्लिश्यन्नपि हि मेधावीति । प्रत्या-
सन्नतुषारदीधितिकरक्लिश्यत्तमो वल्लवीत्यादि च
क्लिशं करोतीति कण्ड्वादित्वात् क्ये शत्रन्तमाहुः ।
मृपात्मजौ चिक्लिशतुः ससीताविति भट्टिप्रयोगञ्च
क्रैयादिकात् समादधते तद्धेयम् । क्रैयादिकस्य
सकर्म्मकत्वात् । इति दुर्गादासः ॥

क्लिश, ऊ ग विहतौ । इति कविकल्पद्रुमः ॥ (क्र्यां--

परं--सकं--वेट् ।) ऊ, अक्लेशीत् अक्लिक्षत् । ग,
“इत्थमाराध्यमानोऽपि क्लिश्नाति भुवनत्रयम्” ।
इति दुर्गादासः ॥

क्लिशितः, त्रि, (क्लिश् + कर्त्तरि क्तः इट् वा ।)

क्लिष्टः । इत्यमरः । ३ । १ । ९८ ॥

क्लिष्टः, त्रि, (क्लिश् + क्तः पक्षे नेट् ।) क्लेशयुक्तः ।

(यथा, मेघदूते ८४ ।
“इन्दोर्दैन्यं त्वदनुसरणक्लिष्टकान्तेर्बिभर्त्ति” ॥)
तत्पर्य्यायः । क्लिषितः २ । पूर्ब्बापरविरुद्धवाक्ये,
क्ली । तत्पर्य्यायः । संकुलम् २ परस्परपराहतम्
३ । इत्यमरः । ३ । १ । ९७ ॥ (यथा, भागवते ।
१ । ९ । १२ ।
“जीवितुं नार्हथ क्लिष्टं विप्रधर्म्माच्युताश्रयाः” ॥)

क्लिष्टिः, स्त्री, (क्लिश् + भावे क्तिन् ।) क्लेशः । सेवा ।

इति धरणी ॥

क्लीवकं, क्ली, (क्लीव + क्तः । निपातनात् वलोपः ।

क्लीतमधार्ष्ट्यं कलतीति । कल क्षेपे + अन्येभ्यो-
ऽपीति डः ।) यष्टिमधुका । इत्यमरः । २ । ४ । २०९ ॥
(अस्य पर्य्यायाः यथा ।
“यष्ट्याह्वं मधुकं यष्टि क्लीतकं मधुयष्टिका” ॥
इति वैद्यकरत्नमालायाम् ॥
“आनूपं स्थलजञ्चैव क्लीतकं द्विविधं स्मृतम्” ॥
इति चरके सूत्रस्थाने प्रथमेऽध्याये ।
“श्यामा गिरिह्वाञ्जनकी रसेषु
द्राक्षारसे सप्तलिकारसे च ।
घृतं पिबेत् क्लीतकसंप्रसिद्धम्
पित्तार्व्वुदी तज्जठरी च जन्तुः” ॥
इति सुश्रुते चिकित्सितस्थाने १८ अध्याये ॥)

क्लीतकिका, स्त्री, (क्रीतकं क्रयोऽस्त्यस्याः । “अत इनि-

ठनौ” । ५ । २ । ११५ । इति ठन् रस्य लत्वम् ॥)
नीलीवृक्षः । इत्यमरः । २ । ४ । ९४ ॥ (क्लीतक
+ स्वार्थे कन् टाप् अत इत्वं च । यष्टिमधुका ॥)

क्लीव, ऋ ङ अधार्ष्ट्ये । इति कविकल्पद्रुमः ॥ (भ्वां-

आत्मं-अकं-सेट् ।) अन्तःस्थतृतीययुक्तः । अधा-
र्ष्ट्यमप्रगल्मीभावः । ङ, शोकेन क्लीवते सर्व्वः ।
इति हलायुधः । ऋ, अचिक्लीवत् । इति दुर्गा
दासः ॥

क्लीव, ऋ ङ वान्तवत् । (भ्वां--आत्मं--अकं--सेट् ।)

ऋ, अचिक्लीवत् । ङ, क्लीवते । वान्तवदिति
क्लीवृङ अधार्ष्ट्ये इत्यर्थः । इति दुर्गादासः ॥

क्लीवः, पुं क्ली, (क्लीवृङ अध्यार्ष्ट्ये “इगुपधेति” । ३ ।

१ । १३५ । इति कः ।) स्त्रीपुरुषभिन्नः ।
तत्पर्य्यायः । पण्डः २ नपुंसकम् ३ तृतीयाप्रकृतिः ४
शण्डः ५ । इत्यमरः । २ । ६ । ३९ ॥ तृतीयप्रकृतिः ६
षण्डः ७ सण्डः ८ शण्ढः ९ । इति तट्टीका ॥ पुरष-
त्वहीनः । तस्य लक्षणम् । यथा, उद्वाहतत्त्वे ।
“न मूत्रं फेनिलं यस्य विष्ठा चाप्सु निमज्जति ।
मेढ्रश्चोन्मादशुक्राभ्यां हीनः क्लीवः स उच्यते” ॥
(यथा, पराशरसंहितायाम् ।
“नष्टे मृते प्रव्रजिते क्लीवे च पतिते पतौ ।
पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते” ॥
क्लीवस्तु चतुर्द्दशप्रकारः । यथाह नारदः ।
“चतुर्द्दशविधः शास्त्रे षण्डो दृष्टो मनीषिभिः ।
चिकित्स्यश्चाचिकित्स्यश्च तेषामुक्तो विधिः क्रमात् ॥
निसर्गषण्डोऽनण्डश्च पक्षषण्डस्तथैव च ।
अभिशापाद्गुरो रोगाद् देवक्रोधात् तथैव च ॥
ईर्ष्याषण्डस्तथाऽसेक्यो वातरेता मुखेभगः ।
आक्षेप्ता मोघवीजश्च शालीनोऽन्यापतिस्तथा ॥
तत्राद्यावप्रतीकार्य्यौ पक्षाख्यं मासमाचरेत् ।
अनुक्रमात् त्रयस्याथ कालः संवत्सरः स्मृतः ॥
ईर्ष्याषण्डादयो येऽन्ये चत्वारः समुदाहृताः ।
त्यक्तव्यास्ते पतितवत् क्षतयोन्या अपि स्त्रियाः ॥
आक्षेप्तृमोघवीजाभ्यां कृतेपि पतिकर्म्मणि ।
पतिरन्यः स्मृतो नार्य्या वत्सरार्द्धं प्रतीक्ष्य तु ॥
शालीनस्यापि दृष्टस्त्री संयोगादुच्छ्रयेद्ध्वजः ।
तं हीनवेगमन्यस्त्रीबालाद्याभिरुपाचरेत् ॥
अन्यस्यां यो मनुष्यः स्यादमनुष्यः स्वयोषिति ।
लभेत स्वाम्यं भर्त्ता नो एतत्कार्य्यं प्रजाकृते ॥
अपत्यार्थं स्त्रियः सृष्टाः स्त्रीक्षेत्रं वीजिनो नराः ।
क्षेत्रं वीजवते देयं सवीजी क्षेत्रमर्हति” ॥)

क्लीवः, त्रि, बिक्रमहीनः । इत्यमरः । ३ । ३ । २१२ ।

(यथा, महाभारते ३ । अर्ज्जुनाभिगमने । ३३ । १३ ।
“कच्चिद्राजन् न निर्व्वेदादापन्नः क्लीवजीविकाम्” ॥
धर्म्मकार्य्यादौ निरुत्साहः । यथा, मनौ ३ । १६५ ।
“आचारहीनः क्लीवश्च नित्यं याचनकस्तथा” ॥)

क्लेदः, पुं, (क्लिद् + भावे घञ् ।) आर्द्रम् । यथा, --

“पदस्थितस्य पद्मस्य बन्धू वरुणभास्करौ ।
पदच्युतस्य तस्यैव क्लेदक्लेशकरावुभौ” ॥
इत्युद्भट्टः ॥ (यथा च याज्ञवल्क्यसंहितायाम् ।
“रसात्तु रसनं शैत्यं स्नेहं क्लेदं समार्द्दवम्” ॥
अत्र मिताक्षरा । “रसादुदकात् रसनेन्द्रियं
शैत्यमङ्गानां स्नेहं स्निग्धतां मृदुतासहितं क्लेद-
मार्द्रताम्” ॥)

क्लेदनः, पुं, (क्लेदयति श्लेष्मादिभिरिति । क्लिद् +

णिच् + कर्त्तरि ल्युः ।) कफः । इति शब्दचन्द्रिका ॥
पञ्चप्रकारश्लेष्मान्तर्गतश्लेष्मविशेषः । इति सुखबोधः ॥
(भावे + ल्युट् । आर्द्रीकरणम् । यथा, भागवते ३ ।
२६ । ४३ ।
“क्लेदनं पिण्डनं तृप्तिः प्राणानाप्यायनोदनम्” ॥)

क्लेदा [न्] पुं, (क्लेदयति शीतरश्मिभिर्जनम् ।

क्लिद + णिच् + “श्वन् उक्षन् पूषन् प्लीहन्निति” ।
उणां १ । १५८ । इति कनिन् । न लोपे पूर्ब्ब-
दीर्घः ।) चन्द्रः । इत्युणादिकोषः ॥

क्लेदुः, पुं, (क्लेदयति इति । क्लिद् + “शॄ स्वृ स्नि-

हीति” । उणां १ । ११ । इति उन् ।) चन्द्रः ।
इति त्रिकाण्डशेषः ॥ सन्निपातः । इति संक्षिप्त-
सार उणादिवृत्तिः ॥

क्लेश, ङ वधे । उपतापे । इति कविकल्पद्रुमः ॥

(भ्वां-आत्मं-सकं उपतापार्थे अकं-सेट् ।) ङ, क्लेशते
चिक्लेशे । धातुप्रदीपे तु क्लेष व्यक्तायां वाचीति
मूर्द्धन्यान्तो दृश्यते । क्लेषते न वृथावाक्यमिति ।
हलायुधोऽपि । इति दुर्गादासः ॥

क्लेशा, पुं, (क्लिश् + भावे घञ् ।) दुःखम् । तत्प-

र्य्यायः । आदीनवः २ आस्रवः ३ । इत्यमरः ॥
(यथा, भगवद्गीतायाम् । १२ । ५ ।
“क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम्” ॥)
स तु पञ्चविधः । अविद्या १ विद्याविरोधिनी ।
अस्मिता २ अहमस्मीत्यहङ्कारः । रागः ३ इच्छा-
विशेषः । द्वेषः ४ वैरिता । अभिनिवेशः ५ मरण-
भयम् । इति कुसुमाञ्जलिः ॥ (तथाच पातञ्जले
साधनपादे २ । २--३ ।
“समाधिभावनार्थः क्लेशतनूकरणार्थश्च । अवि-
द्याऽस्मितारागद्वेषाभिनिवेशाः” ॥
“क्लेशतनूकरणार्थ इत्युक्तं तत्र के क्लेशा इत्याह ।
अविद्यादयो वक्ष्यमाणलक्षणाः पञ्च ते पाधना-
लक्षणं परितापमुपजनयन्तः क्लेशशब्दवाच्याः
भवन्ति । ते हि चेतसि प्रवर्त्तमानाः तस्कार-
लक्षणं गुणपरिणामं द्रढयन्ति” । इति तट्टीका-
कृद्राजमार्त्तण्डः ॥) कोपः । व्यवसायः । इति
मेदिनी ॥

क्लेशितः, त्रि, (क्लेशोऽस्य जातः । क्लेश + इतच् ।)

क्लेशयुक्तः । यथा, -- शृङ्गारतिलके ।
“निद्रां यातो मम पतिरसौ क्लेशितः कर्म्मदुःखी” ॥
पृष्ठ २/२२३

क्लैतकिकं, क्ली, (क्लीतकेन यष्टिमधुकया निर्व्वृत्तं इति

ठञ् ।) मद्यम् । इति शब्दचन्द्रिका ॥ (विवरण-
मस्य मद्यशब्दे ज्ञातव्यम् ॥)

क्लोम, [न्] क्ली, (क्लुङ् गतौ + मनिन् ।)

फुप्फुसम् । फोँफडा इति फुलघरा इति च
ख्यातम् । इति भरतः ॥ तत्पर्य्यायः । तिलकम् २ ।
इत्यमरः ॥ २ । ६ । ६५ ॥ क्लोमम् ३ कोमम् ४ ।
इति तट्टीका ॥
“बाह्वोर्द्वयोर्मध्ये वक्षः तन्मध्ये हृदयं तत्पार्श्वे
क्लोम पिपासास्थानम्” । इति वैद्यकम् ॥
(“उदकवहे द्वे तयोर्मूलं तालु क्लोम च” ॥
इति सुश्रुते शारीरस्थाने नवमाध्यायः ॥)

क्व, व्य, (कस्मिन्निति “किमोऽत्” । ५ । ३ । १२ ।

इति अत् ततः “क्वाति” । ७ । २ । १०५ । इति
क्वादेशः ।) कुत्र । कोथा इति भाषा । इति
व्याकरणम् ॥ अत्यन्तासम्मावनायां पण्डितैः क्वद्वयं
प्रयुज्यते । यथा, रघुः । १ । २ ।
“क्व सूर्य्यप्रभवो वंशः क्व चाल्पविषया मतिः” ॥

क्वङ्गुः, पुं, (कु + अगि + उन् ।) कङ्गुः । इति हेम-

चन्द्रः ॥

क्वचन, व्य, (पाणिनिमते पदद्वयमेतत् । मुग्धबोध-

मते तु “किमः क्त्यन्ताच्चिच्चनौ” । इति चनः ।)
क्वचित् । इति व्याकरणम् ॥

क्वचित्, व्य, (पाणिनिमते पदद्वयम् । मुग्धबोधमते तु

“किमः क्त्यन्ताच्चिच्चनौ” । इति चित् ।) कस्मिं-
श्चित् । कुत्रचित् । कोनस्थाने इत्यादि भाषा ।
इति व्याकरणम् ॥
(यथा, विष्णुपुराणे १ । २२ । ३८ ।
“हन्ति वा यत् क्वचित् किञ्चित् भूतं स्थावरज-
ङ्गमम्” ॥)

क्वण, शब्दे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-अकं-

सेट् ।) वकारयुक्तः । क्वणति वीणा । इति दुर्गा-
दासः ॥

क्वणः, पुं, (क्वण् + भावे अप् ।) कणकणेति शब्द-

विशेषः । इत्यमरटीकायां सारसुन्दरी ॥ वीणायाः
शब्दः अन्यस्य च शब्दः । इति भरतः ॥ तत्प-
र्य्यायः । णिक्वाणः २ निक्वणः ३ क्वाणः ४ क्वणनम्
५ । इत्यमरः । १ । ७ । २४ ॥

क्वणनं, क्ली, (क्वण् + भावे ल्युट् ।) क्वणः । इत्यमरः ।

१ । ७ । २४ ॥

क्वणनः, पुं, (क्वणति इति । क्वण् + ल्युः ।) हण्डिकासुतः ।

इति त्रिकाण्डशेषः ॥ छोटहाँडी इति भाषा ॥

क्वथ, ए ज निष्पचने । इति कविकल्पद्रुमः ॥ (भ्वां-

परं-सकं-सेट् ।) वकारयुक्तः । ए, अक्वथीत् ।
ज, क्वाथः क्वथः । क्वथति वैद्य औषधं निष्पच-
तीत्यर्थः । इति दुर्गादासः ॥

क्वथितः, त्रि, (क्वथ्यते स्म इति । क्वथ + कर्म्मणि क्तः ।)

अतिपक्वव्यञ्जनदशमूलादिः । तत्पर्य्यायः । निष्पक्वः
२ । इत्यमरः । ३ । १ । ९५ ॥ कषायः ३ निर्य्यूहः ४
क्वाथः ५ शृतः ६ । इति वैद्यकपरिभाषा ॥

क्वाणः, पुं, (क्वण् + भावे कर्म्मादिवाच्ये च यथायथं

धञ् ।) क्वणः । इत्यमरः । १ । ७ । २४ ॥
(यथा, राजेन्द्रकर्णपूरे १७ ॥
“सञ्जाते त्वयि हारिहारवलयक्वाणं क्वणत्कङ्कणं
चञ्चत्काञ्चनकाञ्चि सा भगवती नर्नर्त्ति वाग्देवता” ॥)

क्वाथः, पुं, (क्वथ् + भावे घञ् ।) दुःखम् । व्यसनम् ।

द्रव्यनिष्पाकः । इति हेमचन्द्रः ॥ क्वाथ्यमानं तोयं
त्रिविधम् । पादावशेषम् १ अर्द्धावशेषम् २ त्रि-
पादावशेषञ्च ३ । अस्य नाम पारिभाषिको-
ष्णोदकम् । तत्र त्रिपादावशेषं वातनाशकम् ।
अर्द्धावशेषं पित्तनाशकम् । पादावशेषं कफनाश-
कम् । लघु अग्निवर्द्धकञ्च । तेषां मध्ये त्रिपादाव-
शेषजलं हेमन्ते शिशिरे च प्रशस्तम् । वसन्ते
पादावशेषजलं प्रशस्तम् । शरदि ग्रीष्मे च अ-
र्द्धावशेषजलं प्रशस्तम् । वर्षायां अष्टभागावशेष-
जलं प्रशस्तम् । तत्काले बहुदोषत्वात् । दिनपक्व-
जलं रात्रौ गुरु रात्रिपक्वजलं दिवा गुरु । इति
राजवल्लभः ॥ यथास्य करणप्रणाली ॥
“पानीयं षोडशगुणं क्षुणे द्रव्यपले क्षिपेत् ।
मृत्पात्रे क्वाथयेद्ग्राह्यमष्टमांशावशेषितम् ॥
तज्जलं पाययेद्धीमान् कोष्णं मृद्वग्निसाधितम् ।
शृतः क्वाथः कषायश्च निर्यूहः स निगद्यते” ॥
इति शार्ङ्गधरेण मध्यखण्डे द्वितीयाध्याये उक्तम् ॥)

क्वाथोद्भवं, क्ली, (क्वाथादुद्भवो यस्य । क्वाथाद् उद्भव-

तीति वा ।) तुत्थाञ्जनम् । इत्यमरः । २ । ९ । १०२ ॥

क्वेल, ऋ चाले । गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-

परं-अकं-गतौ सकं-सेट् ।) वकारयुक्तः । ऋ,
अचिक्वलत् । चालः कम्पः । चालः कैश्चिन्न मन्यते ।
इति दुर्गादासः ॥

