पृष्ठ २/३८७

, घकारः । स तु व्यञ्जनचतुर्थवर्णः । अस्यो-

च्चारणस्थानं कण्ठः । इति व्याकरणम् ॥ (एतत्तु
मुग्धबोधमतम् । यथा, “अ आ ह क ख ग
घ ङाः कण्ठ्याः ।” पाणिनीये तु एष कण्ठ्यो
जिह्वामूलीयश्च । यथा, “अकुहविसर्ज्जनीयानां
कण्ठः ॥” इत्युक्त्वा पुनः शिक्षायाम् ।
“जिह्वामूले तु कुः प्रोक्तो दन्त्योष्ठ्यो वः स्मृतो
बुधैः ॥”)
अस्य स्वरूपं यथा, कामधेनुतन्त्रे ।
“घकारं चञ्चलापाङ्गि ! चतुष्कोणात्मकं सदा ।
पञ्चदेवमयं वर्णमरुणादित्यसन्निभम् ॥
निर्गुणं त्रिगुणोपेतं सदा त्रिगुणसंयुतम् ।
सर्व्वगं सर्व्वदं शान्तं घकारं प्रणमाम्यहम् ॥”
अस्योत्पत्तिर्गवर्णे द्रष्टव्या ॥ वङ्गाक्षरैस्तस्य
लेखनप्रकारादिर्यथा, --
“सृष्टिरूपा वामरेखा किञ्चिदाकुञ्चिता ततः ।
कुण्डलीरूपमास्थाय ततोऽधोगत्य दक्षतः ॥
अत ऊर्द्ध्वं गता रेखा शम्भुर्नारायणस्तयोः ।
ब्रह्मस्वरूपिणी देवि ! मात्राशक्तिः प्रकीर्त्तिता ॥”
अस्य ध्यानं यथा, --
“मालतीपुष्पवर्णाभां षड्भुजां रक्तलोचनाम् ।
शुक्लाम्बरपरीधानां शुक्लमाल्यविभूषिताम् ॥
सदा स्मेरमुखीं रम्यां लोचनत्रयराजिताम् ।
एवं ध्यात्वा घकारन्तु तन्मन्त्रं दशधा जपेत् ॥”
तत्प्रणाममन्त्रो यथा, वर्णोद्धारतन्त्रे ।
“निर्गुंणं त्रिगुणोपेतं सदा त्रिगोलसंयुतम् ।
सर्व्वगं सर्व्वदा शान्तं घकारं प्रणमाम्यहम् ॥”
तस्य नामानि यथा, नानातन्त्रेषु ।
“षः खड्गी घुर्घुरो घण्टी घण्टीशस्त्रिपुरान्तकः ।
वायुः शिवोत्तमः सत्या किङ्किणी घोरनायकः ॥
मरीचिर्व्वरुणो मेधा कालरूपी च दाम्भिकः ।
लम्बोदरा ज्वालमूलं नन्देशो हननं ध्वनिः ॥
त्रैलोक्यविद्या संहर्त्ता कामाख्यमनघामयः ॥”

घः, पुं, (घण्टयति शब्देन शोभते घटयति घर्घ-

रादिशब्दं वा । घटि द्युतौ घट चेष्टायां च
+ बाहुलकात् डः ।) घण्टा । घर्घरशब्दः । इति
मेदिनी । घे । १ ॥

घग्घ, हसने । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

अकं-सेट् ।) कण्ठ्यवर्गतृतीयोपधः । घग्घति ।
इति दुर्गादासः ॥

घट, क हिंसे । संघाते । द्युतौ । इति कविकल्प-

द्रुमः ॥ (चुरां-परं-सकं-अकंच-सेट् ।) क, घाट-
यति कवाटं द्वारि जनः संयोजयतीत्यर्थः ।
इति दुर्गादासः ॥

घट, इ कि द्युतौ । इति कविकल्पद्रुमः ॥ (चुरां-

पक्षे भ्वां-परं-अकं-सेट् ।) इ, भावे घण्ट्यते ।
कि, घण्टयति घण्टति । द्युतिर्दीप्तिः । द्युत्यर्थत्वेन
पाक्षिकचुरादित्वे सिद्धे कि करणमर्थान्तरेऽपि
पाक्षिकचुरादित्वार्थम् । तथाच, --
“क्रियावाचित्वमाख्यातुं प्रसिद्धोऽर्थः प्रदर्शितः ।
प्रयोगतोऽन्ये मन्तव्या अनेकार्था हि घातवः ॥”
इति वोपदेवः ॥
प्रसिद्धाथ कथयितुं धातूनां प्रसिद्धोऽर्थः प्रद-
र्शितः । किन्तु महाकविप्रयोगं दृष्ट्वान्येऽप्यर्था
मन्तव्याः हि यस्मात् धातवोऽनेकार्था भवन्ती-
त्यर्थः । तेन हिंसास्तुत्योः पठितस्यापि शंसतेः
कथनार्थत्वे न मे ह्रिया शंसति किञ्चिदीप्सित-
मिति रघौ कथयतीत्येवार्थः । एवं दीप्तिपठित-
स्यापि तर्कधातोर्वितर्कणार्थत्वे तर्कयत्यन्यगुणं
सुधीरित्यादिः । इति दुर्गादासः ॥

घट, ष ङ म चेष्टे । इति कविकल्पद्रुमः ॥ (भ्वां-

आत्मं-अकं-सेट् ।) ष, घटा । ङ, घटते
पठितुं शिष्यः । म, घटयति । घटतीति घटो
ज्ञेयो नाघटन् घटतामियादिति तु घटते घटः
पचादित्वादन् । ततो घट इवाचरतीति क्वौ
साध्यम् । इति दुर्गादासः ॥ (यथा, भट्टिः ।
१२ । २६ ।
“घटेत सन्ध्यादिषु यो गुणेषु
लक्ष्मीर्न तं मुञ्चति चञ्चलापि ॥”)

घटः, पुं, (घटते मृदादिसङ्घातैः जलादिग्रहणाय

इत्यर्थः । घट् + पचाद्यच् ।) कलसः । इत्यमरः ।
२ । ९ । ३२ ॥ (यथा, मनुः । ८ । ३१९ ।
“यस्तु रज्जुं घटं कूपाद्धरेद्भिन्द्याच्च यः प्रपाम् ।
स दण्डं प्राप्नुयान्माषं तच्च तस्मिन् समाहरेत् ॥”)
तस्य परिमाणं कलशशब्दे द्रष्टव्यम् ॥ समाधि-
भेदः । (घटस्थवारिवत् निश्चलत्वात्तथात्वम् ।)
स तु कुम्भकम् । इभशिरः । (आकृतिसादृश्या-
त्तथात्वम् ।) कूटकुटः । इति मेदिनी । टे । ७ ॥
कुम्भराशिः । यथा, --
“सिंहे वा यदि गोघटे गतनरः सर्व्वार्थसिद्धिं लभेत् ।”
इति समयप्रदीपः ॥ द्रोणपरिमाणम् । इति
वैद्यकपरिभाषा ॥ (अस्य पर्य्याया यथा, --
“चतुर्भिराढकैर्द्रोणः कलशोनल्वणोर्म्मलः ।
उन्मानश्च घटो राशिर्द्रोणपर्य्यायसंज्ञितः ॥”
इति शार्ङ्गधरे पूर्ब्बखण्डे प्रथमेऽध्याये ॥
“कंसश्चतुर्गुणो द्रोणः अर्म्मणोनल्वणञ्च तत् ।
स एव कलशः ख्यातो घट उन्मान मेवच ॥”
इति चरके कल्पस्थाने द्वादशेऽध्याये ॥)
कुम्भपरिमाणम् । यथा, --
“दशद्रोणो भवेत् खारी कुम्भस्तु द्रोणविंशतिः ।”
इति प्रायश्चित्ततत्त्वे कात्यायनः ॥
(योगावस्थाभेदः । यथा, हटयोगप्रदीपिकायाम् ।
४ । ६९ ।
“आरम्भश्च घटश्चैव यथा परिचयोऽपि च ।
निष्पत्तिः सर्व्वयोगेषु स्यादवस्थाचतुष्टयम् ॥”
एतदवस्थायां किं स्यात्तदाह तत्रैव । ४ । ७२-७३ ।
“द्बितीयायां घटीकृत्य वायुर्भवति मध्यगः ।
दृढासनो भवेद्योगी ज्ञानी देवसमस्तदा ॥
विष्णुग्रन्थेस्ततो भेदात् परमानन्दसूचकः ।
अतिशून्ये विमर्द्दश्च भेरीशब्दस्तथा भवेत् ॥”)

घटकः, पुं, (घटयति परस्परसम्बन्धादिकमिति ।

घट् + णिच् + ण्वुल् ।) कुलाचार्य्यः । तस्या-
स्पृश्यत्वम् । यथा, --
“वरं चाण्डालसंस्पर्शं कुर्य्यात्तु साधकोत्तमः ।
तथाप्यस्पृश्यगणकं सर्व्वदा तं परित्यजेत् ॥
दूषिताः कलिकालेषु भारते विविधाः प्रजाः ।
अतएव महेशानि ! सर्व्वे संसर्गदूषिताः ॥
घटकं ब्राह्मणं देवि ! संस्पर्शे यत्नतस्त्यजेत् ॥”
इति शाक्तानन्दतरङ्गिण्यां षोडशोल्लासे महिष
मर्द्दिनीतन्त्रवचनम् ॥ * ॥ योजकः । तत्पर्य्यायः ।
त्र्यक्षरः २ । इति त्रिकाण्डशेषः ॥ तस्य लक्षणं
यथा, कुलदीपिकायाम् ।
“धावको भावकश्चैव योजकश्चांशकस्तथा ।
दूषकस्तावकश्चैव षडेते घटकाः स्मृताः ॥”
अन्यच्च ।
“के नो विदन्ति पुरुषा पुरुषानुपूर्ब्बी-
मुर्व्वीतले कुलभृतां परिवर्त्तनं वा ।
अत्यन्तसूक्ष्ममपि ये कुलतारतम्यं
जानन्ति ते हि घटका न तु योजकाद्याः ॥”
वनस्पतिः । पुष्पेण विना यः फलति सः । इति
भूरिप्रयोगः ॥ (घटयति योजयति परार्थहिता-
दिकं साधयतीत्यर्थः । योजके, त्रि । यथाह
भर्त्तृहरिः । २ । ६६ ।
“ते ते सत्पुरुषाः परार्थघटकाः स्वार्थस्य
वाधेन ये
मध्यस्थाः परकीयकार्य्यकुशलाः स्वार्थाविरोधेन
ये ।
ते वै मानुषराक्षसाः परहितं यैः स्वार्थतो हन्यते
ये च घ्नन्ति निरर्थकं परहितं ते के न जानी-
महे ॥”)

घटदासी, स्त्री, (घटार्थं धटनार्थं नियोजिता

दासीत या । घटयति योजयति नायकनायिके
इति घटा योजिका सा दासीव इति वा ।)
कुट्टनी । तत्पर्य्यायः । कुट्टिनी २ इज्या ३ रत-
ताली ४ गणेरुका ५ । इति त्रिकाण्डशेषः ॥

घटना, स्त्री, (घट + णिच् + युच् टाप् च ।) संघार्ता-

करणम् । समूहीकरणम् । यथा, “करिणां घठना
घटा ।” इत्यमरः । २ । ८ । १०७ ॥ योजना ।
मेलनम् । यथा, “अघटनघटनापटीयसी
माया ।” इति मायालक्षणम् ॥ (यथा, राज-
तरङ्गिण्याम् । ४ । ३६५ ।
“शक्तिः काऽप्यपरीक्षितास्ति महतां स्वैरं
दविष्ठान्यहो
यन्माहात्म्यवशेन यान्ति घटनां कार्य्याणि
निर्यन्त्रणम् ॥”)

घटयोनिः, पुं, (घटः कुम्भः योनिः कारणं उत्-

पत्तिस्थानम् यस्य ।) अगस्त्यमुनिः । इति
हलायुधः ॥
पृष्ठ २/३८८

घटराजः, पुं, (घटेषु राजते इति । यद्वा घटेन

मृदादिसङ्घटनेन राजते शोभते इत्यर्थः ।)
कुम्भः । इति हारावली ॥

घटा, स्त्री, (घट + भावे षित्वादङ् ततष्टाप् च ।)

करिणां घटना । हस्तिनां युद्धादावेकत्र संघाती-
करणम् । इत्यमरः । २ । ८ । १०७ ॥ (यथा,
कथासरित्सागरे । १९ । १०९ ।
“तुरुष्कतुरगव्राताः क्षुब्धस्याब्धेरिवोर्म्मयः ।
तद्गजेन्द्रघटा वेलावनेषु दलशो ययुः ॥”)
घटनम् । गोष्ठी । सभा । इति मेदिनी । टे । १३ ॥
समूहः । यथाह श्रीहर्षः ।
“यदगारघटाट्टकुट्टिमस्रवदिन्दूपलतुन्दिलापया ॥”

घटालायुः, स्त्री, (घटाकारा अलावुः ।) कुम्भ-

तुम्बी । इति राजनिर्घण्टः ॥

घटिकं, क्ली, (घटेन सादृश्यं विद्यतेऽस्य इति ठन् ।)

नितम्बः । इति शब्दचन्द्रिका ॥ (घटेन तर-
तीति । “नौद्ब्यचष्ठन् ।” ४ । ४ । ७ । इति ठन् ।
घटेन तरणशीले त्रि । पुंसि तु । घटिं कायति
वादयति घटीवादनेन समयं ज्ञापयतीति । कै +
कः पूर्ब्बह्रस्वश्च । घटीवादकः ॥)

घटिका, स्त्री, (पादस्यास्थ्नां ग्रन्थिघटः घटना

विद्यतेऽत्र इति । घट + ठन् ।) पादग्रन्थिः ।
इति शब्दरत्नावली ॥ (घटयति निर्द्दिशति
निरूपयति वा कालांशविशेषं लोकयात्रासम्पा-
दनाय । घट + णिच् + ण्वुल् + टापि अत
इत्वञ्च ।) मुहूर्त्तः । इति जटाधरः ॥ यथा,
ज्योतिर्विदाभरणे ।
“गुर्व्वक्षराणामुदितं च षष्ट्या
पलं पलानां षटिका किलैका ॥”
यथा, तिथितत्त्वे रघुनन्दनः । “अत्र घटिका
मुहूर्त्तं श्राद्धयोग्यकालानुरोधात् ॥”) दण्डः ।
घडी इति भाषा । यथा, --
“चतस्रो घटिकाः प्रातररुणोदय उच्यते ॥”
इति तिथ्यादितत्त्वम् ॥
(घट + स्वल्पार्थे कन् टापि अत इत्वञ्च । क्षुद्र-
घटः । यथा, पञ्चतन्त्रे । १ । २०३ ।
“एता हसन्ति च रुदन्ति च कार्य्यहेतो-
र्विश्वासयन्ति च परं न च विश्वसन्ति ।
तम्मान्नरेण कुलशीलवता सदैव
नार्य्यः श्मशानघटिका इव वर्ज्जनीयाः ॥”)

घटी, स्त्री, (घटते इति घटः । घट + अच् । ततः

संज्ञायां जातौ वा ङीष । यद्वा, घटः काल-
मानज्ञापकः सच्छिद्रः कुम्भः ज्ञापकतयाऽस्त्यस्या-
मित्यच ततो गौरादित्वात् ङीष् ।) दण्डः । इति
भूरिप्रयोगः ॥ घडी इति भाषा ॥ (यथा,
मिद्वान्तशिरौमणौ ।
“गुर्व्वक्षरैः खेन्दुमितैरमुस्तैः
षद्भिः पलं तैर्घटिका खषद्भिः
स्याद् वा घटो पष्टिरहः खरामैः ॥”
स्वल्पार्थे ङीष् ।) क्षुद्रघटः । इति मुग्ध-
बोधम् ॥ (यथा, मार्कण्डेये । १२ । २२ ।
षटीयन्त्रेयु चैयान्यो बद्धस्तोये यथा घटी ॥”)

घटीकारः, पुं, (घटीं करोतीति । कृ + “कर्म्म-

ण्यण् ।” ३ । २ । १ । इत्यण् ।) यद्वा, अघटं
घटं करोति यः । कुलालः । इति मुग्धबोधम् ॥

घटीयन्त्रं, क्ली, (घट्याः यन्त्रम् ।) कूपाज्जलो-

त्तोलनार्थरज्जुसहितघटः । जलतोला कल इति
भाषा । तत्पर्य्यायः । उद्थाटनम् २ । इत्यमरः ।
२ । १० । २७ ॥ (यथा, मार्कण्डेयपुराणे । १२ । २० ।
“तान्येव तत्र चक्राणि घटीयन्त्राणि चान्यतः ॥”
घटी क्षुद्रघटस्तदधस्तनार्द्धाकारं यन्त्रम् । यद्वा
घट्याः दण्डरूपकालस्य ज्ञापकं यन्त्रम् । काल-
परिमाणज्ञापको यन्त्रविशेषः । घडी इति
ख्यातः ॥ सूर्य्यसिद्धान्ते कालमानज्ञापकयन्त्राणि
बहुविधान्युक्तानि । तत्र शङ्कुयष्ट्यादिकं दिवा-
कालमानज्ञापकमुक्तवान् । घटीयन्त्रादिकन्तु
अहर्निशं कालज्ञानसाधनमिति घटीयन्त्रादिकं
सूर्य्यसिद्धान्ते रङ्गनाथेन विस्तीर्य्य प्रदर्शितम् ।
यथा, --
“अथ घटीयन्त्रादिभिश्चमत्कारियन्त्रैर्वा सर्व्वोप-
जीव्यं कालं सूक्ष्मं साधयेदिति कालसाधन-
मुपसंहरति ॥”
“तोययन्त्रकपालाद्यैर्मयूरनरवानरैः ।
ससूत्ररेणुगर्भैश्च सभ्यक् कालं प्रसाधयेत् ॥”
इति सूर्य्यसिद्धान्तः ॥
अत्र रङ्गनाथकृतटीका यथा, --
“जलयन्त्रञ्च तत् कपालञ्च कपालाख्यं जलयन्त्रं
वक्ष्यमाणं तदाद्यं प्रथमं तेषां तैर्यन्त्रैर्वालुका-
यन्त्रप्रभृतिभिः सापेक्षघटीयन्त्रैर्मयूरनरवानरैः ।
मयूराख्यं स्वयंवहयन्त्रं निरपेक्षं नरयन्त्रं शङ्-
क्वाख्यं छायायन्त्रं पूर्ब्बोद्दिष्टं वानरयन्त्रं स्वयं-
वहं निरपेक्षमेतैः ससूत्ररेणुगर्भैः सूत्रसहिता
रेणवो धूलयो गर्भे मध्ये येषां तैः सूत्रप्रोताः
षष्टिसंख्यका मृद्घटिका मयूरोदरस्था मुखात्
घटिकान्तरेण स्वत एव निःसरन्तीति लोक-
प्रसिद्ध्या तादृशैर्यन्त्रैरित्यर्थः । यद्वा सूत्रा-
कारेण रेणवः सिकतांशा गर्भे उदरे यस्यै-
तादृशं यन्त्रं बालुकायन्त्रं प्रसिद्धम् । तेन सहितै-
र्मयूरादियन्त्रमयूराद्युक्तयन्त्रैर्बालुकायन्त्रेण चेति
सिद्धोऽर्थः । चकारस्तोययन्त्रकपालाद्यैरित्यनेन
समुच्चयार्थकः । कालं दिनगतादिरूपं सम्यक्
सूक्ष्मं प्रसाधयेत् । प्रकर्षेण सूक्ष्मत्वेनातिसूक्ष्मत्वेने-
त्यर्थः । जानीयादित्यर्थः ॥ * ॥ ननु मयूरादि-
स्वयंवहयन्त्राणि कथं साध्यानीत्यतस्तत्साधन-
प्रकारा बहवो दुर्गमाश्च सन्तीत्याह ॥”
“पारदाराम्बुसूत्राणि शुल्वतैलजलानि च ।
बीजानि पांशवस्तेषु प्रयोगास्तेऽपि दुर्लभाः ॥”
अत्र रङ्गनाथकृतटीका यथा, --
“तेषु मयूरादियन्त्रेषु म्वयंवहार्थमेते प्रयोगाः
प्रकर्षण योज्याः । प्रकर्षस्तु यावदभिमतसिद्धेः ।
एते क इत्यत आह । पारदाराम्बुसूत्राणोति
पारदयुक्ता आराः । यथा सिद्धान्तशिरोमणौ ।
लघु काष्ठजसमचक्रे समसुषिराराः समान्तरा
नेभ्याम् ।
किञ्चिद्वक्रा योज्याः सुषिरस्यार्द्धे पृथक् तासाम् ॥
रसपूर्णे तच्चक्रं द्व्याधाराक्षस्थितं स्वयं भ्रमति ॥
अम्बु जलस्य प्रयोगः । सूत्राणि सूत्रसाधन-
प्रयोगः । शुल्वं शिल्पनैपुण्यम् । तैलजलानि
तैलयुक्तजलस्य प्रयोगः । चकारात् तयोः पृथक्
प्रयोगोऽपि । यथा च सिद्धान्तशिरोमणौ ।
उत्कीर्य्यनेमिमथवा परितो मदनेन संलग्नम् ।
तदुपरि तालदलाद्यं कृत्वा सुषिरे रसं क्षिपेत्
तावत् ॥
यावद्रसैकपार्श्वे क्षिप्तजलं नान्यतो याति ।
पिहितच्छिद्रं तदतश्चक्रं भ्रमतिस्वर्य जलाकृष्टम् ॥
ताम्रादिमयस्याङ्कुशरूपनलस्याम्बुपूर्णस्य ।
एकं कुण्डजलान्तर्द्वितीयमग्रं त्वधोमुखं च वहिः ॥
युगपन्मुक्तं चेत् कं नलेन कुण्डाद्बहिः पतति ।
नेम्यां वद्धा घटिकाश्चक्रं जलयन्त्रवत् तथा
धार्य्यम् ॥
नलकप्रच्युतसलिलं पतति यथा तद्घटीमध्ये ।
भ्रमति ततस्तत् सततं पूर्णघटीभिः समाकृष्टम् ॥
चक्रच्युतं तदुदकं कुण्डे याति प्रणालिकया ॥
बीजानि केवलं तुङ्गबीजप्रयोगः । पांसवो धूलि-
प्रयोगास्तैर्युक्ताः प्रयोगाः । अपिशब्दात् प्रयो-
गेषु सुगमतरा इत्यर्थः । दुर्लभा असाधारणत्वेन
मनुष्यैः कर्त्तुमशक्या इत्यर्थः । अन्यथा प्रतिगृहं
स्वयंवहानां प्राचुर्य्यापत्तेः । इयं स्वयंवहविद्या
समुद्रान्तर्निवासिजनैः फिरङ्गाख्यैः सम्यग-
भ्यस्तेति । कुहकविद्यात्वादत्र विस्तारानुद्योग
इति संक्षेपः ॥ * ॥ अथ कपालाख्यजलयन्त्रमाह ।
“ताम्रपात्रमधश्छिद्रं न्यस्तं कुण्डेऽभलाम्भसि ।
षष्टिर्मज्जत्यहोरात्रे स्फुटं यन्त्रं कपालकम् ॥”
अत्र रङ्गनाथकृतटीका यथा, --
“यत् ताम्रघटितं पात्रमधश्छिद्रं अधोभागे छिद्रं
यस्य तत् । अमलाम्भसि निर्म्मलं जलं विद्यते
यस्मिन् तादृशे कुण्डे बृहद्भाण्डे न्यस्तं धारितं
सत् अहोरात्रे नाक्षत्राहोरात्रे षष्टिः षष्टिवार-
मेव न न्यूनाधिकं मज्जति । अधश्छिद्रमार्गण
जलागमनेन जलपूर्णतया निमग्नं भवति तत्-
कपालकं कपालमेव कपालकं घटखण्डानां
कपालपदवाच्यत्वात् घटाधस्तनार्द्धाकारं यन्त्र
घटीयन्त्रं स्फुटं सूक्ष्मम् । तद्घटनन्तु ।
शुल्वस्य दिग्भिर्विहितं पलैर्यत्
षडङ्गुलोच्चं द्विगुणायतास्यम् ।
तदम्भसा षष्टिपलैः प्रपूर्य्यं
यात्रं घटार्द्धप्रतिमं घटी स्यात् ॥
सत्त्र्यंशमाषत्रयनिर्म्मिता या
हेम्नः शलाका चतुरङ्गुला स्यात् ।
विद्धं तया प्राक्तनमत्रपात्रं
प्रपूर्य्यते नाडिकयाम्बुभिस्तत् ॥
तथाच सिद्धान्तशिरोमणौ, --
“घटदलरूपा घटिता घटिका ताम्री तले
पृथुच्छिद्रा ।
द्युनिशनिमज्जनमित्याभक्तं द्युनिशं घटीमानम् ॥”
“अत्र दशभिः शुल्बस्य पलैरित्यादि यद्घटी-
पृष्ठ २/३८९
लक्षणं कैश्चित् कृतं तद्युक्तिशून्यं दुर्घटं चेत्येतदु-
पेक्षितम् । इष्टप्रमाणाकारसुषिरं पात्रं घटी-
संज्ञमङ्गीकृतम् । द्युनिशनिमज्जनसङ्ख्यया यदि
षट्त्रिंशच्छतानि पानीयपलानि लभ्यन्ते तदै-
केन निमज्जनेन किमिति त्रैराशिकम् ।” इति
घटीयन्त्रम् ॥ अन्यानि कालमानयन्त्राणि तु
यन्त्रशब्दे द्रष्टव्यानि ॥)

घटोत्कचः, पुं, (घट इव उद्गतःकचोऽस्य ।)

राक्षसविशेषः । स तु हिडिम्बाराक्षसीगर्भे
भीमसेनाज्जातः ॥ इति महाभारतम् ॥ (अस्य
नामनिरुक्त्या सह जन्मादिविवरणं यथा, महा-
भारते । १ । १५६ । २१--६३ ।
“तथेति तत् प्रतिश्रुत्य हिडिम्बा राक्षसी तदा ।
भीमसेनमुपादाय सोर्द्ध्वमाचक्रमे ततः ॥
शैलशृङ्गेषु रम्येषु देवतायतनेषु च ।
मृगपक्षिविधुष्टेषु रमणीयेषु सर्व्वदा ॥
कृत्वा च रूपं परमं सर्व्वाभरणभूषिता ।
सञ्जल्पन्ती सुमधुरं रमयामास पाण्डवम् ॥
तथैव वनदुर्गेषु पुष्पितद्रुमसानुषु ।
सरःसु रमणीयेषु पद्मोत्पलयुतेषु च ॥
नदीद्वीपप्रदेशेषु वैदूर्य्यसिकतासु च ।
सुतीर्थवनतोयासु तथा गिरिनदीषु च ॥
काननेषु विचित्रेषु पुष्पितद्रुमवल्लिषु ।
हिमवद्गिरिकुञ्जेषु गुहासु विविधासु च ॥
प्रफुल्लशतपत्रेषु सरःस्वमलवारिषु ।
सागरस्य प्रदेशेषु मणिहेमचितेषु च ॥
पत्तनेषु च रम्येषु तथैवोपवनेषु च ।
देवारण्येषु पुण्येषु तथा पर्व्वतसानुषु ॥
गुह्यकानां निवासेषु तापसायतनेषु च ।
सर्व्वर्त्तुफलपुष्पेषु मानसेषु सरःसु च ॥
विभ्रती परमं रूपं रमयामास पाण्डवम् ।
रमयन्ती तथा भीमं तत्र तत्र मनोजवा ॥
प्रजज्ञे राक्षसीपुत्त्रं भीमसेनात् महाबलम् ।
विरूपाक्षं महावक्त्रं शङ्कुकर्णं विभीषणम् ॥
भीमनादं सुताम्रौष्ठं तीक्ष्णदंष्ट्रं महारवम् ।
महेष्वासं महावीर्य्यं महासत्त्वं महाभुजम् ॥
महाजवं महाकायं महामायमरिन्दमम् ।
दीर्घघोणं महोरस्कं विकटोद्बद्धपिण्डिकम् ॥
अमानुषं मानुषजं भीमवेगं महाबलम् ।
यः पिशाचानतीवान्यान् बभूवातीव राक्षसान् ॥
बालोऽपि यौवनं प्राप्तो मानुषेषु विशाम्पते ! ।
सर्व्वास्त्रेषु परं वीरः प्रकर्षमगमद् बली ॥
सद्यो हि गर्भान् राक्षस्यो लभन्ते प्रसवन्ति च ।
कामरूपधराश्चैव भवन्ति बहुरूपिकाः ॥
प्रणम्य विकचः पादावगृह्णात् स पितुस्तदा ।
मातुश्च परमेष्वासस्तौ च नामास्य चक्रतुः ॥
घटो हास्योत्कच इति माता तं प्रत्यभाषत ।
अब्रवीत्तेन नामास्य घटोत्कच इति स्म ह ॥”
असौ हि कुरुक्षेत्रयुद्धे कर्णनिक्षिप्तैकपुरुष-
घातिन्या वासवदत्तया शक्त्या आहतो
मृतश्च । यथा, महाभारते । ७ । १७७ ।
४८--६३ ।
“ततोऽब्रुवन् कुरवः सर्व्व एव
कर्णं दृष्ट्वा घोररूपाञ्च मायाम् ।
शक्त्या रक्षो जहि कर्णाद्य तूर्णं
नश्यन्त्येते कुरवो धार्त्तराष्ट्राः ॥
करिष्यतः किञ्च नो भीमपार्थौ
तपन्तमेनं जहि पापं निशीथे ।
यो नः संग्रामाद्घोररूपाद्विमुच्येत्
स नः पार्थान् सबलान् योधयेत ॥
तस्मादेनं राक्षसं घोररूपं
जहि शक्त्या वै दत्तया वासवेन ।
मा कौरवाः सर्व्व एवेन्द्रकल्पा
रात्रियुद्धे कर्ण ! नेशुः सयोधाः ॥
स वध्यमानो रक्षसा वै निशीथे
दृष्ट्वा रालंस्त्रास्यमानं बलञ्च ।
महच्च श्रुत्वा निनदं कौरवाणां
मतिं दध्रे शक्तिमोक्षाय कर्णः ॥
स वै क्रद्धः सिंह इवात्यमर्षी
नामर्षयत् प्रतिघातं रणे तम् ।
शक्तिं श्रेष्ठां वैजयन्तीमसह्यां
समाददे तस्य वधं चिकीर्षन् ॥
याऽसौ राजन् ! निहिता वर्षपूगान्
वधायाजौ सत्कृता फाल्गुनस्य ।
यां वै प्रादात् सूतपुत्त्राय शक्रः
शक्तिं श्रेष्ठां कुण्डलाभ्यां निनाय ॥
तां वै शक्तिं लेलिहानां प्रदीप्तां
पाशैर्युक्तामन्तकस्येव रात्रिम् ।
मृत्योः स्वसारं ज्वलितामिवोल्कां
वैकर्त्तनः प्राहिणोद्राक्षसाय ॥
तामुत्तमां परकायावहन्त्रीं
दृष्ट्वा सौतेर्ब्बाहुसंस्थां ज्वलन्तीम् ।
भीतं रक्षो विप्रदुद्राव राजन् !
कृत्वात्मानं विन्ध्यतुल्यप्रमाणम् ॥
दृष्ट्वा शक्तिं कर्णबाह्वन्तरस्थां
नेदुर्भू तान्यन्तरीक्षे नरेन्द्र ! ।
ववुर्वातास्तुमुलाश्चापि राजन् !
सनिर्घाता चाशनिर्गां जगाम ॥
सा तां मायां भस्म कृत्वा ज्वलन्ती
भित्वा गाढं हृदयं राक्षसस्य ।
ऊर्द्ध्वं ययौ दीप्यमाना निशायां
नक्षत्राणामन्तराण्याविशन्ती ॥
युद्ध्वा चित्रैर्विविधैः शस्त्रपूगै-
र्दिव्यैर्वीरो मानुषै राक्षसैश्च ।
बदन्नादान् विविधान् भैरवांश्च
प्राणानिष्टांस्त्याजितः शक्रशक्त्या ॥
इदञ्चान्यच्चित्रमाश्चर्य्यरूपं
चकारासौ कर्म्म शत्रुक्षयाय ।
तस्मिन् काले शक्तिनिर्भिन्नमर्म्मा
बभौ राजन् ! शैलमेघप्रकाशः ॥
ततोऽन्तरीक्षादपतद्गतासुः
स राक्षसेन्द्रो भुषि भिन्नदेहः ।
अवाक् शिरास्तब्धगात्रो विजिह्वो
घटोत्कचो महदास्थाय रूपम् ॥
स तद्रूपं भैरवं भीमकर्म्मा
भीमं कृत्वा भैमसेनिः पपात ।
हतोऽप्येवं तव सैन्यैकदेश-
मपोथयत् स्वेन देहेन राजन् ! ॥
ततो मिश्राः प्राणदन् सिंहनादै-
र्भेर्य्यश्च शङ्खा मुरजाश्चानकाश्च ।
दग्धां मायां निहतं राक्षसञ्च
दृष्ट्वा हृष्टाः प्राणदन् कौरवेयाः ॥
ततः कर्णः कुरुभिः पूज्यमानो
यथा शक्रो वृत्रवधे मरुद्भिः ।
अन्वारूढस्तव पुत्त्रं रथस्थं
हृष्टश्चापि प्राविशत् स्वं स्वसैन्यम् ॥”)

घटोत्कचान्तकः, पुं, (घटोत्कचस्य अन्तकः

संहारकः ।) कर्णराजः । इति त्रिकाण्डशेषः ॥

घटोद्भवः, पुं, (उद्भवतीति उद्भवः घटः कलसः

उद्भवः उत्पत्तिस्थानं यस्य । यद्वा घटात्
उद्भवतीति । उत् + भू + अच् ।) अमस्त्यमुनिः ।
इति हेमचन्द्रः । २ । ३६ ॥

घट्ट, क चाले । इति कविकल्पद्रुमः ॥ (चुरां-

परं-अकं क्रचित् सकञ्च-सेट् ।) टद्बयान्तः ।
चालश्चलनम् । क, घट्टयति मेघो वायुना । इति
दुर्गादासः ॥

घट्ट, ङ चाले । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं-

अकं क्वचित् सकञ्च-सेट् ।) टद्वयान्तः । ङ,
घट्टते । इति दुर्गादासः ॥

घट्टः, पुं, (घट्टतेऽस्मिन् इति । घट्ट + “हलश्च ।”

३ । ३ । १२१ । इति घञ् ।) नद्यादौ स्नाना-
द्यर्थं प्रवेशस्थानम् । इति लिङ्गादिसंग्रहे अमर-
भरतौ ॥ घाट् इति यस्य प्रसिद्धिः । जगात इति
ख्यातो वा । तत्पर्य्यायः । तीर्थः २ । अव-
तारः ३ । इति हेमचन्द्रः । ४ । १५३ ॥

घट्टगा, स्त्री, (घट्टेति नाम्ना गीयते उदाह्रियते

इति । घट्टा + गै + कः टाप् च ।) नदीभेदः ।
यथा, --
“मलापहा भीमरथी च घट्टगा
यथा च कृष्णा जलसाम्यतागुणैः ।
मलापहा वट्टपयस्तथापि
पथ्यं लघु स्वादुतरं सुकान्तिदम् ॥”
इति राजनिर्घण्टः ॥

घट्टजीवा, [न्] पुं, (घट्टेन घट्टे देयतरपण्येन

शुल्कादिनेत्यर्थः जीवतीति । जीव + णिनिः ।)
वर्णसङ्करजातिविशेषः । पाटुनि इति भाषा । स
तु वैश्यायां रजकाज्जातः । इति विवादार्णव-
सेतुः ॥

घट्टना, स्त्री, (घट्ट + “न्यासश्रन्थोयुच् ।” ३ । ३ ।

१०७ । इत्यस्य सूत्रस्य “घट्टिवन्दिविदिभ्यश्चेति
वाच्यम् ।” इति वार्त्तिकोक्त्या युच् टाप् च ।)
चलना । (आङ् पूर्ब्बकघट्टनाशब्दस्य प्रयोगो
यथा, माघे । १ । १० ।
“रणद्भिराघट्टनया नभस्वतः
पृथग्विभिन्नशुतिमण्डलैः स्वरैः ॥”)
वृत्तिः । इति हेमत्वन्द्रः ॥
पृष्ठ २/३९०

घण, द ञ उ दीप्तौ । इति कविकल्पद्रुमः ॥ (तनां-

उभं-अकं-सेट् । उदित्वात् क्त्वावेट् ।) द ञ,
घणोति घणुते । उ, घणित्वा घत्वा । इति
दुर्गादासः ॥

घण्टः, पुं, (घण् + क्तः ।) स्वनामख्यातव्यञ्जन-

विशेषः । मत्स्यघण्टगुणः । बलरुचिकारित्वम् ।
वातनाशित्वञ्च । इति राजवल्लभः ॥

घण्टकः, पुं, (घण्ट + संज्ञायां कन् ।) क्षुपविशेषः ।

घेँट्कोण इति भाषा । अस्य मूलगुणाः । कफ-
नाशित्वम् । कटुपाकित्वम् । पित्तकारित्वञ्च ।
इति राजवल्लभः ॥ घण्टकर्णोऽपि पाठः ॥
द्यराटा, स्त्री (द्यण्टयति दीप्यते पूजादिकाले
वाद्येन शाभत, घण्टयति शब्दायते वा । घटि
दीप्तौ + अच् ततष्टाप् ।) कांस्यनिर्म्मितवाद्य-
विशेषः । यथा, स्मृतिः ।
“सर्व्ववाद्यमयी घण्टा वाद्याभावे नियोजयेत् ॥”
“शङ्खो यस्य गृहे नास्ति घण्टा वा गरुडान्विता ।
पुरतो वासुदेवस्य न स भागवतः कलौ ॥”
इति पद्मपुराणे पातालखण्डम् ॥
अथ घण्टामाहात्म्यमुक्तञ्च स्कान्दे श्रीब्रह्म-
नारदसंवादे यथा, --
“स्नानार्च्चनक्रियाकाले घण्टानादं करोति यः ।
पुरतो वासुदेवस्य तस्य पुण्यफलं शृणु ॥
वर्मकोटिसहस्राणि वर्षकोटिशतानि च ।
वसते देवलोके तु अप्सरोगणसेवितः ॥
सर्व्ववाद्यमयी वण्टा केशवस्य सदा प्रिया ।
वादनाल्लभते पुण्यं यज्ञकोटिसमुद्भवम् ॥
वादित्रनिनदैस्तूर्य्यगीतमङ्गलनिःखनैः ।
यः स्नापयति गोविन्दं जीवन्मुक्तो भवेद्धि सः ॥
वादित्राणामभावे तु पूजाकाले हि सर्व्वदा ।
घण्टाशब्दो नरैः कार्य्यः सर्व्ववाद्यमयी यतः ॥
सर्व्ववाद्यमयी घण्टा देवदेवस्य वल्लभा ।
तस्मात् सर्व्वप्रयत्नेन घंण्टानादन्तु कारयेत् ॥
मन्वन्तरसहस्राणि मन्वन्तरशतानि च ।
घण्टानादेन देवेशः प्रीतो भवति केशवः ॥” * ॥
तथा, विष्णुधर्म्मोत्तरे श्रीभगवत्प्रह्लादसंवादे ।
“शृणु दैत्येन्द्र ! वक्ष्यामि घण्टामाहात्म्यमुत्तमम् ।
प्रह्लाद ! त्वत्समो नास्ति मद्भक्तो भुवनत्रये ॥
मम नामाङ्किता घण्टा पुरतो मम तिष्ठति ।
अर्च्चिता वैष्णवगृहे तत्र मां विद्वि दैत्यज ! ॥
वैनतेयाङ्कितां घण्टां सुदर्शनयुतां यदि ।
ममाग्रे स्थापयेद्यस्तु देहे तस्य वसाम्यहम् ॥
यस्तु वादयते घण्टां वैनतेयेन चिह्निताम् ।
धूपे नीराजने स्नाने पूजाकाले विलेपने ॥
मामाग्रे प्रत्यहं वत्स ! प्रत्येकं लभते फलम् ।
मखायुतं गोयुतञ्च चान्द्रायणशतोद्भवम् ॥
विधिवाह्यकृता पूजा सफला जायते नृणाम् ।
घण्टानादेन तुष्टोऽहं प्रयच्छामि स्वकं पदम् ॥
नागारिचिह्निता घण्टा रथाङ्गेन समन्विता ।
वादनात् कुरुते नाशं जन्ममृत्युभयस्य च ॥
गरुडेनाङ्कितां घण्टां दृष्ट्वाहं प्रत्यहं सदा ।
प्रीतिं करोमि दैत्येन्द्र ! लक्ष्मीं प्राप्य यथाधनः ॥
दृष्ट्वानृतं यथा देवाः प्रीतिं कुर्व्वन्त्यहर्निशम् ।
सुपर्णे च तथा प्रीतिं घण्टाशिखरमास्थिते ॥
स्वकरेण प्रकुर्व्वन्ति घण्टानादं सुभक्तितः ।
मदीयार्च्चनकाले तु फलं कोट्यैन्दवं कलौ ॥”
अन्यत्र च ।
“घण्टादण्डस्य शिखरे सचक्रं स्थापयेत्तु यः ।
गरुडं वै प्रियं विष्णोः स्थापितं भुवनत्रयम् ॥
सचक्रघण्टानादन्तु मृत्युकाले शृणोति यः ।
पापकोटियुतस्यापि नश्यन्ति यमकिङ्कराः ॥
सर्व्वे दोषाः प्रलीयन्ते घण्टानादे कृते हरौ ।
देवतानां मुनीन्द्राणां पितॄणामुत्सवो भवेत् ॥
अभावे वैनतेयस्य चक्रस्यापि न संशयः ।
घण्टानादेन भक्तानां प्रसादं कुरुते हरिः ॥
गृहे यस्य भवेन्नित्यं घण्टा नागारिसंयुता ।
न सर्पाणां तत्र भयं नाग्निविद्युत्समुद्भवम् ॥
यस्य घण्टा गृहे नास्ति शङ्खश्च पुरतो हरेः ।
कथं भागवतं नाम गीयते तस्य देहिनः ॥”
“अतो भगवतः प्रीत्यै घण्टा श्रीगरुडान्विता ।
संग्राह्या वैष्णवैर्यत्नाच्चक्रेणोपरि मण्डिता ॥
गीतं नृत्यं पुराणादिपठनञ्च प्रशस्यते ॥”
इति श्रीहरिभक्तिविलासे ६ विलासः ॥
(घण्टयति दीप्यते कुसुमादिभिरिति । घटि +
अच् । स्त्रियां टाप् ।) घण्टापाटलिवृक्षः । इति
शब्दरत्नावली ॥ अतिबला । नागबला । इति
राजनिर्घण्टः ॥ (अतिबलानागबलाघण्टापाटलि-
शब्देष्वासां विवृति र्यथायथं ज्ञातव्या ॥)

घण्टाकः, पुं, (घण्टयति दीप्यते स्वकुसुमैरिति ।

घटिं + अच् टाप् । घण्टा तया घण्टेति
आख्ययेत्यर्थः कायतीति । घण्टा + कै + कः ।)
घण्टापाटलिवृक्षः । इति शब्दरत्नावली ॥

घण्टाकर्णः, पुं, (घण्टावत् कर्णो यस्य ।) शिव-

गणविशेषः । घेँटु इति ख्यातः । यथा, --
“घण्टाकर्णो गणः श्रीमान् शिवस्यातीवल्लभः ॥”
इति शिवपुराणम् ॥
तस्य पूजाविधिर्यथा, --
“चैत्रे मासि च संपूज्यो घण्टाकर्णो घटात्सकः ।
आरोग्याय स्नुहीमूलं संक्रान्त्यां तत्र कारयेत् ॥”
पूजामन्त्रो यथा, --
“घण्टाकर्ण ! महावीर ! सर्व्वव्याधिविनाशन ! ।
विस्फोटकभये प्राप्ते रक्ष रक्ष महाबल ! ॥”
इति तिथ्यादितत्त्वे रविसंक्रान्तिप्रकरणम् ॥
(काशीस्थह्रदविशेषः । यथा, काशीखण्डे ।
३३ । १७५ ।
“इयं हि चित्रघण्टे शी घण्टाकर्णस्त्वयं ह्रदः ॥”)

घण्टापथः, पुं, (घण्टानां उपलक्षणात् घण्टादि-

वादित्राणां पन्थाः । “ऋक्पूरब्धूःपथामानक्षे ।”
५ । ४ । ७४ । इति अः ।) घण्टोपलक्षितानां
हस्त्यादीनां पन्थाः । इति भरतः ॥ ग्रामादौ
प्रधानमार्गः । यथा, --
“दशधन्वन्तरो राजमार्गो घण्टापथः स्मृतः ॥”
इति चाणक्यम् ।
तत्पर्य्यायः । संसरणम् २ । तत् संसरणं
यदि पुरसम्बन्धि स्यात्तदा उपनिष्करमिति
ख्यातम् । इत्यमरः । २ । १ । १८ ॥

घण्टापाटलिः, पुं, (घण्टा चासौ पाटलिश्चेति

कर्म्मधारयः ।) वृक्षविशेषः । घण्टापारुल इति
भाषा ॥ तत्पर्य्यायः । गोलीडः २ झाटलः ३
मोक्षः ४ मुष्ककः ५ । इत्यमरः । २ । ४ । ३९ ॥
गोलिहः ६ घण्टा ७ पाटलिः ८ इति तट्टीका ॥
क्षारद्रुः ९ कालमुष्ककः १० । इति रत्नमाला ॥
पाटली ११ घण्टाकः १२ झाटः १३ । इति
शब्दरत्नावली ॥ तीक्ष्णः १४ घण्टकः १५ ।
इति रत्नकोषः ॥ मोक्षकः १६ काष्ठपाटली १७
कालास्याली १८ काचस्थली १८ । इति भाव-
प्रकाशः ॥ राजनिंर्घण्टोक्तगुणपर्य्यायौ मुष्कक-
शब्दे द्रष्टव्यौ ॥

घण्टाबीजं, क्ली, (घण्टेव बीजमस्य ।) जय-

पालः । इति राजनिर्घण्टः ॥

घण्टारवा, स्त्री, (घण्टारववत् रवः पक्वफलेषु

यस्याः । यद्वा, पक्वेषु फलेषु घण्टेव रौतीति ।
रु ल ध्वनौ + अच् ।) वृक्षविशेषः । झन्झनिया
इति वनशण इति च भाषा ॥ तत्पर्य्यायः ।
शणपुष्पिका २ । इत्यमरः । २ । ४ । १०७ ॥
शणपुष्पी ३ । इति भरतः ॥

घण्टाली, स्त्री, (घण्टां अलति पर्य्याप्नोति

शब्देनेत्यर्थः । अल पर्य्याप्तौ + “कर्म्मण्यण् ।”
३ । २ । १ । इत्यण् स्त्रियां ङीप् च । यद्वा
घण्टा आली सहचरी यस्याः शन्दसादृ-
श्यात् तथात्वम् ।) कोशातकी । इति राज-
निर्घण्टः ॥ झिङा इति भाषा ॥ (घण्टानां
आली श्रेणी ।) घण्टाश्रेणी च ॥

घण्टाशब्दं, क्ली, (घण्टायाः शब्द इव शब्दो

यस्य ।) कांस्यम् । इति हेमचन्द्रः । ४ । ११५ ॥

घण्टिका, स्त्री, (घण्टा + अल्पार्थे कन् ततष्टापि

अत इञ्च । घण्टिका क्षुद्रघण्टा तद्बत् आकृति-
रस्त्यस्याः । अर्श आदित्वादच् ।) लम्बिका ।
तालूर्द्ध्वसूक्ष्मजिह्वा । इति राजनिर्घण्टो हेम-
चन्द्रश्च ॥ (गलरोगविशेषः । अस्य स लक्षण-
चिकित्सितं यथा, --
“तिलपिच्छिलगौल्यादिसेवनातिद्रवादपि ।
नवोदकेन कफजो जायते घण्टिकागदः ॥
जिह्वामूले कण्ठसन्धौ श्लेष्मरक्तसमुद्भवा ।
तेनास्यशोषो जडता ज्वरो मन्दश्च जायते ॥
शिरोव्यथा रुचिस्तन्द्रा तथास्यजडता भवेत् ।
तर्ज्जन्या कण्ठमध्ये तु संपीड्य रक्तग्रन्थिका ॥
परिस्रुतं तथा रक्तं तदा विम्लापनं हितम् ।
वचाञ्च मरिचं कृष्णाचूर्णं तत्र निधापयेत् ॥
मर्द्दनं स्यात् कण्ठदेशे तेन ग्रन्थिर्विलीयते ।
धान्यनागरजीमूतवचान्यग्रोधशुङ्गकाः ॥
क्वाथः स्वेदो घण्टिकाया मुखे गण्डूषधारणम् ।
गले च घण्ठिकामार्गे रक्तश्लेष्मविकारजा ॥”
इति घण्ठिकारोगः ॥
इति हारीते चिकित्सितस्थाने पञ्चचत्वारिंश-
त्तमेऽध्याये ॥)
पृष्ठ २/३९१

घण्टिनीबीजं, क्ली, (घण्टिनीव बीजं यस्य ।)

जयपालः । इति राजनिर्घण्टः ॥

घण्टुः, पुं, (घण्टयति दीप्यते इति । घटि दीप्तौ

+ “तन्वादेरुः ।” इति उणादिकोषटीकाधृत-
सूत्रेण उः ।) गजघण्टा । प्रतापः । इत्युणादि-
कोषः ॥

घण्टेश्वरः, पुं, (घण्टानां घण्टाकर्णादिगणविशेषाणां

ईश्वरः प्रभुः ।) देवताविशेषः । स तु मङ्गल-
पुत्त्रः । व्रणदाता च । घेँटु इति भाषा ॥ यथा,
“मङ्गलस्य प्रिया मेधा तस्यां घण्टेश्वरो महान् ।
व्रणदाता च तेजस्वी विष्णुतुल्यो बभूव ह ॥”
इति ब्रह्मवैवर्त्तपुराणम् ॥

घण्डः, पुं, (घणिति शब्दं कुर्व्वन् डयते उड्डीयते

इति । डी नभोगतौ + बाहुलकात् डः ।) भ्रमरः ।
इति संक्षिप्तसारे उणादिवृत्तिः ॥

घनं, क्ली, (हन्यते ताड्यते यत् इति । हन् +

“मूर्त्तौ घनः ।” ३ । ३ । ७७ । इति अप् घना-
देशश्च ।) कांस्यतालादिकं वाद्यम् । इत्य-
मरः । १ । ७ । ४ ॥ कांस्यतालः करताल इति
ख्यातः आदिना काहलादयः । इति सार-
सुन्दरी ॥ मध्यमनृत्यम् । इति मेदिनी । ने । ३ ॥
लोहः । इति हेमचन्द्रः ॥ त्वचम् । इति राज-
निर्घण्टः ॥

घनः, पुं, (घनति दीप्यते इति । घन दीप्तौ + अच् ।)

मेघः । (यथा, महाभारते । १ । १३७ । २४ ।
“ततः स्नेहाद्धरिहयं दृष्ट्वा रङ्गावलोकिनम् ।
भास्करोऽप्यनयन्नाश समीपोपगतान् घनान् ॥”)
मुस्ता । ओघः । दार्ढ्यं । विस्तारः । (हन्यते
वध्यतेऽनेन । हन् + “मूर्त्तौ घनः ।” ३ । ३ ।
७७ । इति अप् घनादेशश्च ।) लौहमुद्गरः ।
इति मेदिनी । ने । ३ ॥ (यथा, भारविः । १८ । १ ।
“धनुरपास्य सबाणधिशङ्करः
प्रतिजघान घनैरिव मुष्टिभिः ॥”)
शरीरम् । कफः । अभ्रकम् । इति राज-
निर्घण्टः ॥ सजातीयाङ्कत्रयस्य पूरणम् । यथा,
“समस्त्रिघातश्च घनः प्रदिष्टः
स्थाप्यो घनोऽन्त्यस्य ततोऽन्त्यवर्गः ।
आदित्रिनिघ्नस्तत आदिवर्ग-
स्त्र्यन्त्याहतोऽथादिघनश्च सर्व्वे ॥”
इति लीलावती ॥
(वेदपाठविशेषः । यथा, --
“जटामुक्तां विपर्य्यस्य घनमाहुर्मनीषिणः ॥”)

घनः, त्रि, (हन्यते इति । हन् + अप् घना-

देशश्च ।) निविडः । तत्पर्य्यायः । निरन्तरः २
सान्द्रः ३ । इत्यमरः । ३ । १ । ६६ ॥ (यथा,
रघुः । ८ । ९१ ।
“स तथेति विनेतुरुदारमतेः
प्रतिगृह्य वचो विससर्ज्ज मुनिम् ।
तदलब्धपदं हृदिं शोकघने
प्रतियातमिवान्तिकमस्य गुरोः ॥”)
दृढः । इति मेदिनी । ने । ४ ॥ (यथा, रघुः ।
११ । ११८ ।
“यच्चकार विवरं शिलाघने
ताडकोरसि स रामसायकः ॥”)
पूर्णः । (यथा, महाभारते । १ । १३६ । २८ ।
“किंस्विदापूर्य्यते व्योम जलधारावनैर्घनैः ॥”)
सम्पुटः । इति शब्दरत्नावली ॥ (निरवकाशः ।
यथा, पञ्चतन्त्रे । ३ । २३६ ।
“किं गाण्डीवस्फुरगुरुघनास्फालनक्ररपाणि-
र्नासील्लीलानटनविलसन् मेखली सव्यसाची ॥”)

घनकफः, पुं, (घनस्य मेघस्य कफ इव ।) करका ।

इति त्रिकाण्डंशेषः ॥

घनकालः, पुं, (घनस्य मेघस्य घनप्रधानो वा

कालः ।) वर्षा ऋतुः । इति शब्दरत्नावली ॥

घनगोलकः, पुं, (घनस्य नानावर्णमेघस्य गोलः ।

स इव कायति प्रकाशते इति । घन + कै +
“आतोऽनुपसर्गे कः ।” ३ । २ । ३ । इति कः ।
शुक्लरक्तमेघसादृश्यादस्य तथात्वम् ।) संश्लिष्ट-
रजतसुवर्णम् । इति हेमचन्द्रः । ४ । ११३ ॥
मिशान सोणा रूपा इति भाषा ॥

घनजम्बालः, पुं, (घनः सान्द्रो जम्बालः इति

कर्म्मधारयः ।) चुलुकः । इति त्रिकाण्डशेषः ॥

घनज्वाला, स्त्री, (घनस्य मेघस्य ज्वाला दीप्तिः

प्रस्फुरणमित्यर्थः ।) मेघदीप्तिः । वज्राग्निः ।
इति शब्दरत्नावली ॥

घनतालः, पुं, (घनतायां निविडतायां अलति

पर्य्याप्नोतीति । अल पर्य्याप्तौ + अच् ।) सारङ्ग-
पक्षी । इति जटाधरः ॥

घनतोलः, पुं, (घनं मेघं अभिलक्षीकृत्य स्वमुखं

तोलयति ऊर्द्ध्वमुखीभवतीत्यर्थः । तुल उन्माने +
अच् ।) चातकपक्षी । इति त्रिकाण्डशेषः ॥

घनद्रुमः, पुं, (घनः कण्टकाकीर्णत्वान्निविडो द्रमो

वृक्षः ।) विकण्टकवृक्षः । इति राजनिर्घण्टः ॥

घननाभिः, पुं, (घनस्य मेघस्य नाभिर्गर्भाशयस्थान-

मिव । मेघस्य धूमयोनित्वादेव तथात्वम् ।)
धूमः । इति शब्दरत्नावली ॥

घनपत्रः, पुं, (घनानि निविडानि पत्राणि यस्य ।)

पुनर्नवा । इति राजनिर्घण्टः ॥

घनपाषण्डः, पुं, (घनेन मेघेन मेघध्वनिनेत्यर्थः ।

पाषण्ड इव । मेघध्वनिश्रवणेन उन्मत्ततयास्य
तथात्वम् ।) मयूरः । इति शब्दमाला ॥

घनफलः, पुं, (घनानि बहूत्पन्नत्वात् निविडानि

फलानि यस्य ।) विकण्टकवृक्षः । इति राज-
निर्घण्टः ॥

घनमूलं, क्ली, (घनस्य सजातीयाङ्कत्रयपूरणस्य

मूलम् आद्यम् ।) पूरितसजातीयाङ्कत्रयस्या-
द्याङ्कः । यथा । नवघनस्य मूलं त्रयं इत्यादि ॥
करणसूत्रं यथा, --
“आद्यं घनस्थानमथाघने द्वे
पुनस्तथान्त्यात् घनतो विशोध्य ।
घनं पृथक्स्थं पदमस्य कृत्या
त्रिघ्न्या तदाद्यं विभजेत् फलन्तु ॥
पंक्त्यां न्घसेत्तत्कृतिमन्त्यनिघ्नीं
त्रिध्नीं त्यजंत्तत्प्रथमात् फलस्य ।
घनं तदाद्यात् घनमूलमेवं
पंक्त्या भवेदेवमतः पुनश्च ॥”
इति लीलावती ॥

घनमूलः, पुं, (घनं दृढं मूलमस्य ।) मोरटः ।

इति राजनिर्घण्टः ॥

घनरसः, पुं, (घनः सान्द्रो रसः ।) सान्द्रनिर्यासः ।

(घनो रसो यस्य ।) मोरटः । (घनस्य मेघस्य
रसः ।) जलम् । कर्पूरम् । पीलुपर्णी । सम्यक्-
सिद्धरसः । इति मेदिनी । से । ५१ ॥ जले क्लीव-
लिङ्गोऽपि । यथा, रत्नकोषे ।
“घनरसमन्घं क्षीरं घृतममृतं जीवनं भुवनम् ॥”

घनवल्लिका, स्त्री, (घनस्य मेघस्य वल्लिका लता

इव ।) विद्युत् । इति हारावली । ५८ ॥

घनवल्ली, स्त्री, (घना घनरसा वल्लो लता ।)

अमृतस्रवा लता । इति राजनिर्घण्टः ॥ (घनस्य
मेघस्य वल्लीव इति विग्रहे विद्युत् ॥)

घनवातः, पुं, (घनो निविडो वातो वायुर्यत्र ।)

नरकभेदः । इति हेमचन्द्रः । ५ । २ ॥

घनवासः, पुं, (घनस्तीक्ष्णः वासो गन्धो यस्य ।)

कुष्माण्डः । इति हारावली । ९७ ॥

घनवाहनः, पुं, (घन इव शुभ्रं वाहनं यस्य । शुभ्र-

वृषवाहनत्वादेवास्य तथात्वम् ।) शिवः । इति
हेमचन्द्रः । २ । १११ ॥ (घनो मेघः वाहनं यस्य ।)
इन्द्रः । मेघवाहन इत्यमरदर्शनात् ॥

घनश्यामः, त्रि, (घनो मेघस्तद्वत् श्यामः श्याम-

वर्णः ।) निविडकृष्णवर्णः । मेघतुल्यश्यामवर्णः ।
योगरूढिरयं शब्दः श्रीरामकृष्णयोर्बोधकः ।
इति केचित् तत्र पुं । यथा, महानाटके ।
“अये राम ! घनश्याम ! चुम्बामि मुखपङ्कजम् ।
यदि जीवामि शोकेन पुनर्द्रक्ष्यामि ते मुखम् ॥”
“समानकर्णविन्यस्तस्फुरन्मकरकुण्डलम् ।
हेमाम्बरं घनश्यामं श्रीवत्सश्रीनिकेतनम् ॥”
इति श्रीभागवतम् ॥

घनसारः, पुं, (घनः शुक्लमेवस्तद्वत् शुभ्रः सारो

यस्य ।) कर्पूरम् । (यथा, सुश्रुते उत्तरतन्त्रे
४७ अध्याये ।
“पीनस्तनोरुजघना घनसारदिग्धा-
स्ता एवमार्द्रवसनाः सह संविशेयुः ॥”
यथाच महागणपतिस्तोत्रे । ६ ।
“दिक्कान्ताघनसारचन्दनरसासाराः श्रयन्तां
मनः ॥”
घनो निविडः सारो यस्य ।) दक्षिणावर्त्त
पारदः । इति मेदिनी रे । २६० ॥ वृक्षभेदः ।
(घनस्य मेघस्य सारः ।) जलम् । इति धरणी ॥

घनस्कन्धः, पुं, (घनो दृढः स्कन्धो यस्य ।) कोशाम्र

वृक्षः । इति राजनिर्घण्टः ॥

घनस्वनः, पुं, (घनो मुस्ता तद्वत् सुष्टु अनिति

प्राणितीति । अन घ्लु प्राणने + अच् ।) तण्डु-
लीयशाकः । इति राजनिर्घण्टः ॥ (घनस्य
मेघस्य स्वनः ।) मेघशब्दश्च ॥

घना, स्त्री, (घन + टाप् ।) माषपर्णी । रुद्र-

जटा । इति राजनिर्षण्टः ॥
पृष्ठ २/३९२

घनाकरः, पुं, (वनानां मेघानामाकरः ।) वर्षाकालः ।

इति शब्दरत्नावली ॥

घनाघनः, पुं, (हन्तीति । हन वधे + पचाद्यच् ।

ततः “हन्तेर्घत्वञ्च ।” ३ । १ । १३४ । इत्यस्य
वार्त्तिं इति द्वित्वं आक् चाभ्यासस्य ।) इन्द्रः ।
घातुकमत्तहस्ती । वर्षुकमेघः । इत्यमरः । ३ । ३ ।
१०९ ॥ (यथा, राजतरङ्गिण्याम् । ४ । ३६५ ।
“आम्भोजानि घनाघनव्यवहितोऽप्युल्लाघयत्यंशुमान्
दूरस्थोपि पयोधरोऽतिशिशिरस्पर्शं करोत्यात-
पम् ॥”)
अन्योन्यघट्टनं इति धरणी ॥

घनाघनः, त्रि, निरन्तरः । (हन्तीति । हन् +

अच् । “हन्तेर्घत्वञ्च ।” इति दित्वं आक्
चाभ्यासस्य ।) घातुकः । इति हेमचन्द्रः ॥ (यथा,
ऋग्वेदे । १० । १०३ । १ ।
“आशुः शिशानो वृषभो न भीमो
घनाघनः क्षोभणश्चर्षणीनाम् ॥”)

घनाघना, स्त्री, (घनाघन + टाप् ।) काकमाची ।

इति शब्दचन्द्रिका ॥

घनात्ययः, पुं, (घनानां मेघानामत्ययो नाशो

यस्मिन् ।) शरत्कालः । इति हेमचन्द्रः । २ । ७२ ॥
(यथा, सुश्रुते सूत्रस्थाने ६ अध्याये ।
“पैत्तिकानां व्याधीनामुपशमो हेमन्ते श्लैष्मिकानां
निदाधे वातिकानां घनात्यये स्वभावत एव ॥”
“हैमन्तिकं दोषचयं वसन्ते
प्रवाहयन् ग्रैष्मिकमभ्रकाले ।
घनात्यये वार्षिकमाशु सम्यक्
प्राप्नोति रोगानृतुजान्न जातु ॥”
इति चरके शरीरस्थाने द्वितीयेऽध्याये ॥)

घनामयः, पुं, (घनो दृढः आमयो यस्मात् ।)

खर्जूरवृक्षः । इति त्रिकाण्डशेषः ॥

घनामलः, पुं, (घनो निविडः अमलश्च ।) वास्तूक-

शाकः । इति त्रिकाण्डशेषः ॥

घनाश्रयः, पुं, (घनानां मेघानामाश्रयः ।) आका-

शम् । इति हेमचन्द्रः । २ । ७७ ॥

घनोदधिः, पुं, (घनानां लौहमुद्गराणामुदधिः

समुद्र इव । लौहमुद्गरप्रचुरतया एवास्य तथा-
त्वम् ।) नरकभेदः । इति हेमचन्द्रः । ५ । २ ॥

घनोपलः, पुं, (घनस्य मेधस्य उपलः ।) करका ॥

इति हेमचन्द्रः । २ । ८० ॥ (करकाशब्देऽस्य
विवरणं ज्ञातव्यम् ॥)

घम्ब, गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-पर-

सकं-सेट् ।) ओष्ठ्यवर्गशेषोपधः । घम्बति ।
इति दुर्गादासः ॥

घरट्टः, पुं, (घरं घर्घर इति शब्देन अटति

भ्राम्यतीति । अट् + निपातनात् द्वित्वे साधुः)
पेषणी । इति पुराणम् ॥ जाँता इति भाषा ॥
(यथा, श्रीकण्ठचरिते । ६ । ६३ ।
पृष्ठभ्रमत्सजवषट्पदचक्रचिह्नं
यत्प्रोच्छ्वसत्कुसुममाविरभूल्लतानाम् ।
मानस्य पक्ष्मलदृशां सहसैव पेष्टुं
तत् स्पष्टमान्मथघरट्टविलासमासीत् ॥”)

घर्घटः, पुं, (घर्घं इत्यस्फुटशब्दं अटति गच्छ-

तीति । अट + अच् । शकन्ध्वादित्वात् साधुः ।)
मत्स्यविशेषः । इति शब्दरत्नावली ॥ ट्याङ्गरा
इति भाषा ॥

घर्घरः, पुं, (घर्घेति अव्यक्तं ध्वनिविशेषं रातीति ।

रा + “आतोऽनुपसर्गे कः ।” ३ । २ । ३ । इति
कः ।) पर्व्वतद्वारम् । द्वारम् । उलूकः । नद-
विशेषः । स्वरभेदे त्रि । इति मेदिनी । रे । १५१ ॥
ध्वनिः । (यथा, राजतरङ्गिण्याम् । २ । १०३ ।
“चण्डैर्डमरुनिर्घोषैर्घर्घरं श्रुतवान् ध्वनिम् ॥”)
हास्यम् । इति हेमचन्द्रः । २ । २१० ॥ तुषा-
नलः । इति भूरिप्रयोगः ॥

घर्घरकः, पुं, (घर्घर एव । स्वार्थे कन् ।) घर्घर-

नदः । यथा, राजनिर्घण्टे ।
“शोणे घर्घरके जलन्तु रुचिदं सन्तापशोषापहं
पथ्यं वह्निकरं तथाच बलदं क्षीणाङ्गवृद्धिप्रदं ॥”

घर्घरा, स्त्री, (घर्घ इत्यव्यक्तशब्दं रातीति । रा

+ कः स्त्रियां टाप् ।) क्षुद्रघण्टिका । वीणा-
भेदः । इति मेदिनी । रे । १५१ ॥ (गङ्गा ।
यथा, काशीखण्डे । २९ । ५७ ।
“घुसृणा पिञ्जरतनुर्घर्घरा घर्घरस्वना ॥”)

घर्घरिका, स्त्री, (घर्घरैव । स्वार्थे कन् । अत

इत्वञ्च ।) क्षुद्रघण्टिका । भृष्टधान्यम् । नदी-
विशेषः । वादित्रदण्डः । इति हेमचन्द्रः ॥ वाद्य-
प्रभेदः । इति विश्वः ॥

घर्घुर्घा, स्त्री, (घुर ध्वनौ + क्विप् । घुर्घुरा ध्वनि-

विशेवेण गायतीति । गै + डः । निपातनात् गस्य
घ्नत्वम् ।) यमकीटः । इति रत्नमाला ॥ घुर-
घुरिया इति भाषा ॥

घर्व्व, गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

सकं-सेट् ।) रेफोपधः । धर्व्वति । इति दुर्गा-
दासः ॥

घर्म्मः, पुं, (घरति क्षरति अङ्गादिति । घृ क्षरणे

+ “घर्म्मः ।” उणां । १ । १४८ । इति मन्प्रत्य-
येन निपातनात् साधुः ।) श्रमवारि । अङ्ग-
जलम् । घाम् इति भाषा ॥ (यथा, आर्य्या-
सप्तशत्याम् । २१२ ।
“दयितस्पर्शोन्मीलित-
घर्म्मजलस्खलितचरणनखलाक्षे ॥”)
तत्पर्य्यायः । निदाघः २ स्वेदः ३ । इत्यमरः ।
१ । ७ । ३३ ॥ सिप्रः ४ । इति जटाधरः ॥ स्रवणम् ५ ।
इति शब्दरत्नावली ॥ अस्य निदानं स्वेदशब्दे
द्रष्टव्यम् ॥ (घरति क्षरति स्वेदः शरीरादनेन
इति । घृ + करणे मन् ।) आतपः । ग्रीष्मः ।
उष्मा । इति हेमचन्द्रः ॥ (यथा, सुश्रुते उत्तर-
तन्त्रे ६४ अध्याये ।
“सरांसि सरितो वापि वनानि रुचिराणि च ।
चन्दनानि परार्घ्याणि स्रजः सकमलोत्पलाः ॥
तालवृन्तानिलाहारांस्तथाशीतगृहाणि च ।
घर्म्मकाले निषेवेत वासांसि सुलघूनि च ॥”

घर्म्मदोषः, पुं, (घर्म्मस्य स्वेदस्य दोषः विकृतिः ।)

स्वेदस्य विकारः । तस्यौषधं यथा, --
“मन्दोष्णलोघ्रनीवारचूर्णन्तु कनकस्य च ।
तेनोद्वर्त्तितदेहस्य हरेद्ग्रीष्मप्रसारिकाम् ॥
त्वम्दोषश्चैव देवेन्द्र ! घर्म्मदोषश्च नश्यति ॥”
इति गारुडे १९४ अध्यायः ॥