क्ष, क्षकारः । (अयन्तु ककारषकारयोगेन जातः ।

अतोऽस्य पृथक् वर्णत्वशङ्का नास्त्येव ।) तन्त्रमते
तु व्यञ्जनचतुस्त्रिंशवर्णः । अष्टमवर्गीयपञ्चमवर्णः ।
एकपञ्चाशन्मातृकावर्णानां चरमवर्णश्च । यथा, --
“पञ्चाशल्लिपिभिर्माला विहिता सर्व्वकर्म्मसु ।
अकारादिक्षकारान्ता वर्णमाला प्रकीर्त्तिता ॥
क्षार्णं मेरु मुखं तत्र कल्पयेन्मुनिसत्तमः ।
अनया सर्व्वमन्त्राणां जपः सर्व्वसमृद्धिदः” ॥
इति गौतमीयतन्त्रम् ॥ * ॥
कण्टदेशोद्भवोऽयम् । यथा, --
श्रीशिव उवाच ।
“विशेषं कथयाम्यद्य प्रोच्चार्य्याः कण्ठतः स्वराः ।
ऋद्वयं जिह्वया मूर्द्ध्ना ऌद्वयं जिह्वदन्तजम् ।
मुखस्थानाद्धलो वाच्याः क्षकारः कण्ठघातजः” ॥
इति वरदातन्त्रे १० पटलः ॥ * ॥
अस्य स्वरूपं यथा, --
“क्षकारं शृणु चार्व्वङ्गि ! कुण्डलीत्रयसंयुतम् ।
चतुर्व्वर्गमयं वर्णं पञ्चदेवमयं सदा ।
पञ्चप्राणात्मकं वर्णं त्रिशक्तिसहितं सदा ॥
त्रिविन्दुसहितं वर्णमात्मादितत्त्वसंयुतम् ।
शरच्चन्द्रप्रतीकाशं हृदि भावय सुन्दरि !” ॥
इति कामधेनुतन्त्रम् ॥ * ॥
अस्याभिधानानि यथा, --
“क्षः कोपस्तुम्बुकः कालो रूक्षः सम्बर्त्तकः परः ।
नृसिंहो विद्युता माया महातेजा युगान्तकः ॥
परात्मा क्रोधसंहारौ बलान्तो मेरुवाचकः ।
सर्व्वाङ्गः सागरः कामः संयोगान्त्यस्त्रिपूरकः ॥
क्षेत्रपालो महाक्षोभो मातृकान्तानलः क्षयः ।
मुखं कव्यवहानन्ता कालजिह्वा गणेश्वरः ।
छायापुत्त्रश्च संघातो मलयश्रीर्ललाटकः” ॥
इति तन्त्रशास्त्रे वर्णाभिधानम् ॥ * ॥ अपि च ।
“क्षकारो नरसिंहश्च मेरुः सम्बर्त्तकोऽपि च ।
तव स्नेहान्मया देवि ! कथितं मातृकाक्षरम् ।
पर्य्यायैरपि विज्ञेयं न प्रकाश्यं कदाचन” ॥
इति श्रीरुद्रयामले ८ पटले मन्त्राभिधानम् ॥ * ॥
अस्य ध्यानं यथा, --
“चतुर्भुजां रक्तवर्णां शुक्लाम्बरविभूषिताम् ।
रत्नालङ्कारसंयुक्तां वरदां पद्मलोचनाम् ॥
ईषद्धास्यमुखीं लोलां रक्तचन्दनचर्च्चिताम् ।
शंदात्रीञ्च चतुर्व्वर्गप्रदां सौम्यां मनोहराम् ॥
गन्धर्व्वसिद्धदेवाद्यैर्ध्यातामाद्यां सुरेश्वरीम् ।
एवं ध्यात्वा क्षकारन्तु तन्मन्त्रं दशधा जपेत्” ॥
इति वर्णोद्धारतन्त्रम् ॥ क्षकारस्य ककारषकार-
योगजत्वेन केचित् पृथग्वर्णत्वेन न मन्यन्ते । तेषां
मते तन्त्रोक्तैकपञ्चाशद्वर्णानुपपत्तिः तन्त्रशास्त्रे
तस्य मेरुत्वेन गणनानुपपत्तिश्च भवति । अतः
पृथङ्निर्दिश्यते इति केचित् । तथा च ।
“षान्ताः स्युर्यद्यपि क्षान्ता वर्णानामनुरोधतः ।
पृथक्क्रमेण कथ्यन्ते तथाप्येते समन्वयात्” ॥
इति विश्वप्रकाशः ॥ अपि च ।
“अकारादिलकारान्ता वर्णाः पञ्चाशदीरिताः ।
संयोगात् कषयोरेषः क्षकारो मेरुरीरितः” ॥
इति कृष्णानन्दधृततन्त्रशास्त्रम् ॥

क्षः, पुं, (क्षयति लोकान् युगान्तकाले प्रलये सर्व्वाणि

भूतानि महाकालोदरं प्रेरयतीति । क्षि क्षये +
ड प्रत्ययः ।) सम्बर्त्तः । (क्षिणोति हन्ति मनु-
ष्यादिजीवानिति । राक्षसः । (क्षिणोति हन्ति
हिरण्यकशिघाद्यसुरानिति ।) नरसिंहः । (क्षयति
क्षिणोति वा भूतानि स्वकीयाग्निना इति ।)
विद्युत् । (क्षयति शस्याद्युत्पत्त्या क्रमशः इति ।
क्षि + डः ।) क्षेत्रम् । क्षेत्रपालः । (क्षि क्षये +
भावे डः ।) नाशः । इति मुद्राङ्कितमेदिनी ॥

क्षज, इ क तङ्के । इति कविकल्पद्रुमः ॥ (चुरां-परं-

अकं-सेट् ।) तङ्को दुःखेन जीवनम् । इ क,
क्षञ्जयति दीनः । इति दुर्गादासः ॥

क्षज, इ ष म ङ दागत्योः । इति कविकल्पद्रुमः ॥

भ्वां-आत्मं-सकं-सेट् ।) इ,
क्षञ्ज्यते । ष, क्षञ्जा । सेमक्तात् सरोरित्यने-
नैवेष्टसिद्धौ अस्य षानुबन्धस्त्वरपर्य्यन्तघटादिभ्यो
ङ इति प्राचीनमतानुरोधात् । म, अक्षञ्जि
अक्षाञ्जि क्षञ्जं क्षञ्जं क्षाञ्जं क्षाञ्जम् । मानुबन्ध-
बलात् अनुपधाया अपि दीर्घः । स्रमते तु अत्र
दीर्घविधिरुपधां नापेक्षते । ङ, क्षञ्जते । ष, क्षजा ।
म, क्षजयति । ङ, क्षजयते । दा दानम् । इति
दुर्गादासः ॥

क्षज, ष म ङ दागत्योः । इति कविकल्पद्रुमः ॥

भ्वां-आत्मं-सकं-सेट् ।) इ,
क्षञ्ज्यते । ष, क्षञ्जा । सेमक्तात् सरोरित्यने-
नैवेष्टसिद्धौ अस्य षानुबन्धस्त्वरपर्य्यन्तघटादिभ्यो
ङ इति प्राचीनमतानुरोधात् । म, अक्षञ्जि
अक्षाञ्जि क्षञ्जं क्षञ्जं क्षाञ्जं क्षाञ्जम् । मानुबन्ध-
बलात् अनुपधाया अपि दीर्घः । स्वमते तु अत्र
दीर्घविधिरुपधां नापेक्षते । ङ, क्षञ्जते । ष, क्षजा ।
म, क्षजयति । ङ, क्षजयते । दा दानम् । इति
दुर्गादासः ॥

क्षण, द ञ उ वधे । इति कविकल्पद्रुमः । (तनां-

उभं-सकं-सेट ।) द ञ, क्षणोति क्षणुते । उ
पृष्ठ २/२२४
क्षणित्वा क्षत्वा । इति दुर्गादासः ॥

क्षणः, पुं, (क्षणोति हन्ति नाशयति वा सर्व्वं यथा-

कालं आयुरवसाने वा । काल एव युगान्ते सर्व्व-
मात्मसात् करोतीत्यर्थः । स एवांशभेदेन नाना-
ख्यो भवतीत्यर्थः ।) त्रिंशत्कलापरिमितकालः ।
स च दशपलपरिमितः । (निमेषक्रियावच्छिन्नस्य
कालस्य चतुर्थभागः । यथा, --
“आयुषः क्षण एकोऽपि न लभ्यः स्वर्णकोटिभिः ॥
सचेत्तु विफलो याति का नो हानिस्ततोऽधिका” ॥
इति शब्दार्थचिन्तामणिः । अपि च ।
“क्वचिद्रुष्टः क्वचित्तुष्टो रुष्टस्तुष्टः क्षणे क्षणे ।
अव्यवस्थितचित्तस्य प्रसादोऽपि भयावहः” ॥
इति शिष्टोपदेशः ॥ क्षणोति दुःखं नाशयति
उत्सवकाले । क्षण्-वधे- + अच् ।) उत्सवः ।
(यथा, माघे १ । ४ ।
“नवानधोऽधो वृहतः पयोधरान्
समूढकर्पूरपरागपाण्डरम् ।
क्षणं क्षणोत्क्षिप्तगजेन्द्रकृत्तिना
स्फुटोपमं भूतिसितेन शम्भुना” ॥)
निर्व्यापारस्थितिः । इत्यमरः । ३ । ३ । ४७ ॥ पर्व्व ।
अवसरः । परतन्त्रत्वम् । मध्यम् । इति हेमचन्द्रः ॥
(प्रशस्तमूहूर्त्तः । यथा, नलोपाख्याने । ५ । १ ।
“अथ काले शुभे प्राप्ते तिथौ पुण्ये क्षणे तथा” ॥)

क्षणतुः, पुं, (क्षण भावे + बाहुलकात् अतुप्रत्ययः ।)

क्षतः । इति हेमचन्द्रः ॥ क्षणनुरिति च पाठः ॥

क्षणदं, क्ली, (क्षणं उत्सवं ददातीति । दा + कः ।)

जलम् । इति मेदिनी ॥

क्षणदः, पुं, (क्षणं यात्रादिशुभमुहूर्त्तं ददातीति । दा

+ कः ।) गणकः । इति मेदिनी ॥

क्षणदा, स्त्री, (क्षणद + स्त्रियां टाप् ।) रात्रिः ।

(यथा, भागवते । ३ । ३ । २१ ।
“इमं लोकममुं चैव रमयन् सुतरां यदून् ।
रेमे क्षणदया दत्तक्षणस्त्रीक्षणसौहृदः” ॥)
हरिद्रा । इत्यमरः । १ । ४ । ४ ॥
(हरिद्राशब्देऽस्या विवृतिर्ज्ञातव्या ॥)

क्षणनं, क्ली, (क्षण + भावे ल्युट् ।) वधः । इत्यमरः ॥

क्षणनिश्वासः, पुं, (क्षणात् क्षणकालात् परं निः-

श्वासोऽस्य ।) शिशुमारः । इति शब्दरत्नावली ॥

क्षणप्रभा, स्त्री, (क्षणं व्याप्य प्रभाऽस्याः ।) विद्युत् ।

इत्यमरः । २ । ८ । ११४ ॥

क्षणभङ्गुरः, त्रि, (क्षणात् भङ्गुरः ।) क्षणैकनाश्यः ।

यथा । “यदि पुनरमी किमपि नाहमास्पदमस्ति
किञ्चिदपि वस्तु स्थिरं विश्वमेव क्षणभङ्गुरं
अलीकं वेत्यवधारयेरन् न किञ्चिदपि काम
येरन् न चाकामयमानाः केचिदपि प्रवर्त्तन्ते” ।
इति बौद्धाधिकारेशिरोमणिः ॥

क्षणरामी, [न्] पुं, (क्षणात् परं क्षणे क्षणे वा

रमते इति । रम + णिनिः ।) पारावतः । इति
शब्दमाला ॥ (चटकः । इति केचित् ॥)

क्षणिकः, त्रि, (क्षणः स्वस्वत्ताव्याप्यतयाऽस्त्यस्य ।

ठन् ।) क्षणमात्रस्थायी । यथा । “क्षणभङ्गे विप्र-
तिपत्तिः शब्दादिः क्षणिको न वा । क्षणिकत्वञ्च
स्वाधिकरणसमयप्रागभावाधिकरणक्षणानुत्पत्ति-
कत्वे सति कादाचित्कत्वं उत्पत्तिमत्त्वं वा । उत्प-
त्तिश्च स्वाधिकरणक्षणावृत्तिप्रामभावप्रतियोगि-
क्षणसम्बन्धः । क्षणश्च स्वाधेयपदार्थप्रागभावाना-
धारः समयः । प्रसिद्धिस्तु विधेर्नैयायिकानां प्राग-
भावे चरमध्वंसे च निषेधस्य बौद्धानामलीके ।
स्वाधिकरणसमयप्रागभावाधिकरणक्षणावृत्तित्वं
क्षणिकत्वमिति तु ज्यायः” । इति बौद्धाधिकारे
रघुनाथशिरोमणिः ॥ अन्यच्च ।
“द्रव्यारम्भश्चतुर्षु स्यादथाकाशशरीरिणाम् ।
अव्याप्यवृत्तिः क्षणिको विशेषगुण इष्यते” ॥
इति भाषापरिच्छेदे २७ ॥ “क्षणिकत्वञ्च तृतीय-
क्षणवृत्तिध्वंसप्रतियोगित्वम्” । इति सिद्धान्त-
मुक्तावली ॥

क्षणिका, स्त्री, (क्षणिक + स्त्रियां टाप् (। विद्युत् ।

इति हेमचन्द्रः ॥ (क्षणकालमात्रस्थायिनी ।
यथा, हितोपदेशे । १ । १५४ ।
“योऽत्ति यस्य यदा मांसमुभयोः पश्यतान्तरम् ।
एकस्य क्षणिका प्रीतिरन्यः प्राणैर्वियुज्यते” ॥)

क्षणिनी, स्त्री, (क्षणः उत्सवोऽस्त्यस्याम् । क्षण +

इनि । ङीप् ।) रात्रिः । इति शब्दरत्नावली ॥
(उत्सववति, त्रि । यथा, महाभारते । २ ।
मन्त्रणापर्ब्बणि १३ । ४४ ।
“तं विश्रान्तं शुभे देशे क्षणिनं कल्यमच्युतम् ।
धर्म्मराजः समागम्याज्ञापयत् स्वं प्रयोजनम्” ॥)

क्षतं, क्ली, (क्षण्यते वध्यतेऽनेन । क्षण + करणे क्तः ।)