घर्म्मविचर्च्चिका, स्त्री, (घर्म्मजनिता स्वेदोत्पन्ना

विचर्च्चिका । घर्म्मो ग्रीष्मकालस्तज्जनिता विच-
र्च्चिका वा ।) घर्म्मविचर्च्ची । घर्म्मचर्च्चिका ।
घामाचि इति भाषा ॥ यथा, प्रयोगामृते ।
“स्वेदवाहीनि दुष्यन्ति क्रोधशोकभयैस्तथा ।
ततः स्वेदः प्रवर्त्तेत दौर्गन्ध्यं धर्म्मचर्च्चिका ॥
राजिकाकृतिरुष्णोत्था यतो घर्म्मविचर्च्चिका ॥”
अस्याश्चिकित्सा स्वेदशब्दे द्रष्टव्या ॥

घर्म्मान्तः, पुं, (घर्म्मस्य निदाघकालस्य अन्तो-

ऽत्र ।) वर्षाकालः । इति राजनिर्घण्टः ॥ (यथा,
मेघदूते । १०६ ।
“घर्म्मान्ते मे विगणय कथं वासराणि व्रजेयुः ॥”
वर्षाकालविवरणेऽस्य विशेषो बोध्यः ॥)

घर्म्मान्तकामुकी, स्त्री, (घर्म्मान्ते वर्षासु कामुकी

कामार्ना । वर्षाकाले हि अस्याः मैथुनस्पृहा
भवतीति प्रसिद्धिः । यद्वा, घर्म्मान्तं वर्षाकालं
कामयते इति । कम् + उकञ् स्त्रियां ङीप् ।)
बलाका । इति राजनिर्घण्टः ॥

घर्षणं, क्ली, (घृष् + भावे ल्युट् ।) घर्षः । घषा

इति भाषा ॥ यथाह, माघवकरः ।
“घर्षणादभिघाताद्बा यदङ्गं विगतत्वचम् ।
उषास्रावान्वितं तद्धि घृष्टमित्यभिधीयते ॥”

घर्षणालः, पुं, (घर्षणे घर्षणाय बा अलति षर्य्या-

प्नोति । अल् + अच् ।) शिलापुत्त्रः । इति
त्रिकाण्डशेषः ॥ लोडा इति भाषा ॥

घर्षणी, स्त्री, (घृष्यते इति । घृष + कर्म्मणि ल्युट् ।

टित्त्वात् ङीप् च ।) हरिद्रा । इति त्रिकाण्ड-
शेषः ॥ (विवृतिरस्या हरिद्राशब्दे ज्ञातव्या ॥)

घष, इ ङ क्षरे । इति कविकल्पद्रुमः ॥ (भ्वां-

आत्मं-अकं-सेट् ।) आद्यस्वरी । इ, घंष्यते । ङ,
घंषते । अयं कैश्चिन्न मन्यते । इति दुर्गादासः ॥

घस, इ ङ क्षरणे । इति कविकल्पद्रुमः ॥ (भ्वां-

आत्मं-अकं-सेट् ।) इ, घंस्यते । ङ, घंसते ।
अयं कैश्चिन्न मन्यते । इति दुर्गादासः ॥

घस, ऌ औ भक्षणे । इति कविकल्पद्रुमः ॥ (भ्वां-

परं-सकं-अनिट् ।) ऌ, अघसत् । औ, घस्ता ।
इति दुर्गादासः ॥

घसिः, पुं, (घस् भक्षणे + भावे इन् ।) आहारः ।

इति हेमचन्द्रः ॥ (तथाच, वैदिके ।
“घसिना मे मासं पृक्था ऊर्द्ध्वं मे नाभेः सीद ॥”)

घस्मरः, त्रि, (घस + “सृघस्यदः क्मरच् ।” ३ ।

२ । १६० । इति क्मरच् ।) अद्मरः । भक्षकः ।
इत्यमरः । ३ । १ । २० ॥ (यथा, महाभारते ।
८ । ४० । ३९ ।
“गौर्य्यो बृहत्यो निर्हीकाः मद्रिकाः कम्बलावृताः ।
घस्मरा नष्टशौचाश्च प्राय इत्यनुशुश्रुमः ॥”)

घस्रं, क्ली, (घस् + रक् ।) कुङ्कुमम् । इति

त्रिकाण्डशेषः ॥
पृष्ठ २/३९३

घस्रः, पुं, (घसति भक्षयति अन्धकारम् । घस् +

रक् ।) दिनम् । हिंस्रे त्रि । इति मेदिनी । रे । ३० ॥
(यथा, पञ्चदश्याम् । ६ । १८५ ।
“रात्रिघस्रौ सुप्तिबोधायुन्मीलननिमीलने ।
तूष्णीम्भावमनोराज्ये इव सृष्टिलयाविमौ ॥”)

घा, स्त्री (हन् + डः । हस्य घत्वम् । टाप् च ।)

काञ्ची । घातः । इति मेदिनी । घे । १ ॥

घाटः, पुं, (घटते सङ्गच्छते शिरोऽनेन देहे इत्यर्थः ।

घट् + करणे घञ् ।) घाटा । इति शब्दरत्ना-
वली ॥ (घाटा अस्यास्तीति । “अर्श आदिभ्यो-
ऽच् ।” ५ । २ । २७ । इत्यच् । घाटाविशिष्टे,
त्रि । इति व्यत्पत्तिलब्धोऽर्थः ॥)

घाटा, स्त्री, (घाटा विद्यतेऽस्मिन् इति घाटः ततः

टाप् ।) ग्रीबापश्चाद्भागः । घाड इति भाषा ॥
तत्पर्य्यायः । अवटुः २ कृकाटिका ३ । इत्य-
मरः ॥ शिरःपश्चात्सन्धिः । इति राजनिर्घण्टः ॥
घाटः ५ कृकाटी ६ । इति शब्दरत्नावली ॥
घाटिका ७ । इति शब्दचन्द्रिका ॥
(“दोषास्तु दुष्टास्त्रय एवमन्यां
संपीड्य घाटां सुरुजां सुतीव्राम् ॥”
इत्युत्तरतन्त्रे पञ्चविंशेऽध्याये सुश्रुतेनोक्तम् ॥)

घाटिका, स्त्री, (घाटा + स्वार्थे कन् । टापि अत

इत्वञ्च ।) घाटा । इति शब्दचन्द्रिका ॥ (यथा,
पञ्चतन्त्रे गङ्गदत्तप्रकरणे । ४ । २५ । “अथ
कूपमासाद्यारघट्टघाटिकामार्गेण सर्पस्तेनात्मना
स्वालयं नीतः ॥”)

घाण्टिकः, पुं, (घण्टया चरतीति । चरतीति ठक् ।)

यो बहुभिर्मिलित्वा स्तुतिं पठति सः । यो
देवताद्यग्रे घण्टाघातेन शंसति स श्रावणाख्यः ।
इति स्वामी । इति सारसुन्दरी ॥ (यदुक्तम् ।
“राज्ञः प्रबोधसमये घण्टाशिल्पास्तु घाण्टिकाः ।”)
तत्पर्य्यायः । घाटिकः २ । इति भरतः ॥
चाक्रिकः ३ । इत्यमरः । २ । ८ । ९७ ॥ अन्यच्च ।
“मिलिता बहवो ये तु भवेयुः स्तुतिकारकाः ।
चाक्रिकास्ते निगदिताश्चक्रिका अपि कुत्रचित् ॥
घण्टावाद्यस्तावका ये घाण्टिका घण्टिकाश्च ते ।”
इति शब्दरत्नावली ॥
धुस्तूरवृक्षः । इति हारावली । १०७ ॥

घातः, पुं, (हन् + करणभावादौ घञ् । “हनस्तो-

ऽचिण्णलोः ।” ७ । ३ । ३२ । इति हन्तेस्त-
कारोऽन्तादेशः । “हो हन्तेर्ञ्निन्नेषु ।” ७ । ३ ।
५४ । इति कुत्वञ्च ।) काण्डः । प्रहारः ।
इति मेदिनी । ते । १७ ॥ (यथा, गोः रामा-
यणे । ६ । ९८ । २४ ।
“मुष्टिभिः पार्ष्णिघातैश्च बाहुघातैश्च शोभने ।
घोरैर्जानुप्रहारैश्च नयनाञ्चनपीडनैः ॥”)
अङ्कपूरणम् । यथा । “समत्रिघातश्च घनः
प्रदिष्टः ।” इति लीलावती ॥ (वधः । यथा-
पञ्चतन्त्रे । १ । ३१२ ।
“गृहे शत्रुमपि प्राप्तं विश्वस्तमकुतोभयम् ।
यो हन्यात् तस्य पापं स्याच्छतब्राह्मणघात-
जम् ॥”
लुण्ठनम् । यथा, मनुः । ९ । २७४ ।
“ग्रामघाते हिताभङ्गे पथि मोषाभिदर्शने ॥”
“ग्रामघाते ग्रामलुण्ठने तस्करादिभिः ।” इति
कुल्लूकभट्टः ॥ द्रव्याद्युत्खातः हानिर्वा । यथा,
याज्ञवल्क्ये । २ । १६२ ।
“माषानष्टौ तु महिषी शस्यघातस्य कारिणी ॥”
भङ्गः । उच्छेदादिर्वा । यथा, पञ्चतन्त्रे । १ ।
सञ्जीवककथायाम् । “प्रोवाच भो शेषभागे
अयुक्तं मया पापेन कृतं सञ्जीवकं व्यापादयता
यस्माद् विश्वासघातादन्यन्नास्ति पापतरम् ॥”)

घातकः, त्रि, (हन्तीति । हन् + ण्वुल् । णिति-

तान्तादेशे कुत्वम् ।) हननकर्त्ता । यथा, --
“गौरीमाघवयोर्भर्त्ता राधिका शिवसन्निघौ ।
इन्दुः कुमुदहन्ता च सूर्य्यः कमलघातकः ॥”
इति विदग्धमुखमण्डनम् ॥
(तथा च मनुः । ५ । ५१ ।
“संस्कर्त्ता चोपहर्त्ता च खादकश्चेतिघातकाः ॥”)

घातनं, क्ली, (हन् + णिच् + भावे ल्युट् ।) हन-

नम् । वधः । यज्ञार्थपशुवधः । इति शब्दरत्ना-
वली ॥ (यथा, महाभारते । २ । ४४ । ४० ।
“पशुवद्घातनं वा मे दहनं वा कटाग्निना ॥”)

घातनः, त्रि, (हन्ति मारयतीति । हन् + कर्त्तरि

ल्युः स्वार्थे णिच् ।) वघकर्त्ता । इति सिद्धान्त-
कौमुद्यामुणादिवृत्तिः ॥ (कैश्चित्तु एतस्य प्रामा-
दिकत्वसुक्तम् । “हन्तेर्युन्नाद्यन्तयोर्घत्वतत्वे ।”
५ । ४२ । इत्युणादिसूत्रेण हन्तेर्युनिकृते आद्यन्त-
योर्घत्वतत्वे घतनः । इत्युक्तल्लात् । अतः सुधीभि-
श्चिन्त्यम् ।)

घातिः, पुं, (हन् + इण् ।) पक्षिबन्धनम् । इत्यु-

णादिकोषः ॥ प्रहरणम् । इति संक्षिप्तसारे
उणादिवृत्तिः ॥

घातिपक्षी, [न्] पुं, (घातः घातकः पक्षीति कर्म्म-

धारयः ।) श्येनपक्षी । इति हारावली । ८६ ॥

घातुकः, त्रि, (हन्तीति । हन् + “लषपतपदस्था-

भूवृषहनकमगमशृभ्य उकञ् ।” ३ । २ । १५४ ।
इति उकञ् ।) हिंस्रः । क्रूरः । इत्यमरः । ३ ।
१ । ४७ ॥ (यथा, अथर्व्ववेद । १२ । ४ । ७ ।
“ततः किशोरा म्रियन्ते वत्सांश्च धातुको वृकः ॥”)

घात्यं, त्रि, (हन्यतेऽसौ हन्तुमर्हो य इत्यर्थः ।

हन् + ण्यत् ।) हननयोग्यम् । इति व्याकर-
णम् ॥ (यथा, पञ्चतन्त्रे । ३ । २२८ । “ततो
मम सुखघात्याः सञ्जाताः ॥”)

घारः, पुं, (घृं सेचने + घञ् ।) सेचनम् । इति हेमचन्द्रः ॥

घार्त्तिकः, पुं, (घृतेन निर्वृत्तः । इति ठञ् ।)

घृतपूरः । इति हेमचन्द्रः ॥ (घृतसंयुक्ते त्रि ।
यथा, पञ्चतन्त्रे । ५ । ३५ ॥ “अन्यस्य घार्त्तिक-
भोजनं दत्तम् ॥”)

घासः, पुं, (घस्यतेऽसौ पशुभिरित्यर्थः । घस् +

कर्म्मणि घञ् ।) गवाद्यदनीयतृणविशेषः ।
तत्पर्य्यायः । यवसम् २ । इत्यमरः । २ । ५ । १६७ ॥
यवसः ३ जवसः ४ । इति भरतः ॥ यवासम् ५ ।
इति शब्दरत्नावली ॥ (यथा, पञ्चतन्त्रे । ४ । ५३ ।

घासिः, पुं, (घसति भक्षयति हव्यमिति । घस +

“जनिघसिभ्यामिण् ।” उणां ४ । १३० इति
इण् ।) अग्निः । इति त्रिकाण्डशेषः ॥ (यथा,
ऋग्वेदे । १ । १६२ । १४ ।
“यच्च पपौ यच्च घासिं जघास सर्व्वा ता ते अपि देवेष्वस्तु ॥”)

घिण, इ ङ ग्रहणे । इति कविकल्पद्रुमः ॥ (भ्वां-

आत्मं-सकं-सेट् ।) इ, घिण्ण्यते । ङ, घिण्णते ।
जेघिण्ण्यते । इति दुर्गादासः ॥

घु, ङ ध्वनौ । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं-

अकं-अनिट् ।) ङ, घवते । इति दुर्गादासः ॥

घुः, पुं, (घुङ् ध्वनौ + भावे बाहुलकात् डुः ।)

ध्वनिः । इति जटाधरः ॥

घुट, ङ ॡ परिवर्त्ते । इति कविकल्पद्रुमः ॥ (भ्वां-

आत्मं-अकं-सेट् ।) परिवर्त्तो गतवतः प्रत्या-
गमनं विनिमयो वा । ङ, घोटते नदी । ऌ, अघु-
टत् । इति दुर्गादासः ॥ (यथा, कविरहस्ये १४६ ।
“यस्य व्याघोटते दण्डो नाकृतार्थः कुतश्चन ॥”)

घुट, शि प्रतिहतौ । इति कविकल्पद्रुमः ॥ (तुदां-

परं-सकं-सेट् ।) शि, घुटति अघुटीत् शत्रुं
शूरः । जुघोट । इति दुर्गादासः ॥

घुटः, पुं, (घुट् प्रतिहतौ + संज्ञायां अच् ।) चरण-

ग्रन्थिः । इति हेमचन्द्रः ॥

घुटिः, स्त्री, (घुट + इन् ।) गुल्फः । इति द्बिरूपकोषः ॥

घुटिकः, पुं, (घुट् + ठन् ।) गुल्फः । इति हेम-

चन्द्रः ॥

घुटिका, स्त्री, (घुठिक + टाप् ।) गुल्फः । इत्यमरः । २ । ६ । ७२ ॥

घुटी, स्त्री, (घुट् + इन् । “कृदिकारान्तादक्तिनः ।”

इति ङीष् ।) गुल्फः । इति द्विरूपकोषः ॥

घुड, शि व्याघाते । इति कविकल्पद्रुमः ॥ (तुदा-

परं-सकं-सेट् ।) शि, घुडति अघुडीत् । इति
दुर्गादासः ॥

घुण, ङ भ्रमणे । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं-

सकं-सेट् ।) ङ, घोणते । इति दुर्गादासः ॥

घुण, इ ङ ग्रहणे । इति कविकल्पद्रुमः ॥ (भ्वां-

आत्मं-सकं-सेट् ।) इ, घुण्ण्यते । ङ, घुण्णते
जोघुण्ण्यते । इति दुर्गादासः ॥

घुण, श भ्रमणे । इति कविकल्पद्रुमः ॥ (तुदां-परं-

अकं-सेट् ।) श, घुणति घोणिता । इति दुर्गादासः ॥

घुणः, पुं, (घुणति काष्ठं भक्षयन् काष्ठाभ्यन्तरेभ्राम्य-

तीति । घुण भ्रमणे + “इगुपधज्ञाप्रीकिरः कः ।”
३ । १ । १३५ । इति कः ।) काष्ठक्रमिः । (यथा,
सुश्रुते सूत्रस्थाने । ९ अध्याये । “घुणोपहत-
काष्ठवेणुनलनालीशुष्कालावुमुखेष्वेष्यस्य ॥”)
तत्पर्य्यायः । काष्ठबेधकः २ । इति लिङ्गादि-
संग्रहटीकायां भरतः ॥ काष्ठलेखकः ३ । इति
भूरिप्रयोगः ॥

घुणवल्लभा, स्त्री, (घुणः वल्लभो यस्याः । घुणस्य

वल्लभा वा ।) अतिविषा । इति भावप्रकाशः ॥
(व्यवहारोऽस्या यत्र तद्यथा, --
“कुटजत्वक्फलं तार्क्ष्यं माक्षिकं घुणवल्लभाम् ।
पिबेत्तण्डुलतोयेन--”
इति वाभटे चिकित्सास्थानेऽष्टमेऽध्याये ॥)
पृष्ठ २/३९४

घुण्टः, पुं, (घुट्यते परिवृत्यतेऽनेन । घुट +

घञर्थे कः निपातनात् मुम् च ।) गुल्फः । इति
शब्दमाला ॥

घुण्टकः, पुं, (घुण्ट + स्वार्थे कन् ।) गुल्फः । इति हेमचन्द्रः ॥

घुण्टिकं, क्ली, (घुण्ट इव कायतीति । कै +

कः ।) वनस्थकरीषम् । इति शब्दचन्द्रिका ॥
विलघुँटे इति भाषा ॥

घुण्डः, पुं, (घोणते भ्राम्यतीति ।) भ्रमरः । इत्युणादिकोषः ॥

घुर, श ध्वनौ । भीमार्थे । इति कविकल्पद्रुमः ॥

(तुदां-परं-अकं-सेट् ।) भीमो भयानकरस-
स्तस्य अर्थो निमित्तं हेतुरिति यावत् भीमार्थः ।
श, घुरति व्याघ्रो मनुष्याणां भयहेतुर्भवतीत्यर्थः ।
घुर भीमार्थार्त्तशब्दयोरिति प्राञ्चः । आर्त्त इति
शब्दविशेषणमिति रमानाथः । घुरत्यार्त्ते च
कुरुते इति । शब्दानुवृत्तौ भट्टमल्लः । घोरिता ।
इति दुर्गादासः ॥

घुर्घुरः, पुं, (घुरति मनुष्याणां भयहेतुर्भवतीति ।

घुर् + क्विप् । ततः घुरो भयानकात् जन्तोरपि
घुरः भयानकः । एतद्दंशनेन प्रायशो मृत्यु-
सम्भवादेव तथात्वम् ।) कीटविशेषः । घुर-
घुरिया इति भाषा ॥ तत्पर्य्यायः । यमकीटः २ ।
इति त्रिकाण्डशेषः ॥ घर्घुर्घा ३ । इति रत्न-
माला ॥ (शूकरशब्दः । इति चिन्तामणिः ॥)

घुर्घुरी, स्त्री, (घुर्घुरः शूकरशब्दवदव्यक्तशब्दः

सोऽस्या अस्तीति । घुर्घुर + “अर्श आदिभ्यो-
ऽच् ।” ५ । २ । १२७ । इत्यच् । ततो गौरा-
दित्वात् ङीष् ।) जलजन्तुविशेषः । तत्पर्य्यायः ।
मृत्किरा २ । इति त्रिकाण्डशेषः ॥

घुलञ्चः, पुं, गवेधुका । इति रत्नमाला ॥ गड-

गड इति भाषा ॥

घुलघुलारवः, पुं, (घुल् घुल् इत्यव्यक्तमारौतीति ।

आ + रु + अच् ।) पारावतभेदः । इति राज-
निर्घण्टः ॥

घुष, इ ङ धूशे । इति कविकल्पद्रुमः ॥ (भ्वां-

आत्मं-सकं-सेट् ।) धूशः कान्तिकृतिः । इ,
घुष्यते । ङ, घुंषते चन्दनं गात्रम् । इति दुर्गा-
दासः ॥

घुष, इर् वधे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

सकं-सेट् ।) इर्, अघुषत् अघोषीत् । इति
दुर्गादासः ॥

घुष, कि इर् नुतौ । स्तुतौ इति यावत् । विशब्दे ।

इति कविकल्पद्रुमः ॥ (चुरां पक्षे भ्वां-परं-सकं-
सेट् ।) विशब्द इह कथनं आविष्करणं नाना-
शब्दकरणं वा आङ्पूर्ब्बकः सततक्रन्दने । इति
तट्टीका ॥ कि, घोषयति घोषति गूढमर्थमभि-
युक्तः । नानाशब्दे वाद्यं घोषयति द्वारि यस्य
कश्चिदुपद्रुतः । इति हलायुधः । इर्, अघुषत्
अघोषीत् । घुष किरनुवर्त्तते । कि, आघोषयति
आघोषति शोकार्त्तः सततं क्रन्दतीत्यर्थः । इति
दुर्गादासः ॥

घुषितं, त्रि, (घुष्यते स्म इति । घुष विशब्दे +

क्तः । “वुषिरविशब्दने ।” ७ । २ । २३ । इति
कथनात् अत्र इट् ।) शब्दितम् । इति
सुपद्म व्याकरणम् ॥

घुष्टं, त्रि, (घुष्यते स्म इति । घुष + “क्षुब्धवार-

स्वान्तध्वान्तेति” मुग्धबोधसूत्रात् निपातनात्
साधुः ।) शब्दितम् । इति मुग्धबोधम् ॥ (यथा,
हरिवंशे । २० । ८६ ।
“हंससारसघुष्टेषु कारण्डवरुतेषु च ॥”
शब्दितान्यदर्थे तु “घुषिरविशब्दने ।” ७ । २ ।
२३ । इति नेट् । “घुष्टा रज्जुः ।” इति सिद्ध्वान्त-
कौसुदी ॥)

घुसृणं, क्ली, (घुष्यते स्तूयते इति भावः । घुष +

बाहुलकात् ऋणक् । पृषोदरादित्वात् साधुः ।
यद्वा घुंष्यते कान्तिविशिष्टं क्रियते शरीर-
मनेन । घुषि घूशे + ऋणक् ।) कुङ्कुमम् । इति
त्रिकाण्डशेषः ॥ (यथा, काशीखण्डे । २९ । ५७ ।
“घुसृणापिञ्जरतनुर्घर्घरा घर्घरस्वना ॥”
यथा च भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे
भागे ।
“चन्दनं घुसृणोपेतं मृगनाभिसमायुतम् ।
न चोष्णं न च वा शीतं वर्षाकाले तदिष्यते ॥”
इति घुसृणकुङ्कुमम् ॥)

घूकः, पुं, (घू इत्यव्यक्तशब्देन कायति शब्दायते

इति । घू + कै + कः ।) उलूकः । इति हेम-
चन्द्रः । ४ । ३९ ॥

घूकारिः, पुं, (घूकस्य पेचकस्य अरिः शत्रुः ।)

काकः । इति हेमचन्द्रः । ४ । ३८८ ॥

घूकावासः, पुं, (घूकानां पेचकानां आवासो वास-

स्थानम् ।) शाखोटवृक्षः । इति राजनिर्घण्टः ॥

घूर, य ङ ई हिंसाज्यान्योः । इति कविकल्पद्रुमः ॥

(दिवां-आत्मं-सकं-अकं च-सेट् ।) दीर्घो । य
ङ, घूर्य्यते । ई, घूर्णः । ज्यानिर्गतबहुवयो-
भावः । इति दुर्गादासः ॥

घूर्ण, ञ श भ्रमणे । इति कविकल्पद्रुमः ॥ (तुदां-

उभं-अकं-सेट् ।) ञ, घूर्णति घूर्णते । श,
घूर्णती घूर्णन्ती । इति दुर्गादासः ॥ (यथा, गोः
रामायणे । ४ । १५ । २५ ।
“स तु वाली रणगतः सालताडनविह्वलः ।
गुरुभारसमाक्रान्तश्चचाल च जुघूर्ण च ॥”)

घूर्णः, पुं, (घूर्णति स्वोत्पत्तिभूमौ घूर्ण्याकारेण

सम्भवतीति । घूर्ण + अच् । घूर्ण्याकारेण जाय-
मानत्वात् तथात्वम् ।) ग्रीष्मसुन्दरकः । इति
शब्दचन्द्रिका ॥ गीमा इति भाषा ॥ (घूर्ण +
भावे अच् ।) भ्रमणञ्च ॥ (विघूर्णिते, त्रि ।
यथा, भागवते । ७ । २ । २ ।
“आह चेदं रुषा घूर्णः संदष्टदशनच्छदः ॥”)

घूर्णनं, क्ली, (घूर्ण + भावे ल्युट् ।) भ्रमणम् । तत्-

पर्य्यायः । चक्रावर्त्तः २ भ्रमः ३ भ्रान्तिः ४
भ्रमिः ५ घूर्णिः ६ । इति हेमचन्द्रः । ६ । १५५ ॥
(यथा, गीतगोविन्दे । ९ । ११ ।
“अन्तर्मोहनमौलिर्घूर्णनचलन्मन्दारविस्रंसन-
स्तब्धाकर्षणदृष्टिहर्षणमहामन्त्रः कुरङ्गी-
दृशाम् ॥”)

घूर्णायमानः, त्रि, (घूर्ण इवाचरतीति । घूर्ण +

क्यङ् । ततो घूर्णायते इति । घूर्णाय + शानच् ।)
भ्राम्यमाणः । यथा, कलापधातुव्याख्यासारे ।
“इन्द्राद्यैरखिलार्थसाधनपरैः संस्तूयमानं मुहुः
पीतोन्मत्तफलातुलालसतया घूर्णायमानेक्षणम् ॥”

घूर्णिः, स्त्री, (घूर्ण + “सर्व्वधातुभ्य इन् ।” उणां ।

४ । ११७ । इति भावे इन् ।) घूर्णनम् । इति
हेमचन्द्रः । ६ । १५५ ॥

घूर्णितः, त्रि, (घूर्णते स्म इति । घूर्ण + क्तः ।)

भ्रमितः । तत्पर्य्यायः । प्रचलायितः २ । इत्य-
मरः । ३ । १ । ३२ ॥ (यथा, कथासरित्-
सागरे । २४ । १ ।
“मदर्घूर्णितवक्त्रोत्थैः सिन्दूरैश्छूरयन् महीम् ।
हेरम्बः पातु वो विघ्नान् स्वतेजोभिर्दहन्निव ॥”)

घूर्ण्यमानः, त्रि, (घूर्ण्यते इति । घूर्ण + णिच् + कर्म्मणि

शानच् ।) भ्राम्वमाणः । यथा, महानाटके ।
“भो वृक्षाः पर्व्वतस्था बहुकुसुमयुता वायुना
घूर्ण्यमानाः ॥”
अणिजन्ते तु घूर्णमाण इत्येव स्यात् । यथा,
हरिवंशे ४८ । ३६ ।
“भ्रमन्तं घूर्णमानञ्च स्तुतिं देवाः प्रचक्रिरे ॥”)

घृ, सेके । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं-

अनिट् ।) घरति तरुं मेघः । इति दुर्गादासः ॥

घृ, क सेके । छादने । इति कविकल्पद्रुमः ॥ (चुरां-

परं-सकं-अनिट् ।) क, घारयति । इति दुर्गा-
दासः ॥

घृ, र लि भासि । सेके । इति कविकल्पद्रुमः ॥

(ह्वां-परं-अकं-अनिट् ।) र वैदिकः । लि,
जघर्त्ति घृतं दीप्यते क्षरति वेत्यर्थः । इति दुर्गा-
दासः ॥

घृण, इ ङ ग्रहणे । कविकल्पद्रुमः ॥ (भ्वां आत्मं-

सकं-सेट् ।) इ, घृण्ण्यते । ङ, घृण्णते जरी-
घृण्ण्यते । इति दुर्गादासः ॥

घृण, द ञ उ दीप्तौ । इति कविकल्पद्रुमः ॥ (तनां-

उभं अकं-सेट् । उदित्वात् क्त्रावेट् ।) द ञ,
घृणोति घर्णोति । घृणुते घर्णते । उ, घर्णित्वा
घृत्वा । इति दुर्गादासः ॥

घृणा, स्त्री, (घ्रियते सिच्यते हृदयमनया । । घृ

सेके + बाहुलकात् नक् स्त्रियां टाप् । दयारसेन
हि हृदयं सिक्तमिवार्द्रं भवतीति तथात्वम् ।)
करुणा । (यथा, किरातार्ज्जुनीये । १५ । १३ ।
“मन्दमस्यन्निषुलतां घृणया मुनिरेष वः ।
प्रणुदत्यागतावज्ञं जघनेषु पशूनिव ॥” * ॥
घ्रियते आच्छाद्यते गुणादिकमनयेति ।)
जुगुप्सा । तत्पर्य्यायः । अर्त्तनम् २ ऋतीया ३
हृणीया ४ । इत्यमरः । ३ । २ । ३२ ॥ रीज्या ५
हृणिया ६ ह्रिणीया ७ ह्रणीया ८ । इति
तट्टीका ॥ (यथा, रघुः । ११ । १७ ।
“तां विलोक्य वनितावधे घृणां
पत्रिणा सह मुमोच राघवः ॥”)

घृणावासः, पुं, (घृणायाः आवासः ।) कुष्माण्डः

इति त्रिकाण्डशेषः ॥ घृणायुक्ते त्रि ॥
पृष्ठ २/३९५

घृणिः, पुं, (जघर्त्ति दीप्यते इति । घृ + “घृणि-

पृश्निपार्ष्णिचूर्णिभूर्णि ।” उणां । ४ । ५२ । इति
निप्रत्ययेन निपातनात् साधुः ।) किरणः ।
इत्यमरः । १ । ३ । ३३ ॥ सूर्य्यः । (घरति सिञ्च-
तीति । घृ सेके + निः गुणाभावश्च ।) जलम् ।
इति मेदिनी ॥ (जघर्त्ति दीप्यते इति व्युत्पत्त्या
दीप्तिशालिनि, त्रि । यथा, भागवते । ७ । २ । ७ ।
“तस्य त्यक्तस्वभावस्य घृणेर्मायावनौकसः ॥”)

घृतः, पुं क्ली, (जघर्त्ति क्षरतीति । घृ + “अञ्जि-

घृसिभ्यः क्तः ।” उणां । ३ । ८९ । इति क्तः ।)
पक्वनवनीतम् । घि इति भाषा ॥ तत्पर्य्यायः ।
आज्यम् २ हविः ३ सर्पिः ४ । इत्यमरः । २ । ९ । ५२ ॥
पवित्रम् ५ नवनीतकम् ६ अमृतम् ७ अभि-
घारः ८ होम्यम् ९ आयुः १० तैजसम् ११ ।
इति राजनिर्घण्टः ॥ आजम् १२ । यथा, --
“घृतोऽस्त्री चाजमाज्यञ्च सर्पिः स्यादमृतं
हविः ।”
इति जटाधरः ॥
तस्य गुणाः । बुद्ध्यग्निशुक्रौजोमेदःस्मृतिकफ-
कारित्वम् । वातपित्तविषोन्मादरोगशोथालक्ष्मी-
ज्वरनाशित्वम् । मांसादष्टगुणगुरुत्वञ्च । इति
राजवल्लभः ॥ रसायनत्वम् । स्वादुत्वम् । चक्षु-
र्हितत्वम् । शीतवीर्य्यत्वम् । पापनाशित्वम् ।
अल्पाभिस्यन्दित्वम् । कान्तितेजोलावण्यस्वरायु-
र्हितबलकारित्वम् । पवित्रत्वम् । गुरुत्वम् । उदा-
वर्त्तशूलानाहव्रणक्षयवीसर्परक्तनाशित्वम् । स्निग्ध-
त्वम् । रूक्षत्वञ्च । इति भावप्रकाशः ॥ * ॥ अथ
गव्यघृतस्य गुणाः । विशेषेण चक्षुर्हितत्वम् ।
शीतत्वम् । वातपित्तकफालक्ष्मीपापरक्षोनाशि-
त्वम् । शुक्राग्निस्वादुपाकमेधालावण्यकान्त्योज-
स्तेजोवृद्धिवयःस्थितिबलायुर्हितकारित्वम् । गुरु-
त्वम् । पवित्रत्वम् । सुमङ्गल्यत्वम् । रसायनत्वम् ।
सुगन्धित्वम् । रोचनत्वम् । चारुत्वम् । सर्व्वा-
ज्येषु गुणाधिकत्वञ्च । इति भावप्रकाशः ॥
बुद्धिस्मृतिपुष्टिवपुःस्थैर्य्यकारित्वम् । श्रमोपशमन-
त्वम् । हव्यतमत्वम् । बहुगुणत्वञ्च ॥ * ॥ माहिष-
घृतगुणाः । उत्तमत्वम् । धृतिसौख्यकान्तिबलवर्ण-
चक्षुर्हितकारित्वम् । वातश्लेष्मदुर्नामग्रहणी-
विकारनाशित्वम् । मन्दानलोद्दीपनत्वम् । नव-
गव्यतः परमहृद्यत्वम् । मनोहारित्वञ्च । इति
राजनिर्घण्टः ॥ स्वादुत्वम् । पित्तरक्तनाशित्वम् ।
शीतत्वम् । श्लेष्मशुक्रवृद्धिकारित्वम् । गुरुत्वम् ।
स्वादुपाकित्वञ्च ॥ * ॥ छागीघृतगुणाः ।
अग्निचक्षुर्हितबलकारित्वम् । कासश्वासक्षयेषु
हितत्वम् । कटुपाकित्वञ्च । इति भाव-
प्रकाशः ॥ कफनाशित्वम् । इति राज-
निर्घण्टः ॥ * ॥ मेषीघृतगुणाः । पित्तमेदस्कारि-
त्वम् । योनिदोषे शोषे कफे अनिले च शस्त-
त्वम् । रूक्षत्वम् । दुर्नामोन्मादनाशित्वञ्च । इति
राजवल्लभः ॥ पाके लघुत्वम् । पित्तकोपाकारि-
त्वम् । शोफे कम्पे च हितत्वञ्च ॥ * ॥ भेडक-
घृतगुणाः । अतिगौरवात् सुकुमारदेहिवर्ज्य-
त्वम् । बुद्धिपाटवहरत्वम् । बलकारित्वम् । नृणां
वपुषो विस्रगन्धकारित्वञ्च ॥ * ॥ हस्तिनीघृत-
गुणाः । कफपित्तविषक्रमिनाशित्वम् । कषाय-
त्वम् । लघुत्वम् । विष्टम्भित्वम् । तिक्तत्वम् ।
वह्निकरत्वञ्च ॥ * ॥ अश्वाघृतगुणाः । कटु-
त्वम् । मधुरत्वम् । कषायत्वम् । इषदग्निदीप-
नत्वम् । बाल्यप्रदत्वम् । मूर्च्छाहारित्वम् । गुरु-
त्वञ्च ॥ * ॥ गर्द्दभीघृतगुणाः । अग्निबलकारि-
त्वम् । मूत्रदोषकफनाशित्वम् । पाके लघुत्वम् ।
कषायत्वम् । उष्णवीर्य्यत्वञ्च ॥ * ॥ उष्ट्री-
घृतगुणाः । मधुरत्वम् । विपाके कटुत्वम् ।
शीतलत्वम् । कुष्ठकृमिविषवातकफगुल्मोदर-
नाशित्वञ्च । इति राजनिर्घण्टः ॥ शोथनाशि-
त्वम् । इति राजवल्लभः ॥ * ॥ नारीघृतगुणाः ।
चक्षुर्हितरुचिकारित्वम् । पथ्यत्वम् । मन्दाग्नि-
दीपनत्वम् । पाके लघुत्वम् । सर्व्वामयविष-
नाशित्वञ्च । इति राजनिर्घण्टः ॥ प्रमेहनाशि-
त्वम् । इति राजवल्लभः ॥ * ॥ दुग्धभवघृत-
गुणाः । ग्राहित्वम् । शीतलत्वम् । नेत्र-
रोगकारित्वम् । पित्तदाहास्रमदमूर्च्छाभ्रमा-
निलनाशित्वञ्च ॥ * ॥ ह्यस्तनदधिजघृतं तदेव
हैयङ्गवीनम् । तस्य गुणाः । चक्षुर्हितत्वम् ।
दीपनत्वम् । रुचिबलकारित्वम् । बृंहणत्वम् ।
वृष्यत्वम् । विशेषाज्ज्वरनाशित्वञ्च ॥ * ॥ वर्षा-
दूर्द्ध्वं पुराणस्य तस्य गुणाः । त्रिदोषमूर्च्छाकुष्ठ-
विषोन्मादापस्मारतिमिरनाशित्वम् । इति भाव-
प्रकाशः ॥ मदशिरःकर्णादिजरोगभ्रान्तिनाशि-
त्वम् । व्रणस्य शोधनत्वम् । रोपणत्वञ्च । आयु-
र्वृद्धिशरीरदृढतासौकुमार्य्यकान्तिस्मृतिबलकारि-
त्वम् । बाल्ये तरुणे वार्द्धके चातिबल्यत्वम् ।
पथ्यत्वञ्च । इति राजनिर्घण्टः ॥ प्रतिश्यायाम-
कासजीर्णज्वरसर्व्वरोगनाशित्वम् । श्रेष्ठत्वम् ।
धातुसाम्यकारित्वञ्च ॥ * ॥ तस्य लक्षणम् ।
“उग्रगन्धं पुराणं स्याद्दशवर्षस्थितम् घृतम् ।
लाक्षारसनिभं शीतं प्रपुराणमतः परम् ।
यथा यथा भवेज्जीर्णं गुणवत् स्यात्तथा तथा ॥”
कांस्यपात्रे दशदिनस्थितं घृतं त्याज्यम् । इति
राजवल्लभः ॥ औषधघटितपक्वघृतस्य पूर्णवीर्य्यं
षण्मासपर्य्यन्तं तिष्ठति । इति वैद्यकपरिभाषा ॥
(“शस्तं धीस्मृतिमेघाग्नि-बलायुःशुक्रचक्षुषाम् ।
बालवृद्धप्रजाकान्ति-सौकुमार्य्यस्वरार्थिनाम् ॥
क्षतक्षीणपरीसर्पशस्त्राग्निग्लपितात्मनाम् ।
वातपित्तविषोन्मादशोषालक्ष्मीज्वरापहम् ॥
स्नेहानामुत्तमं शीतं वयसः स्थापनं परम् ।
सहस्रवीर्य्यं विधिभिर्घृतं कर्म्मसहस्रकृत् ॥”
इति पूर्ब्बखण्डे पञ्चमेऽध्याये शार्ङ्गधरेणोक्तम् ॥
“विपाके मधुरं वृष्यं वातपित्तकफापहम् ।
चक्षुष्यं बलकृन्मेध्यं गव्यं सर्पिर्गुणोत्तरम् ॥”
इति गव्यघृतम् ॥
“आजं सन्दीपनीयञ्च चक्षुष्यं बलवर्द्धनम् ।
कासे श्वासे क्षयेऽर्शःसु लघुपाके कफापहम् ॥”
इत्याजघृतम् ॥
“वातपित्तसमं सर्व्वं सुशीतं माहिषं घृतन् ।
मधुरं गुरु विष्टम्भि भवत्यल्पगुणात्मकम् ॥”
इति माहिषघृतम् ॥
“औष्ट्रं कटु घृतं पाके शोषक्रिमिविषापहम् ।
दीपनं कफवातघ्नं कुष्ठगुल्मोदरापहम् ॥”
इत्युष्ट्रीघृतम् ॥
“पाके लघ्वाविकं सर्पिः सर्व्वरोगविषापहम् ।
वृद्धिं करोति चास्थ्नाञ्च वाश्मरीशर्करापहम् ॥”
इत्याविकं घृतम् ॥
“वृद्धिं करोति देहाग्नेर्लघु पाके विषापहम् ।
चक्षुष्यं दीपनञ्चाग्नेर्वातदोषनिवारणम् ।
वृद्धिं करोति चास्थीनां तत्प्रोक्तञ्च विषापहम् ॥”
इत्यश्वीघृतम् ॥
“कफेऽनिले योनिदोषे शोषे पित्तेषु तद्धितम् ।
सात्म्यं स्त्रीणाञ्च चक्षुष्यं सर्पिः स्यादमृतोपमम् ॥”
इति नारीघृतगुणाः ॥
“तर्पणं नेत्ररोगघ्नं दाहहृत् पयसो घृतम् ॥”
इति क्षीरोद्भवघृतम् ॥
“दोषापहं वह्निसन्धुक्षणञ्च
मूर्च्छाहिक्कोन्मादकर्णाक्षिशूले ।
शोफार्शसोर्योनिदोषे व्रणेषु
शस्तं सर्पिर्जीर्णमेव नृणां स्यात् ॥
उग्रगन्धं पुराणं स्याद्दशवर्षोषितं घृतम् ।
यथा यथा जरां याति गुणवत् स्यात्तु तत्तथा ॥”
इति जीर्णघृतगुणाः ॥
इति हारीते प्रथमे स्थानेऽष्टमेऽध्याये ॥
“स्मृतिबुद्ध्यग्निशुक्रौजःकफमेदोविवर्द्धनम् ।
वातपित्तविषोन्मादशोषालक्ष्मीज्वरापहम् ॥
सर्व्वस्नेहोत्तमं शीतं मधुरं रसपाकयोः ।
सहस्रवीर्य्यं विधिभिर्घृतं कर्म्मसहस्रकृत् ॥
मदापस्मारमूर्च्छायशोफोन्मादगरज्वरान् ।
योनिकर्णशिरःशूलं घृतं जीर्णमपोहति ॥”
इति चरके सूत्रस्थाने सप्तविंशेऽध्याये ॥
“विशेषतः पुराणञ्च घृतं तत् पाययेद्भिषक् ।
त्रिदोषघ्नं पवित्रत्वात् विशेषाद्ग्रहमोक्षणम् ॥
गुणकर्म्माधिकं स्थानादास्वादात् कष्टुतिक्तकम् ।
उग्रगन्धं पुराणं स्याद्दशवर्षस्थितं घृतम् ॥
लाक्षारसनिभं शीतं तद्धि सर्व्वग्रहापहम् ।
मेध्यं विरेचनेष्वग्य्रं प्रपुराणमतः परम् ॥
नासाध्यं नाम तस्यास्ति यत् स्याद्वर्षशतस्थितम् ।
दृष्टं स्पृष्टमथाघ्रातं तद्धि सर्व्वग्रहापहम् ।
अपस्मारुग्रहोन्मादवतां शस्तं विशेषतः ॥”
इति चरके चिकित्सासास्थाने चतुर्द्दशेऽध्याये ॥
“घृतन्तु सौम्यं शीतवीर्य्यं मृदुमधुरमल्पाभिष्यन्दि
स्नेहनमुदावर्त्तोन्मादापस्मारशूलज्वरानाहवात-
पित्तप्रशसनमग्निदीपनं स्मृतिमतिमेधाकान्ति-
स्वरलावण्यसौकुमार्य्यौजस्तेजोबलकरं आयुष्यं
वृष्यं मेध्यं वयःस्थापनं गुरु चक्षुष्यं श्लेष्माभि-
वर्द्धनं पापालक्ष्मीप्रशमनं विषहरं रक्षोघ्नञ्च ॥
विपाके मघुरं शीतं वातपित्तविषापहम् ।
चक्षुष्यमग्र्यं बल्यञ्च गव्यं सर्पिर्गुणोत्तरम् ॥
आजं घृतं दीपनीयं चक्षुष्यं बलवर्द्धनम् ।
पृष्ठ २/३९६
कासे श्वासे क्षये चापि पथ्यं पाके च तल्लघु ॥
मधुरं रक्तपित्तघ्नं गुरुपाके कफावहम् ।
वातपित्तप्रशमनं सुशीतं माहिषं घृतम् ॥
औष्ट्रं कटुरसं पाके शोफक्रिमिविषापहम् ।
दीपनं कफवातघ्नं कुष्ठगुल्मोदरापहम् ॥
पाके लघ्वाविकं सर्पिर्न च पित्तप्रकोपणम् ।
कफेऽनिले योनिदोषे शोषे कम्पे च तद्धितम् ॥
पाके लघूष्णवीर्य्यञ्च कषायं कफनाशनम् ।
दीपनं वद्धमूत्रञ्च विद्यादैकशफं घृतम् ॥
चक्षुष्यमग्र्यं स्त्रीणान्तु सर्पिः स्यादमृतोपमम् ।
वृद्धिं करोति देहाग्न्योर्लघुपाकं विषापहम् ॥
कषायं बद्धविन्मूत्रं तिक्तमग्निकरं लघु ।
हन्ति कारेणवं सर्पिः कफकुष्ठविषक्रमीन् ॥”
क्षीरघृतं पुनः संग्राहि रक्तपित्तभ्रममूर्च्छा-
प्रशमनं नेत्ररोगहितञ्च । सर्पिर्मण्डस्तु मधुरः सरो
योनिश्रोत्राक्षिशिरसां शूलघ्नो वस्तिनस्याक्षि-
प्रपूरणेषूपदिश्यते । सर्पिः पुराणं सरं कटु-
विपाकं त्रिदोषापहं मूर्च्छामेदोन्माद उदर-
ज्वरगरशोफापस्मारयोनिश्रोत्राक्षिशिरःशूलघ्नं
दीपनं बस्तिनस्याक्षिपूरणेषूपदिश्यते । भवन्ति
चात्र ।
“पुराणं तिमिरश्वासपीनसज्वरकासनुत् ।
मूर्च्छाकुष्ठविषोन्मादग्रहापस्मारनाशनम् ॥
एकादशशतञ्चैव वत्सरानुषितं घृतम् ।
रक्षोघ्नं कुम्भसर्पिः स्यात् परतस्तु महाघृतम् ॥
पेयं महाघृतं भूतैः कफघ्नं पवनाधिकैः ।
बल्यं पवित्रं मेध्यञ्च विशेषात्तिमिरापहम् ॥
सर्व्वभूतहरञ्चैव घृतमेतत् प्रशस्यते ॥”
इति सुश्रुते सूत्रस्थाने ४५ अध्याये ॥ * ॥
क्ली, सलिलम् । इति मेदिनी । ते । १७ ॥)

घृतः, त्रि, (जघर्त्ति दीप्यते घरति सिञ्चतीति

वा । घृ + “अञ्जिघृसिभ्यः क्तः ।” उणां । ३ ।
८९ । क्तः ।) दीप्तः । सेचकः । इति शब्दरत्ना-
वली ॥

घृतकरञ्जः, पुं, (घृतमिव करञ्जः । घृतवद्रस-

बाहुल्यादस्य तथात्वम् ।) करञ्जभेदः । घिया-
करम्चा इति भाषा ॥ तत्पर्य्यायः । प्रकीर्य्यः २
घृतपर्णकः ३ स्निग्धपत्रः ४ तपस्वी ५ विषारिः ६
विरोचनः ७ । अस्य गुणाः । कटुत्वम् । उष्ण-
त्वम् । वातव्रणसर्व्वत्वग्दोषविषस्पर्शनाशित्वञ्च ।
इति राजनिर्घण्टः ॥

घृतकुमारिका, स्त्री, (घृतेन घृतसदृशरसेन

कुमारिका मुन्दरी बालिकेव वा । गृहपाल्य-
लात् तथात्वम् ।) घृतकुमारी । इति भाव-
प्रकाशः ॥ (यथास्थाः पर्य्यायाः ।
“कुमारी गृहकन्या च कन्या घृतकुमारिका ॥”
गुणाश्च यथा, --
“कुमारी भेदिनी शीता तिक्ता नेत्र्या रसायनी ।
मधुरा बृंहणी बल्या वृष्या वातविषप्रनुत् ॥
गुल्मप्लीहयकृद्वृद्धिकफज्वरहरी हरेत् ।
ग्रन्थ्यग्निदग्धविस्फोटपित्तरक्तत्वगामयान् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

घृतकुमारी, स्त्री, (घृतेन घृतवद्रसेन कुमारी

सुन्दरी । यद्वा कुमारी कन्येव । गृहे पालित-
तया तथात्वम् ।) स्वनामख्यातगुल्भः । धिकु-
मारी इति भाषा । तत्पर्य्यायः । कुमारी २
तरणिः ३ सहा ४ । इति शब्दरत्नावली ॥
कन्यका ५ दीर्घपत्रिका ६ स्थलेरुहा ७ मृदुः ८
कन्या ९ बहुपत्रा १० अमरा ११ अजरा १२
कण्टकप्रावृता १३ वीरा १४ भृङ्गेष्टा १५ विपु-
लास्रवा १६ ब्रह्मघ्नी १७ तरुणी १८ रामा १९
कपिला २० अम्बुधिस्रवा २१ सुकण्टका २२
स्थूलदला २३ गृहकन्या २४ । अस्या गुणाः ।
हिमत्वम् । तिक्तत्वम् । मदगन्धित्वम् । कफपित्त-
कासविषश्वासकुष्ठनाशित्वम् । रसायनत्वञ्च ।
इति राजनिर्घण्टः ॥ भेदकत्वम् । नेत्रहित-
त्वम् । मधुरत्वम् । बृंहणत्वम् । शुक्रबलकारि-
त्वम् । वातगुल्मप्लीहयकृत्वृद्धिज्वरग्रन्थ्यग्निदग्ध-
विस्फोटपित्तरक्तत्वग्रोगनाशित्वञ्च । इति भाव-
प्रकाशः ॥ (कुमारीशब्दे विवरणमस्या ज्ञेयम् ॥)

घृततैलादिकल्पः, पुं, (घृततैलादीनां रोगविना-

शकपक्वघृततैलादीनां कल्पो बिधिः ।) रोग-
नाशकनानौषधिपक्वघृततैलादिवर्गः । यथा ।
धन्वन्तरिरुवाच ।
“घृततैलादि वक्ष्यामि शृणु सुश्रुत ! रागनुत् ।
शङ्खपुष्पी वच सोमा ब्राह्मी ब्रह्मसुवर्च्चला ॥
अभया गुडुची चैव अटरूषकवाकुची ।
एतैरक्षसमैर्भागैर्घृतप्रस्थं विपात्तयेत् ॥
कण्टकार्य्या रसप्रस्थक्षीरप्रस्थसमन्वितम् ।
एतद्ब्राह्मीघृतं नाम श्रुतिमेधाकरं परम् ॥ १ ॥
त्रिफलाचित्रकबलानिर्गुण्डीनिम्बवासकाः ।
पुनर्नवा गुडूची च बृहती च शतावरी ॥
एतैर्घृतं यथालाभं सर्व्वरोगविमर्द्दनम् ॥ २ ॥
बलाशतकषाये तु तैलस्यार्द्धाढकं पचेत् ॥
कल्कैर्म्मधुकमञ्जिष्ठाचन्दनोत्पलपद्मकैः ।
सूक्ष्मैलापिप्पंलीकुष्ठत्वगेलागुरुकेशरैः ॥
गन्धाश्मजीवनीयैश्च क्षीराढकसमाश्रितम् ।
एतन्मृद्वग्निना पक्वं स्थापयेद्रजते शुभे ॥
सर्व्ववातविकारांस्तु सर्व्वधात्वन्तराश्रयान् ।
तैलमेतत् प्रशमयेद्बलाख्यं राजवल्लभम् ॥ ३ ॥
शतावरीरसप्रस्थं क्षीरप्रस्थं तथैव च ।
शतपुष्पा देवदारु मांसी शैलेयकं बला ॥
चन्दनं तगरं कुष्ठं माला चांशुमती तथा ।
एतैः कर्षसमैः कल्कैस्तैलप्रस्थं विपाचयेत् ॥
कुब्जवामनपङ्गूनां वधिरव्यङ्गकुष्ठिनाम् ।
वायुना भग्नगात्राणां ये च सीदन्ति मैथुने ॥
जराजर्ज्जरत्राणामाध्मानमुखशोषिणाम् ।
त्वग्गताश्चापि ये वाताः शिरास्नायुगताश्च ये ॥
सवस्तिं नाशयत्याशु तैश्चैव स्याद्दशाङ्गकम् ।
नारायणमिदं तैलं विष्णुनोक्तं रुगर्द्दनम् ॥ ४ ॥
पृथक् तैलं धृतं कुर्य्यात् समस्तैरौषधैः पृथक् ।
शतावर्य्या गुडूच्या वा चित्रकै रोचनायुतः ॥
निर्गुण्ड्या वा प्रसारण्याः कण्टकार्य्या रसा-
दिभिः ॥
वर्य्या वानलया वापि वासकेन फलत्रिकैः ।
ब्राह्म्या चैरण्डकेनापि भृङ्गराजेन मुण्डिना ॥
मूषल्या दशमूलेन खदिरेण वटादिभिः ।
वटिका मोदको वापि चूर्णं स्यात् सर्व्वरोगनुत् ॥
घृतेन मधुना वापि युक्तं खण्डगुडादिभिः ।
लवणैः कटुकैर्युक्तं यथालाभञ्च रोगनुत् ॥ ५ ॥
चित्रकर्कारुत्रिवृतामलघ्नहयमारकम् ।
सुधाञ्च बालागणिकासप्तपर्णसुवर्च्चिकाम् ॥
ज्योतिष्मतीञ्च संभृज्य तैलं धीरो विपाचयेत् ।
एतन्निस्यन्दनं तैलं भृशं दद्याद्भगन्दरे ॥
शोधनं रोचनञ्चैव सर्व्ववर्णकरं परम् ।
चित्रकाद्यं महातैलं सर्व्वरोगप्रभञ्जनम् ॥ ६ ॥
अजमोदा ससिन्दूरा हरितालं निशाद्वयम् ।
क्षारद्वयं फेनयुतमार्द्रकं सरलोद्भवम् ।
इन्द्रवारुण्यपामार्गकदलैः कन्दलैः समैः ॥
एभिः सर्षपजं तैलमजमूत्रैश्च योजितम् ।
मृद्वग्निना पचेदेतदर्कक्षीरेण संयुतम् ॥
अजमोदादिकं तैलं गण्डमालां व्यपोहति ।
विदग्धस्तु पचेत् पक्वं पक्वञ्चैव विशोधयेत् ॥
रोपणं मृदुभावञ्च तैलेनानेन कारयेत् ।
अजमोदादिकं तैलं महावीर्य्यञ्च रोगनुत् ॥” ७ ॥
इत्यादिमहापुराणे गारुडे १७८ अध्याये ॥

घृतदीधितिः, पुं, (घृतेन प्रदीप्ता दीघितिः किरणं

यस्य । घृताहुत्या अग्निवर्द्धनादेव तथात्वम् ।)
अग्निः । इति त्रिकाण्डशेषः ॥

घृतपर्णकः, पुं, (घृतयुक्तमिव पर्णं पत्रं यस्य ।

कप् ।) घृतकरञ्जः । इति राजनिर्घण्टः ॥

घृतपूरः, पुं, (घृतेन पूर्य्यते इति । पुरी ङ य

पूर्त्तौ + कर्म्मणि अप् । प्रचुरघृतपाच्यत्वादेवास्य
तथात्वम् ।) पिष्टकविशेषः । यथाह राजवल्लभः ।
“मर्द्दितां समितां क्षीरनारिकेलघृतादिभिः ।
अवग्राह्य घृते पक्त्रा घृतपूरोऽयमुच्यते ॥
घृतपूरो गुरुर्वृष्यः कफकृद्रक्तमांसदः ।
रक्तपित्तहरो हृद्यः स्वादुः पित्तहरोऽग्निदः ॥”
तत्पर्य्यायः । पिष्टपूरः २ घृतवरः ३ घार्त्तिकः ४ ।
इति हेमचन्द्रः । ३ । ६४ ॥ (अस्य पाक-
प्रकारादि यदुक्तं चिन्तांमणौ ।
“क्षीरेण मर्द्दितं चूर्णं गोघूमानां सुगालितम् ।
विस्तार्य्य सर्पिषा पाच्यं कटाहेऽथ सितान्वितम् ॥
घृतपूरोऽयमुद्दिष्टः कर्पूरमरिचान्वितः ॥”
नारिकेलजो यथा, --
“समिता मर्द्दिता क्षीरे नारिकेलसितार्द्रकैः ।
अवगाह्य घृते पाच्या घृतपूरोऽपरः स्मृतः ॥”
दुग्धजो यथा, --
“पाकपिण्डीकृतं क्षीरं शर्कराचूर्णमिश्रितम् ।
घृतपूरविनिर्म्माणं कारयेत् स्वल्पसर्पिषि ॥”
शालिभवो यथा, --
“सुशालिपिष्टं दुग्धन्तु कथितं वस्त्रगालितम् ।
खण्डयुक्तं घृते पक्वं घृतपूरो भवेदयम् ॥”
कशेरुभवो यथा, --
“कशेरुचूर्णं निःक्षिप्य पाकपिण्डीकृतं पयः ।
निर्म्माणं घृतपूराणां शर्करासहितं भवेत ॥”
पृष्ठ २/३९७
आम्रजो यथा, --
“पक्वाम्रस्य घृते तप्ते रसस्त्वनलपिण्डितः ।
शुद्धशर्करया योज्यो घृतपूरो यदृच्छया ॥
क्षीरमाद्यं स्वरूपं हि खण्डं चूर्णं ततः स्मृतम् ।
योजिते यो विशेषोऽत्र तदाख्यास्वर्णसंज्ञितः ॥
घृतपूरो गुरुर्हृष्यो हृद्यः पित्तानिलापहः ।
सद्यः प्राणप्रदो बल्यः सुरुच्योऽग्निप्रदीपनः ॥
शृङ्गाटकसुखानामप्येवं स्यात् घृतपूरकः ।
विचार्य्य वस्तुसंयोगं तद्गुणानपि चाहरेत् ॥”)

घृतपूर्णकः, पुं, (घृतेन पूर्ण इव कायतीति । कै +

कः ।) करञ्जवृक्षः । इति त्रिकाण्डशेषः ॥

घृतमण्डलिका, स्त्री, (घृतस्य मण्डलं समूहः ।

तदिव निर्य्यासः अस्या अस्यां वा अस्तीति ।
घृतमण्डल + “अत इनिठनौ ।” ५ । २ ।
११५ । इति ठन् ।) हंसपदीवृक्षः । इति
राजनिर्घण्टः ॥

घृतमण्डा, स्त्री, (घृतमण्डवत् निर्य्यासोऽस्त्यस्याः ।

“अर्श आदिभ्योऽच् ।” ५ । २ । १२७ । इत्यच् ।)
वायसोलीवृक्षः । इति शब्दचन्द्रिका ॥ माकड-
हाता इति भाषा ॥

घृतवरः, पुं, (घृतमेव वरं बाहुल्यात् प्रधानं यत्र ।)

घृतपूरः । इति हेमचन्द्रः । ३ । ६४ ॥

घृता, स्त्री, (घृतवत् निर्य्यासोऽस्त्यास्याः । “अर्श

आदिभ्योऽच् ।” ५ । २ । १२७ । इत्यच् ।)
घृतमण्डा । इति शब्दचन्द्रिका ॥

घृताची, स्त्री, (घृतेन अमृतेन अञ्चति तृप्तिं गच्छ-

तीति । अन्च + क्विप् । नलोपे स्त्रियां ङीप् ।
सर्व्वथा मनुष्याहारवर्ज्जितानां देवजातीनां
ह्यमृतमयघृतभोजनं महाभारतपुराणादिप्रसि-
द्धम् ।) अप्सरोविशेषः । इति हलायुधः ॥ (यथा,
विष्णुपुराणे । १ । ९ । १०१ ।
“घृताचीप्रमुखा ब्रह्मन् ननृतुश्चाप्सरोगणाः ॥”
गायत्त्रीस्वरूपा महादेवी । यथा, देवीभाग-
वते । १२ । ६ । ४६ ।
“घनारिमण्डला घूर्णा घृताची घनवेगिनी ॥”)

घृताचीगर्भसम्भवा, स्त्री, स्थूलैला । इति राज-

निर्घण्टः ॥

घृताह्वः, पुं, (घृतस्य आह्वा आख्या यस्य । यद्वा,

घृतेन आह्वयते स्पर्द्धते स्वगन्धेन इति । आ
+ ह्वे + कः ।) सरलद्रवः । इति त्रिकाण्डशेषः ॥

घृतेली, स्त्री, (घृते इलति तद्भक्षणाय तत्र स्वपि-

तीति । इल स्वप्ने + अच् । गौरादित्वात् ङीष् ।)
कीटविशेषः । तैलपायिका इति केचित् ॥ तत्-
पर्य्यायः । पिङ्गकपिशा २ । इति हेमचन्द्रः ।
४ । २७३ ॥

घृतोदः, पुं, (घृतमिव स्वादु आकृत्या शुभ्रं वा उदकं

यस्य । उदकस्योदादेशः ।) घृतसमुद्रः । यथा,
“एवं सुरोदाद्वहिस्तद्दिगुणः समानेन घृतोदेन
यथा पूर्ब्बः कुशद्वीपः ।” इति श्रीभागवते । ५ । १३ ॥

घृष, उ संघर्षे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

सकं-सेट् । उदित्वात् क्त्वावेट् ।) उ, घर्षित्वा
घृष्ट्वा । घर्षति चन्दनं लोकः । इति दुर्गादासः ॥

घृष्टः, त्रि, (घृष् + कर्म्मणि क्तः ।) घर्षितः । घषा

इति भाषा ॥ यथा । घृष्टो मलयजो गन्धः ।
इति शुद्धितत्त्वम् ॥ (यथात्त काशीखण्डे । १९ । ५६ ।
“घातुका घूर्णितजला घृष्टपातकसन्ततिः ॥”)

घृष्टिः, स्त्री, (घृष्यतेऽसौ । घृष् + कर्म्मणि क्तिच् ।)

वाराही । चामर आलु इति भाषा ॥ इत्य-
मरः । २ । ४ । १५१ ॥ (घृष् + भावे क्तिन् ।)
घर्षणम् । स्पर्द्धा । अपराजिता । (घर्षतीति ।
घृष् + कर्त्तरि क्तिच् ।) शूकरे पुं, । इति
मेदिनी । टे । १३ ॥

घृष्ठिला, स्त्री, (घृष्टिं घर्षणं लातीति । ला + कः ।)

चित्रपर्णिका । पृश्निपर्णी । इति रत्नमाला ॥

घृष्विः, पुं स्त्री, (घर्षति इति । घृष संघर्षे +

“कृविघृष्विच्छवीति ।” उणां । ४ । ५६ । इति
क्विन्प्रत्ययेन निपातनात् सिद्धः ।) शूकरः ।
इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥ (भावे +
क्विन् । घर्षणम् । यथा, ऋग्वेदे । १ । ३७ । ४ ।
“प्रवः शर्द्धाय घृष्वये ।” “घृष्वये शत्रुघर्षण-
युक्ताय ।” इति भाष्यम् ॥)

घेञ्चुलिका, स्त्री, क्रौञ्चादनम् । इति रत्नमाला ॥

घेँचु इति भाषा ॥ (यथा, वैद्यकरत्नमालायाम् ।
“क्रौञ्चादनं घेञ्चुलिका ॥”)