स्रवद्रक्तपूयादि । घा इति भाषा । तत्पर्य्यायः ।
व्रणः २ अरुः ३ ईर्म्मम् ४ क्षणनुः ५ । इति
हेमचन्द्रः ॥ तद्वति त्रि ॥ * ॥
क्षतेन मृतस्याशौचं यथा, व्याघ्रः ।
“क्षतेन म्रियते यस्तु तस्याशौचं भवेद्द्विधा ।
आसप्ताहात् त्रिरात्रं स्याद्दशरात्रमतः परम् ॥
शस्त्रघाते त्र्यहादूर्द्ध्वं यदि कश्चित् प्रमीयते ।
अशौचं प्राकृतं तत्र सर्व्ववर्णेषु नित्यशः ॥
अत्र अस्त्रघातपदं क्षतेतरशस्त्रघातपरं पारि-
भाषिकशस्त्राघातपरमपि । अन्यथा क्षतं विना
पतनादिभिर्विलम्बमृतानां दिनग्रहणेऽनध्यवसायः
स्यात्” । इति शुद्धितत्त्वम् ॥ * ॥ चन्द्रग्रहणादौ
क्षतदोषाभावो यथा, -- पुलस्त्यः ।
“चन्द्रसूर्य्यग्रहे चैव मृतानां पिण्डकर्म्मसु ।
महातीर्थे च संप्राप्ते क्षतदोषो न विद्यते” ॥
अन्यत्र तु देवलः ।
“सव्रणः सूतकी सूयी मत्तोन्मत्तरजस्वलाः ।
मृतबन्धुरवन्धुश्च वर्ज्यान्यष्टौ स्वकालतः” ॥
इत्यनेन वर्ज्यतामाह । अशुचित्वमप्याह ।
“दन्तलग्नमसंहार्य्यं लेपं मन्येत दन्तवत् ।
न तत्र बहुशः कुर्य्यात् यत्नमुद्धरणे पुनः ॥
भवेदशौचमत्यर्थं तृणवेधात् व्रणे कृते” ॥
इति प्रायश्चित्ततत्त्वम् ॥ (विदारणम् ।
यथा, कुमारे । ३ । २९ ।
“नखक्षतानीव वनस्थलीनाम्” ॥
विनाशः । यथा, रघुः । २ । ५३ ।
“क्षतात् किल त्रायत इत्युदग्रः
क्षत्त्रस्य शब्दो भुवनेषु रूढः” ॥
त्रि, ताडितः । विद्धः । यथा, रघुः । ३ । ५३ ।
“रघोरवष्टम्भमयेनं पत्रिणा
हृदि क्षतो गोत्रभिदोऽप्यमर्षणः” ॥
क्षतियुक्तः । यथा, कुमारे । २ । २६ ।
“रुद्राणामपि मूर्द्धानः क्षतहूङ्कारशंसिनः” ॥
(रोगविशेषः । तस्य सकारणसम्प्राप्तिलक्षणानि
चिकित्सितञ्च यथा, --
“धनुषायस्यतोऽत्यर्थं भारमुद्वहतो गुरुम् ।
पततो विषमोच्चेभ्यो युध्यमानस्य चाधिकैः ॥
वृषं हयं वा धावन्तं दम्यं वान्यं निगृह्लतः ।
शिलाकाष्ठाश्मनिर्धातान् क्षिपतो निघ्नतः परान् ॥
अधीयानस्य वात्युच्चैर्दूरं वा व्रजतो द्रुतम् ।
महानदीं वा तरतो गजैर्वा सह धावतः ॥
सहसोत्पततो दूरं तूर्णञ्चातिप्रणृत्यतः ।
तथान्यैः कर्म्मभिः क्रूरैर्भृशमभ्याहतस्य वा ॥
विक्षते वक्षसि व्याधिर्बलवान् समुदीर्य्यते ।
स्त्रीषु चातिप्रसक्तस्य रूक्षाल्पप्रमिताशिनः ॥
उरो विरुज्यते तस्य भिद्यतेऽर्थ बिदह्यते ।
प्रपीड्यते ततः पार्श्वे शुष्यत्यङ्गं प्रवेपते ॥
क्रमाद्वीर्य्यं बलं वर्णो रुचिरग्निश्च हीयते ।
ज्वरो व्यथा मनोदैन्यं विङ्भेदाग्निवधावपि ॥
दुष्टः श्यावः सदुर्गन्धः पीतो विग्रथितो बहुः
कासमानस्य च श्लेष्मा सरक्तः संप्रवर्त्तते ॥
सक्षतः क्षीयतेऽत्यर्थं तथाशुक्रौजसोः क्षयात्” ॥
पूर्ब्बरूपं यथा, --
“अव्यक्तं लक्षणं तस्य पूर्ब्बरूपमिति स्मृतम् ।
उरोरुक् शोणितच्छर्द्दिः कासो वैशेषिकः क्षते” ॥
अस्यासाध्यलक्षणादिकं यथा, --
“अल्पलिङ्गस्य दीप्ताग्नेः साध्यो बलवतो नवः ।
गते संवत्सरे याप्यः सर्व्वलिङ्गन्तु वर्ज्जयेत्” ॥
चिकित्सास्य यथा ।
“उरोमत्वाक्षतं लाक्षां पयसा मधुसंयुताम् ।
सद्य एव पिबेज्जीर्णे पयसाद्यात् सशर्कराम् ॥
पार्श्ववस्तिरुजश्वाल्पपित्ताग्निस्तां सुरायुताम् ।
भिन्नविट्कः समुस्तातिविधां पाठां सवत्सकाम् ॥
लाक्षां सर्पिर्मधूच्छिष्टं जीवनीयगणं सिताम् ।
त्वक्क्षीरी सम्मितं क्षीरे पक्त्वा दीप्तानलः पिबेत् ॥
इक्ष्वालिकविसग्रन्थिपद्मकेशरचन्दनैः ।
शृतं पयो मधुयुतं सन्धानार्थं पिबेत् क्षतो ॥
यवानां चूर्णमादाय क्षीरसिद्धं घृतप्लुतम् ।
ज्वरदाहे सिताक्षौद्रशक्तून् वा पयसा पिबेत् ॥
कासी पर्व्वास्थिशूली च लिह्यात्सघृतमाक्षिकाः ।
मधूकमधुकद्राक्षा त्वक्क्षीरापिप्पलीबलाः” ॥
“रक्तेऽतिवृत्ते दक्षान्तं यूषैस्तोयेन वा पिबेत्
चटकाण्डरसं वापि रक्तं वा छागजाङ्गलम् ॥
चूर्णं पौनर्नवं रक्तशालितण्डुलशार्करम् ॥
रक्तष्ठीवी पिबेत् सिद्धं द्राक्षारसपयोघृतैः ।
मधूकग्रधुकक्षीरसिद्धं वा तण्डुलीयकम् ॥
यष्ट्याह्वानागबलयोः क्वाथे क्षीरसमं घृतम् ।
पयसा पिप्पलीवांशीकल्कसिद्धं क्षते शुभम् ॥
पृष्ठ २/२२५
कोललाक्षारसे तद्वत् क्षीराष्टगुणसाधितम् ।
कल्कैः कट्वम्लदार्व्वीत्वग्वत्सकत्वक्फलैर्घृतम् ॥
जीवकर्षभकौ वीरां जीवन्तीं नागरं शठीम् ।
चतस्रः पर्णिनीर्मेदे काकोल्यौ द्वे निदिग्धिके ॥
पुनर्नवे द्वे मधुकं आत्मगुप्तां शतावरीम् ।
ऋद्धिं परूषकं भार्गीं मृद्वीकां वृहतीन्तथा ॥
शृङ्गाटकीं तामलकीं पयस्यां पिप्पलीं बलाम् ।
वदराक्षोटखर्जूरवातामाभिषुकाण्यपि ॥
फलानि चैवमाद्यानि कल्कान् कूर्व्वीत कार्षिकान् ।
धात्रीरसविदारीक्षु छागमांसरसं पयः ॥
कुर्य्यात्प्रस्थोन्मितं तेन घृतप्रस्थं विपाचयेत् ।
प्रस्थार्द्धं मधुनः शीते शर्करार्द्धतुलान्तथा ॥
द्विकार्षिकाणि पत्रैला हेमत्वङ्मरिचानि च ।
चूर्णितानि विनीयास्माल्लिह्यान्मात्रां सदा नरः ॥
अमृतप्राशमित्येतन्नराणाममृतं घृतम् ।
सुधामृतरसं प्रास्य क्षीरमांसरसाशिना ॥
नष्टशुक्रक्षतक्षीणदुर्ब्बलव्याधिकर्षितान् ।
स्त्रीप्रसक्तान् कृशान् वर्णस्वरहीनांश्च वृंहयेत् ॥
कासहिक्काज्वरश्वासदाहतृष्णास्रपित्तनुत् ।
पुत्त्रदं वमिमूर्च्छाह्वयोनिमूत्रामयापहम्” ॥
इत्यमृतप्राशघृतम् ॥
“मधुकाष्टपलं द्राक्षा प्रस्थक्वाथे घृतं पचेत् ।
पिप्पल्यष्टपले कल्के प्रस्थं सिद्धे च शीतले ॥
पृथगष्टपलं क्षौद्रशर्कराभ्यां विमिश्रयेत् ।
समं शक्तुक्षतक्षीणे रक्तगुल्मेषु तद्धितम्” ॥
इति शक्तुप्रयोगः ॥
“शक्तूनां वस्त्रपूतानां मन्थं क्षौद्रघृतान्वितम् ।
यावान्नसात्म्यो दीप्ताग्निः क्षतः क्षीणः पिबेन्नरः” ॥
“एका षोडशिका धान्याद्धि द्वेऽजाज्यजमोदयोः ।
ताभ्यां दाडिमवृक्षाम्लद्विर्द्विः सौवर्च्चलात्पलम् ॥
शुण्ठ्याः कर्षं दधित्थस्य मेध्यात्पञ्च पलानि च ।
तच्चूर्णं षोडशपले शर्कराया विमिश्रयेत् ॥
षाडवोऽयं प्रदेयः स्यादन्नपानेषु पूर्ब्बवत्” ॥
इति षाडवः ॥
“यच्चोक्तं यक्ष्मिणां पथ्यं कासिनां रक्तपित्तिनाम् ।
तच्च कुर्य्यादपेक्ष्याग्निं व्याधिं सात्म्यबलांस्तथा” ॥
इति चरके चिकित्सास्थाने १६ अध्याये ॥)

क्षतकासः, पुं, (क्षतजः कासः । मध्यपदलोपी

समासः ।) पञ्चविधकासरोगान्तर्गतकासरोग-
विशेषः । यथा, --
“पञ्चकासाः स्मृता वातपित्तश्लेष्मक्षतक्षयैः ।
क्षयायोपेक्षिताः सर्व्वे बलिनश्चोत्तरोत्तरम्” ॥
एषां पूर्ब्बरूपसाह ।
“पूर्ब्बरूपं भवेत्तेषां शूकपूर्णगलास्यता ।
कण्ठेकण्डुश्च भोज्यानामवरोधश्च जायते” ॥
भोज्यानाभवरोधः कवलगिलने कण्ठव्यथा ॥
अस्य निदानपूर्ब्बिकां सम्प्राप्तिमाह ।
“अतिव्यवायभाराध्वयुद्धाश्वगजनिग्रहैः ।
रूक्षस्योरक्षतं वायुर्गृहीत्वा कासमावहेत्” ॥
अश्वगजयोर्निग्रहो दमनम् । लक्षणमाह ।
“संपूर्ब्बं कासते शुष्कं ततः ष्ठीवेत् सशोणितम् ।
कण्ठेन रुजतात्यर्थं विरुद्धेनेव चोरसा ॥
सूचीभिरिव तीक्ष्णाभिः तुद्यमानेन शूलिना ।
दुःखस्पर्शेन शूलेन भेदपीडाभितापिना ॥
पर्व्वभेदज्वरश्वासः तृष्णावैस्वर्य्यपीडितः ।
पारावत इवाकूजेत् कासवेगात् क्षतो द्रवात्” ॥
कण्ठेनेत्युपलक्षणे तृतीया एवमुरसाऽपि ॥
तस्य चिकित्सा यथा, --
“इक्ष्विक्षुवालिकापद्ममृणालोत्पलचन्दनम् ।
मधुकं पिप्पली द्राक्षा लाक्षा शृङ्गी शतावरी ॥
द्विगुणा च तुगाक्षीरी सिता सर्व्वचतुर्गुणा ।
लिह्यात्तन्मधुसर्पिर्भ्यां क्षतकासनिवृत्तये” ॥
इक्षुवालिका इक्षुभेदः । चन्द्र इति लोके । पद्मं
पद्मकाष्ठम् । मृणालं विसम् । उत्पलं कमलम् ।
चन्दनमत्र धवलं चूर्णत्वात् । शृङ्गी कर्क्कटशृङ्गी ।
तुगाक्षीरी वंशरोचना । सा चेक्षोर्द्विगुणा । इति
भावप्रकाशः ॥
(“युद्धाद्यैः साहसैस्तैस्तैः सेवितैरयथाबलम् ॥
उरस्यन्तः क्षते वायुः पित्तेनानुगतो बली ।
कुपितः कुरुते कासं कफं तेन सशोणितम् ॥
पीतं श्यामञ्च शुष्कञ्च प्रथितं कुथितं बहु ।
ष्ठीवेत् कण्ठेन रुजता विभिन्नेनेव चोरसा ॥
सूचीभिरिव तीक्ष्णाभिस्तुद्यमानेन शूलिना ।
पर्व्वभेदज्वरश्वासतृष्णावैस्वर्य्यकम्पवान् ॥
पारावत इवाकूजन् पार्श्वशूली ततोऽस्य च ।
क्रमाद्वीर्य्यं रूचिः पक्तिर्बलं वर्णश्च हीयते” ॥
अस्य चिकित्सा यथा--
“उरस्यन्तः क्षते सद्यो लाक्षां क्षौद्रयुतां पिबेत् ॥
क्षीरेण शालीन् जीर्णेऽद्यात् क्षीरेनैव सशर्करान् ।
पार्श्ववस्ति सरुक्चाल्पपित्ताग्निस्तां सुरायुताम् ।
भिन्नविट्कः समुस्तातिविषा पाठां सवत्सकाम् ॥
लाक्षा सर्पिर्मधूच्छिष्टं जीवनीयं गणं सितम् ।
त्वक्क्षीरी सस्मितं क्षीरे पक्त्वा दीप्तानलः पिबेत् ॥
इक्ष्वाविकाविषग्रन्थिपद्मकेशरचन्दनैः ।
शृतं पयो मधुयुतं सन्धानार्थं क्षती पिबेत् ॥
क्षतकासे च ये धूमाः सानुपाना निदर्शिताः” ।
इति वाभटे निदानस्थाने चिकित्सास्थाने च चतु-
र्थाध्याये ॥)

क्षतघ्नः, पुं, (क्षतं हन्ति नाशयतीति । हन् + “अम-

नुष्यकर्तृके च” । ३ । २ । ५३ । इति टक् ।)
क्षुपविशेषः । इति शब्दचन्द्रिका ॥ कुकुरशोँखा
इति भाषा ॥

क्षतघ्नी, स्त्री, (क्षतं हन्ति । हन् + “अमनुष्य-

कर्त्तृके च” । ३ । २ । ५३ । इति टक् स्त्रियां
ङीप् ।) लाक्षा । यथा, --
“लाक्षा द्रुमामयो राक्षा रङ्गमाता पलङ्कषा ।
जतु क्षतघ्नी क्रमिजा यावालक्तौ तु तद्रसः” ॥
इति हेमचन्द्रः । क्षतघ्नापि पाठः ॥

क्षतजं, क्ली, (क्षतात् व्रणात् जायते उत्पद्यते इति ।

जन् डः ।) रक्तम् । इत्यमरः । २ । ६ । ६४ ॥
(यथा, रघौ । ७ । ४३ ।
“स च्छिन्नमूलः क्षतजेन रेणु-
स्तस्योपरिष्टात् पवनावधूतः” ॥)
पूयम् । इति शब्दचन्द्रिका ॥

क्षतजतृष्णा, स्त्री, (क्षतजा शस्त्रादिभिः क्षताज्जाता

या तृष्णा पिपासा ।) शस्त्रादिक्षतयुक्तस्य पिपासा ।
तस्या निदानपूर्ब्बिकां सम्प्राप्तिमाह ।
“भयश्रमाभ्यां बलसंक्षयाद्वा
ऊर्द्ध्वं चितं पित्तविवर्द्धनैश्च ।
पित्तं सवातं कुपितं नराणां
तालुप्रपन्नं जनयेत् पिपासाम् ॥
स्रोतःस्वपांवाहिषु दूषितेषु
दोषैश्च तृट्सम्भवतीह जन्तोः ।
तिस्रः स्मृतास्ताः क्षतजा चतुर्थी
क्षयात्तथान्यामसमुद्भवा च ॥
भक्तोद्भवा सप्तमिकेति तासां
निबोध लिङ्गान्यनुपूर्ब्बशस्तु” ॥
नराणां चितं स्वस्थान एव सञ्चितं पित्तं सवातं
कट्वम्लोष्णापित्तविवर्द्धनैः । कट्वम्लोष्णादिभिः कु-
पितं भयश्रमाभ्यां बलसंक्षयादुपवासादेश्च वातः
कुपितः । तद्द्वयं ऊर्द्ध्वं प्रसरत् तालुप्रपन्नं सत्पि-
पासां जनयेत् । न केवलं तालुन्येव दूषिते तृतीया
भवति । किन्तु जलवाहिस्रोतःस्वपि । अत आह
स्रोतःस्वित्यादि नन्वत्र बहुवचनं न युक्तम् । यतो
जलवहे द्वे स्रोतसी सुश्रुतेनोक्ते । उच्यते । तयो-
रेवानेकप्रतानयोगान्न दोषः । अपां वाहिषु
स्रोतःस्विति जिह्वादेरप्युपलक्षणम् । यत आह
चरकः । रसवाहिनीश्च धमनीर्जिह्वाहृदयगल-
तालुक्लोम च । संशोष्य नृणां देहेषु कुरुतः
तृष्णामतिप्रबलौ पित्तानिलाविति ॥ संख्यामाह
तिस्र इत्यादि ॥ तृष्णायाः सामान्यलक्षण-
माह ।
“सततं यः पिबेत्तोयं न तृप्तिमधिगच्छति ।
मुहुः काङ्क्षति तोयन्तु तं तृष्णार्द्दितमादिशेत्” ॥
क्षतजामाह ।
“क्षतस्य रुक् शोणितनिर्गमाभ्यां
तृष्णा चतुर्थी क्षतजा मता तु” ।
क्षतस्य शस्त्रादिक्षतयुक्तस्य । रुक् पीडा ॥
अथ तृष्णायाश्चिकित्सा ॥
“वातघ्नमन्नपानं मृदु लघु शीतञ्च वाततृष्णायाम् ।
तृष्णायां पवनोत्थायां सगुडं दधि शस्यते ॥
स्वादु तिक्तं द्रवं शीतं पित्ततृष्णाहरं परम् ।
मुस्तपर्पटकोदीच्यच्छत्राख्योशीरचन्दनैः ॥
शृतं शीतं जलं दद्यात् तृड्दाहज्वरशान्तये” ॥
छत्रा धान्याकम् । कश्चित् धात्रीञ्च दद्यात्
चन्दनमत्र धवलं दद्यात् । तस्यातितृष्णाहरत्वात् ।
शृतं अर्द्धपक्वमत्र कर्त्तव्यम् । षडङ्गपानम् ।
“लाजोदकं मधुयुतं शीतं गुडविमर्द्दितम् ।
काश्मरीशर्करायुक्तं पिबेत् तृष्णार्द्दितो नरः ॥
आस्तरणमार्द्रवासः प्रावरणं चार्द्रमेव स्यात् ।
तेन पिपासा शाम्यति दाहश्चोग्रोऽपि देहिनां
नियतम् ॥
गोस्तनीक्षुरसक्षीरयष्टीमधुमधूत्पलैः ।
नियतं नासिकापीतैस्तृष्णा शाम्यति दारुणां ॥
वैशद्यञ्च नयत्यास्ये सन्दधाति मुखे जलम् ।
तृष्णादाहप्रशमनं मधुगण्डूषधारणम् ॥
पृष्ठ २/२२६
जिह्वातालुगलक्लोमशोषे मूर्द्धनि दापयेत् ।
केशरं मातुलुङ्गस्य धृतसैन्धवसंयुतम् ॥
दाडिमं बदरं लोध्रं कपित्थं वीजपूरकम् ।
पिष्ट्वा मूर्द्धनि लेपस्तु पिपासादाहनाशनः ॥
वारि शीतं मधुयुतमाकण्ठाद्वा पिपासितम् ।
पाययेद्वामयेच्चापि तेन तृष्णा प्रशाम्यति ॥
प्रातः सशर्करः पेयो हिमो धान्याकसम्भवः ।
जयेत् तृष्णां तथा दाहं भवेत् स्रोतोविशोधनम् ॥
अमलं कमलं कुष्ठं लाजाश्च वटरोहकम् ।
एतच्चूर्णस्य मधुना गुटिकां धारयेन्मुखे ॥
तृष्णां प्रवृद्धां हन्त्येषा मुखशोषञ्च दारुणम् ।
क्षतोद्भवां रुग्विनिवारणेन
जयेत् क्षतानामसृजश्च पातैः ।
क्षयोत्थितां क्षीरजलं निहन्या-
न्मांसोदकं वा मधुकोदकं वा ॥
आमोद्भवां विल्ववचायुतानां
जयेत् कषायैरथ दीपनानाम् ।
गुर्व्वन्नजामुल्लिखनैर्जयेच्च
क्षयं विना सर्व्वकृताञ्च तृष्णाम्” ॥
उल्लिखनैः लेखनद्रव्यैः । स्निग्धेऽन्ने भुक्ते या तृष्णा
स्यात्ताञ्च गुडाम्बुना शमयेत् । अतिरोगदुर्ब्ब-
लानां तृष्णां शमयेन्नृणामिहाशु पयः ॥ पयोऽत्र
दुग्धम् ।
“मूर्च्छाच्छार्द्दितृषादाहस्त्रीमद्यभृशकर्षिताः ।
पिचेयुः शीतलं तोयं रक्तपित्ते मदात्यये ॥
सात्म्यान्नपानभैषज्यैस्तृष्णा तस्य जयेत् पुनः ।
तस्यां जितायामन्योऽपि व्याधिः शक्यश्चिकित्सितुम् ॥
तृष्यन् पूर्ब्बामयक्षीणो न लभेत जलं यदि ।
मरणं दीर्घरोगं वा प्राप्नुयात् त्वरितं नरः ॥
तृषितो मोहमायाति मोहात् प्राणान् विमुञ्चति ।
तस्मात् सर्व्वास्ववस्थासु स क्वचिद्वारि वारयेत् ॥
अन्नेनापि विना जन्तुः प्राणान् धारयते चिरम् ।
तोयाभावात् पिपासार्त्तः क्षणात् प्राणैर्विमुच्यते” ॥
इति तृष्णाधिकारः । इति भावप्रकाशः ॥