घोटः, पुं, स्त्री, (घोटते परिवर्त्तते इति । घुट परि-

वर्त्तने + पचाद्यच् ।) घोटकः । इति राज-
निर्घण्टः ॥

घोटकः, पुं, स्त्री, (घोटते गत्वा प्रत्यागच्छतीति ।

घुट परिवर्त्तने + ण्वुल् ।) पशुविशेषः । घोडा
इति भाषा ॥ तत्पर्य्यायः । पीतिः २ तुरगः ३
तुरङ्गः ४ अश्वः ५ तुरङ्गमः ६ वाजी ७ वाहः ८
अर्व्वा ९ गन्धर्व्वः १० हयः ११ सैन्धवः १२
सप्तिः १३ । इत्यमरः । २ । ८ । ४४ ॥
घोटः १४ पीती १५ पीथिः १६ । इति
भरतः ॥ तार्क्ष्यः १७ हरिः १८ वीती १९ ।
इति हेमचन्द्रः ॥ मुद्गभोजी २० धाराटः २१
जवनः २२ जितवः २३ जवी २४ वाहनश्रेष्ठः २५
श्रीभ्राता २६ अमृतसोदरः २७ । मुद्गभुक् २८
शालिहोत्रः २९ लक्ष्मीपुत्त्रः ३० प्रकीर्णकः ३१ ।
इति जटाधरः ॥ वातायनः ३२ श्रीपुत्त्रः ३३
चामरी ३४ हेषी ३५ शालिहोत्री ३६ मरु-
द्रथः ३७ वाजस्कन्धः ३८ हरिद्राक्तः ३९ एक-
शफः ४० किन्धी ४१ ललामम् ४२ विमानकः ४३ ॥
इति शब्दरत्नावली ॥ अत्यः ४४ वह्निः ४५
दधिक्रा ४६ दधिक्रावा ४७ एतग्वः ४८ एतशः ४९
पैद्वः ५० दौर्गहः ५१ उच्चैःश्रवसः ५२ आशुः ५३
व्रध्नः ५४ अरुषः ५५ मांश्चत्वः ५६ अव्यथयः ५७
श्येनासः ५८ सुपर्णाः ५९ पतङ्गाः ६० नरः ६१
ह्वार्य्याणाम् ६२ हंसास्यः ६३ । इति वेद-
निघण्टौ १ अध्यायः ॥ हरी इन्द्रस्य १ रोहितः
अग्नेः २ हरितः आदित्यस्य ३ रासभौ अश्विनोः ४
अजाः पूष्णः ५ पृषत्यो मरुताम् ६ अरुण्यो
गावः उषसाम् ७ श्यावाः सवितुः ८ विश्वरूपा
बृहस्पतेः ९ नियुतो वायोः १० । इति दशा-
दिष्टोपयोजनानि । इति च वेदनिघण्टौ १
अध्यायः ॥ अस्य मांसगुणाः । उष्णत्वम् । वात-
नाशित्वम् । लघुगुरुत्वम् । अतिसेवनात् पित्त-
दाहप्रदत्वञ्च । इति राजनिर्घण्टः ॥ अग्निकफ-
बलकारित्वम् । बृंहणत्वम् । चक्षुर्हितत्वम् ।
मधुरत्वञ्च । इति भावप्रकाशः ॥ * ॥
अथाश्वपरीक्षा ।
“सपक्षा वाजिनः पूर्ब्बं संजाता व्योमचारिणः ।
गन्धर्व्वेभ्यो यथाकामं गच्छन्ति च समन्विताः ॥
इन्द्रादेशाच्छालिहोत्रस्तेषां पक्षमथाच्छिनत् ।
ततः प्रभृति निष्पक्षास्तुरङ्गा धरणीं गताः ॥
उत्तमा मध्यमा नीचाः कनीयांसस्तथापरे ।
चतुर्द्धा वाजिनो भूमौ जायन्ते देशसंश्रयात् ॥
ताजिताः खुरशालाश्च तुषाराश्चोत्तमा हयाः ।
गोजिकाणाश्च केकाणाः प्रौढाहाराश्च मध्यमाः ॥
ताडजा उत्तमाशाश्च वाजशूलाश्च मध्यमाः ।
गत्वराः साध्यवासाश्च सिन्धुदाराः कनीयसः ॥
अन्यदेशोद्भवा ये च ते वै नीचाः प्रकीर्त्तिताः ।
वाजिनो जलजाः केचिद्वह्निजातास्तथापरे ॥
समीरप्रभवाश्चान्ये तुरगा मृगजाः परे ।
जलोद्भवा द्विजा ज्ञेयाः क्षत्त्रिया वह्निसम्भवाः ॥
प्रभञ्जनभवा वैश्या मृगजाः शूद्रजातयः ।
पुष्पगन्धिर्भवेद्विप्रः क्षत्त्रियोऽगुरुगन्धिकः ॥
घृतगन्धो भवेद्वैश्यो मीनामोदी च शूद्रकः ।
विवेकी सघृणो विप्रस्तेजस्वी क्षत्त्रियो बली ॥
कोष्णभावो भवेद्वैश्यः शूद्रो निःसत्त्वको भवेत् ।
विप्राद्या वाहनाः सर्व्वे त्रयो भूमिपतेः सदा ॥
शूद्रजातिं तुरङ्गन्तु न स्पृशन्ति नरेश्वराः ॥”
इत्युत्पत्तिः ॥ * ॥
अथाङ्गुल्याङ्गविभागः ।
“सप्तविंशत्यङ्गुलिभिर्मुखमानं विधीयते ।
कर्णौ षडङ्गुलौ प्रोक्तौ भालकं चतुरङ्गुलम् ॥
चत्वारिंशच्च सप्ताढ्या स्कन्धः संपरिकीर्त्तितः ।
पृष्ठवंशश्चतुर्व्विंशः सप्तविंशा तथा कटी ॥
इति सूक्ष्मं तथा निम्नं प्रतिपुच्छं द्वयाधिकम् ।
लिङ्गं हस्तप्रमाणन्तु तथाण्डौ चतुरङ्गुलौ ॥
मध्यस्थानं चतुर्व्विंशं हृदयं षोडशात्मकम् ।
कटिकुक्ष्यन्तरं प्राक्तं चत्वारिंशत् प्रमाणतः ॥
मणिबन्धद्वयञ्चैव वुराश्च चतुरङ्गुलाः ।
अशीत्यङ्गुलिकाः पादा दीर्घा विंशाधिका मताः ॥”
इत्यङ्गुलिविभागः ॥ * ॥
अथ वयोविभागः ।
“दन्तेषु व्यञ्जनं यद्वत्तेन ज्ञेयो वयःक्रमः ॥”
तद्यथा, --
“कालिका हरिणी शुक्ला काचा मक्षिकया सह
शङ्खो मुषलकञ्चैव दन्तानां चलता तथा ।
इत्यष्टौ व्यञ्जनान्याहुरथैषां लक्षणं शृणु ॥
चतुर्भिर्वत्सरैर्द्दन्ताश्चत्वारः परिकीर्त्तिताः ।
पञ्चभिश्च षडित्येवं जायन्ते त्वथ कालिकाः ॥
षष्ठे संवत्सरे प्राप्ते कालिकान्या भवेत्तु हि ।
तथान्या सप्तमे वर्षे चतुर्थी कालिका भवेत् ॥
अष्टमे वतसरे प्राप्ते जायन्ते सर्व्वकालिकाः ।
पृष्ठ २/३९८
नवमे त्वथ ताः सर्व्वा आपीताः सम्भवन्ति च ॥
केचिदेकादशे वर्षे तावत् पीतत्वमागताः ।
ततः श्वेताः प्रजायन्ते चतुर्द्दशसमावधि ॥
ततः काचप्रभाः सम्यक् यावत् संवत्सरास्त्रयः ।
ततः सप्तदशादूर्द्ध्वं यावद्बर्षाणि विंशतिः ॥
मक्षिकाभां वदन्त्येषां यावद्वर्षत्रयं पुनः ।
शङ्खाभासाः सर्व्वदन्ता भवन्ति वाजिनां ततः ॥
त्रयोविंशात् परे वर्षे दशना मुषला मताः ।
षड्विंशात् परतो दन्ताः स्थानाच्चलनमाप्नुयुः ॥
यावद्बर्षत्रयं पश्चान्निपतन्ति समात्रये ।
द्बात्रिंशद्वत्सरे वाजी नूनं निर्व्वाणमाप्नुयात् ॥”
अथ शुभलक्षणानि ।
“दीर्घाः शुष्का विशालास्या ये भवन्ति तुरङ्गमाः ।
ते शस्ताः पार्थिवेन्द्रस्य यानवाहनकर्म्मणि ॥
आस्यं भुजौ चापि कृकाटिका च
दीर्घं चतुष्कं तुरगस्य शस्तम् ।
तथोन्नते घ्राणपुटे ललाटे
कफश्च वाजिप्रवरस्य बोध्यः ॥
श्रोत्रे च मणिबन्धश्च पुच्छं कोष्ठं लघूत्तमम् ।
पीताङ्गः श्वेतपादो यो यश्च स्यात् सितलाचनः ॥
चक्रवाकः स विज्ञेयो राजार्हः प्रियसत्तमः ।
मुखे चन्द्रकसम्बीतः पक्वजम्बूफलाकृतिः ॥
श्वेतपादः स विज्ञेयो मल्लिकाख्यः सुपूजितः ।
सर्व्वश्वेतो हयो यस्तु श्यामैकश्रवणो भवेत् ।
स वाजी वाजिमेधार्हः श्यामकर्णः सुदुर्लभः ॥
यस्य पादाः सिताः सर्व्वे पुच्छो मुष्को मुखं तथा ।
मूर्द्ध्वजास्तु सिता यस्य तम्बिद्यादष्टमङ्गलम् ॥
यस्य पादाः सिताः सर्व्वे चन्द्रकञ्च ललाटके ।
कल्याणपञ्चकः प्रक्तो भर्त्तुः कल्याणकारकः ॥
विमिश्रवर्णकाः सर्व्वे प्रशस्ता वाजिनो मताः ।
यस्योत्कृष्टतरा वर्णा वृद्धिं यान्ति शनैः शनैः ॥
नाशयन्ति तथा नीचान् करोति स बहून् हयान् ॥”
अथावर्त्तगुणाः ।
“रोम्णां भ्रमिवदावृत्तिरावर्त्त इति गद्यते ।
षड्विधो दक्षिणो वामो दक्षिणस्तु शुभावहः ॥
नासिकाग्रे ललाटाग्रे शङ्खे कण्ठे च मस्तके ।
आवर्त्तो जायते येषां ते घन्यास्तु तुरङ्गमाः ॥
ललाटे यस्य चावर्त्तो द्वितीयस्तु कुकुन्दरे ।
मस्तके च तृतीयस्तु स विज्ञेयो हयोत्तमः ॥
गण्डावर्त्तो भवेद् यस्य वाजिनो दक्षिणाश्रयः ॥
स करोति महासौख्यं स्वामिनः शिवसंज्ञितः ।
कर्णमूले यदावर्त्तः स्तनमध्ये तथापरः ।
विजयाख्यावुभौ तौ तु युद्धकाले जयप्रदौ ॥
स्कन्धपार्श्वे यदावर्त्तः स भवेत् सुखकारकः ।
नासामध्ये यदावर्त्त एको वा यदि वा त्रयः ॥
चक्रवर्त्ती स विज्ञेयो वाजी भूपालभूषितः ।
कण्ठे यस्य महावर्त्तः प्रोक्तश्चिन्तामणिः शुभः ॥
रोम्णां वृश्चिकवत् स्थानं शुक्तिरित्यभिधीयते ।
यत्रावर्त्तः शुभस्तत्र शुक्तिस्तत्र शुभावहा ॥” * ॥
अथ दोषाः ।
“चत्वारोऽप्यसिताः पादाः सर्व्वश्वेतस्य वाजिनः ।
भवन्ति यस्य स त्याज्यो यमदूतः सुदूरतः ॥
चत्वारो यस्य वै पादाः परस्परविवर्णकाः ।
स त्याज्यो मुषली नाम्ना मुनिभिः कुलनाशनः ॥
दुर्ल्लक्ष्मवाजिनं जह्या यदीच्छेः शाश्वतीं श्रियम् ।
यस्तु वर्णविभेदेन ज्ञायते रोमसम्भवात् ॥
पुष्पाख्यः स परित्याज्यः सर्व्ववाजिभयावहः ।
यस्यावशेषवर्णेन छाद्यते च प्रधानतः ॥
विवृद्धिं गच्छतः सोऽश्वः कुरुते हयसंक्षयम् ।
इति स्कन्धे गले चैव कटिदेशे तथैव च ॥
नाभौ कुक्षौ च पार्श्वांशे मध्यमः स प्रकीर्त्तितः ।
एको वामकपोलस्थो यस्यावर्त्तः प्रदृश्यते ॥
चर्व्वणी स हयस्त्याज्यः कुरुते स्वामिनाशनम् ।
वामगण्डाश्रयावर्त्तः प्रकरोति धनक्षयम् ॥
कक्षान्ते यस्य चावर्त्तः स मृत्युं कुरुते विभोः ।
क्लेशं जानुगतावर्त्तः प्रवासं कुरुतेऽथवा ॥
वाजी मेढ्रगतावर्त्तो वर्ज्जनीयो महीभुजा ।
त्रिबलिप्रभवावर्त्तस्त्रिवर्गस्य प्रणाशकः ॥
पृष्ठवंशे यदावर्त्त एकः संपरिलक्ष्यते ।
धूमकेतुरिति ख्यातः स त्याज्यो दूरतो नृपैः ॥
गुह्ये पुच्छे बलौ यस्य भवन्त्यावर्त्तकास्त्रयः ।
स कृतान्तस्तु रूपेण वर्ज्जनीयस्तुरङ्गमः ॥
अघोर्द्ध्वञ्च यदा वाजी सम्पुटं न स्पृशेत् क्वचित् ।
यमदूतः स विज्ञेयो वर्ज्जनीयस्तुरङ्गमः ।
हीनदन्तोऽधिकश्चैव कराली कृष्णतालुकः ।
मुषली च तथा शृङ्गी षडेते घातकाः स्मृताः ॥
तत्राद्यौ विदितार्थौ तु शेषाणां लक्षणं शृणु ।
त्रयः पादाः सिता यस्य कृष्णश्चैकोऽभिजायते ॥
त्रयो वाप्यसिता यस्य एकः शुक्लोऽभिजायते ।
मूषली नाम पापोऽयं दूरे त्याज्यो हयाघमः ॥
विकटो विषमो यस्य दशनः स करालकः ।
कराली कुरुते नाशं भर्त्तुरत्र न संशयः ॥
कृष्णतालुर्हयो नाशं कुरुते नात्र संशयः ।
विषदन्तो भवेद्यस्तु कृष्णतालुर्न दुष्यते ॥
कर्णान्ते चूलिकान्ते च शृङ्गवल्लक्ष्यते यदि ।
स शृङ्गी कुरुते नाशं राष्ट्रस्य च कुलस्य च ॥
एकाण्डोऽजातकाण्डश्चहीनाण्डोऽभ्यधिकाण्डकः ।
घण्टी च कम्बली चैव षडेते पापकृत्तमाः ॥” * ॥
अथारिष्टम् ।
“सुस्थस्यापि च नेत्रान्ते स्यातां नीले च वाजिनः ।
तथैव तस्य जानीयाद्भवेन्मृत्युर्द्विवार्षिकी ॥
नीलपीते च नेत्रान्ते त्रिभिर्मासैर्वपुःक्षयः ।
यस्य नेत्रान्तरे रेखा बहुवर्णा प्रजायते ॥
विशेषाद्वाजिनो ज्ञेयं तस्यायुः पञ्चमासिकम् ।
जिह्वायां जायते विन्दुरकस्माद्यदि वाजिनः ॥
मासैकं जीवितं तत्र पीते मासद्वयन्तथा ।
रक्ते मृत्युस्त्रिभिर्मासैश्चतुर्भिश्च विचित्रके ॥
पञ्चभिर्नीलवर्णे च षड्भिर्वभ्रुसमाकृतौ ।
सप्तभिः पाटलाकारे चणकाभे तथाष्टभिः ॥
नवभिश्च हरिद्राभे दशभिर्जतुकोपमे ।
एकादशे सुवर्णाभे वत्सरेण हिमद्युतौ ॥
यस्य श्वासो भवेदुष्णः शरीरं पुलकाङ्कितम् ।
जिह्वा हि मलिनाकारा मासषट्कं स जीवति ॥
जिह्वाग्रे पिडका यस्य पादान्ते च तथोदरे ।
मूत्रं करोति रक्तम्बा मासषट्कं स जीवति ॥
कर्णयोः क्षतजं यस्य नेत्राभ्यां वा प्रवर्त्तते ।
वाजिनः पित्तग्रस्तस्य दशमासान् स जीवति ।
यस्य नेत्रे हरिद्राभे यस्य वातार्दितस्य च ।
तस्यायुः सप्तमासीयं बहुवर्णे तथा दिनैः ॥
यस्यैकं लोचनं हीनं द्वितीयं रक्तसन्निभम् ।
पुटान्ते च स विज्ञेयः पीताभे मासजीवकः ॥”
एतानि अरिष्टानि रक्तदोषजानि ।
“स्फुलिङ्गा यस्य दृश्यन्ते पुच्छतोऽश्वस्य वह्निजाः ।
निर्गच्छन्तः प्रभोर्नाशं ते वदन्ति निशागमे ॥
अश्वशालां समासाद्य यदा च मधुमक्षिकाः ।
मधुजालं प्रबध्नन्ति तदाश्वान् घ्नन्ति कृत्स्नशः ॥”
अथ हयक्रियाकालः ।
“स्ववरुणगुरुपार्श्वास्येषु भौमार्कवारे
स्वतिथिकरणताराचन्द्रयोगोदयेषु ।
शुभमिह हयकार्य्यं कार्य्यमार्य्येण बुद्धा
न शनिरविकुजानां वासरे नोग्रतारे ॥”
इति कालः ॥ * ॥
अथ हयारोहणज्ञानम् ।
“चलकिशलयपादः कर्णमध्यैकदृष्टि-
र्नचलति कटिदेशः श्वासने संस्थितो यः ।
हयहृदयगतिज्ञः स्थानदण्डावपातः
स खलु तुरगयाता पूज्यते पार्थिवेन्द्रैः ॥
मेरुः स्थिरौ यस्य चलौ च पादौ
त्रिकोन्नतं संहतमासनञ्च ।
स वाजिवाहः प्रथितः पृथिव्यां
शेषा नरा भारकरा हयानाम् ॥ * ॥
तत्र ताडनविधिः ।
“रक्तकोष्ठे मुखे चौष्ठे गले पुच्छे च ताडयेत् ।
भीते वक्षःस्थलं हन्याद्वक्त्रं चोन्मार्गगामिनः ॥
कुपिते पुच्छसंस्थानं भ्रान्ते जानुद्बयं तथा ।
सर्व्वस्याप्राप्तदण्डस्य दण्डमेकं निपातयेत् ॥
अस्थानदण्डपाताच्च बहुदोषः प्रजायते ।
तस्मान्निरीक्ष्य कर्त्तव्यं हये दण्डनिपातनम् ॥” * ॥
अथ घावनविधिः ।
“हस्तैश्चतुर्व्विंशतिभिर्द्धनुर्द्दण्ड उदाहृतः ।
अक्ष्णोर्निमेषणान्यष्टौ मात्रा प्रोक्ता विचक्षणैः ॥
मात्राषोडशकेनाश्वो यो धावति धनुःशतम् ।
तमुत्तमोत्तमं विद्याद्वायुवेगं महाजवम् ॥
विंशत्या मध्यम्ये ज्ञेयो ह्यतोऽन्ये चाधमा मताः ।
नभस्याश्वयुजे मासि नैवाश्वान् वाहयेन्नृपः ॥
वज्राग्निसदृशं पित्तं श्रमात् कुप्यति वाजिनाम् ।
कार्य्येण महता वापि योज्यो मासि तु कार्त्तिके ॥
हेमन्ते शिशिरे योगो वसन्ते च यदृच्छया ।
बालं वृद्धं कृशं रुग्नं दत्तस्नेहं वृहद्वलिम् ॥
पूर्णातिरिक्तकोष्ठञ्च गुर्व्विणीञ्च न वाहयेत् ॥ * ॥
अथ रक्तमोक्षणविधिः ।
“द्वासप्ततिसहस्राणि नाडीनां सम्भवन्ति हि ।
वाजिनामिह सर्व्वेषामाशु रक्तं व्यवस्थितम् ॥
तासां निर्मोक्षणार्थाय द्वाराण्यष्टौ वदाम्यहम् ।
यैर्याति कुत्सितं रक्तं सर्व्वदेहसमुद्भवम् ॥
कण्टे कक्षे लोचनयोरंसयोश्च मुखे तथा ।
पृष्ठ २/३९९
अण्डयोरथ पादेषु पार्श्वयोरुभयोरपि ॥
एतद्वर्त्म सुविज्ञेयं वाजिनां भिषगुत्तमैः ।
अन्ये सप्तदशान्याहुः सिराद्वाराणि वाजिनः ॥
येषु रक्तं हृतं सद्यः प्रकरोति ततः सुखम् ।
गुल्फे गले तथा मेढ्रे कक्षान्ते चैव पत्रके ।
गुदे पुच्छेऽथ वस्तौ च जङ्घयोः सर्व्वसन्धिषु ।
जिह्वायां चाधरे चौष्ठे नेत्रयोरुभयोरपि ॥
कर्णमूले मणौ गण्डे रुधिरं स्रावयेद्भिषक् ।
सौश्रुतमानपलेन त्याज्यं रक्तं तुरङ्गप्रमाणम् ॥”
तद्यथा, --
“षलं शतं मुखे त्याज्यं कक्षयोश्चैकमेव च ।
शतार्द्धं नेत्रदेशाच्च मेढ्रदेशात्तथैव च ॥
गण्डयोरण्डयोश्चैव स्रावयेत् पञ्चविंशतिम् ।
द्वादशैव गुदे प्राहुरश्वशास्त्रविचक्षणाः ॥
पैत्तिकं कालिकं विद्याद्वाते विद्यात् सफेनिलम् ।
पिच्छिलं श्लेष्मलं पाण्डु कषायोदकवच्च यत् ॥” *
अथ ऋतुचर्य्या ।
“न प्राज्ञो वाहयेदश्वान् प्रावृट्काले कथञ्चन ।
यदीच्छेदमृतन्तस्य वाहनं दशमासिकम् ॥
कूपोदकं कटुकतैलनिवातगेहं
शस्तं पलार्द्धलवणं दिवसान्तरेण ।
तत्रान्यथा सति मुखामयवीर्य्यहानि-
र्मुख्यैबलैर्व्विरहितस्तु वयो विनश्येत् ॥
शरदि गुडघृतं पयः प्रशस्तं
शरदि सिताष्टपलप्रमाणमच्छम् ।
मधुरमथ जलं सरोवरोत्थं
घृतयुतनीलमुकुष्टकाश्च भोज्याः ॥
हेमन्तकाले घृततैलमाषा
निर्व्वातसंस्था च पयो यथेच्छम् ।
शनैः शनै र्वाहनकर्म्म कुर्य्याद्-
यवांश्च पक्त्रा वितरेद् विधिज्ञः ॥
शिशिरे तैलपलाष्टकं कटिस्थं
दिनसप्तावधि पाययेत्तुरङ्गान् ।
तदनु प्रातर्भोजयेद्यवांश्च
यवयवसाश्च तथामृतस्वरूपाः ॥
यस्य दत्ता यवा भोज्ये शिशिरे समुपस्थिते ।
अकृत्वापि क्रियाः सर्व्वाः स हयः सुखभृच्छति ॥
वसन्ते संप्राप्ते निजसुखवशाद्वाहय हयान्
घृतं तैलं शस्तं सकलविधिरुक्तोऽपि च मतः ।
पयो दद्यादस्मै सलवणमथो वाहनविधि-
र्भृशं योज्यस्तेनाब्दमपि सुखमिच्छेद्धयवरः ॥
वसन्तसमये योऽश्वः स्थाने तिष्ठति बन्धने ।
तस्योत्साहः प्रणश्येत सालस्यं जायते वपुः ॥
ग्रीष्मे घृतं क्षतजमोक्षणघर्म्मशान्ति-
सुच्छायबन्धनविमर्द्दनशीततोयम् ।
दूर्व्वा तृणं लघु च कोमलमन्यदेव
यत्किञ्चिदेवमुपयुक्तमिदं वदन्ति ॥” * ॥
भोजे तु हयलक्षणमन्यथा, --
स्निग्धाङ्गो लघुतरलोमकस्तु पुच्छो
दीर्घास्यास्थिनयनकेशपृष्ठवंशः ।
रक्तोष्ठः पृथुलनितम्बभारवक्षा
राजार्हो भवति तुरङ्गमः प्रशस्यः ॥
नाभेरारभ्य देहस्तु द्बिधा पूर्ब्बापरक्रमात् ।
पूर्ब्बकायस्थिता रक्ताः शुभाय हयसंस्थिताः ॥
अधःकाये स्थिता रक्ता अधमत्वप्रकाशकाः ।
शुक्तीनां वैपरीत्येन प्रशस्तफलमादिशेत् ॥” * ॥
वात्स्यस्तु ।
“ब्रह्मादिजातिभेदेन हयजातिश्चतुर्व्विधा ।”
तद्यथा, --
“ये शुक्लाः सुविमलपुष्पगन्धा ये वा
शुद्धाङ्गाः सघृणसदुष्णभोजिनो वा ।
अक्रुद्धाः समरगता भृशञ्च पुष्टा-
स्ते विप्राः क्षितिपतिवाहनेऽतियोग्याः ॥
ये रक्ताः सदगुरुगन्धयोऽहता वा
संरुष्टाः बहुतरभोजिनो बलाढ्याः ।
अश्रान्ताः सकलगुणग्रहाः प्रवीणा
विज्ञेया विधिकरजातजातयस्ते ॥
ये पीताः खलु घृतगन्धयोऽपि ये वा
येऽक्रुद्धाः कथमपि रोषशालिनो ये ।
बद्धा वा बहुतरनादघोषणा वा
विज्ञेया नृपवर ! वैश्यजातयस्ते ॥
ये कृष्णाः सरुषामगन्धयोऽपि ये वा
अन्यथा बहुतरताडनैरपीमे ।
क्षीणाङ्गा लघुतनवोऽपि वेशहीना-
स्ते शूद्राः क्षितिपतिना भृशं विहेयाः ॥”
एतत्तु एकैकमेव लक्षणं न सामुदायिकम् ॥
“लक्षणद्वयसम्बन्धात् द्विजातिः स्यात्तुरङ्गमः ।
चतुर्ल्लक्षणयुक्तस्तु दूरे त्याज्यो हयाधमः ॥” * ॥
अन्यत्र तु ।
“सात्त्विका राजसाश्चेति तामसाश्चेति ते
हयाः ॥
ये शुद्धवर्णा भृशवेगयुक्ता
अश्रान्तिभाजो बहुभोगिनश्च ।
अक्रोधशीलाः समरेऽतिरुष्टा-
स्ते सात्त्विका भूप ! तुरङ्गमाः स्युः ॥
ये रक्तवर्णा गुरुवेगरोषाः
कषाभिघातं न हि ये सहन्ते ।
येऽमी बलाढ्याः खलु दीर्घदेहा-
स्ते राजसा भूप ! तुरङ्गमाः स्युः ॥
ये कृष्णवर्णास्तनुरोषवेगा
अल्पाशिनो लक्षणलक्षिताश्च ।
ये दुर्ब्बलाः सर्व्वगुणैर्विहीना-
स्ते तामसा भूप ! तुरङ्गमाधमाः ॥
द्बयोर्लक्षणसम्बन्धात् द्बिगुणो वाजिमध्यमः ।
त्रयाणां गुणसम्बन्धात् त्रिगुणो वाजिनिन्दितः ॥”
पराशरसंहितायान्तु ।
“पृथिव्यब्बायुतेजःखैः पञ्चभिस्तुरगाश्रितैः ।
उल्वणैः पञ्चधा भेदाः परशरमता यथा ॥
ये स्थूलाः श्रमसहदेहरूपभाज-
श्चाक्लान्ता बहुतरभोजनाश्च दीर्घाः ।
अक्रुद्धाः समरगतास्तु रोषभाजो
भौमास्ते घनगुरुघर्घरस्वरास्तु ॥
ये श्लथाङ्गास्तनुबलाः श्रमासहकलेवराः ।
अक्रोधवेगाः सस्वप्ना आप्यास्ते तुरगाधमाः ॥
ये वातवेगप्रतिमोग्रवेगाः
शुष्का भृशं दीर्घकलेवराश्च ।
अश्रान्तिभाजो वहुदूरगाश्च
ते वायवा वाजिवराः प्रदिष्टाः ॥
ये क्रोधशीला भृशवेगयुक्ता
मुक्ता दिनात् क्रोशशतं व्रजन्ति ।
ते तैजसाः पुण्यवतां प्रदेशे
भवन्ति पुण्यैरपि ते मिलन्ति ॥
एको यदा तैजससंज्ञकोऽश्वः
किं कार्य्यमन्यैस्तुरगाधमैस्तु ।
शुद्धं यदा हीरकखण्डमेकं
किं कार्य्यमन्यैर्मणिभिर्विचित्रैः ॥
उत्प्लुत्य ये वाजिवरा व्रजन्ति
क्रुधा भृशं वेगसमन्विताश्च ।
ये लङ्घयन्तः परिखामपारां
ते गागना पुण्यतमाः प्रदिष्टाः ॥
द्वयोर्ल्लक्षणसम्बन्धात्तुरगः स्यात् द्विभौतिकः ।
स्वजातिगुणभूतानां हयानां वाहनं शुभम् ॥
शालिहोत्रादिविज्ञानात्तद्विज्ञेयं यथोत्तरम् ।
असम्भवे हि दुष्टाश्वं वाहयेदिति चेत्तदा ॥
तिलं सकाञ्चनं दद्याल्लवणं वा गुडान्वितम् ।
रेवन्तं पूजयेद्वापि निजं निर्मन्थयेत्तदा ॥
दद्यात्ताम्रपलं वापि अभावे सर्व्वकर्म्मणः ॥”
एवमन्यत्रापि ।
“काञ्चनं रजतं ताम्रं लौहमेतद्यथाक्रमम् ।
ब्रह्मादिजातिदोषाणां देयमेतत् प्रशान्तये ॥
अभावेऽपि च सर्व्वेषां ताम्रेण स्यात् प्रति-
क्रिया ।”
इति हयपरीक्षा ॥ * ॥
इति भोजराजकृतयुक्तिकल्पतरुः ॥
(“येन ज्ञानवता हिमालयतरुच्छायासु
विक्रीडितम्
यः स्नातो हिमपुष्पवातशिशिरे गङ्गाजले पावने ।
रेमे यस्तु तुरङ्गयूथजनितैर्नानाविधैर्हेषितैः
पायाद्वः स तुरङ्गघोषतनयः श्रीशालिहोत्रो
मुनिः ॥
जयति च पाण्डवनाथो धर्म्मसनाथो युधिष्ठिरो
नृपतिः ।
भीमार्ज्जुनसहदेवास्तदनु च ये वाजिशास्त्रतत्त्वज्ञाः ॥
दृष्ट्वा सम्यङ्नकुलः शास्त्रं कृत्स्नं च शालि-
होत्रीयम् ।
ब्रूते शास्त्रार्थमन्यच्छास्त्रं कृत्वा समासेन ॥
प्रश्नो जातिवर्णमावर्त्तदन्ता
लक्षं वेगा वाहनं धातुरस्रम् ।
कालो नस्यं पिण्डमाज्यं कषायं
शालां चेष्टां वाजिनामत्र वक्ष्ये ॥
सपक्षा वाजिनः सर्व्वे सञ्जाता व्योमचारिणः ।
गन्धर्वेभ्यो यथाकामं गच्छन्ति च समन्ततः ॥
तान् दृष्ट्वा जवसम्पन्नानसह्यान्वाहनोचितान् ।
शक्रः प्रोवाच पार्श्वस्थं शालिहोत्रं मुनीश्वरम् ॥
नास्त्यसाध्यं मुने ! किञ्चिद्भवतो भुवनत्रये ।
तस्मादाशु कुरुष्व त्वं वाहनार्हान् हयोत्तमान् ॥
पृष्ठ २/४००
ये च मे युद्धकालेषु प्रवहन्ति रथं सदा ।
अशक्यं वारणेन्द्रैश्च दानवैर्बलवत्तरैः ॥
ईषिकास्त्रं समुत्सृज्य पक्षच्छेदं व्यधात्तदा ।
वाजिनां शक्रवाक्येन शालिहोत्रो महामुनिः ॥
च्छिन्नपक्षास्तु ते सर्व्वे गत्वा तमृषिमब्रुवन् ।
दीनाः सुदुःखसम्पन्ना रुधिरेण परिप्लुताः ॥
भगवन् ! किं निमित्तं नः पक्षच्छेदः कृतस्त्वया ।
अपराधविहीनानां नेदृगिच्छन्ति पण्डिताः ॥
तस्माद्गतिर्भव प्राज्ञ ! सर्व्वेषामिह वाजिनाम् ।
यथा स्यात् सर्व्वदा सौख्यं पुष्टिश्च मुनिपुङ्गव ! ॥
अथासौ कृपयाविष्टस्तानुवाच सुदुःखितान् ।
इन्द्रादेशात् कृतं सर्व्वं भवतां पक्षपातनम् ॥
तस्माद्वः प्रकरिष्यामि भविष्यति यथासुखम् ।
पुष्टीरम्या यथा देहे गौरवं च जगत्त्रये ॥
यूयं शक्रादिदेवानां वाहनत्वं करिष्यथ ।
तथा भूमिपीतनाञ्च गौरवेण समन्विताः ॥
यो राजा भवतां पुष्टिं स्वन्नपानादिभिः सदा ।
करिष्यति न सन्देहो भविष्यति स दुर्ज्जयः ॥
नं च त्यक्ष्यति तं लक्ष्मीः कदाचिज्जयलक्षणा ।
अपि सर्व्वैर्गुणैर्हीनं बहुशत्रुभिरावृतम् ॥
तथा चैव विधास्यामि परमञ्च चिकित्सितम् ।
पुष्ट्यै च रोगनाशार्थं नराणां विहितं यथा ॥
तस्माद्गच्छत भूलोकं पातालञ्च तथापरे ।
स्वर्गं चान्ये मदादेशाद्येन शान्तिर्भवेद् ध्रुवम् ॥
एवं विसृज्य तान् सर्व्वान् शालिहोत्रस्तुरङ्गमान् ।
चक्रे द्वादशसाहस्रीं तदर्थे संहितां सुधीः ॥
ततःप्रभृति लोकेऽस्मिन् वाह्या जातास्तुरङ्गमाः ।
ततश्चिकित्सितं तेषां शालिहोत्रप्रभाषितम् ॥”
इति श्रीनकुलकृतेऽश्वचिकित्सिते प्रश्नो नाम
प्रथमोऽध्यायः ॥
अथ जातिः ।
“उत्तमा मध्यमा नीचाः कनीयांसस्तथापरे ।
चतुर्धा वाजिनो भूमौ जायन्ते देशसंश्रयात् ॥
ताजिकाः खुरशाणाश्च उत्तराश्चोत्तमा हयाः ।
गोजिकाणाश्चकेकाणाः प्रौढाहाराश्च मध्यमाः ॥
भाण्डजाश्चोत्तमाशाश्च राजशूलाश्च मध्यमाः ।
गोर्ह्वराः शावराश्चैव सिन्धुपाराः कनीयसः ॥
अन्यदेशोद्भवा ये च नीचनीचाश्च ते स्मृताः ।
वाजिनो जलजाः केचिद्वह्निजातास्तथापरे ॥
समीरप्रभवाश्चान्ये उलूकमृगजास्तथा ।
जलोद्भवा द्विजातीयाः क्षत्रिया वह्निसम्भवाः ॥
समीरप्रभवा वैश्या एणोलूकाश्च शूद्रजाः ।
विवेकी सघृणो विप्रस्तेजस्वी क्षत्रियो बली ॥
दुष्टभावस्तथा वैश्यः शूद्रो निःसत्वकातरः ।
ब्राह्मणाः सामवाही च भेदवाही च क्षत्रियः ॥
उपादानेन वैश्यः स्याच्छूद्रो दण्डेन ताडितः ।
पुष्पगन्धः सदा विप्रः क्षत्रियोऽगुरुगन्धकः ॥
घृतगन्धः सदा वैश्यो मीनामोदी च शूद्रकः ।
विप्रार्हा वाजिनः सर्व्वे क्षत्रियो भूपतेः सदा ॥
द्वौ वैश्यस्याथ शूद्रस्य शूद्र एव सुखावहः ।
केचिदिच्छन्ति भूपानां सर्व्वेऽश्वा वाहनोचिताः ॥
तदर्थं भूतले यस्माच्छालिहोत्रेण निर्म्मिताः ।
ब्राह्मणाः क्षेमकृत्येषु सिद्धिं गच्छन्ति वाजिनः ॥
क्षत्रिया युद्धकार्य्येषु वैश्या वित्तार्ज्जने सदा ।
शूद्राश्चान्येषु कृत्येषु ज्ञात्वैवं वाजिनः सदा ॥
आरोहेत् सर्व्वकार्य्येषु यदीच्छेच्छाश्वतीं श्रियम् ।
सदा शुभा भवन्त्येते वाजिनो यस्य भूतले ॥
सदैव निद्रावशगा निद्राच्छेदस्य सम्भवः ।
जायते सङ्गरे प्राप्ते कर्करस्य च भक्षणे ॥
प्रबुद्धाः कथयन्त्यश्वाः शुभं वा यदि वाशुभम् ।
स्वस्वामिनो निजैश्चिह्नैस्तद्विज्ञेयं विचक्षणैः ॥
यः सन्नद्धो हयो रावमूर्ध्वमूर्ध्वं करोति च ।
खुराग्रेण लिखन् भूमिं स शंसति रणे जयम् ॥
यः करोत्यसकृन्मूत्रं पुरीषञ्चाश्रुमोक्षणम् ।
स शंसति पराभूतिं यश्चैवं वर्त्तते हयः ॥
निरामिषं निशीथे यो जागर्त्ति नृपतेर्हयः ।
स शंसति द्रुतन्तस्य स्थिरस्यापि प्रयाणकम् ॥
यदा व्याधिं विना वाजी ग्रासन्त्यजति दुर्मनाः ।
अश्रुपातञ्च कुरुते तदा भर्त्तुरशोभनम् ॥
पुलकांकितपुच्छा ये जायन्ते भूपतेहयाः ।
निरीक्षन्तः प्रभोर्नाशं ते वदन्ति निशागमे ॥
शरटं रक्षयेद्यत्नात् प्रविशन्तं हयालये ।
यदीच्छेच्छाश्वतीं वृद्धिं तेषाञ्चैव तथात्मनः ॥
स्फुलिङ्गा यस्य दृश्यन्ते पुच्छदेशे च वह्निजाः ।
परचक्रागमाशंसी विज्ञेयो हयपण्डितैः ॥
अश्वशालां समासाद्य यदान्तर्मधुमक्षिकाः ।
मधुजालं प्रकुर्व्वन्ति तदाश्वान् घ्नन्ति कृत्स्नशः ॥
तस्मात् सर्व्वप्रयत्नेन वाजिशालां प्ररक्षयेत् ।
उपायेभ्यश्च सर्व्वेभ्यो य इच्छेद्भूतिमात्मनः ॥
ब्राह्मणान्वाचयेत् स्वस्ति नित्यं वेदविचक्षणान् ।
तिलहोमस्तथा कार्य्यो जपश्च शतरुद्रियः ॥
मन्दुरान्ते सदा धार्य्यो रक्तवक्त्रो महाकपिः ।
सर्व्वपापविनाशाय वाजिनाञ्च विवृद्धये ॥
सरघां रक्षयेद् यत्नात् प्रविशन्तीं हयालये ।
यदीच्छेच्छाश्वतीमृद्धिं तेषाञ्चैव तथात्मनः ॥
इति श्रीनकुलकृतेऽश्वचिकित्सिते जात्यधिकारे
द्वितीयोऽध्यायः ॥
अथ वर्णवर्णनम् ।
“वर्णाः सप्त भवन्तीह स्रर्व्वेषां वाजिनां ध्रुवम् ।
तानहं कीर्त्तयिष्यामि भेदैर्जाताननेकधा ॥
सितो रक्तस्तथा पीतः सारङ्गः पिङ्ग एव च ।
नीलः कृष्णोऽथ सर्व्वेषां श्वेतः श्रेष्ठतमः स्मृतः ॥
पट्टार्हो भूपतेर्वाजी सर्व्वश्वेतः प्रशस्यते ।
तदभावे यथा प्रोक्तास्तथा श्रेष्ठाः क्रमेण च ॥
श्वेतः प्रालेयसङ्काशो रक्तः कुङ्कुमसन्निभः ।
हरिद्रासदृशः पीतः सारङ्गः कर्वुरः स्मृतः ॥
पिङ्गः कपिलकाकारो नीलो दूर्व्वाग्रसन्निभः ।
कृष्णो जम्बूफलाकारः शास्त्रज्ञैः समुदाहृतः ॥
पीताभः श्वेतपादो यस्तथा स्यात् सितलोचनः ।
चक्रवाकः स विज्ञेयो राजार्हो वाजिसत्तमः ॥
सर्व्वश्वेतो हयो यस्तु भवेन्मेचककर्णकः ।
स वाजी वाजिमेधार्हः श्यामकर्णः प्रकीर्त्तितः ॥
मुखे चन्द्रकसंवीतो जम्बूफलसमाकृतिः ।
श्वेतपादः स विज्ञेयो मल्लिकाख्यः स पूजितः ॥
चत्वारोऽप्यसिताः पादाः सर्व्वश्वेतस्य वाजिनः ।
भवन्ति यस्य स त्याज्यो यमदूतः सुदूरतः ॥
यस्य पादाः सिताः सर्व्वे पुच्छं वक्षो मुखं तथा ।