क्षतविध्वंसी, [न्] पुं, (क्षतं व्रणं स्रवद्रक्तपूयादिकं

विध्वंसयतीति । वि + ध्वन्स + णिच् + णिनि ।)
वृद्धदारवृक्षः । इति शब्दचन्द्रिका ॥

क्षतव्रणः, पुं, (क्षतजन्यः व्रणः क्षतजो व्रणो वा ।)

षट्प्रकारव्रणरोगान्तर्गतव्रणरोगविशेषः । इति
भावप्रकाशः ॥ तद्विवरणं व्रणशब्दे द्रष्टव्यम् ॥

क्षतव्रतः, त्रि, (क्षतं भ्रष्ठं व्रतमस्य ।) ध्वस्तनियमः ।

तत्पर्य्यायः । अवकीर्णी २ । इत्यमरः । २ । ७ । ५४ ॥
तथा च याज्ञवल्क्यः ।
“अवकीर्णी भवेद्गत्वा ब्रह्मचारी तु योषितम् ।
गर्द्दभं पशुमालभ्य नैरृतं स विशुद्ध्यति” ॥
इति प्रायश्चित्ततत्वम् ॥

क्षतहरं, क्ली, (क्षतं हरतीति । हृ + टः ।) अगुरु ।

इति शब्दचन्द्रिका ॥

क्षतिः, स्त्री, (क्षण् + क्तिन् ।) अपचयः । क्षयः ।

(यथा, महाभारते । ३ । १७२ । १९ ।
“हयानां न क्षतिः काचित् न रथस्य न मातलेः” ॥)
“जलमुचि वितरणविमुखे
का क्षतिरस्त्यखिलाम्बुपातॄणाम् ।
केवलघनरसभक्षी
चातकपक्षी कमाश्रयति” ॥
इत्युद्भटश्च ॥

क्षतोदरः, पुं, (क्षतं शर्करादिभिन्नं उदरमत्र रोगे ।

अथवा क्षतात् स्रुतात् जातं उदरं उदररोग-
विशेषो यत्र ।) उदररोगविशेषः । तस्य सामा-
न्यरूपमाह ।
“आध्मानं गमनेऽशक्तिर्द्दौर्ब्बल्यं दुर्ब्बलाग्निना ।
शोथः सदनमङ्गानां सङ्गो वातपुरीषयोः ।
दाहस्तन्द्रा च सर्व्वेषु जठरेषु भवन्ति हि” ॥
सन्निकृष्टनिदानपूर्ब्बिकां संख्यामाह ।
“पृथक्दोषैः समस्तैश्च प्लीहबद्धक्षतोदकैः ।
सम्भवन्त्युदरान्यष्टौ तेषां लिङ्गं पृथक् शृणु” ॥
क्षतोदरमाह ।
“शल्यं तथान्नोपहितं यदन्नं
भुक्तं भिनत्त्यागतमन्यथा वा ।
तस्मात् स्रुतोऽन्त्रात् सलिलप्रकाशः
स्रावः स्रवेद्वै गुदतस्तु भूयः ॥
नाभेरधश्चोदरमेति वृद्धिं
निस्तुद्यते दाल्यति चातिमात्रम् ।
एतत् परिस्राव्युदरं प्रदिष्टं
दकोदरं कीर्त्तयतो निबोध” ॥
शल्यं कण्टककर्क्करादि अन्नोपहितं अन्ननिहितं
भुक्तं यत् अन्नं भिनत्ति तथा अन्यथा आगतं
भोजनं विना आगतं शरादि तदपि यदन्नं भिनत्ति
एतदुपलक्षणम् । जृम्भणमत्यशनञ्च अत्र भिनत्ति ।
यत उक्तं चरके ।
“शर्करातृणकाष्ठास्थिकण्टकैरन्नसंयुतैः ।
भिद्येतान्त्रं यदा भुक्तं जृम्भयात्यशनेन च” ॥ इति
तस्मात् भिन्नादन्त्रात् । गुदतस्तु भूयः अन्त्रात्
संस्रुत्य पुनर्गुदतः स्रवेदित्यर्थः । दाल्यति विदीर्य्यत
इव । पदसिद्धिरार्षत्वात् । एतत् क्षतोदरं तन्त्रा-
न्तरे परिस्राव्युदरं प्रदिष्टम् ॥
तस्य चिकित्सा ।
“शालिषष्टिकगोधूमयवनीवारभोजनम् ।
निरूहो रेचनं श्रेष्ठं सर्व्वेषु जठरेषु च ॥
आनूपमौदकं मांसं शाकं पिष्टकृतं तिलाः ।
व्यायामाध्वदिवास्वप्नयानप्रानानि वर्ज्जयेत् ॥
तथाम्ललवणोष्णानि विदाहीनि गुरूणि च ।
नाद्यादन्नानि जठरे तोयपानञ्च वर्ज्जयेत् ॥
उदराणां मलाढ्यत्वात् बहुशः शोधनं हितम् ।
क्षीरेणैरण्डजं तैलं पिबेन्मूत्रेण वा सकृत्” ॥
इति भावप्रकाशः । (उदररोगशब्दे विशेषविवृ-
तिरस्य ज्ञेया ॥)

क्षत्ता, [ऋ] पुं, (क्षद् संवृतौ । सौत्रधातुरयम् ।

“तृण्तृचौ शंसिक्षदादिभ्यः संज्ञायां चानिटौ” ।
उणां । २ । ९४ । इति संज्ञायां तृच् स चानिट् ।)
सारथिः । द्वाःस्थः । इत्यमरः । ३ । ३ । ६२ ॥
दासीपुत्त्रः । (यथा, महाभारते । १ । विदुराग-
मनपर्व्वणि । २०१ । १७ ।
“ततः प्रीतमनाः क्षत्ता धृतराष्ट्रं विशाम्पते ! ।
उवाच दिष्ट्या कुरवो वर्द्धन्त इति विस्मितः” ॥)
नियुक्तः । ब्रह्मा । इति मेदिनी ॥ क्षत्त्रियायां
शूद्राज्जातः । (यथा, मनुः । १० । १२ ।
“शूद्रादायोगवः क्षत्ता चाण्डालश्चाधमो नृणाम् ।
वैश्यराजन्यविप्रासु जायन्ते वर्णसङ्कराः” ॥)
मत्स्यः । इति संक्षिप्तसारोणादिवृत्तिः ।

क्षत्त्रं, क्ली, (क्षतः त्रायते इति । क्षत् + त्रै + कः ।)

शरीरम् इत्युणादिकोषः । तगरम् । इति
राजनिर्घण्टः । (क्षत्त्रियकुलम् । यथा, ऋग्वेदे ।
५ । ६२ । ६ ।
“अक्रविहस्ता सुकृते परस्पा
यं त्रासाथे वरुणेलास्वंतः ।
राजाना क्षत्त्रमहृणीयमाना
सहस्रस्थूणं विभृथः सह द्वौ” ॥)

क्षत्त्रः, पुं, (क्षद् + “गुधृवीपचिवचियमिसदिक्षदि-

भ्यस्त्रः” । उणां ४ । १६६ । इति त्रः ।) क्षत्त्रियः ।
इत्यणादिकोषः ॥ (यद्वा, क्षतः क्षतात् त्रायते इति ।
त्रै + कः । यथा, रघुः । २ । ५३ ।
“क्षतात् किल त्रायत इत्युदग्रः
क्षत्त्रस्य शब्दो भुवनेषु रूढः” ।
“नाश्वकर्णादिवत् केवलरूढः किन्तु पङ्कजादिवत्
योगरूढः” इत्यर्थः । इति मल्लिनाथः ॥)

क्षत्त्रबन्धुः, पुं, (क्षत्त्रियस्य बन्धुरिव ।) निन्दितक्षत्त्रि-

यः । इत्यमरटीका । (यथा, मार्कण्डेये । ८ । ७४ ।
“क्षत्त्रवन्धो ! ममेतां त्वं सदृशीं यज्ञदक्षिणाम् ।
मन्यसे यदि तत् क्षिप्रं पश्य त्वं मे बलं परम्” ॥
क्षत्त्रं राज्यं देहो वा बन्धुरिवास्य ।) क्षत्त्रमात्रम् ।
(यथा, मनुः । २ । ३८ ।
“आषोडशात् ब्राह्मणस्य सावित्री नातिवर्त्तते” ।
आद्वाविंशात् क्षत्त्रबन्धोराचतुर्विंशतेर्विशः ॥)

क्षत्त्रवृक्षः, पुं, (क्षत्त्रसंज्ञकः वृक्षः ।) मुचुकुन्दः ।

इति राजनिर्घण्टः । (पर्य्यायोऽस्य यथा, --
“मुचुकुन्दः क्षत्त्रवृक्षश्चित्रकः प्रतिविष्णुकः” ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ गुणा-
श्चास्य मुचुकुन्दशब्दे ज्ञातव्याः ॥)