मूर्घजाश्च सिता यस्य तं विद्यादष्टमङ्गलम् ॥
भस्माभं वाजिनं जह्यात् सुदूरेण नराधिपः ।
यदि वाश्छति कल्याणं वाञ्छेच्च श्रीसमुद्भवम् ॥
यस्य रोमविभेदेन जायन्ते रोमविन्दवः ।
पुष्पाख्यः स परित्याज्यः सर्व्ववाजिभयावहः ॥
यस्य पादाः सिताः सर्व्वे तथा वक्त्रञ्च मध्यतः ।
कल्याणपञ्चकः प्रोक्तः सर्व्वकल्याणकृच्च सः ॥
विमिश्रवर्णकाः सर्व्वे प्रशस्ता वाजिनः स्मृताः ।
कृष्णनीलस्य मिश्रत्वमेकं मुक्त्रा सुदूरतः ॥
यस्योत्कृष्टतरो वर्णो वृद्धिं याति शनैः शनैः ।
नाशयति तथा नीचान् स करोति बहून् हयान् ॥
यस्याधमेन वर्णेन छाद्यते च प्रधानजः ।
विवृद्धिं गच्छता सोऽथ करोति हयसंक्षयम् ॥
इति श्रीनकुलकृतेऽश्वचिकित्सिते वर्णो नाम
तृतीयोऽध्यायः ॥
अथ आवर्त्ताः ।
“आवर्त्ता विंशतिः प्रोक्ताः शालिहोत्रमहात्मना ।
गात्रस्थानविभागेन तेषां व्यक्तिर्मयोच्यते ॥
ललाटे मस्तके चैव ग्रीवायां हृदये तथा ।
पादे पृष्ठे मणीबन्धे नाभिदेशे विशेषतः ॥
स्कन्धे पार्श्वे गले वक्त्रे कुक्षौ रन्ध्रे त्रिके तथा ।
आद्यास्त्रयोदशावर्त्ता विज्ञेया वाजिपण्डितैः ॥
नासिकाग्रे ललाटाग्रे शङ्खे कण्टे च मस्तके ।
आवर्त्तो जायते येषां ते धन्यास्तुरगोत्तमाः ॥
हृदि स्कन्धे गले चैव कटिदेशे तथैव च ।
नाभौ कुक्षौ च पार्श्वाङ्गे मध्यमास्ते प्रकीर्त्तिताः ॥
ललाटे यस्य चावर्त्तो द्वितीयस्य स लिङ्गकः ।
मस्तके च तृतीयश्च पूर्णकुक्षिः स उत्तमः ॥
पृष्ठबंशे तथावर्त्तो यस्यैकः संप्रजायते ।
स करोत्यश्वसंघातान् स्वामिनः सूर्य्यसंज्ञकः ॥
कक्षायां जानुमेढ्रे च त्रिबलौ पुच्छसन्निधौ ।
पुच्छे गुह्ये बलावष्टावावर्त्ता अधमा हये ॥
त्रयो यस्य ललाटस्था आवर्त्ता अधरोत्तराः ।
त्रिकूटः स परिज्ञेयो वाजिवृद्धिकरः परः ॥
एवमेव प्रकारेण त्रयो ग्रीवां समाश्रिताः ।
त्रयावर्त्तः स वाजीशो जायते भूपमन्दिरे ॥
ललाटे युगलावर्त्तौ चन्द्रार्कौ संप्रकीर्त्तितौ ।
वाजिनो यदि तौ स्यातां राष्ट्रवृद्धिकरौ परौ ॥
उपर्य्युपरि यस्य स्युरावर्त्ता अलिके त्रयः ।
निःश्रेणिः सतु विज्ञेयो राष्ट्रवृद्धिकरः परः ॥
एकोऽथवा कपोलस्थो यस्यावर्त्तः प्रदृश्यते ।
वर्त्तमानः स विज्ञेयः स इच्छेत् स्वामिनाशनम् ॥
कपोलाभ्यान्तथावर्त्तो विद्येते वाजिनो यदि ।
तावश्विनाविति प्रोक्तौ युद्धकाले जयप्रदौ ॥
गण्डावर्त्तो भवेद्यस्य वाजिनो दक्षिणाश्रयः ।
स करोति महासौख्यं स्वामिनः शिवसंज्ञकः ॥
तद्बद्बामाश्रयः क्रूरः प्रकरोति धनक्षयम् ।
इन्द्वर्काख्यावुभौ शस्तौ नृपराज्यविवृद्धिदौ ॥
कर्णमूले यदावर्त्तस्तन्मध्ये च तथापरः ।
पृष्ठ २/४०१
विजयाख्यावुभौ ज्ञेयौ युद्धकाले जयप्रदौ ॥
नासामध्ये यदावर्त्त एको वा यदि वा त्रयः ।
चक्रवर्त्ती, स विज्ञेयो वाजी भूपालपूजितः ॥
कण्ठे यस्य महावर्त्त एकोऽश्वस्य प्रजायते ।
चिन्तामणिः स विज्ञेयश्चिन्तितार्थविवृद्धिदः ॥
स्कन्धे पार्श्वे यदावर्त्तः स भवेत् पद्मलेक्षणः ।
करोति विधिवत् पद्मे स्वामिनः सततं सुखम् ॥
शुक्त्याख्यौ तालुकान्तस्थावावर्त्तौ कीर्त्तिवृद्धिदौ ।
हयस्य स्वामियुक्तस्य सदैव सुसुखावहौ ॥
एकावर्त्तो भवेद्यस्य कक्षान्ते वाजिनो यदा ।
स रणे मृत्युमाप्नोति द्वौ च स्वामिविनाशनौ ॥
जानुदेशे यदावर्त्तो वाजिनः संप्रदृश्यते ।
प्रवासं सततं ब्रूते स्वभर्त्तुः क्लेशसंयुतम् ॥
वाजी मेढ्रतलावर्त्तो वर्जनीयो महीभुजाम् ।
स करोति हरेर्नाशं परचारसमुद्भवम् ॥
त्रिवलिस्थो यदावर्त्तस्त्रिवर्गस्य प्रणाशकः ।
वाजिनस्ते परिज्ञेयाः स्त्रीपार्श्वस्था भयप्रदाः ॥
पुच्छदेशे यदावर्त्तो वाजिनः संप्रदृश्यते ।
धूमकेतुरिति ख्यातः स त्याज्यो दूरतो नृपैः ॥
गुह्ये पुच्छे वलौ यस्य भवन्त्यावर्त्तकास्त्रयः ।
स कृतान्तस्वरूपेण वर्जनीयस्तुरङ्गमः ॥
अध ऊर्द्ध्वं यदा वाजी सम्पुटं न स्पृशेत् क्वचित् ।
यमदूतः स विज्ञेयो वर्जनीयः प्रयत्नतः ॥
हीनदन्तोऽधिदन्तश्च कराली कृष्णतालुकः ।
मुशली च तथा शृङ्गी षडेते स्वामिघातकाः ॥
एकाण्डजातश्चैकाण्डो हीनाङ्गोऽप्यधिकाङ्गकः ।
परित्याज्यः स वाच्छद्भिरन्विष्य परमं यशः ॥
घण्टी वदनको वाली शृङ्गी चैव चतुर्थकः ।
वर्जनीयः प्रयत्नेन सर्व्वे ते पापकृतमाः ॥
घण्टी च स्वामिनं हन्ति वदनी धनसंक्षयम् ।
अन्तःपुरं तथा वाली शृङ्गी राष्ट्रविनाशनः ॥
षट्पदाभो भवेद्यश्च कृष्णतालुर्न दुष्यति ।
शङ्खपादमुखो यस्तु आवर्त्तैः कुत्सितैरपि ।
न दुष्यति सदावर्त्तः शालिहोत्रमतं यथा ॥
इति श्रीनकुलविरचितेऽश्वचिकित्सिते
आवर्त्ताध्यायश्चतुर्थः ॥
अथ दन्ताः ।
दन्तोद्भेदं प्रवक्ष्यामि वाजिनामायुलक्षणम् ।
येन विज्ञातमात्रेण आयुर्ज्ञानं प्रचक्षते ॥
अश्वस्तु तनुभिर्दन्तैः क्षीरदन्त इति स्मृतः ।
तथा षोडशभिः कोणो प्राज्ञैर्द्बादशमासिकः ॥
त्रिंशन्मासोद्भवाः सर्व्वे अखण्डाः परिकीर्त्तिताः ।
द्वौ स्यातां द्वौ च न स्यातां मूर्द्धोपरि यथाक्रमम् ॥
चतुर्भिर्वत्सरैर्दन्ताः कालिकान्ये भवन्ति च ।
तथान्यः सप्तमे वर्षे चतुर्थः कालिको भवेत् ॥
अष्टमे वत्सरे प्राप्ते प्राप्ताः स्युः सार्व्वकालिकाः ।
नवमे त्वथवा रेखा पीतत्वं शंसयन्ति च ॥
तथाप्येकादशे वर्षे तावत् पीतत्वमागताः ।
तिष्ठन्ति दशनास्तेषां वाजिनामप्यसंशयम् ॥
ततः श्वेताः प्रदृश्यन्ते यावद्वर्षजयं पुनः ।
ततः काचप्रभाः सम्यक् यावत् संवत्सरास्त्रयः ॥
ततः सप्तदशादूर्द्ध्वं यावद्वर्षाणि विंशतिः ।
भक्षिकाभारदास्तेषां यावद्वर्षत्रयं पुनः ॥
तस्मादुदूखलं प्राप्तास्तावद्वर्षत्रयं पुनः ।
प्रकम्पञ्च समागम्य पश्चात् पातः समात्रयम् ॥
द्वात्रिंशद्वत्सरैरेव वाजी निर्व्वाणमाप्नुयात् ।
दंष्ट्राचतुष्टयं श्वेतं वक्रेण परमायुषि ॥
अश्वानामेव सर्व्वेषां दन्ता द्वादश कीर्त्तिताः ।
कालिका हारिणी शुक्ला काचा वाप्यथ मक्षिका ॥
शङ्खोदूखलकञ्चैव दन्तानाञ्चलनं तथा ।
ततस्तु पतनं विद्यादेष व्यञ्जनसंग्रहः ॥
चतुर्विंशतयों दंष्ट्राः शालिहोत्रमतं तथा ।
एवं दन्तविशेषेण सर्व्वेषामिह वाजिनाम् ।
विज्ञेया चायुषःसंख्य्या वाजिपोषणतत्परैः ॥
इति श्रीनकुलकृतेऽश्वचिकित्सिते दन्तोद्भेदो
नाम पञ्चमोऽध्यायः ॥
अथ अवयवप्रमाणम् ।
दीर्घसूक्ष्मविमांसास्या ये भवन्ति तुरङ्गमाः ।
ते शस्ताः पार्थिवेन्द्रस्य यानवाहनकर्म्मणि ॥
स्कन्धमभ्युन्नतं दीर्घं वक्रग्रीवं विशेयतः ।
चमरालङ्कृतं सम्यक् स्तोकबालसमन्वितम् ॥
येषां पृष्ठं सुवंशं स्याद्विपुलं व्रणवर्जितम् ।
किञ्चिन्मध्ये भवेन्निम्नं राजार्हास्ते तुरङ्गमाः ॥
स्निग्धरोमा सुवृत्ता च सुस्थूला विपुला कटी ।
ग्रथिताः सुदृढा रम्या भुजा मांसप्रपूरिताः ॥
पादा निर्मांसला वक्राश्चक्राकारखुरान्विताः ।
अप्रमाणं तथा वक्षः कर्णौ लघुतरौ स्मृतौ ॥
पार्श्वौ तनुतरौ शस्तौ सुरसस्निग्धतालुकम् ।
दन्ताश्च शिखराकारा विपुला चन्द्रवर्च्चसः ॥
सप्तविंशप्रमाणेन मुखमश्वस्य शस्यते ।
कर्णौ षडङ्गुलौ प्रोक्तौ तालुंकं चतुरङ्गुलम् ॥
चत्वारिंशच्च सप्ताढ्याः स्कन्धाः सम्यक् प्रकी-
र्त्तिताः ।
पृष्ठवंशश्चतुर्व्विंशः सप्तविंशा तथा कटी ॥
अतिसूक्ष्मं तथा निम्नं पुच्छं हस्तद्वयायतम् ।
लिङ्गं हस्तप्रमाणञ्च तथान्तौ चतुरङ्गुलौ ॥
मार्गस्थानं चतुर्व्विं शं हृदयं षोडशाङ्गुलम् ।
कटिकक्षान्तरञ्चोक्तं चत्वारिंशत् प्रमाणतः ॥
मणिबन्धद्बयं चैव खुराश्च चतुरङ्गुलाः ।
अशीत्यङ्गुल उत्सेघो दैघ्येञ्च द्ब्यधिकं शतम् ।
एवं क्रमेण गात्रस्य प्रमाणं वाजिनां मतम् ॥
दीर्घाणि चत्वारि तथोन्नतानि
चत्वारि रक्तानि च सूक्ष्मकाणि ।
ह्रस्वानि चत्वार्य्यथ चायतानि
भूयश्च चत्वार्य्यथ नम्रकाणि ॥
द्वात्रिंशत् क्रमशोऽप्याहुर्ल्लक्षणानि मुनीश्वराः ।
तान्यहं कीर्त्तयिष्यामि वाजिनाञ्च पृथक्
पृथक् ॥
आस्यं भुजौ केशकृकाटिकाश्च
दीर्घं चतुष्कं तुरगस्य शस्तम् ।
तथोन्नते घ्राणपुटे ललाटे
शफाश्च तज्ज्ञाश्चरणौ वदन्ति ॥
ओष्ठौ च जिह्वाप्यथ तालुकञ्च
मेढ्रं सुरक्तं शुभदं हयस्य ।
लघूनि बन्धाश्चरणेषु कोष्ठं
श्रोत्राणि सर्व्वाणि तथैव पुच्छम् ॥
कर्णान्तरं कर्णसमन्वितञ्च
वंशं तथा ह्रस्वतरं प्रशस्तम् ।
वक्त्रं मुखं कन्धराजानुनी च
पार्श्वञ्च सप्तेः शुभदं प्रदिष्टम् ॥
कक्षान्तरं चोदरमध्यमञ्च
निम्ना कटी तानि सजानुकानि ।
वक्षःशफोरूजघनस्थलञ्च
चतुष्कमेतत् पृथुलं प्रदिष्टम् ॥
इति श्रीनकुलकृतेऽश्वचिकित्सिते सर्व्वावयव-
प्रमाणो नाम षष्ठोऽध्यायः ॥
अथ वेगः ।
गुणानामिह सर्व्वेषां गुणो वेगमयोऽधिकः ।
अश्वानां शस्यते तज्ज्ञैरश्वज्ञानविचक्षणैः ॥
संवाहनविधानेन प्रकाशं यान्त्यसंशयम् ।
तस्मात् सर्व्वप्रयत्नेज वेगो ज्ञेयश्च वाजिनाम् ॥
अवाहिता विनश्यन्ति विनश्यन्त्यतिवाहिताः ।
अश्वानां वाहनं पथ्यं सानुरागञ्च मोक्षणम् ॥
अधमा मध्यमास्ते स्युर्मध्यमाश्च तथोत्तमाः ।
उत्तमाश्चोत्तमा भूयो वाह्यमानास्तुरङ्गमाः ॥
रूढमश्वविदां श्रेष्ठं रूढे सर्व्वं प्रतिष्ठितभ् ।
रूढेन तु विहीनस्य लक्षणं चाप्यलक्षणम् ॥
रूपावर्त्तगतिच्छायासत्ववर्णवयोबलम् ।
जवहीनस्य वाहस्य सर्व्वमेव निरर्थकम् ॥
गतेर्धन्यतरो वर्णो वर्णाद्धन्यतरः स्वरः ।
स्वराद्धन्यतरं सत्वं सर्व्वं सत्वे प्रतिष्ठितम् ॥
लघुत्वं मातृदोषेण पितृदोषेण जाड्यता ।
दौर्ब्बल्यं स्वामिदोषेण स्वदोषो नास्ति वाजिनाम् ॥
जवो हि सप्तेः प्रथमं विभूषणं
त्रपाङ्गनायाः कृशता तपस्विनः ।
द्विजस्य वेदोऽथ सुनेरपि क्षमा
पराक्रमः शस्त्रबलोपजीविनः ॥
आकर्षन्निव गां वभन्निव खुरौ पश्चार्द्धमुद्यन्निव
स्वीकुर्व्वन्निव खं पिबन्निव दिशो वायुं समश्नन्निव ।
साङ्गारप्रकरान् स्पृशन्निव महीं छायाममर्षन्निव
चञ्चच्चामरवीज्यमानवदनः श्रीमान् हयो धावति ॥
अलक्षितगतागतैर्मृगदृशां कटाक्षैरिव
क्षणानुनयशीतलैः प्रलयकेलिकोपैरिव ।
सुवृत्तमसृणोत्तरैर्गृगदृशामुरोजैरिव
त्वदीयतुरगैरलं धरणिचक्रमाक्रम्यते ॥
येषां दीपशिखोपमानि नयनान्युद्धावितः सन्निव
ग्रीवा क्रौञ्चनिभा विभाति च समा पादाश्च
मुद्गोपमाः ॥
वेगो वायुरिवाथ वानरसमः स्याद्बारणप्रेङ्क्षितं
शङ्खक्रौञ्चमृगेन्द्रदुन्दुभिघनव्याघ्रेभतुल्यस्वनः ॥
वक्त्रे यो हरिणाधिपप्रतिनिभो व्याघ्रोपमो
बाहुभिः
आवर्त्तेऽश्वशुभैः प्रधानकुलजाः सुस्निग्धवर्ण-
प्रभाः ।
उष्ट्राक्षाः प्रियदर्शनाश्च सुभगाः श्वासैः
सुगन्धैश्च ये
पृष्ठ २/४०२
धन्यास्ते जयराज्यवित्तसुखदाः संवाहका
भूपतेः ॥
इति श्रीनकुलकृतेऽश्वचिकित्सिते वेगवर्णनो-
नाम सप्तमोऽध्यायः ॥
अथ आरोहणम् ।
अथातः संप्रवक्ष्यामि हयारोहणमुत्तमम् ।
येन विज्ञानमात्रेण रेवन्तेनोपमीयते ॥
चलकिसलयपादः कर्णमध्यैकदृष्टिः
न चलति कटिदेशे आसने संस्थितश्च ।
हयहृदयगतिज्ञः स्थानदण्डावपाती
स खलु तुरगयोक्ता मान्यते पार्थिवेन्द्रैः ॥
यो नित्यं दृढमुष्टिहस्तलघुकः क्रोधानलैर्वर्ज्जितः
सत्यैकस्थिरबुद्धिमध्यमतनुः शास्त्रस्थतत्त्वज्ञकः ।
काले दण्डनिपातविश्रमयुतः ताम्बूलवक्त्रान्वितः
त्वेवं लक्षणसंयुतो हयरुहो राज्याधिपैः पूज्यते ॥
ऊरू स्थिरौ यस्य चलौ च पादौ
त्रिकोन्नतं संहतमासनञ्च ।
स वाजिवाहः कथितः पृथिव्यां
शेषा नरा भारवहा हयानाम् ॥
प्राज्ञः सत्त्वबलोत्साही दृढः सर्व्वाङ्गसौष्ठवः ।
जितशीतातपालस्यो जितायासो जितासनः ॥
हयकालबलप्राणजवकामाध्वयोगवित् ।
शान्तोपचारसारज्ञो रणक्रीडासु दीक्षितः ॥
वाजिनां हृदयज्ञश्च स्थाने दण्डनिपातवित् ।
दुष्टाश्वदमने दक्षः सर्व्वक्लेशसहः शुचिः ॥
ग्रासौषधान्नपानीये परव्यूहावलोकने ।
त्रिषु श्रेष्ठः प्रवेशे च निर्गमे कुशंलोऽस्त्रवित् ॥
रोगं विकुरुते यश्च वृत्त्या वाधाविचारवित् ।
धनुःकुन्तासिशक्तिज्ञः सोऽश्ववाहः प्रकीर्त्तितः ॥
वक्त्रे स्कन्धे मुखे कोष्ठे गात्रे सक्थौ च ताडयेत् ।
उन्मार्गो यदि भ्रष्टोऽश्वो मूढः स्खलति ह्रेषते ॥
कुपिते पुच्छसंस्थाने भ्रान्ते जानुद्बयं तथा ।
सर्व्वथा प्राप्तदण्डस्य दण्डमेकं निपातयेत् ॥
ह्रेषणे स्कन्धमुद्दिष्टं स्खलिते जघनान्तरम् ।
भीते वक्षःस्थलं हन्याद्वक्त्रञ्चोन्मार्गगामिनम् ॥
अस्थाने ताडितो वाजी बहून् दोषान् प्रदर्शयेत् ।
तावद्भवन्ति ते दोषा यावज्जीवत्यसौ हयः ॥
दण्डेनाभिभवेद्वाहान्नारोहेद्दण्डवर्ज्जितान् ।
दण्डो हि साधनं तीव्रं पदं दण्डात् प्रजायते ॥
तुलावदुद्धृता वल्गा नात्युच्चा नातिलम्बिता ।
दोषं दृष्ट्वा तु कर्त्तव्या तिर्य्यगाकुञ्चिता श्लथा ॥
कटिं सप्तेश्च शैथिल्याद्बहमानस्य ताडयेत् ।
सद्यः प्रस्खलिते गात्रं तत्र दण्डं प्रदापयेत् ॥
अकालदण्डपाताच्च त्वकालग्रहमोक्षणात् ।
अकालहिंसाघाताच्च तेन वाजी न धावति ॥
आसनं शिथिलं यस्य स्वरो यस्य न भीषणः ।
लयुप्रहारदाता च वाजी तस्य न धावति ॥
सर्व्वलक्षणसम्पन्नः सर्व्वदोषविवर्जितः ।
कुलशीलबलोपेतः कथमश्वो न धावति ॥
गतिरेका प्लुता चान्या चतुराख्या तृतीयका ।
वेगसन्धिश्चतुर्थो च धारावेगगतिस्तथा ॥
श्लथरागार्थवेषस्य चञ्चलस्य त्रिकोणतः ।
नित्यमुद्यतदण्डस्य तस्य वाजी न धावति ॥
धारा तु पञ्चमी प्रोक्ता न शृणोति न पश्यति ।
सर्व्वकर्म्माक्षमो वाजी तस्मात्तां परिवर्जयेत् ॥
इति श्रीनकुलकृतेऽश्वचिकित्सिते आरोहणं
नाम अष्टमोऽध्यायः ॥
अथ ऋतुचर्य्या ।
कर्म्मचर्य्यासु नित्यानां शुद्धान्नं सुनिवर्हितम् ।
धनुरष्टादशे योज्यं वाजिनां मण्डलं क्रमात् ॥
सङ्कोचयेज्जयं तावद् यावत् कार्म्मुकपञ्चकम् ।
तदूर्द्धं मण्डलैर्योज्यो गोमूत्रात्तदनन्तरम् ॥
ऋजुर्वृत्तानुवृत्ता च गोमूत्रा सर्व्वकर्म्मसु ।
युज्यमानानि दृश्यन्ते प्रायशो हि विचक्षणैः ॥
शालिहोत्रमुनिप्रोक्ता चर्य्या षोडश वाजिनाम् ।
तासामनुपयोगित्वान्न कृतः संग्रहो मया ॥
तीक्ष्णस्त्वेकेन मुदितो द्वाभ्यां भद्रस्तु धावति ।
त्रिभिर्दण्डैस्तदा मन्दः क्रमात् षष्ठाभिताडनैः ॥
तीक्ष्णाश्वभद्रमन्दानां प्रधानो जव उच्यते ।
सोऽप्यनेनैव मार्गेण संविभ्यज्यो विजानता ॥
अवाहिता विनश्यन्ति सर्व्वकर्म्माक्षमा हयाः ।
कृशा व्याधिपरीताङ्गा जायन्तेऽत्यन्तवाहनात् ॥
बलं कालो वयो भूमिः कालः सत्त्वमतः क्रमात् ।
कुर्य्यादेकान्तरे योगश्चातियोगो हि दोषवान् ॥
तच्च लोकप्रसिद्धं हि बोद्धव्यं यत्नतो बुधैः ।
हयवाहनवैज्ञानी नरेन्द्रैः पूज्यते सदा ॥
धाविते ये गुणाः सप्तेर्वक्ष्यमाणान्निबोध तान् ।
शालिहोत्रादिशास्त्राणां व्यायामफलसम्भवान् ॥
स्थिरमांसो भारसहो लघुगात्रः पराक्रमी ।
दीप्ताग्निश्च सुशीलश्च व्यायामेनोपजायते ॥
सत्यार्थो विनयी प्रीतो निर्द्दोषस्तापवर्जितः ।
वेदवित्सादिचित्तज्ञ उक्तो धावति तिष्ठति ॥
सुभावर्त्तगतिच्छायाबलशीलसमन्वितम् ।
गन्धवर्णस्वरोत्कण्ठसारपुण्ड्रविभूषितम् ॥
एवं विधं समारुह्य देवतांशं हयं नृपः ।
जित्वा रिपुकुलं भुंक्ते निःशङ्कोऽथ वसुन्धराम् ॥
जवः श्रेष्ठस्तुरङ्गानामुत्तमाधममध्यमः ।
त्रिविधोऽपि तथा भिन्नो जवभेदः स उच्यते ॥
यवोदरैरष्टसङ्ख्यैरङ्गुलं परिकीर्त्तितम् ।
हस्तश्च तैश्चतुर्विंशैः कार्म्मुकं तैश्चतुर्गुणैः ॥
अक्ष्णोर्निमेषणैः काष्ठा अष्टलघ्वक्षरं तथा ।
मात्रा ज्ञेया प्रमाणैश्च पूर्ब्बप्रोक्ता तपोधनैः ॥
मात्राषोडशकेनाश्वो यो धावति धनुःशतम् ।
तमश्वमुत्तमं विद्याद्बायुवेगं महाजवम् ॥
यथोत्तमजवा वाहास्तथाश्वा मध्यमाधमाः ।
चतुरस्त्र्यधिकां वृद्धिं मात्राणां लक्षणं बुधाः ॥
नभस्यश्वयुजे मासि भाराध्वानं जवं त्यजेत् ।
वज्राग्निसदृशं पित्तं श्रमात् कुप्यति वाजिनाम् ।
कार्य्येणैव महान् किञ्चिद् युज्यो नभसि कार्त्तिके ॥
हेमन्ते शिशिरे योगं वसन्ते च यथेच्छया ॥
श्लेष्मक्षयात् श्लथं गात्रं न ग्रीष्मे वाहयेद्धयम् ।
बालो वृद्धः कृशो रोगी दन्तस्नेहो महाबली ॥
पूर्णातिरिक्तकोष्ठञ्च गुर्व्विणीं न च वाहयेत् ।
समां च विपुलाञ्चैव किञ्चित्-पांशुसमन्विताम् ॥
एकान्ते विजने चैव रङ्गभूमिं हयं नयेत् ।
सान्द्राञ्चैव सुकठिनां पाषाणोदकगर्त्तिकाम् ॥
तृणकाष्ठसमायुक्तां रङ्गभूमिं विवर्ज्जयेत् ।
विण्मूत्रं कारयेदश्वं क्रोशक्रोशद्वयान्तरे ॥
वारि दद्याद् यथाकामं घासं मुष्टिञ्च चारयेत् ।
अन्यथा दोषजातानि वक्ष्याम्येतानि तावतः ॥
गुरुविस्रब्धगात्रश्च छिन्नश्वासी च कम्पते ।
दुर्म्मना रुद्धविण्मूत्रः सर्व्वकर्म्माक्षमो हयः ॥
गूढमेढ्रोन्नतग्रीवो रक्तमेही गुरुक्लमः ।
क्षुत्तृष्णावृतशुष्कास्यश्छायां प्राप्य वितिष्ठति ॥
तर्जनैर्हन्यमानोऽपि विधुनोति शिरः परम् ।
मुहुर्विनमते पृष्ठं पदमेकं न गच्छति ॥
भाराध्वानपरिश्रान्तं शनैः संक्रामयेत् पथि ।
नावतारितपर्य्याणं मार्गेऽध्वानसमागतम् ॥
मुक्तपुच्छाग्रबन्धस्य खलीनं नावतारयेत् ।
मर्द्दयित्वास्य गात्राणि पांशुमध्ये विवर्त्तयेत् ॥
स्नानपानावगाहञ्च प्रतिपानं सभोजनम् ।
सर्व्वं क्रमेण कर्त्तव्यमन्यथा दोषसम्भवः ॥
रक्तपित्तसमीरोत्थमन्यास्तम्भोदरादयः ।
हृद्रोगा वातशूलानि शीतोष्णोदकपानतः ॥
रक्तपित्तहरं देयं प्रतिपानं गुडौदनम् ।
रक्तपित्तसमीरोत्थं दातव्यं शर्करोदकम् ॥
जीवनं वातपित्तघ्नं वृष्यं बल्यतमं ततः ।
सर्व्वरोगहरोऽश्वानां मधु जाङ्गलको रसः ॥
स्वच्छाक्तञ्च घृतं क्षीरं वारियुक्तं तुरङ्गमः ।
पीत्वा हि निर्हरेद्दोषान् श्रमभाराध्वसंश्रवान् ॥
धर्म्मार्थकामा विजयो यशःश्री-
शोभासुखं जातिजनैश्च पूज्या ।
रणे निमित्तानि शुभावहानि
नृपस्य चैवं विनिवेदयन्ति ॥
प्रत्यूषकाले च दिनं निरीक्ष्य
वह्निं द्बिजं पूर्णघटं कुमारीम् ।
छत्रं ध्वजं चामरदर्पणञ्च
रुष्टञ्च दृष्ट्वा तुरगं जयाय ॥
श्रुत्वा तु शङ्खाम्बुदवेदवाक्यं
पुण्याहमाङ्गल्यशिवस्य गीतम् ।
ह्रेषं निमित्तं भवति स्वनेन
ध्रुवं जयं तत्र रणे नराणाम् ॥
सन्ध्याङ्घ्रिघातेन महीं निहन्ति
ह्रेषन्ति ये स्वामिमुखं निरीक्ष्य ।
प्रदक्षिणावर्त्तविकीर्णपुच्छा
जयावहास्ते समरे नृपाणाम् ॥
विच्छन्नदीनस्वरगद्गदा ये
अश्रुप्लुता भिन्नपुरीषमूत्राः ।
अनरुपमाना दिनकृन्निरीक्ष्याः
पराजयं ते कथयन्ति युद्धे ॥
अन्यापदं याञ्च वदन्ति दीनाः
सव्येतरं चक्रविकीर्णपुच्छाः ।
युग्यासनादीन् परिवर्जयन्ते
पराजयं ते कथयन्ति भर्त्तुः ॥
विना निमित्तं रसयन्त्यभीक्ष्णं
आकुञ्चिता व्यापितमक्षिकाङ्गाः ।
पृष्ठ २/४०३
ध्यायन्ति धातैश्च न चोद्बिजन्ते
भयावहास्ते समरे नृपाणाम् ॥
शोकं शीलं भयं लज्जामालस्यं चैवमादिषु ।
सुकुलं तं विजानीयादलं पर्य्याणवारणे ॥
स्याणुकण्टकवृक्षैश्च सुधाखदिरकण्टकैः ।
स्वामिघाताय चादत्ते तेषां रूपमिदं शृणु ॥
वानरोलूकमार्जारतरक्षुगण्डलोचनाः ।
गतिर्वा असुरैस्तुल्या स्थूलमेढ्रशिरान्विताः ॥
लम्बौष्ठकर्णनासाश्च कृत्स्नहीनाधिकद्बिजाः ।
विच्छिन्नप्रोथगण्डा ये भ्रुकुटीचित्रमेहनाः ॥
एते दोषास्तथान्येऽपि सुकुलाश्वसमुद्भवाः ।
खलाजामिह राजेन्द्र ! वक्तुं शक्या न मादृशैः ॥
लक्ष्यं प्रधानमित्येके चान्ये लक्षणमाश्रिताः ।
लक्ष्यलक्षणमेतेषां तेनेदं दुष्करं विदुः ॥
अव्याप्तिरतिसंक्षेपादतिव्याप्तिश्च विस्तरात् ।
मुनीनामेकवाक्यत्वाद् ब्रूयामः स्थितिदुष्कराः ॥
सत्ववर्णगतिछायास्वरस्थानगतिः कुलम् ।
पुष्पं पुण्ड्रकनामानि दोषं वा जवलक्षणम् ॥
एवं लक्षणसंयुक्तं दृश्यते शूररक्षणे ।
लक्षणेन विहीना ये निर्द्दोषाःस्युः प्रधाविताः ॥
हयरोहस्य का चिन्ता लक्षणैः शुभनिन्दितैः ।
तेनात्र न कृतोऽस्माभिर्हयलक्षणविस्तरः ॥
हयवाहनविज्ञानं कौतुकाहितबुद्धयः ।
अनायासेन गृह्णन्ति परं हृष्टा इमे जनाः ॥
चलासनं कषा रागाः पाणिघातप्रतोदनम् ।
पदप्रघातसंज्ञानि दोषो यैरुपजायते ॥
कामात् कोपाद्भयान्मोहाद्दर्पाच्चैव मदाश्रयात् ।
पर्य्याणारोहदोषाच्च दुष्यन्तेऽश्वा निसर्गतः ॥
श्रीयुक्तसामन्तनरेन्द्रवन्दितं
रणे हयारोहवराभिनन्दितम् ।
धर्म्मार्थकामादियशःप्रधान-
मित्थं कृतं वाहनशास्त्रविस्तरम् ॥
इति श्रीनकुलकृतेऽश्वचिकित्सिते वाहना-
ध्यायो नवमः ॥
अथ धातुपरीक्षा ।
अथातः संप्रवक्ष्यामि धातूनां लक्षणं परम् ।
येन विज्ञानमात्रेण ज्ञायन्ते रोगसम्भवाः ॥
ततः शुद्धशरीरोत्थरक्तदोषानवाप्नुयात् ।
रक्तदोषात्तदा वाजी प्राप्नोत्येव महामयान् ।
तस्मात् सर्व्वप्रयत्नेन रक्तं ज्ञेयं विचक्षणैः ।
आषाढसमये प्राप्ते शिरामोक्षेण कृत्स्नशः ॥
तेन संशोध्यते रक्तं वाजिनां दोषसम्भवम् ।
ततः शुद्धशरीरोऽथ पिण्डाद्यैश्च बलीकृतः ॥
स्रावणे शष्पमासाद्य वज्रवत् सुदृढो भवेत् ।
यदि रक्ताधिको वाजी शस्यमश्नाति कर्हिचित् ॥
रक्तात् सञ्जायते पित्तं ततो नाशमवाप्नुयात् ।
रक्ताधिकश्वासपुटः स्नेहाद्यैः शस्यमत्ति चेत् ॥
संप्राप्य श्लेष्ममरिचाद्धयो नाशमवाप्नुयात् ।
हीनरक्तो यदा शस्यं रूक्षोऽश्नाति तुरङ्गमः ॥
तदा पायुं परं प्राप्य सद्यो नाशमवाप्नुयात् ।
तत्रेदं लक्षणं प्रोक्तं रक्तकोपसमुद्भवम् ॥
धातूनामवि सर्व्वेषां ज्ञेयञ्चिह्नं विचक्षणैः ।
पित्तरक्तप्रकोपेण यदा संपीड्यते हयः ॥
तदा कण्डूतिमासाद्य कषते सततं वपुः ।
छायां वाञ्छति यत्नेन विशेषेण जलाश्रयम् ॥
मुहुर्वाञ्छति पानीयमाहारञ्च विशेषतः ।
एवं वातोत्थरक्तेन ज्ञात्वाश्वम्पीडितं ततः ॥
शिरामोक्षं विधायैव दद्यात् सकटुकं गुडम् ।
ततः शुद्धिमवाप्नोति नीरोगः संप्रपद्यत्रे ॥
पित्तासृग्दूषितो वाजी यदि चाश्रूणि मुञ्चति ।
नेत्रान्ते पाण्डुरत्वञ्च सद्यो मृत्युमवाप्नुयात् ॥
नेत्रयोर्ल्लक्षणं प्रोक्तं पित्तरक्तसमुद्भवम् ।
श्लेष्मरक्तप्रकोपेण यदा सम्पीड्यते हयः ॥
अधोवक्त्वो भवेन्नित्यं कासते च मुहुर्मुहुः ।
आहारं न च गृह्णाति नीत्साहं कुरुते क्वचित् ॥
न विन्दति कशाघातं न च पार्ष्णिं न चासनम् ।
नासाग्रेण क्षिपेत्तोयं वहिर्घर्म्मञ्च वाञ्छति ॥
तस्यापि शोधयित्वासृग् दद्याच्छुण्ठ्या युतं गुडम् ।
सर्व्वं रक्तं ततः शुद्धा निःशेषं समवाप्नुयात् ॥
वाजिनः श्लेष्मरक्ताभ्यां दूषितस्य सदा भवेत् ।
नेत्रान्ते बिन्दुकाकारकण्डूस्तस्य तथोदरे ॥
तदा मृत्युमवाप्नोति षण्मासाभ्यन्तरे ध्रुवम् ॥
शुण्ठ्यामृता गोक्षुरकं घनञ्च
श्यामावचाहिङ्गुयुता च यष्टिः ।
कफप्रणाशाय विनिर्मितोऽयं
पिण्डः प्रसिद्धश्च कफापहश्च ॥
नोचेदश्नाति शुण्ठ्याढ्यं सैन्धवं नस्यमार्गतः ।
वायुरक्तप्रकोपेण पीडितस्तु तुरङ्गमः ॥
कुक्षिद्वये हयस्तीव्रं मुहुः श्वासं प्रमुञ्चति ॥
नैकत्र मन्यते स्थातुं ह्रेषते च निरर्गलम् ।
एवं वातोद्भवं ज्ञाप्यं रक्तन्देहे हयस्य च ॥
शोधयित्वाथ सन्दद्यान्महाघृतमनल्पकम् ।
ततः शुद्धिमवाप्नोति परां पुष्टिञ्च गच्छति ॥
उत्साहं कुरुते मार्गे सर्व्वदोषविवर्ज्जितः ।
वातरक्तप्रकोपेण लोचनान्ते हयस्य च ॥
यदा स्यातां सिते रक्ते काशः कण्डूस्तथानने ।
तदा तस्य भवेन्मृत्युर्यदि नाश्नाति चामिषम् ॥
अश्मकञ्च युतन्दध्ना माहिषेण निशागमे ।
सन्निपातेऽथ रक्तेन यदा सम्पीड्यते हयः ॥
यदा वेपथुमाप्नोति काशते च निरर्गलम् ।
निद्रालस्याग्निमन्दत्वं वस्तौ मलनिबन्धनम् ॥
कर्णयोः पातनञ्चैव वक्त्राल्लालाविमोक्षणम् ।
तत्रापि शोधयेद्रक्तं ततो लङ्घनमर्हति ॥
यावद्दोषस्य निर्णाशं स्तोकोदककृताशनः ।
क्वचिदुष्णं क्वचिच्छीतं क्वचिद्भेषजसंयुतम् ॥
प्रदेयं युक्तितत्वज्ञैर्वारि वार्य्यं न कुत्रचित् ।
सपथ्या चामृता चैव कटुका च वचा तथा ॥
शामयेत्तत्क्षणादेव त्रिधातुकुपितं ज्वरम् ।
शिरीषं श्रीफलञ्चैव वेतसञ्चैव वृद्धिभाक् ॥
मन्दाग्नित्वं सदोषाणां कुरुते भस्मसाद्द्रुतम् ।
मधुकं मधुजालञ्च माधुर्य्यं कुलिकान्वितम् ॥
शिरीषं क्षुद्रकं लाक्षां क्वाथयित्वा त्रिभागतः ।
यस्यैतत् सन्निपाताय वाजिनः संप्रदीयते ॥
तस्य तन्नाशमायाति तमः सूर्य्योदये यथा ।
स्वस्थस्यापि हिनेत्रान्ते स्यातां नीले च वाजिनः ॥
गन्धश्च सदृशः क्षोण्या तदा मृत्युर्द्विमासिकः ।
नीले पीतेऽथ नेत्रान्ते स्यातां चेद्वाजिनः क्वचित् ।
स निर्व्वाणमवाप्नोति त्रिभिर्मासैरसंशयम् ॥
यस्य नेत्रान्तरे रेखा बहुवर्णा प्रजायते ।
विशेषात् स्वरभेदः स्यात्तस्यायुः पाञ्चमासिकम् ॥
जिह्वायां जायते बिन्दुरकस्माद् यस्य वाजिनः ।
कृच्छ्रञ्च जीवते मासं स वाजी नात्र संशयः ॥
पीतो मासद्बयेनैव सप्तेर्मृत्यं प्रयच्छति ।
त्रिभिर्मासैस्तथारक्तश्चतुर्भिश्च विचित्रितः ॥
पञ्चभिर्नीलवर्णश्च षड्भिर्व्वज्रसमाकृतिः ।
सप्तभिः पाटलाकारश्चम्पकाभस्तथाष्टभिः ॥
नवभिञ्च हरिद्राभो दशभिर्जन्तुकोपमः ।
एकादशभिर्दूर्व्वाभो वत्सरेण हिमद्युतिः ॥
यस्य श्वासो भवेदुष्णः शरीरं पुलकाङ्कितम् ।
जिह्वा हिमकराकारा मासषट्कं स जीवति ॥
ग्रीवाग्रे पिण्डिका यस्य जायते च तथाधरे ।
मूत्रं करोति रक्ताढ्यं मासषट्कं स जीवति ॥
वर्णः श्वेतो यदां यस्य नेत्रयोश्च प्रजायते ॥
दशमासान् समासाद्य पित्तार्त्तो न स जीवति ।
यस्य नीलप्रभे स्यातां नेत्रे वातार्द्दितस्य तु ।
मासत्रयञ्च कृच्छ्रेण यः सप्तिः स न जीवति ॥
श्लेष्मयुक्तस्य वा रक्ते यदि स्यातां विलोचने ।
वक्त्रगन्धः सुरातुल्यो दश मासान् स जीवति ॥