क्षत्त्रियः, पुं, (क्षत्त्रे राष्ट्रे साधुः । क्षत्त्रस्यापत्यं वा ।

“क्षत्राद् घः” । ४ । १ । १३८ । इति जातौ घः ।)
क्षदति रक्षति जनान् क्षत्त्रः । क्षद संवृतौ सौत्रः
ततस्त्रासुसिति त्रः । क्षतात् त्रायते इति डे
मनीषादित्वात् क्षतान्त्याकारलोपे वा क्षत्त्रः ।
क्षत्त्रो द्वितकारः । पुंनपुंसकयोः क्षत्त्रः ।
पतिर्म्मम क्षत्त्रमशेषभूभृत् प्रमाभिरामो भर-
तश्च जिष्णुरिति राघवपाण्डवीये । क्षत्त्र एव
क्षत्त्रियः स्वार्थे इयः । अपत्यार्थे इय इत्यन्ये ।
इति भरतः ॥ * ॥
ब्रह्मबाहुजवर्णविशेषः । क्षत्त्री इति भाषा ।
(यथा, मनुः । १ । ३१ ।
“लोकानां तु विवृद्ध्यर्थं मुखबाहूरुपादतः ।
ब्राह्मणं क्षत्त्रियं वैश्यं शूद्रञ्च निरवर्त्तयत्” ॥)
तत्पर्य्यायः । मूर्द्धाभिषिक्तः २ राजन्यः ३ बाहुजः ४
विराट् ५ । इत्यमरः । २ । ८ । १ ॥ क्षत्त्रः ६ द्विजलिङ्गी
७ राजा ८ नाभिः ९ । इति जटाधरः ॥ नृपः १०
पृष्ठ २/२२७
मूर्द्धकः ११ । इति शब्दरत्नावली ॥ पार्थिवः १२
सार्व्वमौमः १३ । इति राजनिर्घण्टः । ते च
सूर्य्यचन्द्रवंशीयराजानः कलेः सहस्रवर्षपर्य्यन्तं
आसन् ततः महानन्दिसुतो नन्दः शूद्रायां समु-
त्पन्नः शतवर्षं राज्यं चकार तदन्ते चाणक्यनामा
ब्राह्मणो नन्दं तत्पुत्त्रांश्च हत्वा मुरुवंशजं चन्द्रगुप्तं
राजानं कृतबान् कलौ नन्दान्तक्षत्त्रियवंशः ।
इति श्रीभागवते १२ स्कन्धे १ अध्यायात् संगृ-
हीतम् ॥ * ॥ प्लक्षद्वीपे क्षत्त्रियस्य नाम पतङ्गः ।
शाल्मलद्वीपे वीर्य्यधरः । कुशद्बोपे कोविदः ।
क्रौञ्चद्वीपे ऋषभः । शाकद्वीपे सत्यव्रतः पुष्करद्वीपे
सर्व्वे एकवर्णाः ॥ अस्य शास्त्रनिरूपितधर्म्मास्त्रयः ।
अध्ययनं यजनं दानञ्च । प्रजारक्षणं जीविका ।
अस्याश्रमास्त्रयः । गार्हस्थ्यं ब्रह्मचर्य्यं वानप्रस्थञ्च ।
इति तत्रैव २० अध्यायादितः संगृहीतम् ॥ * ॥
तल्लक्षणं यथा, --
“क्षत्त्रजं सेवते कर्म्म वेदाध्ययनसंयुतः ।
दानादानवहिर्यस्तु स वै क्षत्त्रिय उच्यते” ॥
तस्य धर्म्मो यथा, --
नारद उवाच ।
“क्षत्त्रियस्यापि यो धम्मस्तं ते वक्ष्यामि पार्थिव ! ।
दद्याद्राजा न याचेत यजेत न च याजयेत् ॥
नाध्यापयेदधीयीत प्रजाश्च परिपालयेत् ।
नित्योद्युक्तो दस्युवधे रणे कुर्य्यात् पराक्रमम् ॥
ये तु क्रतुभिरीजानाः श्रुतवन्तश्च पार्थिवाः ।
ये तु युद्धे विजेतारस्ते तु लोकजितो नृपाः ॥
अविक्षतशरीरो हि संगराद्यो निवर्त्तते ।
क्षत्त्रियस्य तु तत् कर्म्म नोभयत्र यशःप्रदम् ॥
क्षत्त्रियाणामयं धर्म्मो निर्णीतो मुनिभिः परः ।
नास्य कृत्यतमं किञ्चिद्राज्ञो दस्युविनिग्रहात् ॥
दानमध्ययनं यज्ञो राज्ञां क्षेमोऽभिधीयते ।
तस्माद्राज्ञा महाराज ! योद्धव्यं धर्म्मशीलिना ॥
प्रजाः स्वेषु च धर्म्मेषु स्थापयेत महीपतिः ।
धर्म्म्याण्येव हि कर्म्माणि कारयेत् सततं प्रजाः ॥
परमां सिद्धिमाप्नोति नृपतिः परिपालनात् ।
कुर्य्यादन्यन्न वा कुर्य्यान्मैत्रो राजन्य उच्यते” ॥
इति पाद्मे स्वर्गखण्डे २६ अध्यायः ॥ * ॥ अपि च ।
“राजन्यानां करादानं विना तैवाहिकञ्च यः ।
प्रतिग्रहः स निन्द्योऽत्रं परत्र चासुखप्रदः ॥
युद्धे पलायनञ्चैव तथा कातरतार्थिषु ।
अपालनं प्रजानाञ्च दाने धर्म्मे विरक्तता ॥
अनवेक्षा स्वराष्ट्रस्य ब्राह्मणानामनादरः ।
अमात्यानामसम्मानं तेषां कर्म्मानवेक्षणम् ।
भृत्यानाञ्च परीहासो निषिद्धः क्षत्त्रजन्मनाम्” ॥
“राजन्यस्तु महाराज ! यथाश्रममवाप्नुयात् ।
तत् शृणुष्व तवाख्यास्ये धर्म्मसंग्रहतत्परः ॥
वेदानधीत्य धर्म्मेण राजशास्त्राणि चानघ ! ।
सन्तानादीनि कर्म्माणि कृत्वा सोमं निषेव्य च ॥
पालयित्वा प्रजाः सर्व्वा घर्म्मेण जयताम्बर ! ।
राजसूयाश्वमेधादीन् मखानन्यांस्तथैव च ॥
आनयित्वा यथापाठं विप्रेभ्यो दत्तदक्षिणः ।
संग्रामे विजवं प्राप्य तथाल्पं यदि वा बहु ॥
स्थापयित्वा प्रजापालं पुत्त्रं राज्ये च पार्थिव ! ।
अन्यगोत्रं प्रशस्तं वा क्षत्त्रियं क्षत्त्रियर्षभ ! ॥
अर्च्चयित्वा पितॄन् सम्यक् पितृयज्ञे यथाविधि ।
देवान् यज्ञैरृषीन् वेदैरर्च्चयित्वां प्रयत्नतः ॥
अन्तकाले च सम्प्राप्ते य इच्छेदाश्रमान्तरम् ।
सोऽनुपूर्ब्ब्याश्रमान्राजन् गत्वा सिद्धिमवाप्नुयात् ॥
राजर्षित्वेन राजेन्द्र ! भैक्षचर्य्याध्वसेवया ।
अपेतगृहधर्म्मोऽपि चरेज्जीवितकाम्यया ॥
न चैतन्नैष्ठिकं कर्म्म त्रयाणां भूरिदक्षिणम् ।
चतुर्णां राजशार्दूल ! प्राहुराश्रमवासिनाम् ॥
बाह्वायत्तं क्षत्त्रियैर्मानवानां
लोकश्रेष्ठं धर्म्ममासेवमानैः ।
सर्व्वे धर्म्माः सोपधर्म्मास्त्रयाणां
राज्ञो धर्म्मादिति वेदात् शृणोमि ॥
एवं धर्म्मान्राजधर्म्मेषु सर्व्वान्
सर्व्वावस्थं सम्प्रलीनान्निबोध ।
अल्पश्रमानल्पफलान् वदन्ति
धर्म्मानन्यान् वेदविदो मनुष्याः ॥
महाश्रमं बहुकल्याणरूपं
क्षात्त्रं धम्मं नेतरं प्राहुरार्य्याः ।
सर्व्वे धर्म्मा राजधर्म्मप्रधानाः
सर्व्वे धर्म्माः पाल्यमानाश्चरन्ति ॥
सर्व्वत्यागो राजधर्म्मेषु राजं-
स्त्यागं धर्म्मञ्चाहुरग्र्यं पुराणम् ।
मज्जेत्त्रयी दण्डनीतौ हतायां
सर्व्वे धर्म्माः प्रक्षयेयुर्व्विरुद्धाः ॥
सर्व्वे धर्म्माश्चाश्रमाणां हताः स्युः
क्षात्त्रे त्यक्ते राजधर्म्मे पुराणे ।
सर्व्वे त्यागा राजधर्म्मेषु चोक्ताः
सर्व्वा विद्या राजधर्म्मेषु युक्ताः ॥
सर्व्वे लोका राजधर्म्मे प्रविष्टा
यथा जीवाः प्राकृतैर्व्वध्यमानाः ।
धर्म्मश्रुतानामुपपीडनाय
एवं धर्म्मा राजधर्म्मैर्विमुक्ताः ॥
सञ्चिन्वन्ते नाद्रियन्ते स्वधर्म्मम् ॥
चातुराश्रम्यधर्म्माश्च यतिधर्म्माश्च पार्थिव ! ।
लोकवेदोत्तराश्चैव क्षात्त्रे धर्म्मे समाहिताः ॥
सर्व्वाण्येतानि धर्म्माणि क्षात्त्रे राजन्यसत्तम ! ।
अप्रत्यक्षं बहुद्वारं धर्म्ममाश्रमवासिनाम् ।
क्षात्त्रेणैव हि धर्म्मेण प्रत्यक्षं क्रियते नृप !” ॥
इति पाद्मे स्वर्गखण्डे २८ अध्यायः ॥ * ॥ अपि च ।
“द्विजार्च्चनं क्षत्त्रियाणां तथा नारायणार्च्चनम् ।
राज्यानां पालनञ्चैव रणे निर्भयता तथा ॥
नित्यं दानं ब्राह्मणेभ्यः शरणागतरक्षणम् ।
पुत्त्रतुल्यं प्रजानाञ्च दुःखिनां परिपालनम् ॥
शस्त्रास्त्राणाञ्च नैपुण्यं रणे सौन्दर्य्यमेव च ।
तपश्च धर्म्मकृत्यञ्च यत्नतः कुरुते मुदा ॥
पण्डितं नीतिशास्त्रज्ञं नित्यञ्च परिपालयेत् ।
नियोजयेत् सभामध्ये नित्यं सद्भिश्च संयुतः ॥
हस्त्यश्वरथपादातं सेनाङ्गञ्च चतुष्टयम् ।
पालयेत् यत्नतो नित्यं यशस्वी च प्रतापवान् ॥
रणे निमन्त्रितश्चैव दाने न विमुखो भवेत् ।
रणे यो वा त्यजेत् प्राणान् तस्य स्वर्गोयशस्करः” ॥
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ८३ अध्यायः ॥ * ॥
अथ सूर्य्यवंशीय क्षत्त्रियविवरणम् ।
परमेश्वरात् ब्रह्मा जातः तस्य पुत्त्रो मरीचिस्तस्य
कश्यपस्तस्य सूर्य्यस्तस्य वैवस्वतो मनुः । सत्ययुगे
मनुरेव राजासीत् । त्रेतायुगे तस्य पुत्त्र इक्ष्वाकुः
अयोध्यायां राजा आसीत् । त्रेतायुगे अतिदीर्घा-
युषो राजानो बहुकालं राज्यं कृतवन्तः । द्वापरे
ततः किञ्चित्-न्यूनायुषः । युगस्य प्रथमापेक्षया
उत्तरोत्तरं आयुषो ह्रासः । कलियुगे अल्पमेवायुः
शेषे अत्यल्पं भविष्यति । तस्य पुत्त्रो विकुक्षि-
स्तस्य ककुत्स्थः तस्य अनेनाः तस्य पृथुः तस्य
विश्वगन्धिः तस्य चन्द्रः तस्य युवनाश्वः तस्य श्रावः
तस्य वृहदश्वः तस्य धुन्धुमारः तस्य दृढाश्वः तस्य
हर्य्यश्वः तस्य निकुम्भः तस्य कृशाश्वः तस्य सेन-
जित् तस्य युवनाश्वस्तस्य मान्धाता चक्रवर्त्त्यभूत् ।
तस्य पुरुकुत्सः तस्य त्रसदस्युः तस्य अनरण्यः
तस्य हर्य्यश्वः तस्य प्रारुणः तस्य त्रिबन्धनः तस्य
सत्यव्रतः तस्य त्रिशङ्कुः तस्य हरिश्चन्द्रः यः
राजसूयं कृतवान् । तस्य रोहितः तस्य हरितः
तस्य चम्पः तस्य सुदेवः तस्य विजय तस्य भरुकः
तस्य वृकः तस्य बाहुकः तस्य सगरश्चक्रवर्त्ती ।
तस्य असमञ्जाः तस्य अंशुमान् तस्य भगीरथः ।
यस्तपः कृत्वा पृथिव्यां गङ्गामानीतवान् । तस्य
श्रुतः तस्य नाभः तस्य सिन्धुद्वीपः तस्य अयुतायुः
तस्य ऋतुपर्ण्णः तस्य सौदासः तस्य अश्मकः तस्य
मूलकः तस्य दशरथः तस्य ऐडविडिः तस्य विश्व-
सहः तस्य खठ्वाङ्गश्चक्रवर्त्ती । तस्य दीर्घबाहुः
तस्य रघुः तस्य अजः तस्य दशरथः । विष्णुः
श्रीरामरूपेण तस्य पुत्त्रत्वं प्राप्तवान् । तस्यानुजा
भरतलक्ष्मणशत्रघ्नाः । श्रीरामचरितं बहुविस्तीर्णं
वाल्मीकिव्यासादिमुनिभिर्वर्णितम् । असौ त्रेता-
द्वापरयोः सन्धौ अवतीर्णः । एते खट्वाङ्गमारभ्य
श्रीरामपर्य्यन्ताश्चक्रवर्त्तिनः । द्वापरस्य प्रथमे
तस्य पुत्त्रः कुशो जातः । तस्य अतिथिः तस्य
निषधः तस्य नभः तस्य पुण्डरीकः तस्य क्षेसधन्वा
तस्य देवानीकः तस्य हीनः तस्य पारियात्रः तस्य
बलस्थलः तस्य वज्रनाभः तस्य अर्कः तस्य सगणः
तस्य विधृतिः तस्य हिरण्यनाभः तस्य पुष्पः तस्य
ध्रुवसन्धिः तस्य सुदर्शनः तस्य अंग्निवर्णः तस्य
शीघ्रः तस्य मरुः यो योगसिद्धः सन् सुभेरु-
निकटे कलापग्रामे आस्ते कलेरन्ते नष्टं सूर्य्यवंशं
पुनर्भावयिष्यति । मरोः पुत्त्रः प्रसुश्रुतः तस्य
सन्धिः तस्य अमर्षणः तस्य महस्वान् तस्य विश्व-
बाहुः तस्य प्रसेनजित् तस्य तक्षकः तस्य वृह-
द्बलः । असौ युधिष्ठिरस्य समकालीनः भारतयुद्धे
अभिमन्युना हतः । तस्य वृहद्रणः तस्य उरु-
क्रियः तस्य वत्सवृद्धः तस्य प्रतिव्योमः तस्य भानुः
तस्य दिवाकः तस्य सहदेवः तस्य वीरः तस्य
वृहदश्वः तस्य भानुमान् तस्य प्रतीकाश्वः तस्य
सुप्रतीकः तस्य मरुदेवः तस्य सुनक्षत्रः तस्य पुष्करः
तस्य अनारीक्षः तस्य सुतपाः तस्य अमित्रजित्
पृष्ठ २/२२८
तस्य वृहद्राजः तस्य वर्हिः तस्य कृतञ्जयः तस्य
रणञ्जयः तस्य सञ्जयः तस्य शाक्यः तस्य शुद्धोदः
तस्य लाङ्गलः तस्य प्रसेनजित् तस्य क्षुद्रकः तस्य
सुमित्रः । एते राजानः कलेः सहस्रवत्सरपर्य्यन्तं
राज्यं कृतवन्तः । एतत्पर्य्यन्तं सूर्य्यवंशविश्रान्तिः
पुन सत्ययुगे सूर्य्यवंशोत्पत्तिर्भविष्यति । इति
श्रीभागवतनवमस्कन्धमतम् ॥ चन्द्रवंशविवरणं
चन्द्रवंशशब्दे द्रष्टव्यम्

<F>*)क्षत्त्रियाणामन्यतराख्याः कायस्थाः ।

यथा प्रथमतः--वेदानाम् आपस्तम्बशाखायाम् ।
“बाह्वोश्च क्षत्त्रिया जाताः कायस्था जगतीतले ।
चित्रगुप्तः स्थितः स्वर्गे विचित्रो भूमिमण्डले ॥
चैत्ररथः सुतस्तस्य यशस्वी कुलदीपकः ।
ऋषिवंशे समुद्भूतो गौतमी नाम सत्तमः ।
तस्य शिष्यो महाप्राज्ञश्चित्रकूटाचलाधिपः” ॥
द्वितीयतः, --
माण्डव्यशापात् चित्रगुप्तस्य पुत्त्रचैत्ररथस्य क्षत्त्रिय-
त्वगते पुनरुपनयनसंस्कारे कृते तेन क्षत्त्रियत्वं प्राप्तं
यथा, -- वेदान्ते प्रथमाध्याथे तृतीयपादे ३५ । ३७
सूत्रे क्षत्त्रियत्वगते चोत्तरत्र चैत्ररथेन लिङ्गात् तद-
भावे निर्द्धारणे च प्रवृत्तेः ॥
तृतीयतः, --
“नाम्ना त्वं चित्रगुप्ताऽसि मम कायादभूर्यतः ।
तस्मात् कायस्थविख्यातिर्लोके तव भविष्यति ॥
कायस्थः क्षत्त्रियो वर्णो न तु शूद्रः कदाचन ।
अतो भवेयुः संस्कारा गर्भाधानादिका दश ॥
गर्भाधानमृतौ कार्य्यं तृतीये मासि पुंस्क्रिया ।
मासाष्टमे स्यात् सीमन्त उत्पत्तौ जातकर्म्म च ॥
शताहे नामकरणं पञ्चमे मासि निष्क्रमः ।
षष्ठेऽन्नप्राशनं मासि चूडा कार्य्या यथाकुलम् ॥
तथोपनयने भिक्षाव्रह्मचर्य्यव्रतादिकम् ।
वासो गुरुकुलेषु स्यात् स्वाध्यायाध्ययनं तथा ॥
कृत्वा तु मातृकापूजां वसोर्धारां विधाय च ।
आयुष्याणि च शान्त्यर्थं जपेदत्र समाहितः ॥
कुर्य्यान्नान्दीमुखं श्राद्धं दधिसध्वाज्यसंयुतम् ।
ततः प्रधानसंस्काराः कार्य्या एष विधिः स्मृतः” ॥
इत्यादि विज्ञानतन्त्रे ॥
चतुर्थतः, --
कायप्रकाशो नाम्ना विद्यानगर्य्यधिपतिः क्षत्त्रवशजः
कायस्य आसीत् । यथा, --
“विराटकायजो वंशः कायस्थ इति विस्मृतः ।
आर्य्याच्छन्दःप्रकाशात् तु आर्य्यावर्त्तः प्रमुच्यते ॥
अयं तु नवमस्तेषां द्वीपसागरसंवृतः
योजनानां सहस्रं तु द्वीपीऽयं दक्षिणोत्तरात्” ॥
इति मेरुतन्त्रे १९९ पटले ।
पञ्चमतः, --
“राजन् ! ब्रह्मकायसमुद्भूतः कायस्थो वर्म्मसंज्ञकः कलौ
हि क्षत्त्रियः म चास्त्यधिकारो जपयज्ञेषु” ॥
इति व्योमसंहितायाम् माधवाचार्य्यधृतम् ॥
षष्ठतः, --
यदा पृथिवीनिक्षत्त्रियकाले परशुरामस्य भयात्
चन्द्रमेनस्य नृपतेभार्य्या मुनेर्दाल्भ्यस्याश्रयं गता तदा
परशराम उवाच ।
“तवाश्रमे महाभाग । सगर्भा स्त्री समागता
चन्द्रसेनस्य राजर्षः क्षत्त्रियस्य महात्मनः ॥
तम्मेवं प्रार्थितं देहि हिंसेयं तां महामुने ! ।
ततो दालभ्यः प्रत्युबाच ददामि वरमीप्सितम् ॥
स्त्रियं गर्भममुं बालं तन्मे त्वं दातुमर्हसि ।
ततो रामोऽब्रवीद्दाल्भ्यं यदर्थमहमागतः ॥
क्षत्त्रियान्तकरश्चाहं तत्त्वं याचितवानसि ।
प्रार्थितश्च त्वया विप्र ! कायस्थो गर्भ उत्तमः ॥
तस्मात् कायस्थ इत्याख्यो भविष्यति शिशूत्तमः ।
एवं रामो महाबाहुर्हित्वा तं गर्भमुत्तमम् ॥
निर्जगामाश्रमात्तस्मात् क्षत्त्रियान्तकरः प्रभुः ।
कायस्थ एष उत्पन्नः क्षत्त्रिय्यां क्षत्त्रियात्ततः ॥
तद्गर्भजाश्व कायस्था धर्म्मिष्ठाः सत्यवादिनः ।
सदाचारपरा नित्यं रता हरिहरार्च्चने ॥
देवविप्रपितॄणाञ्च अतिथीनाञ्च पूजकाः” ॥
इति स्कन्दपुराणे रेणुकामाहात्म्य परशुरामदाल्भ्य-
संवादे ॥ </F> ॥

क्षत्त्रिया, स्त्री, (क्षत्त्रियाणां स्त्रीजातिः । “अ-

र्य्यक्षत्त्रियाभ्यां वा” । वार्त्तिं इति
स्वार्थे आनुगभावे टाप् योपधत्वात् न ङीष् ।
पक्षे आनुगागमः ङीष् च ।) क्षत्त्रियस्त्रीजातिः ।
इत्यमरः ॥ (यथा, मनुः । ३ । ४४ ।

क्षत्त्रियाणी, स्त्री, (क्षत्त्रियाणां स्त्रीजातिः । “अ-

र्य्यक्षत्त्रियाभ्यां वा” । वार्त्तिं इति
स्वार्थे आनुगभावे टाप् योपधत्वात् न ङीष् ।
पक्षे आनुगागमः ङीष् च ।) क्षत्त्रियस्त्रीजातिः ।
इत्यमरः ॥ (यथा, मनुः । ३ । ४४ ।
“शरः क्षत्त्रियया ग्राह्यः प्रतोदो वैश्यकन्यया” ॥
दुर्गा । यथा, हरिवंशे विष्णुपर्व्वणि । ५८ । २३ ।
“निद्रा च सर्व्वभूतानां मोहनी क्षत्त्रिया तथा” ॥)

क्षत्त्रियी, स्त्री, (क्षत्त्रियस्य पत्नी इति । “पुंयोगा-

दाख्यायाम्” । ४ । १ । ४८ । इति ङीष् ।)
क्षत्त्रियपत्नी । इत्यमरः । २ । ६ । १५ ॥

क्षद, संवृतौ । इति कविकल्पद्रुमः ॥ (सौत्रं--आत्मं--

सकं--सेट् ।) क्षत्ता । इति दुर्गादासः ॥
(यथा, ऐतरेयब्राह्मणे । १ । १५ । “तद्यथैवादो
मनुष्यराज आगतेऽन्यस्मिन् वार्हत्युक्षाणं वा
वेहतं वा क्षदन्त एवमेवास्मा एतत्” ॥)

क्षन्ता, [ऋ] त्रि, (क्षम् + कर्त्तरि तृच् ।) क्षमा-

शीलः । इत्यमरः । ३ । १ । ३१ ॥ अस्य पर्य्यायः सहि-
ष्णुशब्दे द्रष्टव्यः ॥ (यथा, महाभारते । १३ । १०२ । ३१ ।
“ये क्षन्तारो नाभिजल्पन्ति चान्यान्
सत्रीभूताः सततं पुण्यशीलाः ।
तथाविधानामेष लोको महर्षे !
परं गन्ता धृतराष्ट्रो न तत्र” ॥)

क्षप, इ क शक्तौ । इति कविकल्पद्रुमः ॥ (चुरां--

परं--सकं--सेट्--इदित् ।) शक्तिरिह क्षमा । इक,
क्षम्पयति दुःखं मुनिः । सहत इत्यर्थः । इति
दुर्गादासः ॥

क्षप, त् क म क्षेपे । इति कविकल्पद्रुमः ॥ (अदन्त

चुरां--परं--सकं--सेट् ।) म, अक्षपि अक्षापि क्षपं
क्षपं क्षापं क्षापम् । मानुबन्धसामर्थ्यात् स्थानिव-
त्त्वाभावे दीर्घः । स्वमते तु अत्र दीर्घविधिरुपधां
नापेक्षते । इति दुर्गादासः ॥

क्षपणः, त्रि, (क्षपयति क्षिपति दूरीकरोति लज्जां

इति । क्षप क्षेपे + कर्त्तरि ल्युः ।) निर्लज्जः ।
इति त्रिकाण्डशेषः ॥ (क्षपयति विषयरागं इति ।
बौद्धसन्न्यासी ॥ (भावे ल्युट् क्षपणम् । यथा,
मनुः । ४ । २२२ ।
“भुक्त्वाऽतोऽन्यतमस्यान्नममत्या क्षपणं त्र्यहम्” ॥)

क्षपणकः, पुं, (क्षप् + ल्युः । स्वार्थे कन् ।) बुद्धभेदः ।

इति जटाधरः ॥ सन्न्यासी । यथा । “एक क्षपणक
शाकाहर्त्ता तत्र क्षपणक दशशाकाशा । यत्र
क्षपणक दशशाकाशा तत्र क्षपणक का शा-
काशा” ॥ इत्युद्भटः ॥ (यथा च महाभारते । १ ।
३ । १२४ ।
“सोऽपश्यदथ पथि नग्नं क्षपणकमागच्छन्तम्” ॥
विक्रमादित्यसभास्थनवरत्नानामेकः । यथा, --
“धन्वन्तरिक्षपणकामरसिंहशङ्कु-
वेतालभट्टघटकर्परकालिदासाः” ॥)