यस्य नेत्रे हरिद्राभे स्यातां पित्तार्द्दितस्य च ।
तस्यायुः सप्तमासाख्यं मुनिभिः परिकीर्त्तितम् ॥
बहुवर्णे घने नेत्रे स्यातां धातुसमागमे ।
तस्य सप्तेर्भवेन्मृत्युः सप्तरात्रादसंशयम् ॥
यस्यैकं लोचनं नीलं द्वितीयं रक्तसन्निभम् ।
दृश्यते स च विज्ञेयः पित्ताढ्यो मासजीवकः ॥
यस्य पित्तप्रसक्तस्य काले नीरदवर्त्तिनि ।
हयस्य जीवितं तावद्दिनानि दश पञ्च च ॥
एवं रक्तविकाराणां ज्ञात्वा धातुं तुरङ्गमे ।
ततः प्रतिक्रिया कार्य्या उक्ता या कीर्त्तिता परा ॥
भयादपीतपानीयशीतविश्रीयुतस्य च ।
आर्त्तोऽपि ताडितोऽत्यर्थं तिर्य्यग्विद्धो यदापि वा ॥
श्रमाद्भराच्च बन्धाद्वा गात्रे वा विषमस्थिते ।
क्षीणशोणितमांसस्य शिरावेधः प्रशस्यते ॥
इति श्रीनकुलकृतेऽश्वचिकित्सिते धातु-
परीक्षाध्यायो दशमः ॥
अथ ऋतुचर्य्या ।
द्वासप्ततिसहस्राणि नाडीनां हि भवन्ति च ।
वाजिनामिह सर्वेषां वायुरक्तं व्यवस्थितम् ॥
तासां निर्म्मोचनार्थाय द्बाराण्यष्टौ वदाभ्यहम् ।
यैर्यात्रि कुत्सितं रक्तं सर्व्वदेहसमुद्भवम् ॥
कण्ठे वक्षसि तालौ च नासयोश्च मुखे तथा ।
अण्डयोरथ पादेषु पादयोरुभयोरपि ॥
कालं बलञ्च विज्ञाय बाजिनां भिषगुत्तमः ।
शिरामोक्षं प्रकुर्वीत स्थानेष्वेतेषु पण्डितः ॥
अन्ये सप्तदश प्राहुः शिराद्वाराणि वाजिनः ।
विकारयुक्तं यद्रक्तं सुस्वल्पमपि वर्जयेत् ॥
एवं शरदि यः सम्यक् पुष्टिं नयति वाजिनाम् ।
पृष्ठ २/४०४
तस्य यद्बाञ्छितं किञ्चिद्यानार्थं तच्च सिध्यति ॥
ततो हेमन्तमासाद्य निवाते निबधेद्धयम् ।
गासोत्थं यवसन्दद्यात् पानीयञ्च यथेच्छया ॥
घृतं वा यदि वा तैलं पाने दद्याद्विचक्षणः ।
वाहयेच्च शनैर्नित्यं सर्व्वदोषप्रशान्तये ॥
ततः शिशिरमासाद्य दद्यात्तैलं हि वाजिनाम् ।
पलाष्टकप्रमाणेन यावद्दिनत्रिसप्तकम ॥
यवोत्थं यवसन्दद्यादेकविंशत्यहानि च ।
यवाभावेऽथ चणकान् दद्यादार्द्रतरान् सदा ॥
तदभावे मसूरांश्च शुष्कार्द्रांस्तैलसंयुतान् ।
यवसं चापि तद्देयं नीरोगो जायते हयः ॥
औषधानाञ्च सर्वेषां क्वाथानां नस्यकर्म्मणाम् ।
तैलानाञ्च घृतानाञ्च यवस्य यवसं परम् ॥
पर्व्वतानां यथा मेरुरायुधानाञ्च वज्रकम् ।
तथा सर्व्वोपचाराणां सप्तेः श्रेष्ठतमा यवाः ॥
देवतानां यथा विष्णुर्ब्रह्मा वेदविदां वरः ।
नदीनाञ्च यथा गङ्गा तथा श्रेष्ठा यवा हये ॥
यथोदितः सहस्रांशुर्निःशेषं तिमिरं जयेत् ।
तथा शरीरजान् दोषान् यवाः सप्तेर्हरन्ति च ॥
उपचारक्रियाः सर्व्वाः पञ्चर्त्तुजनिता हये ।
कृताः स्युर्य्यवभोज्येन सप्तेस्तस्य कृता नरैः ॥
यस्य दत्ता यवा भोज्ये शिशिरे समुपस्थिते ।
अकृतापि कृता सर्व्वा पञ्चर्त्तुजनिता हये ॥
कृताः स्युर्य्यवभोज्येन सप्तेस्तस्य कृता नरैः ।
नीरोगास्तुरगाः सर्वे शालिहोत्रमतं यथा ॥
पञ्चर्त्तुजनिता वाथ क्रिया न्यस्ता तुरङ्गमे ।
अतीतास्ते विजानीयाद्यवभोज्यविवर्जिताः ॥
एवं रक्तविशुद्धानां कृत्वा यत्नेन वाजिनाम् ।
दद्याद्गोमूत्रसंयुक्तां सतैलां च हरीतकीम् ॥
दिनं त्रिसप्तकं यावत् पलपञ्चप्रमाणतः ।
ततः शुद्धिमवाप्नोति निःशेषाद्रुधिरोद्गमात् ॥
ततो नवतृणाहारं संप्राप्य सुमनोहरम् ।
परां पुष्टिमवाप्नोति नीरोगश्च प्रजायते ॥
न प्रायो वाहयेदश्वं प्रावृट्काले कथञ्चन ।
य इच्छेद्बाजिनस्तस्य वाहनं दशमासिकम् ॥
कूपोदकं सदा शस्तं पानाय जलदागमे ।
अभ्यङ्गः कटुतैलेन निर्वातस्थानबन्धनम् ॥
एकाहान्तरितं दद्याल्लवणञ्च विचक्षणः ।
पलद्वयप्रमाणेन मुखजापरिशुद्वये ॥
मुखरोगमवाप्नोति क्षारस्वादविवर्जितः ।
वृष्ट्यम्भोभिस्तु सिक्ताङ्गस्तेजसा त्यज्यते हयः ॥
अशुद्धोदकजान् प्राप्तान् प्राप्नोति शतशः परान् ।
नवोदकप्रधानेन बलहीनश्च जायते ।
तस्मात् सर्व्वप्रयत्नेन प्रावृट्काल उपस्थिते ।
अनेन विधिना प्राज्ञो वाजिनः परिपोषयेत् ॥
ततः शरदमासाद्य बहुखण्डसमन्वितम् ।
शस्तं क्षारोदनं सप्तपलाष्टपरिसंख्यया ॥
दुग्धं वा केवलं रात्रौ क्वथितं संप्रशस्यते ।
तथान्यदपि यत्किञ्चिन्मधुरं संप्रजायते ॥
पानाय सारसं तोयं यवसं सुमनोहरम् ।
नीलवर्णमुकुष्टाश्च घृतं प्राशेन संयुतम् ॥
वाहनं च प्रयन्नेन सुस्वल्पमपि वर्जयेत् ॥
परीक्षाग्नौ यथा हेम्नः स्नेहस्य च प्रतिक्रिया ।
हयजीवस्य तद्वच्च परीक्षा यवभक्षणे ॥
यथा सांयात्रिकः पारं गत्वोच्चैः स्वस्थतांव्रजेत् ।
तद्बत् यवाशनोत्तीर्णाः शुद्धदेहा हयोत्तमाः ॥
अल्पेनापि हि छिद्रेण यथा नश्यति नौर्जले ।
स्वल्पेनापि हि दोषेण यवदोषांस्तथैव च ॥
एवं ज्ञात्वा विदग्धेन यवा देयाः प्रयत्नतः ।
प्राप्तक्षीरा विशेषेण शिशिरे समुपस्थिते ॥
शुष्का वापि यवा देयाः सर्व्वकालं च वाजिनाम् ।
प्राणदास्ते ततो ज्ञे याः सर्व्वव्याधिविनाशनाः ॥
यश्चाश्नाति यवानाशु शुष्कांश्च स्वेच्छया सदा ।
न तस्य जायते रोगः कदाचिच्च यवान्नभाक् ॥
न च शूलं न च श्वासो न च प्लीहा न च क्लमः ।
न च रक्तप्रकोपश्च न च वातादिधातवः ॥
योग्योऽशनार्थं वाहानां प्रधानो यव इष्यते ।
यवाभावेऽथ चणका धान्यमन्यतमं परम् ॥
यवाभावेऽथवा दद्यान्मुकुष्टांस्तैलसंयुतान् ।
भोजने तुरगेन्द्राणां परां पुष्टिमभीप्सताम् ॥
मुकुष्टभोजनाद्बाजी पुष्टिं गच्छत्यलौकिकीम् ।
उत्साहं परमं धत्ते स च रोगैर्विमुच्यते ॥
अप्राप्तौ च मुकुष्ठानां मुद्गा देया मनीषिभिः ।
सतैलास्तेऽपि कुर्व्वन्ति पुष्टिं सत्त्वविवर्द्धिनीम् ॥
एते पुष्टिगुणाः प्रोक्ताश्चणकाहारजा हये ।
नान्यस्तस्मादभावेन सर्वेषां तान् विनिर्द्दिशेत् ॥
नान्यद्धितं प्रशंसन्ति पञ्चमं वाजिनां बुधाः ।
भक्षणार्थं यतस्तस्य दानोल्लङ्घनमुत्तमम् ॥
अन्नाभावे प्रदातव्यं घृतं वा यदि वा पयः ।
शस्यं वा मांसमेवाथ पुष्ट्यर्थं वाजिनां सदा ॥
यस्याश्वः शस्यमश्नाति सदा लवणमिश्रितम् ।
किं तस्य शस्यदानेन यथाभूतेन भूपतेः ॥
शस्याभावेऽथ यवसं शुष्कं वा यस्य वाजिनः ।
दिवानिशमरण्ये च स्वेच्छया संविभुक्तिकाः ॥
ते चापि वाजिनो ज्ञेया यथा शस्यचरास्तथा ।
तथा सर्व्वप्रयत्नेन मुक्तान् सञ्चारयेद् वने ॥
आरोग्यार्थं सुपुष्ट्यर्थमुत्साहार्थं विशेषतः ।
वित्तव्ययस्य रक्षार्थं हरेद्रोगं प्रयत्नतः ॥
वसन्तसमये प्राप्ते वाहयेत् सततं हयम् ।
सनिम्बं लवणं दद्यात्ताभ्यां तैलं विशेषतः ॥
सर्व्वत्र सम्भवं भोज्यं तैलं वा वदि वा घृतम् ।
न दोषकारणं प्रोक्तं सक्षारं लवमश्नतः ॥
वसन्तसमये योऽश्वः स्थाने तिष्ठति बन्धने ।
तस्योत्साहः प्रणश्येत सालस्यं जायते वपुः ॥
ततो मन्दाग्निनाविष्टो रोगाभावे प्रजायते ।
तस्मात् सर्व्वप्रयत्नेन वसन्ते वाहयेद्धयम् ॥
ग्रीष्मकाले च संप्राप्ते दूर्व्वाभोज्यं प्रशस्यते ।
वाजिनामिह सर्व्वेषां घर्म्मतापोपशान्तये ॥
घृतपानं विशेषेण सुच्छायासु निबन्धनम् ।
रक्तस्रावे च गात्रेषु ग्रासं वा घृतसंयुतम् ॥
दूर्व्वाभावे प्रदातव्यं तुरगाय घृतान्वितम् ।
कृत्तकाशस्यसध्याग्रं सर्व्वदोषोपशान्तये ॥
एवं स्वस्थमयं सम्यगुपचारं करोति यः ।
हयस्य तु ग्रहो नित्यं तस्य वर्द्धन्ति वाजिनः ॥
नीरोगाः पुष्टिसंयुक्ताः प्रकृष्टोत्साहसंयुताः ।
तर्पिता भूमिपैरश्वा भूमिमार्गक्रियाक्षमाः ॥
इति श्रीनकुलकृतेऽश्वचिकित्सिते ऋतु-
पर्य्यायाध्याय एकादशः ॥
अथ नस्यः ।
कासश्वाससमो नस्यो वातपित्तकफोद्भवः ।
नस्यः संनाशयेत्तस्मात्तं नस्यं योजयेद्धये ॥
पिप्पली सैन्धवं सारं नागरञ्च गुडान्वितम् ।
कृत्तिकासारमध्याग्रं वाजिनां श्लेष्मनाशनम् ॥
चूलिकालवणं नस्ये सदा रोगविनाशनम् ।
सिता चन्दनतोयानि साक्तुकाख्यानि वाजिनाम् ।
नस्यकर्म्माणि युक्तानि नाडीवातप्रशान्तये ।
मृदुकैरार्द्रकं सान्द्रं वचाक्षारविमिश्रितम् ॥
नस्ये दत्तं वातशान्त्यै हयरोगविनाशनम् ।
शर्करां माक्षिकं सैरं पटोलं पलसंयुतम् ॥
नस्ये शरदि सप्तीनां जायते रोगशान्तये ।
वचा चोष्माणकं कुष्ठं शुण्ठी च कासमर्दिका ॥
युक्तं शीतोदके स्तोके तेषां नस्येऽपसर्पयेत् ।
गुडूची कौमुदी ताली मिश्रिता कूपवारिणा ॥
नस्ये दत्ता वराश्वानां शिशिरे सुखदा स्मृता ।
अपामार्गं महानस्यं सर्व्वरोगविनाशनम् ॥
केवलं कटुतैलं वा गोमूत्रे पाचितञ्च यत् ।
मैथुनाद्रिक्तसन्धीनां स्रोतोबलकरं विदुः ॥
कण्ठरोगे तथा नस्यं गोमूत्रलवणान्वितम् ।
महद्गुणकरं प्रोक्तं सर्व्वदोषनिवारणम् ॥
अपामार्गस्य मूलेन नस्ये मूत्रञ्च छागलम् ।
मुखरोगविनाशाय नस्यं मत्स्यवसोद्भवम् ॥
लशुनं पिप्पलीमूलं गण्डकी नागकेशरम् ।
दत्तं नस्येन रोगघ्नं कटुतैलेन वाजिनाम् ॥
नस्यं पर्य्युषितैस्तोयैः प्रातर्दत्तं तु केवलैः ।
अश्वानाञ्च नराणाञ्च चाक्षुष्यं बलवर्द्धनम् ॥
पिप्पलीमिश्रतोयेन ससितासलिलेन च ।
नस्यं यच्छति सप्तीनां सर्पिषा यच्छते बलम् ॥
नस्यं स्निग्धं तथा रूक्षं तिक्तञ्च मधुरं तथा ।
चतुर्द्धा वाजिशास्त्रज्ञैर्यथावत्परिकीर्त्तितम् ॥
देयं वाताधिके स्निग्धं रूक्षं तिक्तं कफाधिके ।
मधुरं चैव पित्ताढ्ये तुरङ्गे समयोचितम् ॥
द्विपञ्चाशत्प्रमाणं वा श्रेष्ठं तन्नस्यमुष्यते ।
पादोनं मध्यमं तत्र षड्विंशत्यां तथाधमम् ॥
नस्यान्ते वाजिनो रक्तं सदा पुष्टं प्रजायते ।
नस्यदानात् हृतं तस्य विनाशमुपगच्छति ॥
दाडिमं पुष्करं श्रीकं श्वेतदूर्व्वाङ्कुरास्तथा ।
शीतोदकेन संयुक्तं रक्तं दुष्टं न जायते ॥
धातकी गोक्षुरं रोध्रं कुसुम्भं सिन्धुवारकम् ।
शीतोदकेन संयुक्तं नस्यं रक्तविनाशनम् ॥
धातकी गण्डकी चैव गोमूत्रं लवणं तथा ।
नस्ये दत्तं कफं हन्ति तमः सूर्य्योदये यथा ॥
शुण्ठी घृतञ्च दुग्धञ्च रससारं तथैव च ।
वातदोषविनाशाय नस्यमेतत्प्रयोजयेत् ॥
माक्षिकं शर्करायुक्तं चन्दनं केशराणि च ।
नस्योऽयं वारिणा सद्यः पित्तनाशकरः परः ॥
गुडूची शुण्ठी मुस्ता च तगरं सितसर्षपाः ।
पृष्ठ २/४०५
सन्निपाते सपित्तेऽयं नस्यः स्याज्जीषरक्षकः ॥
अभया पुत्त्रिणी धात्री एला लाक्षा शतावरी ।
सन्निपातेऽनिलाधिक्ये नस्योऽयं क्षेमकारकः ॥
मरिचं पिप्पलीमूलं वचा भारङ्गिकाभया ।
सन्निपाते कफाधिक्ये नस्यं सप्तेः सुखप्रदम् ॥”
इति श्रीनकुलकृतेऽश्वचिकित्सिते नस्याधि-
काराध्यायो द्वादशः ॥
अथ पिण्डः ।
“कटुका च जयन्ती च भ्रामरी सुरसा घनाः ।
पञ्चामृतमयः पिण्डो वाजिनामयमिष्टकृत् ॥
एला शतघ्नी सुरसा काकजङ्घा शतावरी ।
माक्षिकं ससितं पिण्डः पित्तयुक्ते हि वाजिनि ॥
माक्षिकं सैन्धवं मुस्ता गोमूत्रञ्च हरीतकी ।
समभागेन पिण्डोऽयमुक्तो वह्निप्रदीपकः ॥
कंकोलं केतकी द्राक्षा शर्करा मधुयष्टिका ।
दत्तो घृतयुतः पिण्डः गुष्टिं नयति वाजिनः ॥
मत्स्यमांसेन संयुक्तं ग्रावचूर्णं घृतप्लुतम् ।
बलहीनस्य वाहस्य पिण्डोऽयं बलवर्द्धनः ॥
बला मद्यं दधि क्षौद्रं भक्षयंस्तुरगो भवेत् ।
अतिवृद्धोऽपि सूक्ष्मोऽपि यथा षट्सप्तवार्षिकः ॥
मेथिका धातकी काली सारणी बीजपूरकः ।
पिण्डो दत्तो वराश्वानां तेजोवृद्धिकरः स्मृतः ॥
कटुका मद्यसंमिश्रा धात्री लोध्रगुडान्विता ।
दत्ता पिण्डविधानेन वाजिनां सुखवृद्धिदा ॥
त्रिफला कटुका मुस्ता विडङ्गानि च चित्रकम् ।
सदालस्य समेतानां वाजिनां पिण्ड आर्त्तिहृत् ॥
वचा विदलिताः स्निग्धाः सघृताः क्षारभाविताः ।
पिण्डैर्दत्ताः प्रकुर्व्वन्ति वाजिनां व्याधिनाशनम् ॥
सैन्धवं नागरं श्यामा गुडूची सितसर्षपाः ।
अम्लवेतसमश्वानां पिण्डोऽयं शूलनाशनः ॥
पिप्पली पिप्पलीमूलं कटुका सहदेविका ।
दूर्व्वापल्लवसंमिश्रः पिण्डोऽयं प्लीहनाशकः ॥
केशरं श्रीफलं तालं माक्षिकं गिरिकर्णिका ।
पिण्डोऽयं श्लथने शस्तो वाजिनां सुगतिप्रदः ॥
वचा लोध्रं सकर्पूरं गुहा श्यामा गुडं मधु ।
समांशकेन पिण्डोऽयं करोति लघुतां हये ॥
मद्यं मरिचसंयुक्तं लशुनं नागकेशरम् ।
द्बिगुणं मेषमांसञ्च पिण्डो दत्तो जयेच्छ्रमम् ॥
जम्बीरं फलिनीपत्रं त्वचा किञ्जल्कमेव च ।
जातशोणितवाहानां पिण्डोऽयं रक्तनाशनः ॥
तमालं पुष्करं लोध्रमपामार्गं सतिन्दुकम् ।
पयसा पिण्डमेतद्धि वातकोपप्रणाशनम् ॥
आरनालं प्रविष्टा च पथ्या नेपालिकाफलम् ।
पिण्डे दत्ते हये दध्ना निहन्त्याशु विजृम्भितम् ॥
मुद्गदूणं वचामिश्रं तथा सर्ज्जरसान्वितम् ।
पिण्डे दत्ते निहन्त्याशु कृमिसंघं व्रणोद्भवम् ॥
स्नुहीक्षीरं सकर्पूरं कूपोदकविभावितम् ।
पिण्डोऽयं हन्ति मध्यस्थान् रोगान् सर्व्वान्
कृमिव्रजान् ॥
सिता दुग्धं सकर्पूरमेलया पत्रसंयुतम् ।
अग्निदाहार्त्तियुक्तानां पिण्डोऽयं वाजिनां स्मृतः ॥
ग्रीष्मासह्यप्रतप्तानामारनालं परिप्लुतम् ।
सकृदिच्छन्ति पिण्डेन वाजिनां सुखकारकम् ॥
वृष्टिवातार्द्दितानाञ्च वाजिनां पुष्टिकृन्मतः ।
पिण्डः कृतः सतैलेन लशुनेन पलेन च ॥
महाघृतं सकर्पूरं शर्करा दुग्धमेव च ।
कफनाशकरः प्रोक्तः पिण्डोऽयं सुखदः स्मृतः ॥
रोचना च वरी धात्री तथा स्याद्बीजपूरकः ।
गुल्मं प्रशमयन्त्याशु वाजिनां हृदयोद्भवम् ॥
सहदेवी वचा कुष्ठं वरुणा चेन्द्रवारुणी ।
अतिश्वासं हरन्त्येते वाजिनां मधुना सह ॥
उदुम्बरफलं मांसं शौकरं माहिषं दधि ।
हयस्य चातिवृद्धस्य करोति परमं सुखम् ॥
विभीतकं प्रियङ्गुश्च सर्ज्जिका लवणं तथा ।
कासदोषोपशमनः पिण्डः सप्तेः सुखप्रदः ॥
तक्रं कर्पूरचूर्णञ्च शिवं सौवर्च्चलान्वितम् ।
पिण्डोऽयं वस्तिसंरोधे वाजिनः संप्रकीर्त्तितः ॥
सौवर्च्चलं हरिद्रा च पिप्पली चेन्द्रवारुणी ।
मूत्रकृच्छ्रे परीप्सन्ति पिण्डोऽयं तुरगस्य हि ॥
पिण्डीरसक्तवः क्षौद्रं भल्लातकफलं वुषम् ।
रक्तमूत्रे तु पिण्डोऽयं वाजिनां रक्तनाशनः ॥
अभया यष्टिका श्यामा देवदारु सगन्धकम् ।
पुरीषे रक्तसंमिश्रे सदा शंसति वाजिनः ॥
पटोलं धातकी सुस्ता यष्टिका गिरिकर्णिका ।
रक्ताधिके कृतः पिण्डः करोति रुधिरक्षयम् ॥
हरिद्राद्वयसंयुक्तं गन्धकं कटुतैलकम् ।
पिण्डकं श्रुतियुक्तानां सदाश्वानां प्रशस्यते ॥
अतसीपत्रकं निम्बं न्यग्रोधकलिकान्वितम् ।
अतीसारे सुशंसन्ति पिण्डोऽयं वाजिनः शुभः ॥
ब्रणैः कृमिभिरत्यर्थं सदा वाजी प्रपीड्यते ।
तदा पिण्डः प्रदातव्यः स्थूलैरण्डदलैरलम् ॥
कर्पूरशर्करालोध्रं माक्षिकं त्रिफलान्वितम् ।
तुरङ्गिण्याः प्रशंसन्ति पिण्डोऽयं वाजिनः शुभः ॥
पत्रकं सिन्धुवारञ्च भ्रामरं चक्रकिंशुकम् ।
मांसवृद्धौ प्रशंसन्ति पिण्डोऽयं वाजिनः शुभः ॥
सैन्धवं चूलिकाक्षारं विडङ्गानि मधूनि च ।
शस्त्रपीडाभिभूतस्य पिण्डोऽश्वस्य प्रशस्यते ॥”
इति श्रीनकुलकृतेऽश्वचिकित्सिते पिण्डा-
ध्यायस्त्रयोदशः ॥
अथ घृतविधानम् ।
“शिलाजतु विशाला च पद्मकं नागकेशरम् ।
लाक्षा पद्मकमृलञ्च निम्बद्वयसमन्वितम् ॥
घृतं माक्षिकसंयुक्तं सप्तविंशतिकं विदुः ।
अष्टांशं तु समादाय सुरामांसघृतस्य च ॥
पलमात्राणि सर्व्वाणि पूर्ब्बद्रव्याणि निःक्षिपेत् ।
तेषां दानेन तत्सर्पिर्जायते सर्व्ववाजिनाम ॥
बलपुष्टिकरं नित्यं सर्व्ववातविनाशनम् ।
सर्व्वरोगप्रशमनं कायाग्नेश्च प्रदीपनम् ॥
ओजस्करं व्यथानाशं प्लीहशोषप्रणाशनम् ।
धातकी केशरं कुष्ठं कुसुम्भं कुङ्कुमं नलम् ॥
दाडिमं सितलोध्रञ्च पलमात्राणि निःक्षिपेत् ।
घृतञ्च पाचयेत् पानादभिघातान्वितो हयः ॥
जावते सर्व्वशुद्धाङ्गो महाप्राणैर्न संशयः ।
आरनालं वचा कुष्ठं पिङ्गला सिक्थकं घृतम् ॥
एतैः पक्वं घृतं सम्यक् पित्तव्याधिविनाशनम् ।
हरिद्राद्वयसंयुक्तं गन्धकं तु मनःशिला ॥
क्वाथयेन्नवनीतेन त्रिगुणेन घृतेन च ।
अभ्यङ्गेनाथ पानेन सप्तरात्रेण वाजिनः ॥
कण्डूतिर्निःक्षयं याति तथोदरभवा रुजः ।
माक्षिकं निम्बपत्राणि नखं गुग्गुल एव च ॥
भृङ्गराजो विशाला च पाठा चैव पुनर्नवा ।
विल्वमारुष्ककं लोध्रं सैन्धवं तगरं तथा ॥”
एतैः पक्त्वा घृतं वाजी संप्राप्यार्त्तेर्विमुच्यते ॥
इति श्रीनकुलकृतेऽश्वचिकित्सिते घृता-
ध्यायश्चतुर्द्दशः ॥
अथ क्वाथः ।
“पूर्ब्बाणि समभागानि क्वाथयेत् कूपवारिणा ।
ततोऽष्टांशं समादाय तोयस्य क्वथितस्य च ॥
एतत् सिद्धार्थकं नाम ह्युत्कृष्टं सर्व्ववाजिनाम् ।
कायाग्निं वर्द्धयत्याशु नीरोगत्वं प्रयच्छति ॥
मुस्ता मधुकपत्राणि केशरं लवणं रुहा ।
शताह्वा शाल्मली धात्री त्रपुषं फलिनी तथा ॥
क्वाथयित्वा जलं कौपं दत्तैस्तुल्यैर्विचक्षणः ।
त्रिभागमेवमादाय ततो दद्याद्धयस्य च ॥
प्रकरोति सदा नाशं पित्तस्यागन्तुकस्य च ।
एकविंशदिनं यावच्छालिहोत्रमतं यथा ॥
शुण्ठी हरीतकी पाठा ब्राह्मी मुस्ताशिफालिका ।
हरिद्राद्वयसंयुक्ता हरितालं मनःशिला ॥
सिद्धस्त्रिभागशेषोऽयं क्वाथो हन्यात्त्रिरात्रिकम् ।
सन्निपातमशेषेण पलिकः पलमात्रकः ॥
मधुकं केशरं पत्रं भल्लातकविभीतकम् ।
शङ्खपुष्पं रुहा सारं समभागेन मिश्रितम् ॥
कासार्त्तस्य समुद्दिष्टः क्वाथोऽयं त्रिफलात्मकः ।
उत्साहवर्द्धकः सद्यस्तथा कायाग्निदीपकः ॥
कुमारी शाल्मली पाठा मञ्जिष्ठा चेन्द्रवारुणी ।
काकोली समभागेन क्वाथयेद् समभागतः ॥
पलद्वयप्रमाणेन ततः पीतेन वाजिना ।
मोहयेच्छूलजं दोषं मूत्रदोषं च तत्क्षणात् ॥
यवानी माक्षिकं कासं सौवर्च्चलयुताभया ।
क्वाथयेदष्टमांशेन तत्पानाज्जायते हयः ॥
प्रदीप्ताग्नेस्तु तेजस्वी सर्व्वरोगाद्विमुच्यते ।
स शीघ्रमार्गगामी च स्निग्धो रोगविवर्ज्जितः ॥
सेफालिका रुहानीले वेणुका सिन्धुवारिका ।
एतैः क्वाथः कृतः सम्यक् क्रमिनाशकरः परः ॥
मातुलुङ्गस्य बीजानि चन्दनं सितसर्षपाः ।
उशीरं पुष्करं ब्राह्मी लक्ष्मणा च पुनर्नवा ॥
क्वाथोऽयं शुण्ठिचूर्णेन धावितक्लेशनाशनः ।
प्रकरोति तुरङ्गाणां सर्व्वदैव सुखं तथा ॥”
इति श्रीनकुलकृतेऽश्वचिकित्सिते क्वाथा-
ध्यायः पञ्चदशः ॥
अथ विधम् ।
“वारुणी माक्षिकी गौरी श्रीतालीबीजपूरकम् ।
कृमिक्लेदविनाशाय क्वाथो नित्यं रुजाहरः ॥
अश्वगन्धा घृतं क्षौद्रं विषदग्धस्य वाजिनः ।
विषनाशं करोत्येव सर्व्वगात्रेषु तत्क्षणात् ॥
सामान्येन प्रदिष्टोऽयमगदो विषनाशनः ।
पृष्ठ २/४०६
पृथक् पृथग्विभागेन कर्त्तव्यं साम्यतः परम् ॥
त्रिविधं कीर्त्तितं चैव कृत्रिमञ्च ततःपरम् ।
त्रिविधं कीर्त्तितं प्राज्ञैर्विषज्ञानवित्तक्षणैः ॥
स्थावरं कन्दजं प्रोक्तं जङ्गमं सत्त्वसंस्थितम् ।
कृत्रिमं योगजं प्रोक्तं त्रिविधं विषमुच्यते ॥
यदा स्थिरं समश्नन्ति कदाचित्तुरगोत्तमाः ।
तदा कार्य्यं विधानज्ञैरगदस्य प्रयोजनम् ॥
केशरं पद्मनालञ्च सौपर्णी वदरीफलम् ॥
तक्रमिश्रं हये दत्तं सर्व्वथा विषनाशनम् ॥
सौपर्णी सिन्धुवारञ्च नागवल्ली जटा तथा ।
विषार्त्तं प्राप्य संमिश्रं दुग्धे स्यादायुधी हयः ॥
अश्वगन्धा रुहा एला घृतमिश्रा प्रयोजिता ।
विषनाशं नयत्याशु जङ्गमं हयगात्रतः ॥
मूलं चन्दनवृक्षस्य माषचूर्णपरिप्लु तम् ।
जङ्गमस्य विषस्याशु प्रकरोति च संक्षयम् ॥
तक्रं केशरसंयुक्तं विषं सद्यो नवाभ्रकम् ।
हयस्य जङ्गभं नाशं विषन्नयति तत्क्षणात् ॥
सौपर्णी विषकङ्कोली पिष्ट्वा मद्येन भाविता ।
जङ्गमं गात्रतः कृत्स्नं विषं नयति तत्क्षणात् ॥
एला कङ्कोलिकामूलं सौपर्णीघृतमिश्रितम् ।
विषनाशं करोत्याशु नस्यदानेन वाजिनाम् ॥
कौसुम्भं केशरं लाक्षा माक्षिका नाकुली तथा ।
कृत्रिमस्य विषस्याशु प्रकरोति च संक्षयम् ॥
चम्पकं मालतीमूलमुन्मत्तकरसं तथा ।
अश्वानां नाशयत्याशु विषं जङ्गममाश्रितम् ॥”
इति श्रीनकुलकृतेऽश्वचिकित्सिते विषयोगा-
ध्यायः षोडशः ॥
अथ अश्वशालाविधिः ।
“नृपवेश्मवामभागे शुभदिने तु कारयेद्धयागारम् ।
पूज्यश्रियं प्रयत्नादुच्चैःश्रवसं प्रतिष्ठाप्य ॥
सुशुभे भूमिविभागे पूर्ब्बोत्तरजलप्लवविधानात् ।
तस्मिन् शालां क्षिण्णां दशहस्तसमुच्छ्रितां दृढां
कुर्य्यात् ॥
खादनकोष्ठकमस्मिन् हस्तद्बितयं समुच्छ्रितं
कुर्य्यात् ।
संस्थाप्य वृषभगावौ सप्ताहं वाजिशालायाम् ॥
अत ऊर्द्धन्तु हुताग्निः प्रवेशयेद्बाजिनो यथा-
योग्यम् ।
कुशलैस्तरुणैर्दक्षैरनुकूलैः स्थानपालैश्च ॥
कृतमङ्गलसंस्कारा बन्धव्यास्तेऽत्र चोत्तराभि-
मुखाः ।
नात्यायता न शिथिलाः स्थाने वा दक्षिणाभि-
मुखम् ॥
वैद्यानां तुरगाय समीपं गृहं कारयेत् पूर्ब्बम् ।
कार्य्यामिकेन मूत्रेण माक्षिकाणां निवारणम् ॥
गन्धैमाल्यैर्धूर्पैः स्थानानि विभूषयेदलङ्कारैः ।
सविशेयं त्वद्यपीतौ हुत्वाग्निं पूरयेद्बिद्बान् ॥
स्वच्छिद्रं नातियवमं यथा पश्यन्ति वाजिनः ।
म्यानं चैव पृथक् प्राप्तं प्रयत्नं रोगिणां न वै ॥
कोष्ठी कुष्ठी ज्वरी यक्ष्मी परस्परं दूषयति क्षारैः ।
तियिवारे कैशांश्च खुरांश्च प्रघ्नन्ति दीर्घान् ॥
अश्वस्याङ्गे प्रलिपेद्धरिद्रया वरिष्ठया मङ्गन्न्यात्र ।
सुपवित्रान् दोषघ्नैर्विभूषयेदलङ्कारैः ॥”
इति श्रीनकुलकृतेऽश्वचिकित्सितेऽश्वशाला-
विधिरष्टादशोऽध्यायः ॥ सप्तदशाध्यायस्तु नाधि-
गम्यते ॥
अथ ग्रहनामलक्षणानि ।
“दृश्यन्ते यानि लिङ्गानि ग्रहदोषेण वाजिनाम् ।
तानि सम्यक् प्रवक्ष्यामि ग्रहनामानि यानि तु ॥
लोहिताक्षो विरूपाक्षो हरिर्बलिस्तथैव च ।
सकाशी चैव विख्यातः सङ्काशी च परः स्मृतः ॥
सुसंस्थितश्च कौवेरो वैशाखश्च भृदुग्रहः ।
ऊर्द्ध्वश्च दारुणश्चैव षड्विधो वरुणग्रहः ॥
बृहस्पतिश्च सोमश्च तथा सूर्य्यग्रहोऽपरः ।
एते प्रोक्ता ग्रहाः सर्व्वे दारुणा मुनिसत्तमैः ॥
एतैदृष्टाः स्फुटं वाहा नैव जीवन्ति सर्व्वदा ।
चिह्नं सर्व्वं प्रवक्ष्यामि यथा शास्त्रे व्यवस्थितम् ॥
कम्पते पूर्ब्बकायस्तु निश्चलो यस्य पश्चिमः ।
पश्चाल्लङ्गी सकम्पश्च खिद्यते हरिपीडितः ॥
भवन्ति विन्दवो रक्ता अकस्माद् यस्य चक्षुषः ।
हरिताक्षगृहीतोऽश्वो ग्रासद्वेषी च जायते ॥
प्रस्विन्नगुरुगात्रश्च लुब्धचङ्क्रमणक्रियः ।
मीलतोन्मीलता चाक्ष्णा स्वभावान्नित्यमेव च ॥
विरूपाक्षगृहीते तु कम्पः स्वेदश्च जायते ।
उत्थितः सहसा यस्तु मूर्ध्ना पतति भूतले ॥
स्तब्धाक्षो मुच्यते केशैस्तथा बालैः खुरैरपि ।
बलिग्रहगृहीतोऽसौ स्तब्धकर्णशिरोधरः ॥
अकस्माद् यस्य लोमानि शीर्य्यन्ते यश्च लङ्गति ।
शूनपच्चिमपादस्य तस्य काशिग्रहं वदेत् ॥
सहसा कुपितो वाजी स्वानि गात्राणि खादति ।
प्रोथते सततञ्चैव सङ्काशिग्रहपीडितः ॥
खिन्नाङ्गो वेपमानश्च जानुभ्यां यश्च तिष्ठति ।
कौवेरग्रहसन्दुष्टं तं विद्यात् कष्टजीवितम् ॥
ह्रेषते सततं यस्तु पश्चादात्मानमीक्षते ।
सुसंस्थितग्रहाविष्टः स विज्ञेयो मनीषिभिः ॥
स्तब्धेन गुरुणा चैव वेपमानेन पण्डितः ।
गात्रेण विद्याद् वाहं तु वैशाखग्रहसेवितम् ॥
ग्रीवां चैव तथा जिह्वां परिवर्त्त्या मुहुर्मुहुः ।
जृम्भते पूर्ब्बकायेन शीतोच्छासी विशोचनः ॥
नोद्विजेत्त्वाहतः पृष्ठे कशया पाणिनापि वा ।
तं वै दीर्धस्वरग्रस्तं दृष्ट्वैव परिवर्जयेत् ॥
श्यामं जिह्वामुखं यस्य नष्टदृष्टिस्मृतिर्भवेत् ।
ऊर्द्धग्रहकृतं दोषं तस्य दीनस्य निर्द्दिशेत् ॥
तालुजिह्वे च नेत्रे च वृषणौ मेढ्रमेव च ।
श्यावं रूपञ्च यस्य स्याद् गात्रगौरवमेव च ॥
तस्य स्वेदपरीतस्य बुद्धिमान् वरुणग्रहैः ।
कृतं दोषं महाघोरं स्तब्धाङ्गस्य विनिर्द्दिशेत् ॥
ह्रेषते सततं यस्तु हृष्टरोमा तुरङ्गमः ।
स्तब्धाक्षो जृम्भतेऽत्यर्थं तस्यापि सलिलग्रहः ॥
सुविस्फुरितसर्व्वाङ्गः सलिले निश्चलस्थितः ।
ह्नेषते विस्तरं वाजी वरुणग्रहपीडितः ॥
मुहूर्त्तावस्थितस्तोये जानुभ्यां योऽवगच्छति ।
मुखपाकश्च यस्यान्ते तं विद्यादुदकग्रहम् ॥
उद्वर्त्तिताक्षः खिन्नश्च संगृहीतहनुश्च यः ।
कम्पमानश्च यो वाजी स रविग्रहपीडितः ॥
स्तब्धग्रीवो न जानाति कशाघातं सुदुर्म्मनाः ।
जलग्रहगृहीतोऽश्वो वामपार्श्वेन निश्चलः ॥
शूनाक्षिकूटो रक्ताक्षः कृशः स्खलति यो मुहुः ।
बृहस्पतिगृहीतोऽसौ नैव जीवति तादृशः ॥
कम्पते पूर्ब्बकायेन स्वल्पपानाशनश्च यः ।
शेते प्रसार्य्य गात्राणि शीताङ्गः सोमपीडितः ॥
रक्ताक्षः शूनकण्ठश्च कम्पमानश्च श्वासयुक् ।
फेनतीव्राङ्गखेदश्च ग्रस्तः सूर्य्यग्रहेण सः ॥
उदके तत्समीपे वा प्रायो गृह्णाति दारुणः ।
तुरङ्गं सत्त्वहीनन्तु षड्विधो वारुणग्रहः ॥
यज्ञभूमिचिताचैत्यशून्यवेश्मसुरालये ।
लोहिताक्षादयो रोषाद् ग्रहा गृह्णन्ति वाजिनः ॥
एवंविधैर्निदानैस्तु ग्रहदोषं विनिर्द्दिशेत् ।
वातपित्तकफानान्तु निदानैर्व्याधिमादिशेत् ॥
एकाकारेण रोगेण म्रियते वा हयो यदा ।
तुरङ्गाणां तदा ज्ञेया उपसर्गाः सुदारुणाः ॥
ग्रहदोषेषु सर्व्वेषु उपसर्गांस्तथैव च ।
अथोक्ताञ्च महाशान्तिं गान्धर्व्वीञ्च प्रयोजयेत् ॥
अश्वरक्षाविधानाय ऋक्षं सम्मान्य पावकम् ।
जुहुयाद्घृतसंयुक्तं शुचिः स्नात्वा सुपूजितः ॥
शान्तिकं कारयेत् कर्म्म बलिञ्चापि प्रयोजयेत् ।
ग्रहदोषेषु सर्व्वेषु शान्तिकर्म्माणि कारयेत् ॥
देवद्विजप्रव्रजितगुरुवृद्धान् यतीनपि ।
तोषयेद्भोजनैर्दानैर्वस्त्रगोकाञ्चनादिभिः ॥
रात्रौ शालासमीपे तु बलिं दद्यात् चतुर्दिशम् ।
मत्स्यमांसैश्च पक्वान्नैः कृशरैः पायसादिभिः ॥
त्रिरात्रं पञ्चरात्रं वा सप्तरात्रमथापि वा ।
नीराजनविधिं कृत्वा नयेदश्वान् पृथक् पृथक् ॥”
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे ग्रह-
गृहीतचिकित्सिते सप्तपञ्चाशत्तमोऽध्यायः ॥)