क्षपण्युः, पुं, (क्षप् + बाहुलकात् अन्युः ततो णत्वम् ।)

अपराधः । इति शब्दमाला ॥

क्षपा, स्त्री, (क्षपयति वारयति चेष्टामिन्द्रिया-

णाम् । क्षप् + अच् ।) रात्रिः । (यथा, महाभारते
। ३ । अरण्ययात्रापर्व्वणि । १ । ४३ ।
“राजानन्तु कुरुश्रेष्ठं ते हंसमधुरस्वराः ।
आश्वासयन्तो विप्राग्र्याः क्षपां सर्व्वां व्यनोदयन्” ॥)
हरिद्रा । इत्यमरः ॥

क्षपाकरः, पुं, (क्षपां रात्रिं करोतीति । कृ + टः ।)

चन्द्रः । कर्पूरः । इत्यमरः । ४ । ५३ । ७ ॥

क्षपाचरः, पुं, (क्षपायां रजन्यां चरतीति । चर +

टः ।) राक्षसः । (यथा, महाभारते । ३ । इन्द्रजि-
द्वधपर्व्वणि । २८८ । ३३ ।
“निर्याणे स मति कृत्वा निधायासिं क्षपाचरः ।
आज्ञापयामास तदा रथो मे कल्यतामिति” ॥)

क्षपाटः, पुं, (क्षपायां अटतीति । अट् गतौ + अच् ।

राक्षसः । इति त्रिकाण्डशेषः । (यथा, भट्टिः २ । ३० ।
“ततः क्षपाटैः पृथुपिङ्गलाक्षैः
खं प्रावृषेण्यैरिव चानशेऽब्दैः” ॥)

क्षपापतिः, पुं, (क्षपायाः रजन्याः पतिः ।) चन्द्रः ।

कर्पूरः । इति निशापतिशब्ददर्शनात् ॥

क्षम, उ इर् भ य मर्षे । इति कविकल्पद्रुमः ॥

(दिवां--परं--सकं--सेट् । उदित्वात् क्त्वावेट् ।)
मर्षः सहनम् । उ, क्षमित्वा क्षान्त्वा । षष्ठस्वरा-
नुबन्ध इत्येके । इ र, अक्षमत् अक्षमीत् । अस्मात्
पुषादित्वान्नित्यं ङ इत्यन्ये । भ य, क्षाम्यति दोषं
साधुः । इति दुर्गादासः ॥

क्षम, ऊ ङ ञि ष मर्षे । इति कविकल्पद्रुमः ॥

(म्वां--आत्मं--सकं--वेट् ।) ऊ, अक्षमिष्ट अक्षंस्त ।
ङ, क्षमते । ञि, क्षन्तोऽस्ति । ष, क्षमा । इति
दुर्गादासः ॥

क्षमं, क्ली, (क्षम् + पचाद्यच् ।) युक्तम् । इत्यमरः ।

३ । ३ । १२२ ॥ (यथा, शाकुन्तले ५ अङ्के ।
“यदि यथा वदति क्षितिपस्तथा
त्वमसि किं पुनरुत्कुलया त्वया ।
अथ तु वेत्सि शुचिव्रतमात्मनः
पतिगृहे तव दास्यमपि क्षमम्” ॥)

क्षमः, त्रि, (क्षमते इति । क्षम् + अच् ।) शक्तः ।

हितः । इत्यमरः । ३ । ३ । १२२ ॥ आद्यस्य पर्य्यायः ।
सहः २ प्रभुष्णुः ३ । इति हेमचन्द्रः ॥
(यथा, शाकुन्तले १ माङ्के ।
“इदं किलाव्याजमनोहरं वपु-
स्तपःक्षमं साधयितुं य इच्छति” ॥
पृष्ठ २/२२९
रघौ च । ११ । ६ ।
“आशिषं प्रयुयुजे न वाहिनीं
सा हि रक्षणविधौ तयोः क्षमा” ॥)

क्षमता, स्त्री, (क्षमस्य भावः इति । क्षम + तल् ।)

योग्यता । सामर्थ्यम् । यथा, --
“श्रुतिर्द्वितीया क्षमता च लिङ्गं
वाक्यं पदान्येव तु संहतानि ।
सा प्रक्रिया या करणस्य काङ्क्षा
स्थानं क्रमो योगबलं समाख्या” ॥
इति भट्टवार्त्तिकम् ॥ क्षमता अर्थप्रकाशनसा-
मर्थ्यम् । यथा । वर्हिर्देवसदनं दासीत्यत्र दा-
सीति पदस्य छेदनप्रकाशनसामर्थ्यात् वर्हिरित्यस्य
आस्तृतदर्भप्रकाशनसामर्त्यात् आस्तृतदर्भच्छेदने
समुदायमन्त्रस्य नियोगोऽवगम्यते । इति धर्म्म-
दीपिका ॥

क्षमा, स्त्री, (क्षमते आत्मोपरिस्थितानां जीवाना-

मपराधं या । क्षम् अच् षित्वादङ् वा तत-
ष्टाग् ।) क्षितिः । (यथा, भट्टिः । ३ । २२ ।
“विभूषणान्युन्मुमुचुः क्षमायां
पेतुर्बभञ्जुर्वलयानि चैव” ॥)
क्षान्तिः । इत्यमरः । ३ । ३ । १२२ ॥ क्षमालक्षणम् ।
यथाह, वृहस्पतिः ।
“वाह्ये चाध्यात्मिके चैव दुःखे चोत्पादिते क्वचित् ।
न कुप्यति न वा हन्ति सा क्षमा परिकीर्त्तिता” ॥
इत्येकादशीतत्त्वम् । अपि च ।
“आक्रुष्टोऽभिहतो यस्तु नाक्रोशेन्न हनेदपि ।
अदुष्टैर्वाङ्मनःकायैस्तितिक्षुश्च क्षमा स्मृता” ॥
इति मात्स्ये १२० अध्यायः ॥ अन्यच्च ।
“विभागशीलः सततं क्षमायुक्तो दयात्मकः ।
गृहस्थस्तु क्षमायुक्तो न गृहेण गृही भवेत् ॥
क्षमा दया च विज्ञानं सत्यञ्चैव दमः शमः ।
अध्यात्मनित्यताज्ञानमेतद्ब्राह्मणलक्षणम् ॥
विगर्हातिक्रमक्षेपहिंसाबन्धवधात्सनाम् ।
अन्यमन्युसमुत्थानां दोषाणां वर्ज्जनं क्षमा” ॥
इति कौर्म्मे १४ अध्यायः ॥ (अपरञ्च यथा, महा-
भारते । ३ । द्रौपदी-युधिष्ठिरसंवादे । २९ । ३५-- ।
“अत्राप्युदाहरन्तीमा गाथा नित्यं क्षमावताम् ।
गीताः क्षमावता कृष्णे ! काश्यपेन महात्मना ॥
क्षमा धर्म्मः क्षमा यज्ञः क्षमा वेदाः क्षमा श्रुतम् ।
य एतदेव जानाति स सर्व्वं क्षन्तुमर्हति ॥
क्षमा ब्रह्म क्षमा सत्यं क्षमा भूतञ्च भावि च ।
क्षमा तपः क्षमा शौचं क्षमयेदं धृतं जगत् ॥
अतियज्ञविदां लोकान् क्षमिणः प्राप्नुवन्ति च ।
अतिब्रह्मविदां लोकानति चापि तपस्विनाम् ॥
अन्ये वै यजुषां लोकाः कर्म्मिणामपरे तथा ।
क्षमावतां ब्रह्मलोके लोकाः परमपूजिताः ॥
क्षमा तेजस्विनां तेजः क्षमा ब्रह्म तपस्विनाम् ।
क्षमा सत्यं सत्यवतां क्षमा यज्ञः क्षमा शमः ॥
तां क्षमामीदृशीं कृष्णे ! कथमस्मद्विधस्त्यजेत् ।
यस्यां ब्रह्म च सत्यञ्च यज्ञा लोकाश्च धिष्ठिताः ॥
क्षन्तव्यमेव सततं पुरुषेण विजानता ।
यदा हि क्षमते सर्व्वं ब्रह्म सम्पद्यते तदा ॥
क्षमावतामयं लोकः परश्चैव क्षमावताम् ।
इह सम्मानमर्हन्ति परत्र च शुभां गतिम् ॥
येषां मन्युर्मनुष्याणां क्षमयाभिहतः सदा ।
तेषां परतरे लोकास्तस्मात् क्षान्तिः परा मता” ॥)
रात्रिः । इति शब्दरत्नावली ॥ * ॥ दुर्गा । इत्यमर-
टीकायाम् मथुरानाथः ॥ तथा हि ।
“जयन्ती मङ्गला काली भद्रकाली कपालिनी ।
दुर्गा शिवा क्षमा धात्री स्वाहा स्वधा नमोऽस्तुते” ॥
इति दुर्गार्च्चातत्त्वम् ॥ अपि च ।
“क्षमा तु श्रीमुखे कार्य्या योगपट्टोत्तरीयका ।
पद्मासनकृताधारा वरदोद्यतपाणिनी ॥
शूलमेखलसंयुक्ता प्रशान्ता योगसंस्थिता ।
सितपुष्पोपहारेण सितहोमेन सिद्धिदा” ॥
इति देवीपुराणे संवत्सरदेवताविंशतिविधिः
प्रथमः ॥ खदिरः । इति राजनिर्घण्टः ॥ गोपी-
विशेषः । यथा । राधिकोवाच ।
“मया पूर्ब्बञ्च त्वं दृष्टो गोप्या च क्षमया सह ।
सुवेशयुक्तो मालावान् गन्धचन्दनसंयुतः ॥
रत्नभूषितया गन्धचन्दनोक्षितया तया ।
सुखेन मूर्च्छितस्तल्पे पुष्पचन्दनसंयुते ॥
श्लिष्टो निद्रितया सद्यः सुखेन नवसङ्गमात् ।
मया प्रबोधिता सा च भवांश्च स्मरणं कुरु ॥
गृहीतं पीतवस्त्रन्ते मुरली च मनोहरा ।
वनमाला कौस्तुभश्चाप्यमूल्यं रत्नकुण्डलम् ॥
पश्चात् प्रदत्तं प्रेम्ना च सखीनां वचनादहो ।
लज्जया कृष्णवर्णश्च तेनाप्यद्यापि पश्यतः ॥
क्षमा देहं परित्यज्य लज्जया पृथिवीं गता ।
ततस्तस्याः शरीरञ्च गुणश्रेष्ठं बभूव ह ॥
संविभज्य त्वया दत्तं प्रेम्ना प्ररुदता पुरा ।
किञ्चिद्दत्तं विष्णवे च वैष्णवेभ्यश्च किञ्चन ॥
धर्म्मिष्टेभ्यश्च धर्म्माय दुर्ब्बलेभ्यश्च किञ्चन ।
तपस्विभ्योऽपि देवेभ्यः पण्डितेभ्यश्च किञ्चन ॥
एतत्ते कथितं सर्व्वं किं भूयः श्रोतुमिच्छसि” ॥
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ९ अध्यायः ॥ * ॥

क्षमादंशः, पुं, (क्षमां पृथिवीं दंशतीति । दन्श +

अच् । तीक्ष्णमूलत्वात् तथात्वम् ।) शिग्रुः । इति
राजनिर्घण्टः ॥

क्षमावान्, [त्] त्रि, (क्षमा विद्यते अस्य अस्मिन्

वा इति मतुप् मस्य वत्वम् ।) क्षान्तियुक्तः । यथा,
“एकः क्षमावतां दोषो द्वितीयो नोपपद्यते ।
यदेनं क्षमया युक्तमशक्तं मन्यते जनः” ॥
इति गारुडे ११४ अध्यायः ॥

क्षमिता, [ऋ] त्रि, (क्षम् + तृच् ।) क्षमाशीलः ।

इत्यमरः । ३ । १ । ३१ ॥

क्षमी, [न्] त्रि, (क्षम् + “शमीत्यष्टाभ्यो घिनुण्” ।

३ । २ । १४१ । इति घिनुण् ।) क्षमाशीलः । तत्पर्य्यायः ।
सहिष्णुः २ सहनः ३ क्षन्ता ४ तितिक्षुः ५ क्ष-
मिता ६ । इत्यमरः । ३ । १ । ३१ ॥ क्षमः ७ शक्तः ८
सहः ९ प्रभूष्णुः १० । इति हेमचन्द्रः ॥ (यथा,
भागवते । ९ । १५ । ४० ।
“क्षमिणामाशु भगवांस्तुष्यते हरिरीश्वरः” ॥)

क्षयः, पुं, (क्षि क्षये । “नन्दिग्रहिपचादिभ्यः” । ३ । १ । १३४ ।

इति अच् ।) नीतिवेदिनां त्रिवर्गान्तर्गतप्रथम-
वर्गः । स तु राज्ञामष्टवर्गस्यापचयः । यथा, --
“क्षयः स्थानञ्च वृद्धिश्च त्रिवर्गो नीतिवेदिनाम्” ॥
इत्यमरः ३ । १ । १३४ ॥ नीतिवेदिनां नीतिशास्त्र-
ज्ञानां क्षयादिभिस्त्रिवर्गः अन्येषान्तु धर्म्मकामाथः
पूर्ब्बमुक्तः । अष्टवर्गस्यापचयः क्षयः । तस्यैवोपचयो
वृद्धिः । तस्य नोपचयो नाप्यपचवः स्थानम् ।
अष्टवर्गो यथा, --
“ऋषिर्व्वणिक्पथो दुर्गं सेतुकुञ्जरबन्धनम् ।
कन्याकरबलादानं सैन्यानाञ्च निवेशनम् ॥
अष्टवर्गः स्मृतो राज्ञां” । इति तट्टीकायां भरतः ॥
लयः । तत्पर्य्यायः । सम्बर्त्तः २ प्रलयः ३ कल्पः ४
कल्पान्तः ५ ॥ अपचयः । तत्पर्य्यायः । क्षिया २ ॥
निलयः । तत्पर्य्यायः गृहशब्दे द्रष्टव्यः ॥ काशरोग-
विशेषः । तत्पर्य्यायः । यक्ष्मा २ शोषः ३ । इत्य-
मरः ॥ राजयक्ष्मा ४ रोगराजः ५ गदाग्रणीः ६
उष्मा ७ अतिरोगः ८ रोगाधीशः ९ नृपामयः
१० । इति राजनिर्घण्टः ॥
(लक्षणाणि चिकित्सितञ्च यथा, --
“शृणुत गुणगरिष्ठा व्याधिघोरं नराणां
भवति रहितचेष्टो वातुलः प्राणिनां वै ।
चिरनिरयकरोऽयं प्राकृतैः कर्म्मपाकै-
रिह परिभवकारी मानुषस्य क्षयोऽयम् ॥
देवानां प्रकरोति भङ्गमथवा भ्रूणस्य सम्पातनं
गोपृथ्वीधरविप्रबालहननञ्चावासविध्वंसनम् ।
योऽयं स्थानविनाशनञ्च कुरुते स्त्रीणांवधो यो नर-
स्तस्यैतैर्गुरुकर्म्मभिः क्षयगदो देहार्थहारी महान् ॥
देवानां दमतो धनञ्च दहतो भ्रूणप्रपातेऽपि च
देवत्वं हरतो विषञ्च ददत आरामकं निघ्नतः ।
तेनासौ नियमेन सम्भवति वै नॄणाञ्च तीव्रा रुजा
धातूनां क्षयकारिणी च मनुजस्यात्मापहा दारुणा
क्षयो दशविधश्चैव विज्ञातव्यो भिषग्वरैः ॥
श्रान्त्या भाराद्विषमशयनैर्दीर्घमार्गाक्रमैर्व्वा
भुक्तेर्दोषादतिशयरतेः सेवनाद्वै नरश्च ।
ज्वरेणातिक्रान्तो विषमशयनात् कूटनपरैः
जाता रोगा मनुजवपुषः क्षीणतां संनयन्ति ।
रोगाक्रान्तो विषमशयनात्तस्य मन्दज्वराद्वा ।
श्लेष्मा पित्तं मरुदथशयनैर्यातिदेहक्षयं वा ।
रसरक्तमांसमेदश्चास्थिमज्जानि शुक्रतः ॥
एवं दशविधा ज्ञेयाः क्षया नॄणां वपुःषु च ।
पुनश्च लक्षणन्त्वेषां वक्ष्यते शृणु साम्प्रतम् ।
अतिस्वेदातिघर्म्मेण चिन्ताशोषभयादिना ॥
वाताद्यैः सेवितैश्चापि जायते मारुतक्षयः ।
तेन तन्द्राङ्गदाहश्च पिपासारुचिवेपथुः ॥
तमः क्लमो भ्रमश्चैव भवेच्च मारुतक्षये ।
तस्मादिमानि सेव्यानि रसानि पललानि च ॥
रसोनादिककल्कञ्च सेवयेद्वातवर्द्धनम् ।
पित्तक्षयेऽग्निमान्द्यञ्च जायतेऽरुचिजाड्यता ॥
कासहृल्लासशोफश्च जायते मन्दचेष्टता ।
स्वेदाभ्यङ्गान्नि पानानि दीपनानि प्रयोजयेत् ॥
जाङ्गलानि रसान्नानि सेवयेत् पित्तकृत्क्षये ।
व्यायामे च व्यवाये च रूक्षानाहारसेवनैः ॥
पृष्ठ २/२३०
सन्तापक्रोधनैश्चापि जायते कफसंक्षयः ।
तेनदाहोऽथवा पाण्डुः शोषो निःश्वसनं भ्रमः ॥
विनिद्रता क्षुत् तृष्णा च स्त्रीसङ्गे नाभिनन्दति ।
तस्य शीतान्नपानानि कन्दशाकादिकैरसैः ॥
आनूपैर्दधिदुग्धैर्वा सेवनं न समीहितम् ।
त्रिभिर्दोषैः क्षयं प्राप्तैस्तदा हि मरणं ध्रुवम् ॥
तस्य क्रिया प्रयोक्तव्या साधारण्या महामते ! ॥
अथ धातुः क्षयं वक्ष्ये हारीत ! शृणु साम्प्रतम् ।
रसरक्तमांसमेदः प्रत्येकं क्षयलक्षणम् ॥
रसक्षयेऽतिशोषश्च मम्दाग्नित्वञ्च वेपथुः ।
शिरोरुक् मन्दचेष्टत्वं जायते च क्लमो भ्रमः ॥
रक्तक्षये क्षयः पाण्डु र्मम्दचेष्टो भवेन्नरः ।
श्वासनिष्ठीवनं शोषो मन्दाग्नित्वञ्च जायते ॥
मांसक्षयेऽतिकृशता चेष्टनञ्चाङ्गभङ्गता ।
निद्रानाशोऽतिनिद्रास्य विसंज्ञो लघुविक्रमः ॥
मेदः क्षये मन्दबलो विसंज्ञता
चाङ्गस्य भङ्गो वमनं परूषता ।
श्वासाभिकासोऽरुचिताग्निमन्दता
विशेषकम्पो वपुषश्च शुष्कता ॥
अस्थिक्षये स्यात् अतिमन्दचेष्टता
भन्दञ्च वीर्य्यं खलु मेदसः क्षये ।
विसंज्ञता स्यात् कृशता च कम्पनं
अङ्गस्य भङ्गो वमनं परूषता ॥
शोषश्च देहे सदनञ्च शोफिता
विकम्पनं शोषरुजा च जायते ।
भिषग्वरस्तत् परिवेदलक्षणं
मज्जक्षये कम्पनमेव जायते ॥
भ्रमः क्लमः स्यादतिमन्दचेष्टः
शोफो निशाजागरणञ्च तन्त्रा ॥
मन्दज्वरः शोषसमो मनुष्ये
शुक्रक्षये चाल्प विचेष्टितानि ।
रूक्षं भ्रमः कम्पनशोषरोधः
स्त्रीद्वेषितादीनि विरूपता च ॥
इदानीं संप्रवक्ष्यामि भेषजानि यथाक्रमम् ।
स्नेहनं रूक्षणञ्चैव तथा विम्लापनं हितम् ।
जाङ्गलानि च मांसानि भोजनानि च सेवयेत् ॥
गुडूची शृङ्गवेरञ्च यवानी क्वथितं जलम् ।
मरिचैः क्वथितं दुग्धं पाने रात्रौ प्रशस्यते ॥
रसानां तेन वृद्धिः स्यात् शीघ्रं तस्माद्विमुच्यते ॥
रसानां वृद्धिकरणं गोधूमयवशालिभिः ।
क्वथितानि भिषक् श्रेष्टैर्जाङ्गलानि विशेषतः ॥
घृतदुग्धसिताक्षौद्रमरिचानि च पिप्पली ।
पानं शस्तं मनुष्याणां रक्तवृद्धिकरं मतम्” ॥
इति रसरक्तवृद्धिकरम् ॥ * ॥
“आनूपानि च धान्यानि लघुनामानि कल्पयेत् ।
कल्यांश्च घृतदुग्धादीन् सेवयेन्मधुराणि च ॥
रसाश्च जाङ्गलानि स्युः सेवनार्थे भिषग्वर ! ।
सितोपलादिकं चूर्णं अजाक्षीरं सकोलकम् ॥
हितं पानं क्षये चैव कल्पमप्रातराशने” ।
इति मांसमेदोवृद्धिकरम् ॥ * ॥
“घृतानि च मुपक्वानि क्षीराणि विविधानि च ।
चन्दनानि च द्राक्षादि-चूर्णानि च भिषग्वर ! ॥
जाङ्गलानि च सर्व्वाणि सेवनीयानि पुत्त्रक ! ।
अम्लानि मधुराणीह सर्व्वाणि च प्रयोजयेत्” ॥
इत्यस्थिवृद्धिकरणम् ॥ * ॥
“शुक्रक्षये प्रपाकानि रसानि च विशेषतः ।
नवनीतं तथा क्षीरं मधुराणि च सेवयेत् ॥
कर्क्कटी मूलपयसा विदारी कन्दशाल्मली ।
सिताढ्यञ्च हितं पानं शस्यन्ते भधुराणि च” ॥
इति शुक्रक्षयवृद्धिकरणम् ॥ * ॥
“बला विदारी लघुपञ्चमूली
क्षीरद्रुमत्वक् च ततः प्रयोज्या ।
पुनर्नवा मेघतुगारजन्यः
सञ्जीवनीयैर्मधुकैः समांशैः ॥
अक्षप्रमाणानि समानि तानि
सर्व्वाणि चैतान्यपि चूर्णयित्वा ।
विमिश्रयेत् तत्र कणाशतानि
यवान्नगोधूमयवांश्च पिष्ट्वा ॥
तुगासमांशा सिततण्डुलानां
पेयं तु शृङ्गाटकमिश्रितञ्च ।
प्रकीर्णकार्द्धेन वियोजनीयं
सर्व्वांशकेनापि सिता प्रयोज्या ॥
विभावयेच्चामलकीरसेन
वारत्रयं गोपयसा विभाव्य ।
ततोऽस्य सर्व्वैः सह शर्कराभि
र्धृतेन चैवं पुनरेव भाव्यम् ।
तं भक्षयेत् क्षौद्रयुतं पलार्द्ध
जीर्णे च भोज्यं कटुकाम्लवर्ज्ज्यम् ॥
क्षीरं घृतं वा सितशर्करां वा
यवान्नगोधूमकशालिभक्षान् ।
ज्ञात्वाग्निपाकं जठरे नरस्य
देयो विधिज्ञैः क्षयरोगशान्त्यै ।
पथ्यक्षये श्रान्तचिरामिताप-
संपीडितानाञ्च तथाशिरोऽर्त्तौ ॥
“पित्तातुराणां रुधिरक्षयाणां
श्रमाध्वसंपीडितकामलानाम् ।
श्वासातुराणां मधुमेहिनाञ्च
क्षीणेन्द्रियाणां बलकारिशस्तम्” ॥
इति बालादि बूर्णम् ॥ * ॥
“पिप्पली वर्द्धमानन्तु ज्वरे जीर्णे प्रशस्यते ।
मन्दाग्नौ पीतमेवाथ गुदजे वा तथा पुनः” ॥
इति पिप्पलीवर्द्धमानम् ॥ * ॥
“द्वे पले मार्कवं धातु साक्षकञ्च पुनर्नवा ।
तुगा पृक्का शालिपर्णी वासकञ्च दुरालभा ॥
चूर्णार्द्धेन समं योज्यं त्रिगन्धं मरिचानि च ।
तालीशं मगधा चैव तदर्द्धेन शिलोद्भवम् ॥
शिलाभेदन्तदर्द्धेन सर्व्वञ्चैकत्र मिश्रयेत् ।
समेन तिलचूर्णन्तु शर्कराभिः समायुतम् ॥
तेन क्षयो राजयक्ष्मा कामला च विनश्यति ।
अपस्मारं जयत्याशु बलवीर्य्याधिको भवेत् ॥
शाम्यन्ति च महारोगाः शुक्राढ्यो जायते नरः” ॥
इति शिलाजतुचूर्णम् ॥ * ॥
“बलाश्वद्दंष्ट्रा वृहतीद्वयञ्च
पर्णोद्वयं गोक्षुरकं स्थिरा च ।
पटोलनिम्बस्य दलानि मुस्तम्
सत्रायमाणा सदुरालभा च ॥
कृत्वा कषायञ्च पदावशेषं
पूते ततश्चूर्णमिदं प्रयुञ्ज्यात् ।
द्राक्षा शठी पुष्करमूलधात्री
दुग्धं समं तामलकीकषायम् ॥
सर्पिः प्रयक्तं नवनीतकञ्च
सर्पिस्तदर्द्धेन वियोजनीयम् ।
सिद्धं घृतं पानमथैव वस्तौ
नस्ये तथाभ्यञ्जनभोजने च ॥
स पाण्डुकाशक्षयकापलानाम्
राजक्षये क्षीणवलेन्द्रियाणाम् ।
क्षतेषु शोफेषु व्रणेषु शस्तं
शिरोऽर्त्तिपार्श्वार्त्तिगुदामयघ्नम्” ॥
इति बलाद्यं घृतम् ॥ * ॥
“चन्दनं सरलं दारु पक्षैला बालकं शठी ।
नलशैलेयकं पृक्का पद्मकं नागकेशरम् ॥
कक्कोलकं सुरामांसी शैलेयं द्वे हरीतकी ।
रेणुकात्वक् कुङ्कुमञ्च शारिवे द्वे निशागुरु ॥
वला द्राक्षा च नलिका कषायं सुपरिस्रुतम् ।
तैलमस्तु तथा लाक्षा रसेन समभागिकम् ॥
मन्दाग्निना पचेत्तैलं सिद्धं पाने च वस्तिषु ।
नस्ये चाभ्यञ्जने चैव योजयेत्तद्भिषग्वरः ॥
हन्ति पाण्डु क्षयं कासं ग्रहघ्नं बलवर्णकृत् ।
मन्दज्वरमपस्मारकुष्ठपाम हरेत् पुनः ।
करोति बलपुष्ट्योजःप्रज्ञायुर्बलवर्द्धनम् ॥
रूपसौभाग्यदं पुण्यं सर्व्वभूतयशस्करम्” ॥
इति चन्दनाद्यं तैलम् ॥
इति क्षयरोगचिकित्सा ॥ इति हारीते चिकि-
त्सितस्थाने दशमेऽध्याये ॥ * ॥
“त्रिकटु त्रिफलैलाभिर्जातीफललवङ्गकैः ।
नवभागोन्मितं तुल्यं लौहं पारदसिन्दुरम् ।
मधुना क्षयरोगाणां हन्तायं क्षयकेशरी” ॥
इति क्षयकेशरी रसः ॥
इति वैद्यकरसेन्द्रसारसंग्रहे यक्ष्माधिकारे ॥ * ॥)
अस्य अन्यत् निदानादि यक्ष्मशब्दे द्रष्टव्यम् ।
तस्यौषधान्तरं यथा, --
“श्वेतकोकिलाक्षमूलं छागीक्षीरेण संयुतम् ।
त्रिसप्ताहेन वै पीतं क्षयरोगं क्षयं नयेत्” ॥
इति गारुडे १९३ अध्यायः ॥ (क्षयत्यस्मादनेन वा
क्षि + क्षये + अप् । क्षयति विनाशयति इति ।
अन्तर्भूतणिच् ततोऽच् ।) रोगमात्रम् । इति
राजनिर्घण्टः ॥

क्षयतरुः, पुं, (क्षयस्य क्षयार्थं । वा तरुः ।) स्थाली

वृक्षः । इति राजनिर्घण्टः ॥ (यथास्य पर्य्यायाः ।
“नन्दीवृक्षोऽश्वत्थभेदः प्ररोहो गजपादपः ।
स्थाली वृक्षः क्षयतरुः क्षीरी च स्याद्वनस्पतिः” ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमभागे ॥)

क्षयथुः, पुं, (क्षि + अथुच् ।) कासः । इति हेमचन्द्रः ॥

क्षयनाशिनी, स्त्री, (क्षयं क्षयाख्यरोगं नाशयतीति ।

क्षय + नश् + णिच् + णिनि + ङीप् ।) जीवन्ती-
वृक्षः । इति शब्दमाला ॥
पृष्ठ २/२३१
(गुणादयोऽस्य जीवन्तीशब्दे ज्ञेया ॥)

क्षय्यं, त्रि, (क्षेतुं शक्यम् । क्षि + “क्षय्यजय्यौ शक्या-

र्थे” । ६ । १ । ८१ । इति यत् ।) क्षयणीयम् । क्षयि-
तव्यम् । क्षययोग्यम् । इति व्याकरणम् ॥ “क्षेतुं
जेतुं योग्यं क्षेयं पापं जेयं मनः” । इति सिद्धान्त-
कौमुदी ॥ (यथा, महाभारते ।
“अपवर्गे तु वैश्यस्य श्राद्धकर्म्मणि भारत ! ।
अक्षय्यमभिधातव्यम्” इति ॥)

क्षर, ज सञ्चलने । इति कविकल्पद्रुमः ॥ (भ्वां--परं--

अकं-सेट् । क्वचित् सकञ्च ।) ज, क्षारः क्षरः ।
सञ्चलनमिह मोचनं स्रवणञ्च । आदौ सकर्म्मकः ।
“स्रोतोभिस्त्रिदशगजा मदं क्षरन्तः” । इति
किराते । ७ । ८ ॥ स्रवणे तु । क्षरत् क्षतजवृत्तयः ।
इति दुर्गादासः ॥

क्षरं, क्ली, (क्षरति स्रवति वर्षति च । क्षर् + अच् ।)

जलम् । तथा च सत्यसावित्र्योपनिषदि । १ । ८ । १० ।
“क्षरन्त्वविद्या ह्यमृतं तु विद्या” ॥) मेघे पुं । इति
मेदिनी ॥

क्षरः, पुं, (क्षर् + अच् ।) नश्वरवस्तु । यथा, --

“द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।
क्षरः सर्व्वाणि भृतानि कूटस्थोऽक्षर उच्यते” ॥
इति श्रीभगवद्गीतायाम् । १५ । १७ ।
“क्षरश्चाक्षरश्चेति द्वाविमौ लोके प्रसिद्धौ । तावेवाह
तत्र क्षरः पुरुषो नाम सर्व्वाणि भूतानि ब्रह्मादि-
स्थावरान्तानि शरीराणि अविवेकिलोकस्य
शरीरेष्वेव पुरुषत्वप्रसिद्धेः । कूटो राशिः शिला
राशिः । पर्व्वत इव एकदेशेषु नश्यत्स्वपि निर्व्वि-
कारतया तिष्ठतीति कुटस्थश्चेतनो भोक्ता स
त्वक्षरः पुरुष उच्यते विवेकिभिः” । इति तट्टीकायां
श्रीधरस्वामी ॥ (तथा, महाभारते । १४ । अनु-
गीतापर्व्वाध्याये । १७ । १७ ।
“ततः सवेदनः सद्यो जीवः प्रच्यवते क्षरात्” ॥)

क्षरणं, क्ली, (क्षर् + भावे ल्युट् ।) मोचनम् ।

स्रवणम् । (यथा, रघुः । १९ । १९ ।
“लौल्यमेत्य गृहिणीपरिग्रहात्
नर्त्तकीष्वसुलभासु तद्वपुः ।
वर्त्तते स्म सकथञ्चिदालिख-
न्नङ्गुलीक्षरणसन्नवर्त्तिका” ॥)

क्षरी, (न्] (क्षरः क्षरणं वर्षणं अस्त्वस्मिन् काले

क्षरोऽस्त्यस्य वा । क्षर् + इनिः ।) वर्षाकालः ।
इति हेमचन्द्रः । क्षरणविशिष्टे त्रि ॥

क्षल, क शौचे । इति कविकल्पद्रुमः । (चुरां-परं-

सकं-सेट् ।) शौचमिह शुद्धीकरणम् । क, क्षाल-
यति पात्रं पयसा लोकः । इति दुर्गादासः ॥

क्षल, ज चाले । चये । इति कविकल्पद्रुमः । (भ्वां-परं

अकं-सेट् ।) ज, क्षालः क्षलः । चालः कम्पः ।
चयश्चयनम् । इति दुर्गादासः ॥

क्षवः, पुं, (क्षु शब्दे क्षुते च + भावे अप् ।) क्षुतम् ।

राजिका । इत्यमरः ॥ कासः ॥ इति शब्दरत्ना-
वली । राजिकाभेदः । तत्पर्य्यायः । क्षुधाभिजननः २
चपलः ३ दीर्घशिम्बिकः ४ सुकुमारः ५ वृत्त-
बीजः ६ मधुरः ७ क्षवकः ८ । अस्य गुणाः ।
कषायत्वम् । मधुरत्वम् । शीतलत्वम् । कफपित्त-
श्रमहरत्वम् । वृष्यत्वम् । रुच्यत्वम् । पवनाध्मान-
पुष्टिदत्वञ्च । इति राजनिर्घण्टः ॥

क्षवकः, पुं, (क्षु + अप् + स्वार्थे कन् ।) अपामार्गः ।

राजिका । भूताङ्कुशः । इति राजनिर्घण्टः ।
(व्यवहारोऽस्य यथा सुरसादिगणपाठे ।
“क्षवकसरसिभार्गी कामुका काकमाची
कुलहलविषमुष्टी भूस्तृणो भूतकेशी” ॥
इति वाभटे सूत्रस्थाने १५ अध्याये ॥)

क्षवकृत्, स्त्री, (क्षवं करोतीति । कृ + क्विप् ।)

छिक्कनी । इति भावप्रकाशः ॥

क्षवथुः, पुं, (क्षु + अथुच् ।) क्षुतम् । कासः । इति

मेदिनी । कण्ठकण्डूयनम् । इति शब्दरत्नावली ॥
(क्षवथुर्नाम रोगविशेषः । तस्य सकारणसम्प्रा-
प्तिकलक्षणानि यथा, --
“तीक्ष्णघ्राणोपयोगार्करश्मिसूत्रतृणादिभिः ।
वातकोपिभिरन्यैर्वा नासिका तरुणास्यनि ॥
विघट्टितेऽनिलः क्रुद्धो रुद्धः शृङ्गाटकं व्रजेत् ।
निवृत्तः कुरुतेऽत्यर्थं क्षवथुं स भृशं क्षवः” ॥
इति वाभटे उत्तरस्थाने १९ अध्याये ॥
“घ्राणाश्रिते मर्म्मणि संप्रदुष्टे
यस्यानिलो नासिकया निरेति ।
कफानुयातो बहुशः सशब्द-
स्तं रोगमाहुः क्षरथुं विधिज्ञाः ॥
तीक्ष्णोपयोगादतिजिघ्रतो वा
भावान् कटूनर्कनिरीक्षणाद्वा ।
सूत्रादिभिर्वा तरुणास्थिमर्म्म-
ण्युद्घाटिते यः क्षवथुर्निरेति” ॥
इत्युत्तरतन्त्रे द्वाविंशेऽध्याये सुश्रुतेनोक्तम् ॥
चिकित्सा यथा ।
“क्षेप्यं नस्यं मूर्द्धवैरेचनीयै-
र्नाड्याचूर्णं क्षवथौ भ्रंशथौ च” ॥
इति चात्रैव २३ अध्याये तेनोक्तम् ॥ अस्य
विधारणाज्जातो यः स यथा, --
“भवन्ति गाढं क्षवथोर्विघाता-
च्छिरोऽक्षिनासाश्रवणेषु रोगाः ।
कण्ठास्यपूर्णत्वमतीवतोदः
कूजश्च वायोरथवा प्रवृत्तिः” ॥
इति चोत्तरतन्त्रे पञ्चपञ्चाशत्तमेऽध्याये च
तेनोक्तम् ॥)