घोटिका, स्त्री, (घोटते परिवर्त्तते कट्वादिगुणै-

रिति । घुट् -ण्वुल् । ततष्टापि अत इत्वम् ।)
वृक्षभेदः । तत्पर्य्यायः । कर्कटी २ तुरङ्गी ३
चतुरङ्गा ४ । अस्या गुणाः । कटुत्वम् । उष्ण-
त्वम् । मधुरत्वम् । वातव्रणकण्डुकुष्ठास्रश्वयथु-
नाशित्वञ्च । इति राजनिर्घण्टः ॥

घोणा, स्त्री, (घोणते गृह्णाति वस्तुगन्धम् । घुण् +

अच् टाप् च । घोणतेऽनया इति करणे घञ् वा ।)
नासा । (यथा, महाभारते । १ । १५६ । ३३ ।
“दीर्घघोणं महोरस्कं विकटोद्बद्धपिण्डिकम् ॥”
“घोणायां द्वे ॥” इति सुश्रुते शारीरस्थाने
पञ्चमाध्याये ॥) अश्वनासिका । तत्पर्य्यायः ।
प्रोथः २ । इत्यमरः । २ । ८ । ४९ ॥ (यथा,
अश्ववैद्यके । २ । ७ ।
“नासाच्छिद्राक्षिमध्ये तु घोणाख्यः समुदाहृतः ।
घोणापार्श्वगतौ गण्डौ क्षीरिके च ततः परम् ॥”)

घोणी, [न्] पुं, (प्रशस्ता घोणा अस्त्यस्य इति ।

“ब्रीह्यादिभ्यश्च ।” ५ । २ । ११७ । इति इनिः ।)
शूकरः । इत्यमरः । २ । ५ । २ ॥

घोण्टा, स्त्री, (घुण्यते गृह्यते भक्षणायेति । घुण्

+ बाहुलकात् टः ।) वृक्षविशेषः । शेयाकुल
पृष्ठ २/४०७
इति भाषा ॥ तत्पर्य्यायः । वदरः २ गोप-
घोण्टा ३ शृगालकोलिः ४ कपिकोलिः ५ ।
इति काचित् रत्नमाला ॥ हस्तिकोलिः ६ वदरी-
च्छदा ७ कर्कन्धुः । इति रत्नकोषः ॥ पूगवृक्षः ।
इति मेदिनी । टे । १४ ॥ (यथा, उत्तरस्थाने
त्रिंशेऽध्याये वाभटेनोक्तम् ।
“घोण्टाफलत्वग्लवणं सलाक्षं
वूकस्य पत्रं वनितापयश्च ।
स्नुगर्कदुग्धान्वित एष कल्को
वर्त्तीकृतो हन्त्यचिरेण नाडीम् ॥”)

घोनसः, पुं, (गोनसः + पृषोदरादित्वात् साधुः ।)

गोनसः । तिलित्ससर्पः । इति हेमचन्द्रः । ४ ।
३६२ ॥ (क्वचित् मूर्द्धन्यमध्योऽपि दृश्यते ॥)

घोरं, क्ली, (हन्यते वध्यतेऽनेनेति । हन् + “हन्ते

रच् घुर् च ।” उणां । ५ । ६४ । इति अच्
धातोर्घुरादेशश्च ।) विषम् । इति राजनिर्घण्टः ॥

घोरः, पुं, (घोरयति भयानकरसनिमित्तीभव-

तीति । घुर + अच् । यद्वा, हन्ति विनाशयति
रुद्ररूपेण इति । हन वधे + “हन्तेरच् धुर्
च ।” उणां । ५ । ६४ । इति अच् धातोर्घुरा-
देशञ्च ।) शिवः । भयानके त्रि । इति हेम-
चन्द्रः ॥ (यथा, मनुः । १२ । ५४ ।
“बहून् वर्षगणान् घोरान्नरकान् प्राप्य तत्क्षयात् ।
संसारान् प्रतिपद्यन्ते महापातकिनस्त्विमान् ॥”)

घोरदर्शनः, पुं स्त्री, (घोरं भयानकं दर्शनं यस्य ।)

उलूकः । इति राजनिर्घण्टः ॥ भयानकरूपे
त्रि ॥ (यथा, रामायणे । १ । १ । ५५ ।
“मार्गमाणो वने सीतां राक्षसं सन्ददर्श ह ।
कबन्धं नाम रूपेण विकृतं घोरदर्शनम् ॥”)

घोरपुष्पं, क्ली, कांस्यम् । इति राजनिर्घण्टः ॥

घोरघुष्यमपि पाठः ॥

घोररासनः, पुं, (घोरं भयानकं रासनं शब्दो

यस्य ।) शृगालः । इति शब्दरत्नावली ॥

घोररासी, [न्] पुं, (घोरं यथा तथा रसति शब्दं

करोतीति । रस शब्दे + णिनिः ।) शृगालः ।
इति हेमचन्द्रः । ४ । ३५६ ॥

घोरा, स्त्री, (घोरति भयानकरसनिमित्तीभव-

तीति । धुर + अच् + टाप् च ।) रात्रिः । इति
त्रिकाण्डशेषः ॥ देवदाली लता । इति राज-
निर्घण्टः ॥ (गङ्गा । यथा, काशीखण्डे । २९ । ५५ ।
“घण्टारवप्रिया घोराऽघौघविध्वंसकारिणी ॥”
रविसंक्रान्तिविशेषः । इति ज्योतिषम् ॥ यथा,
तिथितत्त्वे रविसंक्रान्तिप्रकरणे ।
“मन्दा मन्दाकिनी ध्वांक्षी घोरा चैव महोदरी ।
राक्षसीमिश्रिता प्रोक्ता संक्रान्तिः सप्तधा नृप ! ॥
मन्दा ध्रुवेषु विज्ञेया मृदौ मन्दाकिनी तथा ।
क्षिप्रे ध्वांक्षी विजानीयादुग्रे घोरा प्रकीर्त्तिता ॥”)
भयानका ॥ (यथा, कालीध्याने ।
“करालवदनां घोरां मुक्तकेशीं चतुर्भुजाम् ॥”)

घोलं, क्ली, (घुट्यते आलोड्यते यत् । घुट + अच् ।

पृषोदरादित्वात् साधुः ।) ससरं निर्जलं मथितं
दधि । (यथा, सुश्रुते सूत्रस्थाने ४५ अध्याये ।
“यत्तु सस्नेहमजलं मथितं घोलमुच्यते ॥”)
तत्पर्य्यायः । दण्डाहतम् २ कालसेयम् ३ अरि-
ष्टम् ४ गोरसः ५ घलम् ६ मलिनम् ७
केवलम् ८ भग्नसन्धिकम् ९ । तस्य भेदाः ।
“तक्रं ह्युदश्विन्मथितं पादाम्ब्वर्द्धाम्बुनिर्जलम् ।
ससारं यद्भवेत्तक्रं कट्वरं तत् प्रकीर्त्तितम् ॥”
इति शब्दचन्द्रिका ॥
अस्य विशेषाः तक्रशब्दे द्रष्टव्याः ॥

घोली, स्त्री, पत्रशाकविशेषः । तत्पर्य्यायः । घोलिका

२ घोलिः ३ कलन्धुः ४ कुवकालुका ५ । क्षेत्र-
जाताया अस्या गुणाः । लवणत्वम् । रुचिकारि-
त्वम् । अम्लत्वम् । वातकफनाशित्वञ्च ॥ आराम-
धोलिकागुणाः । अम्लत्वम् । रूक्षत्वम् । रुच्यत्वम् ।
वायुनाशित्वम् । पित्तश्लेष्मकारित्वञ्च । सूक्ष्माया
जीर्णज्वरनाशित्वम् । इति राजनिर्घण्टः ॥

घोषं, क्ली, (घोषति शब्दायते इति । घुष विशब्दने

+ अच् ।) कांस्यम् । इति राजनिर्घण्टः ॥

घोषः, पुं, (घोषन्ति शब्दायन्ते गावो यस्मिन् ।

घुषिर् विशब्दने + “हलश्च ।” ३ । ३ । १२१ ।
इति घञ् ।) आभीरपल्ली । (यथा, रघुः । १ । ४५ ।
“हैयङ्गवीनमादाय घोषवृद्धानुपस्थितान् ।
नामधेयानि पृच्छन्तौ वन्यानां मार्गशाखिनाम् ॥”
घोषति शब्दायते इति । घुष + कर्त्तरि अच् ।)
गोपालः । (घुष + भावे घञ् ।) ध्वनिः ।
(यथा, मनुः । ७ । २२५ ।
“तत्र भुक्त्वा पुनः किञ्चित् तूर्य्यघोषैः प्रहर्षितः ।
संविशेत्तु यथाकालमुत्तिष्ठेच्च गतक्लमः ॥”)
घोषकलता । कांस्यम् । मेघशब्दः । इति
मेदिनी । षे । ११ ॥ मशकः । इति त्रिकाण्ड-
शेषः ॥ (वर्णोच्चारणवाह्यप्रयत्नविशेषः । यदुक्तं
शिक्षायाम् । २० ।
“संवृतं मात्रिकं ज्ञेयं विवृतं तु द्बिमात्रिकम् ।
घोषा वा संवृताः सर्व्वे अघोषा विवृताः स्मृताः ॥”)
कायस्थादीनां पद्धतिविशेषः । (यथा, कुलदीपि-
कायाम् ।
“वसुवंशे च मुख्यौ द्वौ नाम्ना लक्षणपूषणौ ।
घोषेषु च समाख्यातश्चतुर्भुजमहाकृती ॥”)

घोषकः, पुं, (घोष एव । घोष + संज्ञायां कन् ।)

घोषालता । तत्पर्य्यायः । धामार्गवः २ । इत्य-
मरः । २ । ४ । ११७ ॥ घोषकाकृतिः ३ आदानी
४ देवदानी ५ तुरङ्गकः ६ घोषः ७ घोषालता
८ । इति शब्दरत्नावली ॥ कोषकालः ९ । इति
जटाधरः ॥ महांश्चेत् हस्तिघोषातकी ॥ * ॥
पीतघोषायाः पर्य्यायः । घामार्गवः १ पीत-
घोषा २ राजघोषातकी ३ कर्कोटकी ४ महा-
जाली ५ क्ष्वेडः ६ कोषफला ७ कोषातकी ८ ।
इति च जटाधरः ॥ * ॥ श्वेतघोषायाः पर्य्यायः ।
घोषातकी १ मृदङ्गी २ जालिनी ३ कृतवेधकः
४ श्वेतपुष्पा ५ आकृतिच्छत्रा ६ ज्योत्स्ना ७
इति रत्नमाला ॥

घोषकाकृतिः पुं, (घोषकस्य घोषलताया आकृति-

रिवाकृतिर्यस्य ।) घोषकः । इति रत्नमाला ॥

घोषणा, स्त्री, (घुषिर् विशब्दने + “ण्यासश्रन्थो

युच् ।” ३ । ३ । १०७ । इति युच् ।) उच्चैः-
शब्दः । लोकविज्ञापनायोच्चैःशब्दितम् । (यथा,
कथासरित्सागरे । २४ । ५० ।
“गच्छ भ्रमय कृत्स्नेऽत्र पुरे पटहघोषणाम् ॥”)
तत्पर्य्यायः । उच्चैर्घुष्टम् २ । इत्यमरः । १ । ६ । १२ ॥
निघुष्टम् ३ घुष्टघोषणम् ४ । इति शब्दरत्ना-
वली ॥

घोषयित्नुः, पुं, (घोषयतीति । घुष् + णिच् + बाहु-

लकात् इत्नुच् ।) ब्राह्मणः । कोकिलः । वन्दी ।
इति शब्दरत्नावली ॥

घोषवती, स्त्री, (घोषो विद्यतेऽस्याः । घोष +

मतुप् मस्य वः । स्त्रियां ङीप् ।) वीणा । इति
हेमचन्द्रः ॥ (यथा, कथासरित्सागरे । ११ । ३ ।
“स बभूव शनै राजा सुखेष्वेकान्ततत्परः ।
सदा सिषेवे मृगयां वीणां घोषवतीञ्च ताम् ।
दत्तां वासुकिना पूर्ब्बं नक्तं दिनमवादयत् ॥”
तथाच तत्रैव । १२ । ३२ ।
“अङ्के घोषवती तस्य कण्ठे गीतश्रुतिस्तथा ॥”)
शब्दविशिष्टे त्रि ॥ (यथा, महाभारते । १ ।
२५ । ११ ।
“त्वं वज्रमतुलं घोरं घोषवांस्त्वं बलाहकः ॥”)

घोषा, स्त्री, (घोष्यन्ते मधुकरी यया । घुष +

णिच् + घञ् ।) मधुरिकौषधिः । मौरी इति
भाषा । इति मेदिनी ॥ (यथा, गारुडे
१९ अध्याये ।
“घोषाफलं सैन्धवञ्च तल्लिप्तार्शः पतेत्तथा ॥”)
कर्कटशृङ्गी । इति राजनिर्घण्टः ॥ (गङ्गा ।
यथा, काशीखण्डे । २९ । ५५ ।
“घ्राणतुष्टिकरी घोषा घनानन्दा घनप्रिया ॥”
गायत्त्रीरूपाभगवती । यथा देवीभागवते । १२ ।
६ । ४४ ।
“घृणिमन्त्रमयी घोषा घनसम्पातदायिनी ॥”)

घोषातकी, स्त्री, श्वेतघोषा । इति रत्नमाला ॥

(पर्य्यायोऽस्या यथा, वैद्यकरत्नमालायाम् ।
“घोषातकी मृदङ्गी स्याज्जालिनी कृतवेधनः ।
श्वेतपुष्पा कृतिच्छत्रा ज्योत्स्नाकोषातकी
क्वचित् ॥”)

घ्रा, गन्धोपादाने । इति कविकल्पद्रुमः ॥ (भ्वां-

परं-सकं-अनिट् ।) जिघ्रति पुष्पं लोकः । इति
दुर्गादासः ॥

घ्राणं, क्ली, (जिघ्रत्यनेनेति । घ्रा + करणे ल्युट् ।

यद्बा, घ्रा + क्तः “नुदविदोन्दत्राघ्रेति ।” ८ । २ ।
५६ । इति निष्ठातस्य नो वा ।) नासिका । इत्य-
मरः । २ । ६ । ८९ ॥ (यथा रघुः । १९ । ११ ।
“घ्राणकान्तमधुगन्धकर्षिणीः
पानभूमिरचनाः प्रियासखः ॥”)
न्यायमते घ्राणेन्द्रियग्राह्यगन्धत्वादि । (घ्रा +
भावे ल्युट् । आध्राणम् । यथा, देवीभागवते ।
१ । १४ । २४ ।
“आलिलिङ्ग मुहुर्घ्राणं मूर्द्ध्नि तस्य चकार ह ॥”)
घ्राते त्रि । इति मेदिनी । णे । ११ ॥
पृष्ठ २/४०८

घ्राणतपणः, पुं, (घ्राणमिन्द्रियविशेषं तर्पयतीति ।

तृप् + ल्युः ।) सुगन्धिः । इत्यमरः । २ । ५ । ११ ॥
(यथा, रामायणे । २ । ९४ । १४ ।
घ्राणतपणमभ्येत्य कं नरं न प्रहर्षयेत् ॥”)

घ्राणदुःखदा, स्त्री, (घ्राणस्य दुःखं ददातीति ।

दा + कः । स्त्रियां टाप् ।) छिक्कनी । इति
भावप्रकाशः ॥

घ्रातः, त्रि, (घ्रा + क्तः । “नुदविदेति ।” ८ । २ ।

५६ । इति पाक्षिको नत्वाभावः ।) गृहीत-
गन्धपुष्पादिः । घ्राण लओया इति सोँका इति
च भाषा । तत्पर्य्यायः । घ्राणः २ । इत्यमरः ।
३ । १ । ९० ॥ शिङ्घितः ३ । इति जटाधर-
शब्दरत्नावल्यौ ॥ (यथा, मनुः । ५ । १२५ ।
“पक्षिजग्धं गवाघ्रातमवधूतमवक्षुतम् ।
दूषितं केशकीटैश्च मृत्प्रक्षेपेण शुध्यति ॥”)

घ्रातिः, स्त्री, (जिघ्रत्यनया । घ्रा + करणे क्तिन् ।)

नासिका । इति शब्दचन्द्रिका ॥ (भावे क्तिन् ।
आघ्राणम् । यथा मनुः । ११ । ६७ ।
“ब्राह्मणस्य रुजः कृत्या घ्रातिरघ्रेयमद्ययोः ॥”)

, ङकारः । स तु व्यञ्जनपञ्चमवर्णः । अस्योच्चारण-

स्थानं सनासिककण्ठः । इति व्याकरणम् ॥
(“जिह्वामूले तु कुः प्रोक्तः ।” इति ।
“अनुस्वारयमानाञ्च नासिकास्थानमुच्यते ॥”
इति च शिक्षोक्तेस्तथात्वम् ॥)
अस्य स्वरूपं यथा, कामधेनुतन्त्रे ।
“ङकारं परमेशानि ! स्वयं परमकुण्डली ।
सर्व्वदेवमयं वर्णं त्रिगुणं लोललोचने ! ॥
पञ्चप्राणमयं वर्णं ङकारं प्रणमाम्यहम् ॥”
अपि च ।
“ऊर्द्ध्वाधःक्रमतो रेखा किञ्चिदाकुञ्चिता ततः ।
अधोगता कुण्डली तु मात्रा शक्तिस्वरूपिणी ॥
रेखात्रयेषु ब्रह्मेशविष्णवः सन्ति देवताः ॥
ध्यानं यथा, वर्णोद्धारतन्त्रे ।
“धूम्रवर्णां महाघोरां ललज्जिह्वां चतुर्भुजाम् ।
पीताम्बरपरीधानां साधकाभीष्टसिद्धिदाम् ॥
एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशधा जपेत् ॥”
तस्य नामानि यथा, --
“ङः शङ्खी भैरवश्चण्डो बिन्दूत्तंसः शिशुप्रियः ।
एकरुद्रो दक्षनखः खर्परो विषयस्पृहा ॥
कान्तिः श्वेताह्वयो धीरो द्विजात्मा ज्वालिनी
वियत् ।
मन्त्रशक्तिश्च मदनो विघ्नेशी चात्मनायकः ॥
एकनेत्रो महानन्दो दुर्द्धरश्चन्द्रमा यतिः ।
शिवयोषा नीलकण्ठः कामेशी च मयांशुकौ ॥”
इति नानातन्त्राणि ॥
(मातृकान्यासे अस्य दक्षिणकराङ्गुलाग्रेषु
न्यस्यता ॥)

ङः, पुं, (ङयते गृह्य इन्द्रियैरिति । ङु + बाहुलकात्

डः ।) विषयः । विषयस्पृहा । इति मेदिनी ।
ङे । १ ॥ भैरवः । इत्येकाक्षरकोषः ॥ (यथा,
स्तुतिपञ्चाशत् ।
“ङवन्दिते ! ङलिप्सिते ! ङकारवर्णरूपिणि ! ॥”)

ङु, ङ ध्वनौ । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं-

अकं-अनिट् ।) ङ, ङवते । इति दुर्गादासः ॥
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/घ&oldid=43949" इत्यस्माद् प्रतिप्राप्तम्