क्षवपत्रा, स्त्री, (क्षवः क्षुतहेतुः पत्रं यस्याः । एतत्

पत्राघ्राणेन हि क्षुतं जायते । अतस्तथात्वम् ।)
द्रोणपुष्पी । इति राजनिर्घण्टः ॥

क्षविका, स्त्री, (क्षवः क्षुतं साध्यतयाऽस्त्यस्य इति

ठन् + टाप् च ।) वृहतीभेदः । तत्पर्य्यायः । सर्प-
तनुः २ पीततण्डुला ३ पुत्त्रप्रदा ४ बहुफला ५
गोधिनी ६ । अस्या गुणाः । “क्षविका वृहती
तिक्ता कटुरुष्णा च तत्समा” । इति राजनि-
र्घण्टः ॥

क्षान्तः, त्रि, (क्षम् + कर्त्तरि क्तः ।) सहनशीलः ।

तत्पर्य्यायः । सोढः २ । इत्यमरः ॥ क्षमान्वितः ३ ।
इति शब्दरत्नावली ॥ तितिक्षितः ४ । इति
जटाधरः ॥ (यथा, हरिवंशे । २१ । २१ ।
“निर्व्वैरो निर्व्वृतः क्षान्तो निर्म्मन्युः कृतिरेव च” ॥)

क्षान्तिः, स्त्री, (क्षम + भावे क्तिन् ।) सत्यपि

सामर्थ्ये अपकारिणि अपकाराचिकीर्षा । इति
देवीमाहात्म्यटीकायां नागभट्टः ॥ तत्पर्य्यायः ।
तितिक्षा २ । इत्यमरः ॥ सहिष्णुता ३ क्षमा ४ ।
इति जटाधरः ॥ (यथा, भगवद्गीतायाम् १८ । ४२ ।
“शमो दमस्तपः शौचं क्षान्तिरार्ज्जवमेव च” ॥)

क्षान्तुः, त्रि, (क्षम् + “क्रमिगमिक्षमिभ्यस्तुन् वृ-

द्धिश्च” । उणां । ५ । ४३ । इति तुन् वृद्धिश्च ।)
क्षमाशीलः । तत्पर्य्यायः । मर्षकः २ । इत्युणादि-
कोषः ॥

क्षान्तुः, पुं, (क्षम् + तुन् वृद्धिश्च ।) पिता । इति

संक्षिप्तसारोणादिवृत्तिः ॥

क्षामः, त्रि, (क्षै + कर्त्तरि क्तः । “क्षायो मः” ।

८ । २ । ५३ । इति निष्ठा तस्य मत्वम् ।) क्षीणः ।
अबलः । इति शब्दरत्नावली ॥ (यथा, भागवते
३ । २१ । ४६ ।
“विद्योतमानं वपुषा तपस्युग्रयुजा चिरम् ।
नातिक्षामं भगवतः स्निग्धापाङ्गावलोकनात्” ॥
स्त्रियां टाप् । यथा, मेघदूते । ८९ ।
“आधिक्षामां विरहशयने सन्निषण्णैकपार्श्वाम्” ॥
सर्व्वरूपवत्त्वात् विष्णुः । यथा, महाभारते । १३
विष्णुसहस्रनामकीर्त्तने । १४९ । १०४ ।
“आश्रमः स्रमणः क्षामः सुपर्णो वायुवाहनः” ॥)

क्षामवती स्त्री, (क्षामं दोषक्षयः साध्यतया-

स्त्यस्या मतुप् मस्य वत्वम् । स्त्रियां
ङीप् । पक्षे कर्म्मधारयः ।) यागविशेषः ।
यथा, भविष्ये ।

क्षामवतीष्टिः स्त्री, (क्षामं दोषक्षयः साध्यतया-

स्त्यस्या मतुप् मस्य वत्वम् । स्त्रियां
ङीप् । पक्षे कर्म्मधारयः ।) यागविशेषः ।
यथा, भविष्ये ।
“क्षामवत्यादिना यद्वत् कर्म्मणा पृतनापते ! ।
दैवदोषादकरणे जाते दोषकदम्बके ।
होमेनैकेन दोषाणां सर्व्वेषां क्षयमादिशेत् ॥
एवञ्च एकप्रायश्चित्तेनानेकदोषक्षयाय क्षाम-
वतीष्टिः सर्व्वत्र दृष्टान्तः” । इति प्रायश्चित्त-
तत्त्वम् ॥

क्षामास्यं, क्ली, (क्षामस्य क्षयस्य आस्यं स्थानम् ।)

कुपथ्यम् । यथा, शब्दचन्द्रिकायाम् ।
“अपथ्यमहितं रोग्यं क्षामास्यं परिकीर्त्तितम्” ॥
पुस्तकान्तरे क्षमस्यमिति च पाठः ॥

क्षारं, क्ली, (क्षरतीति । क्षर् सञ्चलने + “ज्वलितिक-

सन्तेभ्यो णः” । ३ । १ । १४० । इति ज्वलादि-
त्वात् णः ।) विड्लवणम् । इति राजनिर्घण्टः ॥
यवक्षारः । इति त्रिकाण्डशेषः ॥

क्षारः, पुं, (क्षर् सञ्चलने + ज्वलादित्वात् णः ॥)

रसविशेषः । (यथा, पञ्चतन्त्रे । १ । ३१५ ।
“तातस्य कूपोऽयमिति ब्रुवाणाः
क्षारं जलं कापुरुषः पिबन्ति” ॥
अस्य गुणा यथा ।
“क्षारः क्लेदं जनयति मुखे स्वाद्रुष्णो विदाही
शूलश्लेष्मा रुचिभृशतृषामूत्रकृच्छोषणश्च ।
आनाहं सञ्जनयति पुनर्वह्निसन्धुक्षणः स्या-
देवं प्रोक्तं विदितगणकः कोविदैः क्षारवीर्य्यम्” ॥
पृष्ठ २/२३२
इति हारीते प्रथमस्थाने ६ अध्याये ॥) धूर्त्तः ।
लवणम् । (यथा, रामायणे । २ । ७३ । ३ ।
“दुःखे मे दुःखमकरोर्व्रणे क्षारमिवाददाः ।
राजानं प्रेतभावस्थं कृत्वा रामञ्च तापसम्” ॥)
काचः । भस्म । इति मेदिनी ॥ गुडः इति हेम-
चन्द्रः ॥ टङ्कणः । (अस्य पर्य्याया यथा, --
“सौभाग्यं टङ्कणं क्षारो धातुद्रावकमुच्यते” ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
सर्जिक्षारः । इति राजनिर्घण्टः ॥ * ॥
क्षारविशेषगुणाः ।
“पलाशधवपूतीककरञ्जपाटलादिजाः ।
क्षारास्तु पाचनाः सर्व्वे रक्तपित्तकराः सराः ।
गुल्मार्शःक्रिमिपुंस्त्वघ्नाः शर्कराश्मरिनाशनाः” ॥
इति राजवल्लभः ॥ (क्षारसामान्यगुणा यथा, --
“क्षारः सर्व्वश्च परमं तीक्ष्णोष्णः क्रिमिजिल्लघुः ।
पित्तासृग्दूषणः पाकी च्छेद्यहृद्यो विदारणः ।
अपथ्यः कटुलावण्याच्छुक्रौजः केशचक्षुवाम्” ॥
इति सूत्रस्थाने षष्ठेऽध्याये वाभटेनोक्तम् ॥)

क्षारकः, पुं, (क्षरतीति । क्षर् + ण्वुल् ।) अचिर-

जातफलम् । तत्पर्य्यायः । जालकम् २ । इत्यमरः ॥
जालि इति भाषा । पक्षिमत्स्यादिपिटकम् ।
खाँचा इति भाषा । इति मेदिनी ॥ रजकः ।
इति शब्दमाला ॥ (स्वार्थे कन् । क्षारः । यथा,
सुश्रुते ।
“तन्मालती क्षारकसैन्धवायुतं
सदाञ्जनं स्यात्तिमिरेऽथ रागिणि” ॥)

क्षारतैलं, क्ली, (क्षारयुतं क्षाराख्यं वा तैलम् ।) पक्व-

तैलविशेषः । यथा, --
“शुष्कमूलकशुण्ठीनां क्षारो हिङ्गुलनागरम् ।
शतपुष्पी वचा कुष्ठं दारु शिग्रु रसाञ्जनम् ॥
सौवर्च्चलं यवक्षारं सामुद्र सैन्धवन्तथा ।
भुजग्रन्थि विडं मुस्तं मधु शुक्लं चतुर्गुणम् ॥
मातुलुङ्गरसञ्चैव कदलीरसमेव च ।
तैलमेभिर्व्विपक्तव्यं कर्णशूलापहं परम् ॥
बाधिर्य्यं कर्णनादश्च पूयस्रावश्च दारुणः ।
पूरणादस्य तैलस्य कृमयः कर्णयोः खिलाः ॥
क्षिप्रं विनाशमायान्ति शशाङ्ककृतशेखर ! ।
क्षारतैलमिदं श्रेष्ठं मुखदन्तामयापहम्” ॥
इति गरुडे १९८ अध्यायः ॥

क्षारत्रयं, क्ली, (क्षाराणां त्रयम् ।) त्रिविधक्षारः ।

तद्यथा, राजनिर्घण्टे ।
“सर्जिकञ्च यवक्षारं टङ्कणक्षारमेव च ।
क्षारत्रयञ्च त्रिक्षारं क्षारत्रितयमेव च” ॥
(“सर्ज्जिका यावशूकश्च क्षारद्वयमुदाहृतम् ।
टङ्गणेन यतं तत्तु क्षारत्रयमुदीरितम् ।
मिलितन्तूक्तगुणकृद्विशेषाद् गुल्महृत् परम्” ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

क्षारदला, स्त्री, (क्षारो दलेषु पत्रेषु अस्याः । क्षुद्र-

वास्तूकशाकविशेषः ।) चिल्ली । इति राजनिर्घण्टः ॥
(चिल्लीशब्देऽस्या विवृतिर्ज्ञातव्या ॥)

क्षारदशजं, क्ली, (दशविधाः क्षाराः अत्र । कप्

क्षाराणां दशकमित्येके ।) दशविधक्षारः । यथा, --
“शिग्रुमूलकपलाशचुक्रिका-
चित्रकार्द्रकसंनिम्बसम्भवैः ।
इक्षुशैखरिकमोचिकोद्भतैः
क्षारपूर्ब्बदशकं प्रकीर्त्तितम्” ॥
इति राजनिर्घण्टः ॥

क्षारद्रुः, पुं, (क्षारप्रधानको द्रुर्द्रमः ।) घण्टापाटलि-

वृक्षः । इति रत्नमाला ॥ (घण्टापाटलिशब्दे-
ऽस्य गुणाः पर्य्यायाश्च ज्ञातव्याः ॥)

क्षारपत्रः, पुं, (क्षारः पत्रेषु यस्य ।) वास्तूकः । इति

राजनिर्घण्टः ॥ (अस्य पर्य्याया यथा, --
“वास्तूकं वास्तुकञ्च स्यात् क्षारपत्रञ्च शाकराट्” ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ गुणा-
श्चास्य वास्तूकशब्दे ज्ञातव्याः ॥)

क्षारपत्रकः, पुं, (क्षारपत्र + स्वार्थे कन् कप् वा ।)

वास्तूकः । इति हेमचन्द्रः ॥

क्षारभूमिः, पुं, (क्षारोत्पादनक्षमा भूमिः ।) लवण-

मृत्तिकदेशः । यथा, --
“जीवनं जीवनं हन्ति प्राणान् हन्ति समीरणः ।
किमाश्चर्य्यं क्षारभूमौ प्राणदा यमदूतिका” ॥
इत्युद्भटः ॥ (क्षारस्य भूमिः स्थानम् ।) लवण-
भूम्यां स्त्री ॥

क्षारमध्यः, पुं, (क्षारो मध्येऽस्य ।) अपामार्गः । इति

रत्नमाला ॥ (अपामार्गशब्दे ऽस्य गुणादयो
व्याख्याताः ॥)

क्षारमृत्तिका, स्त्री, । (क्षारयुक्ता मृत्तिका ।) लवण-

मृत्तिका । तत्पर्य्यायः । ऊषः २ । इत्यमरः ॥ उषः
३ । इति शब्दरत्नावली ॥

क्षारवृक्षः, पुं, (क्षारप्रधानको वृक्षः ।) मुष्ककः ।

इति राजनिर्घण्टः ॥

क्षारश्रेष्ठं, क्ली, (क्षारेषु श्रेष्ठम् ।) वज्रक्षारम् ।

इति राजनिर्घण्टः ॥

क्षारश्रेष्ठः, पुं, (क्षारःश्रेष्ठोऽत्र ।) पलाशः । मुष्ककः ।

इति राजनिर्घण्टः ॥ (अस्य पर्य्याया यथा ।
“पलाशः किंशुकः पर्णो यज्ञियो रक्तपुष्पकः ।
क्षारश्रेष्ठो वातहरो ब्रह्मवृक्षः समिद्वरः” ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

क्षारषट्कं, क्ली, (क्षाराणां षट्कम् ।) षड्विध-

क्षारः । यथा, --
“धारापामार्गकुटजलाङ्गलीतिलमुष्ककैः ।
क्षारैरेतैस्तु मिलितैः क्षारषट्कादयो गणः” ॥
इति राजनिर्घण्टः ॥

क्षारसिन्धुः, पुं, (क्षारैर्युक्तः क्षारप्रधानः सिन्धुर्वा ।)

लवणसमुद्रः । स तु जम्बुद्वीपस्य दक्षिणे शाक-
द्वीपस्य उत्तरे वर्त्तते । यथा, --
“भूमेरर्द्धं क्षारसिन्धोरुदकस्थं
जम्बुद्वीपं प्राहुराचार्य्यवर्य्याः ।
अर्द्धेऽन्यस्मिन् द्वीपषट्कस्य याम्ये
क्षारक्षीराद्यम्बधीनां निवेशः ॥
शाकं ततः शाल्मलमत्र कौशं
क्रौञ्चञ्च गोमेदकपुष्करे च ।
द्वयोर्द्वयोरन्तरमेकमेकं
समुद्रयोर्द्वीपमुदाहरन्ति” ॥
इति सिद्धान्तशिरोमणौ गोलाध्यायः ॥

क्षारमेलकः, पुं, (क्षाराणां मेलः संघः । ततः स्वार्थे-

कन् ।) सर्व्वक्षारः । इति राजनिर्घण्टः ॥

क्षाराच्छं, क्ली, (क्षारेषु अच्छं निर्म्मलम् । समुद्र-

जातलवणस्य स्वच्छतया तथोक्तम् ।) सामुद्रलव-
णम् । इति हाराबली ॥ (सामुद्रलवणशब्दे ऽस्य
गुणादिकं ज्ञेयम् ॥)

क्षाराष्टकं, क्ली, (क्षाराणां अष्टकम् ।) अष्टप्रकार-

क्षारः । तद्यथा, --
“पलाशवज्रिशिखरिचिञ्चार्कतिलनालजाः ।
यवजः सर्ज्जिका चेति क्षाराष्टकमुदाहृतम् ॥
क्षारा एतेऽग्निना तुल्या गुल्मशूलहरा भृशम्” ॥
इति भावप्रकाशः ॥

क्षारिका, स्त्री, (क्षर् + ण्वुल् + टाप् च । अत

इत्वम् ।) क्षुधा । इति हारावली ॥

क्षारितः, त्रि, (क्षर् + णिच् + कर्म्मणि क्तः ।) अ-

भिशस्तः । अपवादग्रस्तः । इत्यमरः ॥ (यथा,
महाभारते २ । युधिष्ठिरनारदसंवादे । ५ ।
१०५ ।
“कच्चिदार्य्यो विशुद्धात्मा क्षारितश्चौरकर्म्मणि ।
अदृष्टशास्त्रकुशलैर्न लोभाद्वध्यते शुचिः” ॥)
स्रावितः । क्षारः । इति मेदिनी ॥

क्षारोदः, पुं, (क्षारं उदकं यस्मिन् । क्षार उदके

यस्य वा । उत्तरपदस्य चेत्युदकस्य उदादेशः ।)
लवणसमुद्रः । यथा, “क्षारोदेक्षुरसोद-सुरोद-
घृतोद-क्षीरोद-दधिमण्डोद-शुद्धोदाः सप्तजलधयः ।
सप्तद्वीपपरिखा इवाभ्यन्तरद्वीपसमाना एकैकश्येन
यथानुपूर्ब्बं सप्तस्वपि वहिर्द्वीपेषु पृथक् परित
उपकल्पिताः” । इति श्रीभागवते ६ स्कन्धे १ अः ॥

क्षालनं, क्ली, (क्षल् + णिच् + भावे ल्युट् ।) प्रक्षा-

लनम् । धौतकरणं यथा, --
“स्त्रीशूद्रौ वाथ नित्याम्भःक्षालनाच्च करौष्ठयोः” ॥
इति ब्रह्मपुराणम् । इत्याह्निकाचारतत्त्वम् ॥
(यथा च, मार्कण्डेयपुराणे । १६ । १६ ।
“श्लेष्ममूत्रपुरीशासृक्प्रवाहक्षालनेन च ।
रहश्चैवोपचारेण प्रियसम्भाषणेन च” ॥)

क्षालितं, त्रि, (क्षल् + णिच् + क्तः ।) कृतप्रक्षालनम् ।

तत्पर्य्यायः निर्णिक्तम् २ शोधितम् ३ मृष्टम् ४
धौतम् ५ । इति हेमचन्द्रः ॥ (यथा, माघे ।
१० । १३ ।
“अप्रसन्नमपराद्धरि पत्यौ
कोपदीप्तनुररीकृतधैर्य्यम् ।
क्षालितन्नु शमितन्नु बधूना-
न्द्रावितन्नु हृदयम्मधुवारैः” ॥)
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/क्रम&oldid=43934" इत्यस्माद् प्रतिप्राप्तम्